॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ एकादशः सर्गः ॥
[ श्रीरामाकडून रावण-वध ]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

अथ ते राक्षसाः सर्वे द्वारेभ्यः क्रोधमूर्च्छिताः ।
निर्गत्य भिंदिपालैश्च खड्‌गैः शूलैः परश्वधैः ॥ १ ॥
कुन्तैः शरैः शतघ्नीभिः संक्रमैः शक्तिभिर्दृढम् ।
निजघ्नुर्वानरानीकं महाकाया महाबलाः ॥ २ ॥
राक्षसांश्च तदा जघ्नुः वानरा जितकाशिनः ।
वृक्षैर्ग्रावैः पर्वतैश्च मुष्टिभिः करताडनैः ॥ ३ ॥
ते हयैश्च गजैश्चैव रथैः कांचनसन्निभैः ।
रक्षोव्याघ्रा युयुधिरे नादयन्तो दिशो दश ॥ ४ ॥
एवं परस्परं चक्रुः युद्धं वानरराक्षसाः ।
नलो जघान धूम्राक्षं वज्रदंष्टं स मारुतिः ॥ ५ ॥
नरांतकं स तारेयं सुषेणस्तं महोदरम् ।
चतुर्थांशावशेषेण निहतं राक्षसं बलम् ॥ ६ ॥
तदांगदाद्याश्चत्वारो महावाद्यमहोत्सवैः ।
प्रणेमू राममागत्य जयघोषप्रपूरिताः ॥ ७ ॥
स्वसैन्यं निहतं दृष्ट्वा मेघनादो ययौ तदा ।
सर्पास्त्राद्व्याकुलं रामं चकार बंधुवानरैः ॥ ८ ॥
रामः सस्मार तार्क्ष्यं स तार्क्ष्यः सार्पं न्यवारयत् ।
ततः स्वस्थो ब्रह्मवरात् अंतर्धानं गतोऽसुरः ॥ ९ ॥
सर्वास्त्रकुशली व्योम्नि ब्रह्मास्त्रेण समन्ततः ।
ववर्ष शरजालानि ब्रह्मास्त्रं मानयंस्तदा ॥ १० ॥
क्षणं तूष्णीमुवासाथ रामः स बंधुवानरैः ।
ततः स्वस्थो रघुश्रेष्ठो ददर्श पतितं बलम् ॥ ११ ॥
मूर्छागतं ब्रह्मपाशैः तदा लक्ष्मणमब्रवीत् ।
चापमानय सौमित्रे ब्रह्मास्त्रेणासुरान् क्षणात् ॥ १२ ॥
भस्मीकरोनितत् श्रुत्वा लंकां इंद्रजय्यो ययौ ।
विलपतौ ससान्निद्ये यत्र वायुजराक्षसौ ॥ १३ ॥
वरदानात् ब्रह्मणस्तौ दृष्ट्वा रामः स जीवितौ ।
तौ उवाच रघुश्रेष्ठो युवाभ्यां बांधवान रणे ॥ १४ ॥
गत्वाऽस्ति जीवितश्चेद्धि वाच्यतर्हि गिरा मम ।
उपायं चिंतयस्वाद्य वानराणां सुजीवने ॥ १५ ॥
तद् रामवचनंश्रुत्वा तौ विभीषणमारुती ।
निशीथे तौ विचिन्वंतौ जांबवंतं प्रजग्मतुः ॥ १६ ॥
उल्मूकहस्तौ तं द्ह्ष्ट्वा प्रोचतू राघवेरितम् ।
जांबवानपि तां राम-गिरं श्रुत्वाऽतिहर्षितः ॥ १७ ॥
निमीलिताक्षः प्रोवाच कौ युवां वायुजो रणे ।
चेदस्ति जीवितस्तर्हि जीवयिष्यति वानरान् ॥ १८ ॥
तदा विभीषणः प्राह त्वया त्यक्त्वांगदादिकान् ।
पृच्छ्यतेऽद्य कथं वायु-पुत्रस्य परमादरात् ॥ १९ ॥
तदा विभीषणं प्राह जांबवान् ऋक्षसत्तमः ।
रुद्रावतारः संजज्ञे वायुपुत्रः प्रतापवान् ॥ २० ॥
न ज्ञेयः अपिरेवात्र तस्मात्त त्वं विलोकय ।
तदाऽब्रवीत् जांबवम्तं नत्वा स वायुनंदनः ॥ २१ ॥
यं त्वं पृच्छसि सोऽद्याहं जीवितोऽस्मद्य मारुतिः ।
विभीषणो द्वितीयोऽयं यस्त्वया परिभाषते ॥ २२ ॥
तदा स जांबवांस्तुष्टो मारुतिं वाक्यमब्रवीत् ।
गत्वा क्षीरनिधिं वेगात् द्रोणाद्रिं त्वं समानय ॥ २३ ॥
तथेत्युक्त्वा त्वरन् गत्वा गंधर्वैर्गोपितं नगम् ।
कामधेन्वा स्वीयधर्म नेत्रलेपात् प्रदर्शितम् ॥ २४ ॥
उत्पाट्य पुष्पवत् भूत्वा आनयामास कपिर्जवात् ।
पर्वतोद्‌भववल्लीनां अवघ्रायामृतोपमम् ॥ २५ ॥
सुगंधं जीवयिष्यंति राक्षसाश्चेति शंकया ।
निहतान् राक्षसान् सर्वान् तदा तार्क्ष्यविभीषणौ ॥ २६ ॥
चिक्षिपतुः सागरे तान् राघवस्याज्ञया क्षणात् ।
तदानीं तं गिरिं दृष्ट्वा सुषेणः स भिषग्वरः ॥ २७ ॥
पर्वतोद्‌भववल्लीभिः जीवयामास तान कपीन् ।
ततः शाखामृगाः सर्वे समुत्तस्थुर्विजृम्भिताः ॥ २८ ॥
द्रोणाचलं यथास्थाने स्थापयामास मारुतिः ।
कुवेरार्पितदिव्यांभः प्रमृज्य नयनेषु च ॥ २९ ॥
अंतर्हितानां रामाद्या दर्शनं प्रापुराहवे ।
ततः संप्रेषयामास रावणः स्वीयमंत्रिणः ॥ ३० ॥
अतिनादः प्रहस्तश्च महानाददरीमुखां ।
देवशत्रुर्निकुंभश्च देवांतकनरान्तकौ ॥ ३१ ॥
सारणाद्या बलैरन्ये युयुधुर्वानरैः सह ।
तान् सर्वान् अंगदाद्यास्ते हत्वा तस्थुर्विगर्जिताः ॥ ३२ ॥
तदा कुंभनिकुंभौ द्वौ कुंभकर्णसुतोत्तमौ ।
रावणः प्रेषयामास युद्धार्थं तौ प्रजग्मतुः ॥ ३३ ॥
तदा कुंभ जम्बवता निहतश्च रणाजिरे ।
अंगदेन निकुंभश्च हतः श्रुत्वा दशाननः ॥ ३४ ॥
अतिकायं स्वीयपुत्रं प्रेषयामास संगरम् ।
