॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥ ॥ आनन्दरामायणम् ॥
जन्मकाण्डम्
॥ सप्तमः सर्गः ॥
॥ श्रीसद्गुरु रामचंद्राय नमः ॥
श्रीरामदास उवाच अथ रामोऽपि धर्मात्मा चरमे तुरगाध्वरे । हयं मुमोच शत्रुघ्नस्तस्य पृष्ठे ययौ जवात् ॥ १ ॥ दक्षिणां पश्चिमामाशामुत्तरां तुरगोत्तमः । अतिक्रम्य तथा प्राचीं यज्ञस्थानं न्यवर्तत ॥ २ ॥ नृपतिभ्यः समस्तेभ्यः शत्रुघ्नो वसु कोटिशः । गृहीत्वा तैनृपैर्युक्तस्तुरगस्यानुगो ययौ ॥ ३ ॥ सेनया चतुरंगिण्या च दशसाहस्रसंख्यया । तस्मिन्विमाने ऋषयः सर्वे राजर्षयस्तथा ॥ ४ ॥ ब्राह्मणाः क्षत्रिया वैश्याः समाजग्मुः सहस्रशः । चरमाध्वरभवं द्रष्टुं रामस्योत्सवमागताः ॥ ५ ॥ वाल्मीकिरपि संगृह्य गायतौ भूमिजात्मजौ । जगाम यज्ञवाटस्य समीप सीतया सुखम् ॥ ६ ॥ मार्गे नृपसमूहेषु शिबिकास्थां हि जानकीम् । न विदुः पार्थिवाः सर्वे जनास्तेऽपि यथेतरे ॥ ७ ॥ सुमेधया जनकोऽपि ययौ रामाध्वरं प्रति । क्रोशद्वयांतरे पूर्वे यज्ञवाटान्मुनीश्वरः ॥ ८ ॥ कृत्वा पर्णकुटीं रम्यां ताभ्यां युक्तः स सीतया । वाल्मीकिर्गोपयामास पर्णकुट्यां विदेहजाम् ॥ ९ ॥ नृपसेनानिवासेषु जनकश्च सुमेधया । स्वसैन्येन ययौ तूष्णीं रामेणासौ निरीक्षितः ॥ १० ॥ वाल्मीकिरपि तौ प्राह न्यस्तालंकारमण्डितौ । जटाचीराजिनधरौ सीतापुत्रौ महाधियौ ॥ ११ ॥ यत्र तत्र च गायंतौ पुरे वीथिषु सर्वतः । रामस्याग्रे प्रगायेतां शुश्रूषुऽर्यदि राघवः ॥ १२ ॥ आजन्मकांडात्कांडानि न गेयान्यत्र बालकौ । यदा करोम्यहं चाज्ञां गायेतां सकलं तदा ॥ १३ ॥ न ग्राह्यं तद्युवाभ्यां स यदि किंचित्प्रदास्यति । इति तौ चोदितौ तत्र गायमानो विचेरतुः ॥ १४ ॥ तथोक्तं ऋषिणा पूर्वं तत्र तत्राभ्यगायताम् । तां तु सुश्राव काकुत्स्थः पूर्वचर्याकृतिं ततः ॥ १५ ॥ अपूर्वपद्यवृत्तादिगेयैश्च समभिप्लुताम् । बालाभ्या राघवः श्रुत्वा कौतूहलमुपेयिवान् ॥ १६ ॥ अथ कर्मान्तरे रामः समाहूय मुनीश्वरान् । राज्ञश्चैव नरव्याघ्रः पण्डितांश्चैव नैगमान् ॥ १७ ॥ पौराणिकाञ्छब्दविदो गणकांश्च चिकित्सकान् । नानाकौशल्यनिपुणांस्तथा वृद्धान्द्विजादिकान् ॥ १८ ॥ यज्ञवाटे तु तान्पूज्य गायकौ संप्रवेशयत् । ते सर्वे हृष्टमनसौ राजानो ब्राह्मणादयः ॥ १९ ॥ रामं तौ दारकौ दृष्ट्वा विस्मिता निर्निमेषकाः । अवोचन्सर्व एवैते परस्परमथानयोः ॥ २० ॥ इमौ रामस्य सदृशौ बिंबाद्बिंबमिवोदितौ । जटिलौ यदि न स्यातां न ते वल्कलधारिणौ ॥ २१ ॥ विशेषं नाधिगच्छामो राघवस्यानयोस्तदा । एवं संवदतां तेषां विस्मितानां परस्परम् ॥ २२ ॥ तदाह रामदूतोऽपि लवबाणरुजं स्मरन् । रामचंद्रं यज्ञवाटस्थितं वै संभ्रमेण हि ॥ २३ ॥ लवमंगुलिना वीरं दर्शयंश्च मुहुर्मुहुः । राम राम महाबाहो तमेनं पश्य वै लवम् ॥ २४ ॥ येनास्माकं शरौघैश्च प्रक्षिप्य तव सन्निधौ । नीतानि कनकाब्जानि सुगंधीनि निरंतरम् ॥ २५ ॥ सीतात्यागनिमित्तेन येन तेनापि वा मुहुः । कृता निंदा गर्वितेन त्वद्दण्डैकार्थिना प्रभो ॥ २६ ॥ तव दण्डभयादेव पर्वूवेषं विलोपितः । रथवस्त्राभरणानि शस्त्राण्यपि विहाय च ॥ २७ ॥ घृतानि वल्कलादीनि दीनरूपोऽत्र दृश्यते । त्वयाऽद्य दण्डनीयोऽयं बंधुसारातिगर्वितः ॥ २८ ॥ इति स्वदूतवाक्यानि शृण्वन्नपि रघूत्तमः । प्रेम्णाऽवलोकयामास सुधाक्षिभ्यां शिशू मुहुः ॥ २९ ॥ बालावपि सभासंस्थान्नमस्कृत्य यथाक्रमम् । राघवं स्वपितृव्यांश्च वसिष्ठं प्रणिपत्य च ॥ ३० ॥ उपाचक्रमतुर्गातुं वीणे रणयतः शुभे । ततः प्रवृत्तं मधुरं गांधर्वं गीतमुत्तमम् ॥ ३१ ॥ श्रुत्वा तन्मधुरं गीतं रामस्तोषमवाप ह । ताभ्यां श्रुतं स्वचरितं विलासावध्यनुक्रमात् ॥ ३२ ॥ यद्यदाचरितं पूर्वं सीतया सह सौख्यदम् । ततोऽपराह्णे श्रीरामः प्रसन्नवदनाबुजः ॥ ३३ ॥ उवाच तौ समग्रं वै श्वो गेयं मम सन्निधौ । तथेति रामवचनं तावंगीचक्रतुस्तदा ॥ ३४ ॥ ततो रामो लवं प्राह मे यद्यप्यपराधितम् । त्वया पूर्वं तथापि त्वां तुष्टोऽहं नात्र शिक्षये ॥ ३५ ॥ त्वद्गीतिमच्चरित्रादि श्रवणादद्य मे मनः । परां विश्रातिमापन्नं त्वत्कृतं क्षमितं मया ॥ ३६ ॥ अधुना मद्भयं त्यक्त्वा त्वं सुखं विचरात्र हि । तद्रामवचनं श्रुत्वा लवो राघवमब्रीत् ॥ ३७ ॥ मयाऽपराघितं राजंस्तव दर्शनकाम्यया । मदपराधितं स्मृत्वात्राहूतोऽहं यतस्त्वया ॥ ३८ ॥ अद्य ते दर्शनेनैव पौरुषं वृद्धिमागतम् । कीर्तिर्मे महती जाता तवाग्रे गायनादपि ॥ ३९ ॥ इत्युक्त्वाऽऽसील्लवस्तूष्णीं बन्धुना गंतुमुद्यतः । सभायास्तौ गंतुकामौ स्थलं स्वीयं निरीक्ष्य च ॥ ४० ॥ रामोऽयुतं वसु तयोर्भरतेन प्रदापयत् । दीयमानं सुवर्णं तौ न तज्जगृहतुस्तदा ॥ ४१ ॥ राजन् हेम्ना किमेतेन ह्यावां वै वन्यभोजिनौ । कृपावलोकनेनैव पाहि त्वमावयोः सदा ॥ ४२ ॥ इति संत्यज्य तद्दत्तं जग्मतुर्मुनिसन्निधिम् । आसीच्छ्रुत्वा स्वचरितं रामो हृद्यतिविस्मितः ॥ ४३ ॥ कुशोऽपि सकलं वृत्तं वाल्मीकिं मातरं तथा । निवेद्य जाह्नवीं स्नातुं कौतुकेन ययौ सुखम् ॥ ४४ ॥ लवो मुनीनां शिशुभिः शिशुक्रीडनमाचरत् । एतस्मिन्नंतरे यत्र लवः क्रीडां चकार ह ॥ ४५ ॥ बालकैस्तत्र संप्राप्तास्तुरगाध्वरकारिणः । त्यक्त्वा क्रीडां लवः शीघ्रमश्वं धृत्वोटजातिके ॥ ४६ ॥ वृक्षे बबंध शिशुभिः पूर्ववत् क्रीडनं व्यधात् । ततः खे पुष्पकं प्राप्तं दृष्ट्वा बद्धं तुरङ्गमम् ॥ ४७ ॥ ज्ञात्वा बालकृतं सर्वे शत्रुघ्नाद्या विहस्य ते । दूतानाज्ञापयामासुर्मुच्यतां तुरगः सुखम् ॥ ४८ ॥ लवस्तानागतान् दृष्ट्वा वायव्यास्त्रेण वै तृणम् । संमन्त्र्य तान् मुमोचाथ लीलया शिशुसंयुतः ॥ ४९ ॥ झंझावातैस्तदा यानं हस्त्यश्वरथपूरितम् । शत्रुघ्नेनापि तैर्दूतैः खेऽभूत्तद्भ्रमरोपमम् ॥ ५० ॥ तच्छ्रुत्वा रामचन्द्रोऽपि प्रेषयामास सादरम् । सुग्रीवमंगदं नीलं मैन्दं जाम्बवतं नलम् ॥ ५१ ॥ मुमंत्र भरतं वायुपुत्रं तार्क्ष्यं विभीषणम् । सुषेणं पार्थिवान् सर्वान् स्वस्वामितबलैर्युतान् ॥ ५२ ॥ द्विविदं दधिवक्त्रं च वानरान्मकरध्वजम् । ते लवं दुद्रुवुर्गर्वाद्युद्धं चक्रुस्त्वरान्विताः ॥ ५३ ॥ तानागतान् लवो दृष्ट्वा कस्यचिन्पतितं भुवि । दूतस्याश्वमोचनार्थमागतस्य शरासनम् ॥ ५४ ॥ तूणीरं च स्वयं धृत्वा ययौ योद्धुं त्वरान्वितः । टणत्कृत्य महच्चापं चिंतयामास चेतसि ॥ ५५ ॥ पितृव्याद्याः स्थिता योद्धुं मयाऽद्यपुरतस्त्विह । कथमेभिश्च योद्धव्यं मया च समरांगणे ॥ ५६ ॥ कथं तीक्ष्णानद्य शरानेतेषु प्रक्षिपाम्यहम् । स्वीयानां वधकर्तारं मां सीतामुनिराघवाः । ५७ ॥ सहिष्यति कथं दृष्ट्वा कर्त्तव्यं किं मयाऽधुना । युद्धात्पराङ्मुखोऽहं चेद्भूत्वा गच्छामि तं मुनिम् ॥ ५८ ॥ वाल्मीकिशिक्षिता विद्या तर्हि सा विफला भवेत् । अतः केषामपि वधं विना युद्धं करोम्यहम् ॥ ५९ ॥ इति निश्चित्य मनसि मेधशब्दवदाह तान् । आगम्यते किमर्थं मां युष्माभिर्ब्रूत वेगतः ॥ ६० ॥ न सीतावत्सुलभोऽहं पीडनार्थमिहाद्य हि । सीताक्लेशानलहरं मां मेघं वेत्थ भो खलाः ॥ ६१ ॥ सीतोष्णोच्छ्वासितोग्राग्निज्वालाभिर्वोऽद्य पौरुषम् । विदग्धं न स्फुटं लोकान्दर्शनीयं ममापि च ॥ ६२ ॥ इति स्ववाक्शरैर्भिन्नहृदयान्स लवः पुनः । मोहयामास सकलान् मोहनास्त्रं विसृज्य च ॥ ६३ ॥ ततो लवः स विजयी सुमंत्रं भरतं तथा । कृत्वा स्वकक्षयोः शीघ्रं कराभ्यां वायुनंदनम् ॥ ६४ ॥ सुग्रीवं च मुदा धृत्वा सीतायै तान् प्रदर्शयत् । दृष्ट्वा सीतापि तान् वीरान् मोहनास्त्रेण मोहितान् ॥ ६५ ॥ पुत्रात्तान् मोचयामास रक्षयामास तान् रहः । तान्नितान् राघवः श्रुत्वा लक्ष्मणं वाक्यमव्रवीत् ॥ ६६ ॥ ईदृशं पौरुषं वधो राघणेनापि नौ कृतम् । यथा कृतं बालकेन करणीयं किमत्र वै ॥ ६७ ॥ तद्रामवचनं श्रुत्वा लक्ष्मणः प्राह राघवम् । मा चिंतेयं न्वया कार्या धृत्वाहं तं शिशुं क्षणात् ॥ ६८ ॥ त्वत्सन्निधावानयामि सिंहो मृगशिशुं यथा । इत्युक्त्वा राघवं नत्वा रथारूढो ययौ जवात् ॥ ६९ ॥ सेनया सचिवैर्युक्तो वाल्मीकेवसतिस्थलम् । तमागतं विबुध्यात्थ लवाऽपि तत्पुरो ययौ ॥ ७० ॥ तं सृष्ट्वा बालकं रम्यं कृपया लक्ष्मणोऽब्रवात् । मा शिशो त्वं कुरुष्वाद्य साहसं मत्पुरस्त्विह ॥ ७१ ॥ न समर्थोऽसि वै स्थातुं गच्छ नोचेन्मरिष्यसि । शेषे राणायणं श्रोतुं त्वत्तोऽहं त्वां निहन्मि न ॥ ७२ ॥ त्वयाऽपराधितं बाल राघवस्य मुहुर्मुहुः । तत्सर्वमप्यहं वेद्मि तथापि त्वा निहन्मि न ॥ ७३ ॥ नीतान् वीरान् समर्प्याथ वाजिना रघुनंदनम् । एहि त्वं शरणं बाल यद्यस्ति जीवितस्पृहा ॥ ७४ ॥ तत्सौमित्रेर्वचः श्रुत्वा लवोऽभीतस्तमब्रवीत् । वेद्मि त्वां राघव चापि सीतात्यागाप्तपौरुषम् ॥ ७५ ॥ सीतायामेव युवयोः पौरुषं न लवे मयि । सीतादुःखापनोदार्थं मुनिना निमितस्त्वहम् ॥ ७६ ॥ युवां जित्वाऽद्य समरे सीतादुःखं प्रमार्जये । मुधा युवाभ्या सा सीता छलितापि पतिव्रता ॥ ७७ ॥ तस्या विनिष्कृतिं चाहं कर्तुमत्र समागतः । सीतादुःखाग्निना युष्मत्पौरुषं दग्धमस्ति तत् ॥ ७८ ॥ न स्थातव्यं ममाग्रेऽत्र गच्छध्वं विधवोपमाः । इति ते लववाग्बाणैभिन्नमर्मस्थलाश्च वै ॥ ७९ ॥ लक्ष्मणाया ववर्षुस्तं शस्त्ररस्त्रैर्लवं क्रुधा । ततो लवश्च स्वैर्बाणैः शस्त्रवृष्टिं निवार्य च ॥ ८० ॥ श्रीरामसचिवादींश्च प्रक्षिपद्यज्ञमण्डपे । ते सर्वे सचिवाद्याश्च लवमार्गणताडिताः ॥ ८१ ॥ भिन्नदेहा लोहिताक्ताः प्रोचुं रामं स्खलिद्गरा । राम त्वं नो पश्यसि किं तूष्णीमध्वरमण्डपे ॥ ८२ ॥ उपायं चिंतयस्वान्यं वधे तस्य लवस्य च । शस्त्रेरस्त्रैर्मृतिं युद्धे न गच्छति लवः प्रभो ॥ ८३ ॥ साहाय्य कुरु सोमित्रेर्यदि बन्धुं सजीवितम् । त्वमिच्छसि लवशरप्रहाराद्बन्धुवत्सल ॥ ८४ ॥ इत्युक्त्वा लववाक्यानि राघवं ते न्यवेदयन् । तानि श्रुत्वा राघवोऽपि तूष्णोमासीत्तदा क्षणम् ॥ ८५ ॥ लवोऽपि लक्ष्मणं बाणैर्विव्याध दशभिदृढम् । आपुंखमग्नास्ते बाणाः शरीरे लक्ष्मणस्य च ॥ ८६ ॥ ततः क्रोधपरीतात्मा लक्ष्मणो वेगवत्तरः । लवदेहे स्वशस्त्राणि भवन्ति विफलानि हि ॥ ८७ ॥ दृष्ट्वेतिव्यग्रचित्तः सः क्षणं सञ्चिन्त्य वै हृदि । ब्रह्मास्त्रेण लवं बद्ध्वा साश्वं राज्ञे न्यवेदयत् ॥ ८८ ॥ ब्रह्मास्त्रं मानयंस्तूष्णीं ययौ राम लवोऽपि सः । राघवस्तं समानीत दृष्ट्वा लक्ष्मणमब्रवीत् ॥ ८९ ॥ जानन्नपि सुतं स्वीयं कौतुकं दर्शयञ्जनान् । महत्कार्यं कृतं बन्धो त्वमेनं विद्धि बाहुजम् ॥ ९० ॥ द्विजहत्याभयं त्यक्त्वा घातयस्वैनमद्य हि । रामं प्रोवाच सौमत्रिर्नायं शस्त्रैर्मरिष्यति ॥ ९१ ॥ भरताद्यैर्मया चापि नायं किं ताडितोऽसिभिः । अस्य देहे क्षतं चैकमपि किं दृश्यते त्वया ॥ ९२ ॥ तच्छ्रुत्वा राघवः प्राह प्रष्टव्यो बालकस्त्वया । केनोपायेन ते मृत्युर्भवेदिति ममाग्रतः ॥ ९३ ॥ गोपायन्ति निजं मृत्युं न शूरा वधशङ्कया । न वदन्त्यनृतं क्वापि स्वबलेनैव जीविताः ॥ ९४ ॥ ततः पृष्टो लक्ष्मणेन लवः प्राहाथ लक्ष्मणम् । जलस्य सेचनाद्वृद्धिं स्वीयां ज्ञात्वा मुनेर्गिरा ॥ ९५ ॥ कापट्यबुद्ध्या लोकान्हि दर्शयन् स्वपराक्रमम् । जलस्य सेचनेनाद्य मृत्युर्मे निश्चितो भवेत् ॥ ९६ ॥ तत्तस्य वचनं श्रुत्वा शिलायां तं निवेश्य च । सेवनं तोयकलशैः कारयामास लक्ष्मणः । अयोध्यावासिभिर्नारीपुरुषैः परमादरात् ॥ ९७ ॥ चतुर्मुखैश्च घटैर्वृषानीतैश्च कोटिशः । तथा कार्पटिकैश्चापि रथोष्ट्रबारणादिभिः ॥ ९८ ॥ आनयित्वा जलं शीघ्रं सिषेच लवबालकम् । यथा यथा जलैस्तं हि सेचनं चक्रिरे जनाः ॥ ९९ ॥ तथा तथा लवस्तत्र व्यवर्द्धत घनो यथा । सप्ततालप्रमाणोऽभूद्वृद्ध्या भीमपराक्रमः ॥ १०० ॥ ततस्तं लक्ष्मणः प्राह त्वया लव मृषेरितम् । नायं तव वधोपायः स्ववृद्ध्यथं कृतः खलु ॥ १०१ ॥ लवोऽप्याहाथ सौमित्रं कौटिल्येन प्रतारयन् । यथा तैलक्षते दीपो वृद्धिमते प्रगच्छति ॥ १०२ ॥ तथायुषः क्षये मेऽपि वृद्धि पश्य क्षणं त्विमाम् । तद्वाक्य मानयन्सत्यं सेचयत्तं स लक्ष्मणः ॥ १०३ ॥ जलैर्गांगैः समानीतैः पूर्ववच्च पुनः पुनः । काष्ठसोपानमार्गेण सेचनं चक्रिरे जनाः ॥ १०४ ॥ ब्रह्मास्त्रेण विनिर्मुक्तः प्रचचाल लवस्तदा । भुजावास्फालयामास तथोरू बाललीलया ॥ १०५ ॥ तं दृष्ट्वा दुद्रुवुः सर्वे त्यक्त्वा तोयघटानपि । शकृन्मूत्रं प्रमुंचंतो मुक्तकच्छा लवेक्षणाः ॥ १०६ ॥ एतस्मिन्नन्तरे क्रीडन् गंगायां तान् जलान्कुशः । पप्रच्छाद्य मुहुर्नीरं किमर्थं नीयते जवात् ॥ १०७ ॥ जनाः प्रोचुर्लवं हंतुमस्माभिर्नीयते जलम् । विश्वस्तैर्लववाक्येन तच्छ्रुत्वा स ययौ कुशः ॥ १०८ ॥ संगृह्य स्वाश्रमाच्चापं नूणीरं वेगवत्तरः । लव मोचयितुं चापं टणत्कृत्वाऽध्वरस्थले ॥ १०९ ॥ कुशचापध्वनिं श्रुत्वा तस्थौ तूष्णीं लवः क्षणम् । ततो दृष्ट्वा कुश प्राप्तं ययौ योद्धुं स लक्ष्मणः ॥ ११० ॥ तं दृष्ट्वा स कुशः प्राह छलितौ जानकीलवौ । त्वया रामेण लोकैश्च तयोः कर्तुं विनिष्कृतिम् ॥ १११ ॥ अहं प्राप्तोऽस्मि मां बाल लववत्त्वं न मानय । युवयोः पौरुषं नार्यां शिशावस्तीति वेद्म्यहम् ॥ ११२ ॥ सीताक्लेशानलज्वालासदग्धं युवयोर्बलम् । न ममाग्रे स्फुटं कार्यं युवाभ्यामुपहासकृत् ॥ ११३ ॥ वाल्मीकिशिक्षितां विद्यां रामं त्वामद्य दर्शये । इत्युक्त्वा तुमुलं युद्धं पितृव्येण चकार सः ॥ ११४ ॥ आसन् वृथा जानकीये लक्ष्मणोत्सृष्टमार्गणाः । रामायणात्कुशो ज्ञात्वा शेष एवात्र लक्ष्मणः ॥ ११५ ॥ जातोऽस्तीति वधे तस्य गारुडास्त्रं मुमोच सः । क्षात्रधर्मं पुरस्कृत्य न तद्धिंसाभयं दधे ॥ ११६ ॥ जानन् युद्धे पितुर्हत्या जाता चेन्न भयं त्विति । तद्दृष्टा खगराजास्त्रं सौमित्रेः कुठिता मतिः ॥ ११७ ॥ भयभीतः पृथिव्यां हि पपात लक्ष्मणो रथात् । च्युतं दृष्ट्वा स्वयं तत्र दीक्षायुक्तोऽपि वेगतः । ११८ ॥ धृत्वा चाप च तू्णीरं यज्ञकुण्डाग्रतः स्थितः । चापं संधाय ब्रह्माणं सौमिवेर्जीविताशया ॥ ११९ ॥ मुमोच बाणमाकाशे गरुडोपरि सादरम् । तेन तच्छांतिमगमद्ब्रह्मास्त्रेण तु गारुडम् ॥ १२० ॥ ततः कुशः संदधे स सर्पाश्च राघवोपरि । उवाच नाहं सीतावत्सुलभश्छलितं त्वया ॥ १२१ ॥ जनान् दर्शयितुं स्वीयं पौरुषं जानकी वने । त्यक्ता न्वया वृथा पूर्वं जानेऽहं तव चेष्टितम् ॥ १२२ ॥ वाल्मीकिशिक्षितां विद्यां ममाद्य त्व विलोकय । नोचेत्त्वं याहि शरणं वाल्मीकिं जानकीमपि ॥ १२३ ॥ तद्वाक्शरैर्भिन्नमर्मा रामः सार्पं विलोक्य तत् । औवस्त्रं (?) ससृजे घोरं तेन तच्छांतिमाप वै ॥ १२४ ॥ सदधे सारमेयास्त्रं कुशस्तं राघवं पुनः । रामोऽपि मौशलास्त्रेण सारमेयं न्यवारयत् ॥ १२५ ॥ वह्नयस्त्रं ससृजे घोरं कुशोऽपि राघवं जवात् । न्यवारयच्च तद्रामो मेघास्त्रेण स लीलया ॥ १२६ ॥ वायव्यं ससृजे रामं जानकीजठरोद्भवः । न्यवारयच्च तद्रामः पर्वतास्रेण लीलया ॥ १२७ ॥ वज्रास्त्रं ससृजे रामं सीतेयः सोऽतिसम्भ्रमात् । याम्यास्त्रेणाथ रामोऽपि वज्रास्त्रं तन्न्यवारयत् ॥ १२८ ॥ ब्रह्मास्त्रं ससृजे रामं सीतेयः परमादरात् । हाहाकारस्तदा चासीद्राघवस्याध्वरांगणे ॥ १२९ ॥ न्यवारयत्तद्ब्रह्मास्त्रं वैष्णवेन रघूत्तमः । ततो रामं कुशस्तीक्ष्णान्नाराचांश्छतशः पुनः ॥ १३० ॥ मुमोच राघवश्चापि मार्गणांश्छतशः कुरुम् । एव तत्तुमुलं युद्धं बभूव प्रहरं तयोः ॥ १३१ ॥ तदाऽऽसीत्कौतुकं रामकुशयोर्युध्यतोर्महत् । रामचापविनिर्मुक्ता गता ये ये पतत्रिणः ॥ १३२ ॥ ते ते कुशस्योत्तमांगोपरिष्ठाद्धरणीतले । पतंति स्म तथा ये ये कुशचापविनिर्गताः ॥ १३३ ॥ शरास्ते रामचंद्रस्य पतति स्म पदांतिके । तद्दृष्ट्वा कौतुकं रामो विस्मयाविष्टमानसः ॥ १३४ ॥ आज्ञापयत्स्वसचिव गच्छ वाल्मीकिसन्निधिम् । पृच्छस्व तं नमस्कृत्य कौ ते शिष्याविमौ बली ॥ १३५ ॥ ततो ज्ञात्वाऽनयोघाते करिष्यामि मति क्षणात् । तथेति रामवचनात्स मंत्री रथमास्थितः ॥ १३६ ॥ क्रोशद्वयांतरेणव सव्यं कृत्वा कुशं लवम् । दृष्ट्वा नत्वाऽथ वाल्मीकिं रामवाक्यं न्यवेदयत् ॥ १३७ ॥ मुनिः प्राह मन्त्रिणं त्वं वद रामाय मे वच तं । सभामध्ये गायनस्य काले श्वो विदितं तव ॥ १३८ ॥ भविष्यति समस्तंहि वृत्तं बालकयोः शुभम् । ततो मन्त्री मुनेर्वाक्यं राघवाय न्यवेदयत् ॥ १३९ ॥ कुशं लवं समाहूय वाल्मीकिरपि तौ मुदा । समालिंग्य कथाभिस्तां निनाय रजनीमुखम् ॥ १४० ॥ इति श्रीशतकोटिरामचरितांतर्गते श्रीमद् आनन्दरामायणे वाल्मीकीये जन्मकाण्डे कुशलवयोः पराक्रमवर्णनं नाम सप्तमः सर्गः ॥ ७ ॥ श्रीसीतारामचन्द्रार्पणमस्तु |