अतिकायेन सौमित्रिः कृत्वा संगरमुल्बणम् ॥ ३५ ॥
शरेण पातयामास लंकायां तत् शिरो महत् ।
तदा ययौ रावणः स स्वयं युद्धाय वेगतः ॥ ३६ ॥
सुहृन्मित्रजनैर्युक्तो वेष्टितः पुरवासिभिः ।
रणे विभीषणं दृष्त्वा कोपाच्छक्तिं मुमोच सः ॥ ३७ ॥
पृष्ठे विभीषण कृत्वा ययावग्रे स लक्ष्मणः ।
हृदि संताडितः शक्त्या पपात भुवि लक्ष्मण ॥ ३८ ॥
लक्ष्मणे नगरीं नेतुं तं ययौ स दशाननः ।
न चचाल भुजस्तस्य सौमित्रेः शेषरूपिणः ॥ ३९ ॥
तं नेतुकामं हनुमान् हृदि मुष्ट्या व्यताडयत् ।
तेन मुष्टिप्रहारेण पपात रुधिरं वमन् ॥ ४० ॥
आनयामास सौमित्रिं मारुतिः कपिवाहिनीम् ।
रथारूप्ढो रावणोऽपि विव्याध मारुतिं शरैः ॥ ४१ ॥
ततं क्रुद्धेन रामेण बाणेन हृदि तादितः ।
साश्वध्वजं रथं सूतः राघवो धनुरोजसा ॥ ४२ ॥
छत्रं पताकां तरसा चिच्छेद शितसायकैः ।
अर्धचंद्रेण चिच्छेद तत्किरीटं रविप्रभम् ॥ ४३ ॥
ततस्तं व्याकुलं दृष्ट्वा रामो रावणमब्रवीत् ।
गच्छाद्य लंकां आश्वस्तः श्वस्त्वं पश्य बलं मम ॥ ४४ ॥
ततो लज्जानतशिरा ययौ लंकां दशाननः ।
रामोऽपिलक्ष्मण दृष्ट्वा मूर्च्छितं प्राह मारुतिम् ॥ ४४५ ॥
द्रोणाचलं समानीयजीवयेनं तथा कपीन् ।
तथेति स ययौ वगात् तज्ज्ञात्वा स दशाननः ॥ ४६ ॥
प्रार्थयित्वा कालनेमिं तद्विघ्नार्थमदोदयत् ।
स गत्वा हिमवत्पार्श्वे तपोवनमकल्पयत् ॥ ४७ ॥
तत्र शिष्यैः परिवृतो मुनिवेषधरः स्थितः ।
मारुतिश्चाश्रमं दृष्ट्वा जलं पातुं विवेश तम् ॥ ४८ ॥
मुनिना मानितश्चापि जलकुंभः प्रदर्शितः ।
मारुतिः प्राह तृप्तिर्मे नैवानेन भवियति ॥ ४९ ॥
तं पुनः प्राह स मुनिः तटाकं निकटस्थितम् ।
गच्छाक्षिणी पिधाय त्वं जलं पिब यथासुखम् ॥ ५० ॥
आगच्छाशु पुनश्चात्र सुखं तिष्ठ ममान्तिकम् ।
जानामि ज्ञानदृष्ट्याऽहं लक्ष्मणश्चोत्थितस्त्विति ॥ ५१ ॥
गृहाण मंत्रान् मत्तस्त्वं यैश्च पश्यसि तं गिरिम् ।
गोपितं त्वद्य गंधर्वैः यं तं त्वं नेतुमिच्छसि ॥ ५२ ॥
प्लवंगानां जीवनार्थं लंकायां वेगतः कपे ।
मत्तस्त्वं लब्धविद्यः सन् ददस्व गुरुदक्षिणाम् ॥ ५३ ॥
तथेति मारुतित्गत्वा कासारं अपिबज्जलम् ।
पिधाय नेत्रे तावत् तं अग्रसन् मकरी तदा ॥ ५४ ॥
सोऽपि तां दारयामास धृत्वास्ये सा ममार ह ।
ततोऽन्तरिक्षे सा प्राह दिव्यरूपा तु मारुतिम् ॥ ५५ ॥
पुराऽहं मुनिना स्पृश्या प्रार्थिता न रतिर्मया ।
दत्ता शप्ताऽस्मि त्वत्तो मे निष्कृतिस्तेन कीर्तिता ॥ ५६ ॥
धान्यमालीति विख्याताऽऽप्सराः पूर्वं भवांतरे ।
आश्रमे यस्त्वया दृष्टः कालनेमिर्महासुरः ॥ ५७ ॥
रावणप्रेषितो मार्गे स्थितस्तं जहि वेगतः ।
तथेति मारुतिर्गत्वा मुनिं प्राह त्वरान्वितः ॥ ५८ ॥
मुष्टिं बद्ध्वा दृढां घोरां गृहाण गुरुदक्षिणाम् ।
इत्युक्त्वा ताडयामास हृदि तं मुष्टिना तदा ॥ ५९ ॥
पपात भुवि रक्तं स वमन् प्राणान् जहौ क्षणात् ।
ततः क्षीरनिधिं गत्वा जित्वा गंधर्वसत्तमान् ॥ ६० ॥
द्रोणाचलं गृहित्वा स यावत् गच्छति मारुतिः ।
विहायसाऽतिवेगेन लंकां तावच्च वै पथि ॥ ६१ ॥
भरतेन शरं मुक्त्वा पर्वतो भुवि पातितः ।
भरतं मारुतिर्दृष्ट्वा रामोऽयमिति विह्वलः ॥ ६२ ॥
उवाच मधुरं वाक्यं कथमत्र समागतअः ।
जितः किं रावणेन त्वं रणं त्यक्त्वा पलायितः ॥ ६३ ॥
एवमुक्तोऽपि भरतः पुनस्तं मारुतिं वरम् ।
मत्वाऽयं राक्षसश्चेति संदधे निशितं शरम् ॥ ६४ ॥
बाणहस्तं तमालोक्य भुभुक्कारं विधाय सः ।
नैवायं राघवश्चेति मत्वा ध्यात्वा क्षणं हृदि ॥ ६५ ॥
भरतं मारुतिः प्राह रामदूतोऽद्य मे बलम् ।
पश्यसि त्वं तद्‌गिरं तां श्रुत्वा तं भरतोऽब्रवीत् ॥ ६६ ॥
बंधुना मम रामेण कुतो वद समागमः ।
तव जातं सविस्तारं दंडकारण्यवासिना ॥ ६७ ॥
ततस्तं मारुतिर्वृत्तं संश्राव्य राघवस्य तु ।
भरतेनेषुणा दत्तं गिरिं धृत्वा ययौ पुनः ॥ ६८ ॥
लंकां गत्वा स वल्लीभिः जीवयामास लक्ष्मणम् ।
वानरांश्च भरतस्य रामं वृत्तं न्यवेदयत् ॥ ६९ ॥
पुतर्नीत्वा यथास्थानं तं संस्थाप्य महाचलम् ।
लक्ष्मणो जीवितश्चेति संश्राव्य भरतं पुनः ॥ ७० ॥
यथावाकाशमार्गेण लंकां गन्तुं मनो दधे ।
नृपानाकारयामास साकेतं भरतोऽपि सः ॥ ७१ ॥
साहायार्थं राघवस्य लंकां गन्तुं मनो दधे ।
ततः समायामासीनो रावणः प्राह राक्षसान् ॥ ७२ ॥
गच्छध्वं त्वरितं दूताः पताले तौ महाबलौ ।
ऐरावणो महानुग्रः तथा मैरावणो महान् ॥ ७३ ॥
तयोर्मे कथनीयं हि युद्धवृत्तं वयस्ययोः ।
तथेति ते गता दूताः तौ तद्‌वृत्तं न्यवेदयन् ॥ ७४ ॥
तौ श्रुत्वा विह्वलात्मानौ लंकायां समवस्थितौ ।
रामं च लक्ष्मणं हंतुं निशायां तौ समागतौ ॥ ७५ ॥
ददर्शतुस्तौ पुच्छस्य परिघ हि हनूमतः ।
कपीनां तत्र सेनायाः तदाकाशान् महाबलौ ॥ ७६ ॥
निपेततुः कपीनां तु सेनायां रामलक्ष्मणौ ।
किंचित् विनिद्रितौ दृष्ट्वा शिलायां संगरश्रमात् ॥ ७७ ॥
निन्युतुस्तौ शिलां शीघ्रं पातालं निजमंदिरम् ।
एतस्मिन् अंतरे दृष्ट्वा सेनायां रामलक्ष्मणौ ॥ ७८ ॥
मारुतिः पादमार्गेण तयोः पातालमाययौ ।
एतस्मिन् अंतरे मार्गे लंकादक्षिणदिक् तटे ॥ ७९ ॥
निकुंभिलायां स्व पतिं कपोती प्राह गुर्विणी ।
नाथाद्य नरमांसं मे भोक्तुं स्पृहयते मनः ॥ ८० ॥
स प्राहाद्य समानीतौ वर्तेते रामलक्ष्मणौ ।
रसातलं हि दैत्याभ्यां देव्यग्रेतौ वधिष्यतः ॥ ८१ ॥
अथ श्वस्तद्वधे जाते मांसमानीय तेऽर्पये ।
तद्वाक्यं मारुतिः श्रुत्वा किंचित् तोषयुतो ययौ ॥ ८२ ॥
तावत् ददर्श तद्‌द्वारि संस्थितं मकरध्वजम् ।
स धृत्वा तं हनूमन्तं पप्रच्छ मकरध्वजः ॥ ८३ ॥
कस्त्वं कुतः समायातः स्ववृत्तं प्राह मारुतिः ।
रामदूतस्तु लंकायाः आनीतौ रामलक्ष्मणौ ॥ ८४ ॥
निद्रितौ निशि दैत्याभ्यां अत्र पातालमद्य हि ।
तयोः शोधार्थमायातः चेत्त्वं वेत्सि वदस्व तौ ॥ ८५ ॥
तन्मारुतिवचः श्रुत्वा तं प्राह मकरध्वजः ।
पिताम मे वर्तते तत्र क्षेमेणांजनिसंभवः ॥ ८६ ॥
तत् श्रुत्वा चकितः प्राह हनुमान् मकरध्वजम् ।
हनूमतः कुतः पत्‍नी सोऽब्रवीत् मारुतिं पुनः ॥ ८७ ॥
लंकादाहं पुरा कृत्वा सागरे शीतलं कृतम् ।
यदा पुच्छं मारुतिना तदा तद्‍धूमपूरितात् ॥ ८८ ॥
कंठाच्छ्लेष्मा बहिस्त्यक्तः सागरे सोऽपतत् तदा ।
मकर्या भक्षितः सोऽपि तस्यां जातः सुतोऽस्म्यहम् ॥ ८९ ॥
तत् श्रुत्वा मारुतिः प्राह सोऽयमेव न संशयः ।
तदा ननाम पितरं तथा वृत्तं न्यवेदयत् ॥ ९० ॥
कामाक्ष्याश्च बलिं कर्तुं निश्चितौ पूर्वमेव हि ।
तौ आनेतुं यदोद्युक्तौ लंकां गत्वा सुरोत्तमौ ॥ ९१ ॥
श्वः कामाक्ष्याः पुरः कर्तुं तयोर्दानं विनिश्चितम् ।
गच्छ देवालये गत्वा तत्र स्थित्वा हरस्व तौ ॥ ९२ ॥
ततः स मारुतिर्गत्वा त्रसरेणुस्वरूपधृक् ।
देवालय प्रविश्याथ कपाटानि बबंध सः ॥ ९३ ॥
तावत् दैत्यौ समायातौ पूजार्थं द्वारि संस्थितौ ।
शनैर्देव्याः स्वरेणैव मारुतिस्तौ वचोऽब्रवीत् ॥ ९४ ॥
पूजा कार्या गवाक्षेण सजीवौ रामलक्ष्मणौ ।
वनोद्‌भवैः फलैः पुष्पादिभिः सम्यक् प्रपूजितौ ॥ ९५ ॥
धृतकोदण्डतूणिरौ वन्यपुश्पश्च शोभितौ ।
देवालयस्य किंचिद्धि द्वारमुद्धाट्य वै शनैः ॥ ९६ ॥
मत्तुष्ट्यर्थं प्रेषणीयावत्र मामद्य मानवौ ।
येन केन प्रकारेण यो मामद्य प्रपश्यति ॥ ९७ ॥
भविष्यति निश्चयेन सोऽन्धो नास्त्येव संशयः ।
तद्देव्या वचनं श्रुत्वा तुष्टां ज्ञात्वाऽम्बिकां मुदा ॥ ९८ ॥
ततस्तं पूजनं दैत्यौ पवाक्षेणैव चक्रतुः ।
पक्वान्नपायसादीनां राशींस्तौ प्रमुमोचतुः ॥ ९९ ॥
पंचामृतघटांश्चापि कोटिशस्तौ मुमोचतुः ।
कोटिशः फलभारैश्च गवाक्षेण मुमोचतुः ॥ १०० ॥
तत्सर्वं भक्षयित्वा स मारुतिः प्राह तौ पुनः ।
किं दत्तं ग्रासमात्रं मे भोजनं क्षिधिताऽस्म्यहम् ॥ १ ॥
तद्देवया वचनं श्रुत्वा तौ दैत्यावतिस्मितौ ।
दूतैर्विलुंठ्य हट्टांश्च तथा स्वीयपुरौकसाम् ॥ २ ॥
भक्षणीयपदार्थांस्तौ गिरीनिव मुनोचतुः ।
राजगृहादिषु स्वेषु यद्यद्वस्त्वस्ति संचितम् ॥ ३ ॥
तच्चापि दूतैरानीय देव्यै शीघ्रं मुमोचतुः ।
तदा कोलाहलश्चासीत् प्रतिगेहे पुरौकसा ॥ ४ ॥
नासीच्छेषं बालकानां भक्ष्यवस्त्वण्वपि क्वचित् ।
ततस्तौ वन्यपुष्पाद्यैः भूषितौ रामलक्ष्मणौ ॥ ५ ॥
धृतकोदंडतूणीरौ द्वारेणैवार्पितौ श्रियै ।
तौ दृष्ट्वा मारुतिर्नत्वा आलिंग्य रामलक्ष्मणौ ॥ ६ ॥
कपाटानि तदोद्धाट्य दैत्ययोः स व्यतर्जयत् ।
ततो रामो लक्श्मणेन वहिर्देवालयात् तदा ॥ ७ ॥
निर्गत्य शरजालैस्तौ जघान क्षणमात्रतः ।
सेवकान् सुहृदादींश्च तयोर्बाणैर्जघान सः ॥ ८ ॥
पुनस्तौ जीवितौ दैत्यौ पुनस्तेन निपातितौ ।
शतवारं हतौ एवं नासीम्मृत्युस्तयोस्तदा ॥ ९ ॥
ततोऽतिविस्मितो भूत्वा त्वरन्गत्वा स मारुतिः ।
इतस्ततो भ्रमन्पुर्यां नारीं रहसि संस्थिताम् ॥ ११० ॥
ऐरावणभोगपत्‍नीं पप्रच्छ मरणं तयोः ।
सा प्राह नागकन्याऽहं बलेनानेन धर्षिता ॥ ११ ॥
मैरावणोऽपि मां नित्यं दुष्टबुद्ध्याऽत्र पश्यति ।
उभाभ्यामपि च क्रीडां दातुं नास्ति बलं मयि ॥ १२ ॥
मित्रं त्वेको रिपुस्त्वेकः त्विति दुःखं तयोर्मम ।
अतस्तयोर्वधे तुष्टिः मम चापि भविष्यति ॥ १३ ॥
मारुति यदि रामो त्वां स्वस्त्रियं हि करिष्यति ।
तर्ह्यहः कथयाम्यद्य तयोर्मृत्युर्यतो भवेत् ॥ १४ ॥
तत् श्रुत्वा मारुतिः प्राह यदि श्रीरामभारतः ।
न भविष्यति भग्नस्ते मंचकस्तर्हि ते पतिः ॥ १५ ॥
भविष्यति रामचंद्रः तथेत्युक्त्वा तमाह सा ।
भ्रमरानेकदा पूर्वं बालैः कंटकतोपितान् ॥ १६ ॥
मोचयामासतुस्तौ हि तेन तुष्टाश्च षट्पदाः ।
तौ ऊचुस्ते युवाभ्यां हि मरणाद् रक्षिता वयम् ॥ १७ ॥
यथा तथा युवां चाभि रक्षामो मरणाद्वयम् ।
इत्युक्त्वा ते स्थिताश्चात्र ते नीत्वाऽमृतमुत्तमम् ॥ १८ ॥
तद् रक्तबिंदून् स्पृष्ट्वा ते प्रकुर्वंति सजीवितौ ।
भ्रमरास्ते तयोर्निद्रा स्थाने संत्यधुना कपे ॥ १९ ॥
कोटिशस्तान् मर्द्दयस्व सोऽपि तान् मर्द्दयत्क्षणात् ।
तत्रैकं शरणं प्राप्तं भ्रमरं पाह मारुतिः ॥ १२० ॥
कुरु मंचकगर्भं त्वं गजभुक्तकपित्थवत् ।
ऐरावणभोगपत्‍न्याः षट्पदोऽपि तथाऽकरोत् ॥ २१ ॥
ततो निहत्य तौ दैत्यौ पुनर्बाणै रघूद्वहः ।
अभिषिच्य तयोः स्थाने राज्ये तं मकरध्वजम् ॥ २२ ॥
यावद्‌गंतुं मनश्चक्रे तावन् मारुतिनाऽर्थितः ।
नागकन्यागृहं गत्वा नानाचित्रविचित्रितम् ॥ २३ ॥
दृष्ट्वा तां चारुवदनां वस्त्रालंकारमण्डिताम् ।
धृत्वा करेण तद्धस्तं किंचित् कृत्वा स्मिताननम् ॥ २४ ॥
चकार मंचकं भग्नं स्वभारेण रघूत्तमः ।
ततस्तया प्रार्थितः स रामस्तां पुनरब्रवीत् ॥ २५ ॥
त्यक्त्वा देहं भुवं गत्वा भूत्वा ब्राह्मणकन्यका ।
तपस्तप्त्वा चिरं कालं तृतीये त्वं तु जन्मनि ॥ २६ ॥
द्वापरे द्वारकायां हि मम पत्‍नी भविष्यसि ।
तद् रामवचनं श्रुत्वा रामाग्रेऽग्निं प्रविश्य सा ॥ २७ ॥
कन्याकुमारी नामासीत् द्विजकन्याऽब्धिरोधसि ।
मारुतेः स्कंधसंस्थोऊभूत् तदा रामो मुदान्वितः ॥ २८ ॥
राज्ये कृत्वा मंत्रिणं स्वं लक्ष्मणं मकरध्वजः
अकरोत्तं स्कंधसंस्थं शेषं ब्रह्माण्डधारकम् ॥ २९ ॥
ततः क्षणात् जग्मतुस्तौ लंकां श्रीरामलक्ष्मणौ ।
श्रीरामलक्ष्मणौ दृष्ट्वा सुग्रीवाद्याश्च वानराः ॥ १३० ॥
तावालिंग्य मुहुर्नत्वा बभूवुस्तोषपूरिताः ।
रामोऽपि सकलं वृत्तं सुग्रीवादीन्न्यवेदयत् ॥ ३१ ॥
दैत्यौ रामेण निहतौ श्रुत्वा सदसि रावणः ।
राक्षसांश्चकितः प्राह पूर्ववृत्तः भयान्वितः ॥ ३२ ॥
मानुषेणैव मृत्युर्मे ह्याह पूर्वं पितामहः ।
अतो नारायणः साक्षात् मानुषोऽभून्न संशयः ॥ ३३ ॥
रामो दाशरथिर्भूत्वा मां हंतुं समुप्[अस्थितः ।
यदाऽनरण्यः पूर्वं हि स हतो दीक्षितो मया ॥ ३४ ॥
शप्तश्चाहं तदा तेन सूर्यवंशओद्‌भवेन हि ।
उत्पत्स्यते च मद्‌वंशे परमात्मा सनातनः ॥ ३५ ॥
स एव त्वां पुत्रपौत्रैः बांधवैर्निहनिष्यति ।
इत्युक्त्वा स ययौ नाकं सोऽधुना समयो मम ॥ ३६ ॥
समागतो राघवो मां समरे स हनिष्यति ।
विबोध्य कुंभकर्णं तं आनयध्वं त्वरान्विताः ॥ ३७ ॥
ततस्ते तां गुहां गत्वा तच्छ्वासेन विकर्षिताः ।
यातायाते प्रचक्रुस्ते कुंभकर्णोदरे मुहुः ॥ ३८ ॥
तदैकत्र बाहुपाशैर्बलं कृत्वाऽथ राक्षसाः ।
गत्वा तदंतिकं भीत्या निजघ्नुस्तं द्रुमैः पदैः ॥ ३९ ॥
शिलाभिस्ताडयामासुः चाश्वैरुष्टैर्व्यचूर्णयन् ।
काष्ठभारैर्महादाहं देहे चक्रुर्नृपाज्ञया ॥ १४० ॥
तदा प्रबुद्धश्चोत्थाय सूकरान् महिषान् वरान् ।
कोटिशः स्वमुखे क्षिप्त्वा जलवापीर्विशोष्य सः ॥ ४१ ॥
गत्वा नत्वा राक्षसेंद्रं बोधयामास रावणम् ।
एकदाऽहं वनं गत्वा दृष्ट्वा तं नारदं मुनिम् ॥ ४२ ॥
पृष्टवाँस्त्वं कुत्र यासि कुतश्चागमनं कृतम् ।
स मां प्राह देवलोकात् अयोध्यां प्रति गम्यते ॥ ४३ ॥
रावणादीन् रणे हंतुं विष्णुर्जातोऽत्र मानुषः ।
देववाक्यात् त्वरयितुः राम गच्छाम्यहं जवात् ॥ ४४ ॥
इत्युक्त्वा मां गतः सोऽथ प्रेषयामास राघाम् ।
इति श्रुतं मया पूर्वं तवाग्रे तन्निवेदितम् ॥ ४५ ॥
अतोऽपर्याद्य रामाय सीतां सख्यं कुरु प्रभो ।
इति तद्वचनं श्रुत्वा रावणस्तं वचोऽब्रवीत् ॥ ४६ ॥
निद्राव्याप्तेऽक्षिणी तेऽद्य गच्छ निद्रां सुखं कुरु ।
तद्बंधोः क्रूरवचनं श्रुत्वा नत्वाऽथ रावणम् ॥ ४७ ॥
जवाद्ययौ स युद्धाय उल्लंघ्य प्रासादमुत्तमम् ।
कुंभकर्णं तत्र दृष्ट्वा कृपणा भयविह्वलाः ॥ ४८ ॥
चक्रुः पलायनं सर्वे रामपार्श्वमुपागताः ।
कुंभकर्णं तत्र दृष्ट्वा प्रणनाम विभीषणः ॥ ४९ ॥
उवाच प्रणतो भूत्वा मया राजाऽतिबोधितः ।
सीतां रामाय देहीति तेन धिग्धिक्कृतस्त्वहम् ॥ १५० ॥
तत् श्रुत्वाऽहं राघवस्य सेवां कर्तुमुपागतः ।
तत् श्रुत्वा बंधुवचनं कुंभकर्णस्तमब्रवीत् ॥ ५१ ॥
सम्यक्कृतः त्वया वत्स मदग्रे मा स्थिरो भव ।
युद्धे स्वीयः परो वाऽत्र ज्ञायते न मयाऽद्य हि ॥ ५२ ॥
ततो बंधुं नमस्कृत्य रामपार्श्वमुपाययौ ।
कुंभकर्णोऽपि हस्ताभ्यां पादाभ्यां पेशयन् हरीन् ॥ ५३ ॥
चचार वानरीं सेनां तत्र दृष्ट्वा कपीश्वरम् ।
त्रिशूलेनाथ तं भित्त्वा आनयामास पुरीं तु सः ॥ ५४ ॥
मार्गे स्वस्थः स सुग्रीवः कर्णौ घ्राणं रिपोर्नखैः ।
छित्वा ययौ राघवेंद्रं सोऽपि पौरैर्विलज्जितः ॥ ५५ ॥
ताडयामास तान् बाणैः निवार्य रघुनंदनः ।
वायवास्त्रेण चिच्छेद तद्धस्तौ सायुधौ क्षणात् ॥ ५७ ॥
छिन्नबाहुमथायांतं नदंतं वीक्ष्य राघव ।
द्वावर्द्धचंद्रौ निशितौ आदायास्य पदद्वयम् ॥ ५८ ॥
चिच्छेद पतितौ पादौ लंकाद्वारि महास्वनौ ।
निकृत्तहस्तपादोऽपि कुंभकर्णोऽतिभीषणः ॥ ५९ ॥
अभिदुद्राव विनदन् राहुश्चंद्रमसं यथा ॥ १६० ॥
अपूरयच्छिताग्रैश्च सायकैस्तद् रघुत्तमः ।
शरपूरितवक्त्रोऽसौ चुक्रोशातिभयंकरः ॥ ६१ ॥
अथ सूर्यप्रतीकाशं ऐंद्रं शरमनुत्तमम् ।
मुमोच तेन चिच्छेद कुंभकर्णशिरो महत् ॥ ६२ ॥
तथा खे देववाद्यानि नेदुः कुसुमवृष्टिभिः ।
ववर्षुरमरा रामं तुष्टुवुर्विविधैः स्तवैः ॥ ६३ ॥
पितृव्यं निहतं श्रुत्वा पितरं चातिविह्वलम् ।
रावणिः सांत्वयामास त्वं मे पश्याद्य वै बलम् ॥ ६४ ॥
इत्युक्त्वा त्वरितं गत्वा मेधनादो निकुंभिलाम् ।
रक्तमाल्यांबरधरो हननायोपचक्रमे ॥ ६५ ॥
रक्षार्थं दिव्यशस्त्रार्थं जयार्थं अभिचारकैः ।
योगिनीवटाधोभूम्यां फ़ुहायां संस्थितो रहः ॥ ६६ ॥
तोयानिलानलव्याघ्र सर्पराक्षसकंटकैः ।
आत्मनः परितः कृत्वा परिधीन् सप्त दुर्गमान् ॥ ६७ ॥
होमकुण्डोर्ध्वतः सर्पं बद्ध्वा कृष्णमधोमुखम् ।
रक्तपुष्पांबरधरो रक्तचंदनलेपितः ॥ ६८ ॥
रक्तपुष्पाक्षता गुञ्जा सर्षपश्चन्दनेक्षुभिः ।
खदिराम्र पलाशोदुम्बरभल्लातकास्थिभिः ॥ ६९ ॥
समिद्‌भिर्माषमांसादि भल्लातकफलैरपि ।
अर्कनिंबबीजपूर कृष्णधत्तूररोचनैः ॥ १७० ॥
अपामार्गबदरिका नलदालकबंधुकैः ।
नरमुंड समांसैश्च बिभीतकफलादिभिः ॥ ७१ ॥
सर्पषडैश्च मण्डूकैः त्वग् दंतस्नायुलोमभिः ।
नानावनचराणां च मांसैरपि समंत्रकम् ॥ ७२ ॥
इत्थं चकार होमं स निमील्य नयने रहः ।
विभीषणोऽपि तं दृष्ट्वा होमधूम्रं भयावहम् ॥ ७३ ॥
प्राह रामाय सकलं होमारंभं दुरात्मनः ।
समाप्यते चेत् होमोऽयं मेघनादस्य दुर्मतेः ॥ ७४ ॥
स चाजय्यो बवेत् राम मेघनादः सुरासुरैः ।
अतः शीघ्रं लक्ष्मणेन घातयिष्यामि रावणिम् ॥ ७५ ॥
यस्तु द्वादश वर्षाणि निद्राहारविवर्जितः ।
तेनैव मृत्युर्निर्दिष्टो ब्रह्मणाऽस्य दुरात्मनः ॥ ७६ ॥
लक्ष्मणोऽयं यदाऽयोध्या पुर्यास्त्वामनुनिर्गतः ।
तदादि निद्राहारादीन् न प्राप्तः स रघूत्तमः ॥ ७७ ॥
सेवार्थं तव राजेंद्र ज्ञातं सर्वमिदं मया ।
ततो रामाज्ञया गत्वा लक्ष्मणेन विभीषणः ॥ ७८ ॥
हनुमत्प्रमुखैः वीरैः यूथपैः सर्वतो वृतः ।
लक्ष्मणं दर्शयामास होमस्थानं निकुंभिलाम् ॥ ७९ ॥
अंगदस्कंधमारुह्य वह्न्यस्त्रेणाथ कंटकान् ।
ज्वालयामास सौमित्रिः जघान राक्षाञ्छरैः ॥ १८० ॥
गारुडास्त्रेण सर्पांश्च पर्वतास्त्रेण दंष्ट्रिणः ।
अनलं शांतमकरोत् पर्जन्यास्त्रेण लक्ष्मणः ॥ ८१ ॥
प्राशयामास हनुमान् अनिलं क्षणमात्रतः ।
जलं संशोषयामास वायव्यास्त्रेण लक्ष्मणः ॥ ८२ ॥
परिघेष्वपि नष्टेषु तत्रादृष्ट्वा रिपोः स्थलम् ।
ययौ उत्पाटितुं क्रोधात् हनुमान् योगिनीवटम् ॥ ८३ ॥
तदातां दर्शयामास वटस्थां योगिनीगुहाम् ।
गुहापिधानपाषाणं हनुमान् पादघट्टनैः ॥ ८४ ॥
चूर्णीकृत्य गुहासंस्थं मेघनादं व्यतर्जयत् ।
तदा स मेघनादोऽपि त्यक्त्वा होमं त्वरान्वितः ॥ ८५ ॥
क्रोधाविष्टो रथे स्थित्वा ययौ लक्ष्मणसंमुखम् ।
शस्त्रैरस्त्रैः पर्वताद्यैः मर्मभिद्‌भिर्निजोक्तिभिः ॥ ८६ ॥
चकार लक्ष्मणेनैव युद्धं तत्तारकामयम् ।
सौमित्रिरपि बाणौघैः रथमश्वान् धनुर्ध्वजम् ॥ ८७ ॥
तद्‌दृढं कवचं सूतं बिभेद क्षणमात्रतः ।
ततः सोऽन्येन धनुषा मुक्त्वा बाणान् सहस्रशः ॥ ८८ ॥
पद्‌भ्यां एवास्थितो भूम्यां चिच्छेद कवचं रिपोः ।
तदा क्रुद्धः स सौमित्रिः बाणेनेंद्रजितञ्च हि ॥ ८९ ॥
सशरं दक्षिणभुजं पातयामास तद्‌गृहे ।
तदा स वामहस्तेन मेघनादोऽतिविह्वलः ॥ १९० ॥
दुद्राव लक्ष्मणं हंतुं धृत्वा शूलमनुत्तमम् ।
तं चापि मार्गणेनैव सशूलं वामसत्करम् ॥ ९१ ॥
मेघनादस्य शुमित्रिः छित्वा रावणसन्निधौ ।
पातयामास लंकायां तदद्‌भुतं इवाभवत् ॥ ९२ ॥
तदा व्यादाय स्वमुखं रावणिर्लक्ष्मणं ययौ ।
लक्ष्मणोऽपि शरं दिव्यं रामनामांकितं शुभम् ॥ ९३ ॥
मुमोच रघ्वीरस्य कृत्वा चिंतनमादरात् ।
स शरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् ॥ ९४ ॥
प्रमथ्येंद्रजितः कायात् पातयामास तच्छिरः ।
ततः प्रमुदिता देवाः सौमित्रिं परितुष्टुवुः ॥ ९५ ॥
पुष्पाणि विकिरंतो वै चक्रुर्नीरांजनं मुहुः ।
गतश्रमः स सौमित्रिः शंखमापूरयत् रणे ॥ ९६ ॥
श्रुत्वा सीता शंखनादं त्रिजटां प्रेष्य सादरम् ।
शुश्राव सकलं वृत्तं तद्वाक्यात्प्रतुतोष सा ॥ ९७ ॥
ततस्तन्मेघनादस्य शिरः संगृह्य मारुतिः ।
राघवाय दर्शयितुं त्वरयामास लक्ष्मणम् ॥ ९८ ॥
नत्वा तं दर्शयामास मेघनादस्य तच्छिरः ।
तद्‌दृष्ट्वाऽऽलिंग्य सौमित्रिं रामस्तुष्टोऽभवत्तदा ॥ २०० ॥
रावणोऽपि भुजं दृष्ट्वा श्रुत्वा पुत्रवधं तथा ।
पपात पुत्रदुःखेन सभायां मूर्छितो भुवि ॥ १ ॥
क्रोधात् स खड्‌गमुद्यम्य ययौ हंतुं विदेहजाम् ।
सुपार्ह्श्वो नाम मेधावी मंत्री तं संन्यवारयत् ॥ २ ॥
सखड्‌गं तत्करं धृत्वा स्वहस्ते स त्वरान्वितः ।
उवाच नीतिसंयुक्तं वचनं रावणं तदा ॥ ३ ॥
कथं नाम दशग्रीव कोपात् स्त्रीवधमिच्छसि ।
अस्माभिः सहितो युद्धे हत्वा रामं सलक्ष्मणम् ॥ ४ ॥
प्राप्स्यसे जानकीं शीघ्रं इत्युक्तः स न्यवर्तत ।
सुलोचनाऽपि काम्तस्य भुजं केयूरभूषितम् ॥ ५ ॥
दृष्ट्वा समार्गणं स्वीय पुरतः पतितं भुवि ।
तदा विलापं अकरोत् स्मृत्वा तत्पौरुषाणि सा ॥ ६ ॥
भुजोऽपि सांत्वयन् तांस लेख्य भूम्यां शरेण हि ।
स्वलोहिताक्षरैः प्राह माखेदं भज भामिनि ॥ ७ ॥
साक्षातशेष शराघातईः हतोऽहं मुक्तिमागतः ।
त्वं चापि गत्वा श्रीरामं नत्वा याचस्व मच्छिरः ॥ ८ ॥
तत्त्वां दास्यति रामोपि तेनाग्निं विश्य याहि माम् ।
सुलोचना पठित्वा सा लिखितान्यरक्षराणि हि ॥ ९ ॥
तुष्ता पृष्ट्वा रावणाय मंदोदर्यै विभूषिता ।
ययौ रामं शिबिकया तां ड्रुष्ट्वा वानरोत्तमाः ॥ २१० ॥
सीतेयं रावणेनाद्य भयार् रामं विसर्जिता ।
इति मत्वा दुद्रुवुस्ते सीताया दर्शनेच्छया ॥ ११ ॥
शिबिकां वेष्टयामासुः ज्ञात्वा तां तु सुलोचनाम् ।
शिबिकावाहकास्येन आययुः श्रीराघवं पुनः ॥ १२ ॥
सुलोचनाऽपि श्रीरामं ननाम शिरसा मुहुः ।
भर्तृ शिरः कांक्षमाणां तां रामो वाक्यमब्रवीत् ॥ १३ ॥
कृपया तव भर्तारं करोम्यद्य सजीवितम् ।
मा विशस्वाद्य वह्निंत्वं रोचते चेत् वदस्व माम् ॥ १४ ॥
तदा सा प्राह श्रीरामं पुनः सौमित्रिहस्ततः ।
कुतो भवेत् तन्मरणं मोक्षदं जीवयस्व मा ॥ १५ ॥
इत्युक्त्वा राघवं दत्त्वा सस्मितं कपिवाक्यतः ।
कृत्वा शिरः पतेस्तत्र लब्ध्वा सा भर्तृसच्छिरः ॥ १६ ॥
लंकायास्तौ समानीय भुजौ गत्वा निकुम्भिलाम् ।
भर्तृदेहेन संयोज्य विवेशाग्निं यथाविधि ॥ १७ ॥
सुलोचना दिव्य देहा वैकुण्ठं पतिना ययौ ।
रावणोऽपि सुहृन्मित्रैः पुनर्योद्धुं ययौ रणम् ॥ १८ ॥
ततो रामेण निहताः सर्वे ते राक्षसा युधि ।
लंकायां रावणं क्षिप्तः शरेण राघवेण सः ॥ १९ ॥
ततः कृत्वा रामशिरः कृत्रिमं मयहस्ततः ।
ययौ सीतां दर्शयितुं रावणोऽशोककाननम् ॥ २२० ॥
एतस्मिन् अंतरे ब्रह्मा बोधयामास जानकीम् ।
कृतमस्ति रावनेन कृत्रिमं रामसच्छिरः ॥ २१ ॥
तद्‌दृष्ट्वा मा भजस्वाद्य खेदं त्वमधुनाऽबले ।
इति संबोध्य तां सीतां ब्रह्माऽन्तर्धानमाययौ ॥ २२ ॥
राववोऽपि समागत्य दर्शयामास तत् शिरः ।
सीतां प्राह हतो रामः त्वधुना त्वं भजस्व माम् ॥ २३ ॥
तदा साऽधोमुखी प्राह तवैवाहं शिरांसि हि ।
रामबाणैश्च पश्यामि पतितानि रणांगणे ॥ २४ ॥
इति तद्‌वाक्यश्राघात ताडितः स दशाननः ।
ययौ तूष्णीं स्वयं गेहं लज्जयाऽवनतस्तदा ॥ २५ ॥
अथ रामाज्ञया सर्वे लंकां प्रासादमंडिताम् ।
ईषिकाचूडहस्तास्ते वानराः कोटिशः क्षणात् ॥ २६ ॥
ज्वालयामासु सर्वत्र तत्त्वा वह्निं मुहुर्मुहुः ।
तदा कोलाहलश्चासीत् लंकादाहे पुरा यथा ॥ २७ ॥
दग्धां स्वनगरीं दृष्ट्वा स्वगृहाण्यपि रावणः ।
दृष्ट्वा दग्धानि कपिभिः मेघास्त्रं ससृजे जवात् ॥ २८ ॥
तेनासीदनलः शांतः तद्‌दृष्ट्वा कपयो ययुः ।
ततः स रावणः शुक्र वचनात् रहसि स्थिताम् ॥ २९ ॥
गुहां प्रविश्य चैकांते मौनी होमं प्रचक्रमे ।
लंकाद्वारकपाटादि बद्ध्वा सर्वत्र यत्‍नतः ॥ २३० ॥
होमद्रव्याणि संगृह्य यान्युक्तानि मया पुरा ।
रक्तावगाहितो मुण्डमाली प्रेतासनस्थितः ॥ ३१ ॥
परिस्तीर्याथ शस्त्राणि होमकुण्डसमंततः ।
आदशाहबालकानां शिरोभिर्मांसलोहितैः ॥ ३२ ॥
एवं स रिपुघातार्थं चकार हवनं रहः ।
उत्थितं धूम्रमालोक्य रामं प्राह विभीषणः ॥ ३३ ॥
यदि होमसमाप्तिः स्यात् तदाऽजेयो भवेदयम् ।
ततो रामो हरीन् सर्वान् प्रेषयामास सादरम् ॥ ३४ ॥
प्राकारं लंघयित्वा ते गत्वा रावणमंदिरम् ।
हत्वा राक्षसवृन्दं तद्‌ गुहारक्षणतत्परम् ॥ ३५ ॥
न ददृशुर्गुहाद्वारं यत्र होमं चकार सः ।
ततश्च सरमानाम प्रभाते करसंज्ञया ॥ ३६ ॥
विभीषणस्य भार्या तान् होमस्थानमासूचयत् ।
गुहापिधानपाषाणान् अंगदः पदघट्टनैः ॥ ३७ ॥
चूर्णयित्वा रावणश्च ताडयामास मुष्टिना ।
वानरास्तेऽपि तं वृक्षैः ताडयामासुरादरात् ॥ ३८ ॥
तद्वत्ते वानरा दृष्ट्वा तूष्णीमेव स्थितं रिपुम् ।
समानयन् केशपाशे धृत्वा मंदोदरीं शुभाम् ॥ ३९ ॥
विलपंतीं मुक्तनीवीं विह्वलां हृतकंचुकीम् ।
दृष्ट्वा त्यक्त्वा तदा होमं उदतिष्ठत्त्वरान्वितः ॥ २४० ॥
ततस्ते वानराः सर्वे ययुः श्रीराघवांतिकम् ।
ततो मंदोदरी प्राह कुरु त्वं वचनं मम ॥ ४१ ॥
तत्त्वा सीतां राघवाय राज्ये कृत्वा विभीषणम् ।
तपश्चर्यां मयारऽण्ये कर्तुमर्हसि वै सुखम् ॥ ४२ ॥
तत्तस्या वचनं श्रुत्वा तां स प्राह दशाननः ।
रामो विष्णुश्च मा सीता जानामि प्राणवल्लभे ॥ २४३ ॥
रामहस्ताद् वधं लब्धुं हृता सीता पुरा मया ।
रामहस्तात्यक्तदेहो गच्छामि परमं पदम् ॥ ४४ ॥
त्वया कार्या क्रिया मे हि प्रविशस्वानलं ततः ।
ततः सुखं मया मुक्ता गमिष्यामि परं पदम् ॥ ४५ ॥
इत्युक्त्वा प्रययौ योद्धुं रथे स्थित्वा त्वरान्वितः ।
राजद्वाराद् विनिर्गच्छन् अग्रे मुण्डी विलोकितः ॥ ४६ ॥
मुकुट पतितश्चित्रः संविग्नो रावणो हृदि ।
ततो ययौ रणभुवं ववर्ष निशितैः शरैः ॥ ४७ ॥
विधाय कृत्रिमां सीतां मयेन स दशाननः ।
पश्यतां वानराणां च स्वरथे तां जघान वै ॥ ४८ ॥
दिव्येन शितखड्‌गेन दृष्ट्वा ते तु प्लवंगमाः ।
हाहेत्युक्त्वा दुःखितास्ते ययू रामं निवेदितुम् ॥ ४९ ॥
तावद्वेधाः समागत्य रामादीन् प्राह सादरम् ।
कृत्रिमेयं हता सीता मा खेदं भजताद्य हि ॥ २५० ॥
ततोऽन्त्र्धानं अगमत् विधि तेऽपि प्लवंगमाः ।
रामाद्या ब्रह्मवाक्येन तुष्टा युद्धाय निर्ययुः ॥ ५१ ॥
तदा स मातलिः शीघ्रं देवेंद्रवचनाद् रथम् ।
शस्त्रास्त्रवाजिसहितं अशनिध्वजशोभितम् ॥ ५२ ॥
वरच्छत्रसमायुक्त्वं राघवाग्रे न्यवेदयत् ।
तमारुह्य तदा रामः चकार कदनं महत् ॥ ५३ ॥
आग्नेयेन तदाग्नेयं दैवं दैवेन राघवः ।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ ५४ ॥
ततस्तु ससृजे घोरं राक्षसं सार्पमस्त्रवित् ।
रामः सर्पांस्ततो दृष्ट्वा सौपर्णास्त्रं मुमोच सः ॥ ५५ ॥
अस्त्रैः प्रतिहते युद्धे रामेण दशकंधरः ।
पार्जन्यं ससृजे घोरं वायव्यास्त्रेण राहवः ॥ ५६ ॥
तदस्त्रं विनिवार्यासो वह्न्यस्त्रं ससृजे पुनः ।
पर्जन्यास्त्रेण पौलस्त्यः चकार विफलं तदा ॥ ५७ ॥
नागानामयुतं तुरंगनियतुं सार्धं रथानां शतं ।
पत्तीनां शतकोटिनाशसमये त्वेका कबंधा नृतिः ।
एवं कोटिकबंध नर्तनविधौ एका ध्वनि किंकिणेः ।
विंशत्ताः प्रहरार्धतो रघुपतेः कोदंडघंटारणे ॥ ५८ ॥
तदा खे कौतुकं द्रष्टुं समाजग्मुः सुरा मुदा ।
गंधर्वाः किन्नरा यक्षा विमानशतसंस्थिताः ॥ ५९ ॥
तदाऽशनिध्वजं रम्यं बाणैश्चिच्छेद रावणः ।
तं दृष्ट्वा रामचंद्रोऽपि ध्वजहीनं रथं निजम् ॥ २६० ॥
मारुतिं प्राह वेगेन क्षणं तिष्ठ ध्वजोपरि ।
तथेत्युक्त्वा मारुतिः स तालमुत्पाट्य वेगतः ॥ ६१ ॥
गत्वा रामरथे दिव्ये तस्मिन्तस्थौ स्वयं मुदा ।
तं मारुतिध्वजं दृष्ट्वा रावणः समरांगणे ॥ ६२ ॥
तालं छत्रं मातलिन तुरगान्वायुनंदनम् ।
ऐन्द्रं धनुः तच्चिच्छेद नवबाणैस्त्वरान्वितः ॥ ६३ ॥
वातात्मजमातलिनौ मूर्च्छितौ पतितौ भुवि ।
क्षणमात्रेण स्वस्थोऽभूत् तदा स वायुनंदनः ॥ ६४ ॥
तदा रामो वायुपुत्र स्कन्धे स्थित्वा रणाजिरे ।
चकार तुमुलं युद्धं रावणेन भयावहम् ॥ ६५ ॥
रावणः परिघेणेव संताड्य मारुतिं हृदि ।
चकार मूर्च्छित वेगात् पपात स पुनर्भुवि ॥ ६६ ॥
तदा सस्मार रामोऽपि स्वरतह्ं समरांगणे ।
तवद्‌रथः क्षणादेवाययौ खादग्रतः स्थितः ॥ ६७ ॥
दारुकः सारथिर्यत्र यत्र शस्त्राण्यनेकशः ।
गदा पद्मं तु यत्रास्ति सर्वदा गरुडो ध्वजे ॥ ६८ ॥
यस्मिन्च्छैव्यश्च सुग्रीवः तथा चैव बलाहकः ।
मेघपुष्पश्च चत्वारो वायुवेगा हयोत्तमाः ॥ ६९ ॥
यत्र छत्रं वरं दिव्यं हेमदण्डं विराजते ।
चामरे द्वे शुभे यत्र शाङ्‌र्ग स्वं धनुराददे ॥ २७० ॥
ततो रामः शरैस्तीक्ष्णैः दशास्यस्य रथं क्षणात् ।
चकार चूर्णं साश्वं तं रावणं चाप्यतर्जयत् ॥ ७१ ॥
तदाऽन्यररथमारूढो रावणो राघवं ययौ ।
ततो रामः शरैस्तीक्ष्णैः दशानन शिरांसि सः ॥ ७२ ॥
चिच्छेद तानि गगने गत्वा तोषयुतानि हि ।
रामहस्तान्मृतिर्जाताऽस्माकं चेति विचिंत्य च ॥ ७३ ॥
वंदनं कर्तुकामानि गगनाच्च रणाजिरे ।
सस्मितानि पतन्ति स्म राघवस्य पदोपरि ॥ ७४ ॥
रामः शिरांसि दृष्ट्वाऽथ विदीर्णास्यानि खात्पुनः ।
मां हन्तुं प्रदवंतीति मत्वा भीत्या व्यताडयत् ॥ ७५ ॥
शरौघैः शतशः शीघ्रं तदद्‍‌भुतं इवाभवत् ।
शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसाम् ॥ ७६ ॥
शतमूर्ध्नो रावणस्य चैकोत्तरसहस्रकम् ।
छिन्नं तत्कल्पभेदेन वदंतीत्यपि केचन ॥ ७७ ॥
दृष्ट्वा तु रावणस्यान्तं विभीषणमतेन सः ।
नाभिदेशेऽमृतं तस्य कुण्डलाकार संस्थितम् ॥ ७८ ॥
पावकास्त्रेण तच्छीघ्रं शोषयामास राघवः ।
ततं शिरांसि वाहून् चिच्छेद रावणस्य सः ॥ ७९ ॥
एकेन मुख्यशिरसा बाहुभ्यां रावणो बभौ ।
तयोर्युद्धं अभूत् घोरं तुमुलं रोमहर्षणम् ॥ २८० ॥
ततो दारुकवाक्येन मर्मदेशे व्यताडयत् ।
ब्रह्मास्त्रेण रघुश्रेष्ठः समरे दशकंधरम् ॥ ८१ ॥
स शरो हृदयं भित्त्वा हत्वा तं तु दशाननम् ।
रामतूणीरमाविश्य मेने स कृतक्टुत्यताम् ॥ ८२ ॥
रावणस्य च देहोत्थं ज्योतिरादित्यवत्स्फुरत् ।
प्रविवेश रघुश्रेष्ठं देवानां पश्यतां सताम् ॥ ८३ ॥
तदा देवास्तुष्टवुस्तं ववर्षुः पुष्पवृष्टिभिः ।
नेदुःखे देववाद्यानि ननृतुश्चाप्सरोगणाः ॥ ८४ ॥
तदा मंदोदरी भर्त्रा सह देहं विसृज्य सा ।
ययौ वैकुण्ठभवनं रावणेन मुदान्विता ॥ ८५ ॥
ततो विभीषणेनैव रामो रावणसत्क्रियाम् ।
कारयित्वा लक्ष्मणेन लंकायां तं विभीषणम् ॥ ८६ ॥
नीत्वाऽभिषेचयित्वाऽथ न्यासभूतां तदंतिके ।
वायुपुत्रकृतां लंकां मोचयामास राक्षसात् ॥ ८७ ॥
विभीषणादिभिः शीघ्रं अशोकं प्रेष्य मारुतिम् ।
सीतायै सकलं वृत्तं श्रावयामास राघवः ॥ २८८ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे एकादशः सर्गः ॥ ११ ॥


GO TOP