॥ श्रीमद् अध्यात्मरामायण ॥

॥ किष्किन्धाकाण्ड ॥

॥ प्रथमः सर्ग: ॥

श्रीमहादेव उवाच
ततः सलक्ष्मणो रामः शनैः पम्पासरस्तटम् ।
आगत्य सरसां श्रेष्ठां दृष्ट्वा विस्मयमाययौ ॥ १ ॥
क्रोशपात्रं सुविस्तीर्णं अगाधामलशम्बरम् ।
उत्फुल्लाम्बुजकह्लार कुमुदोत्पलमण्डितम् ॥ २ ॥
हंसकारण्डवाकीर्णं चक्रवाकादिशोभितम् ।
जलकुक्कुटकोयष्टि क्रौञ्चनादोपनादितम् ॥ ३ ॥
नानापुष्पलताकीर्णं नानाफलसमावृतम् ।
सतां मनःस्वच्छजलं पद्मकिञ्जल्कवासितम् ॥ ४ ॥
तत्रोपस्पृश्य सलिलं पीत्वा श्रमहरं विभुः ।
सानुजः सरसस्तीरे शीतलेन पथा ययौ ॥ ५ ॥
ऋष्यमूकगिरेः पार्श्वे गच्छन्तौ रामलक्ष्मणौ ।
धनुर्बाणकरौ दान्तौ जटावल्कलमण्डितौ ।
पश्यन्तौ विविधान् वृक्षान् गिरेः शोभां सुविक्रमौ ॥ ६ ॥
सुग्रीवस्तु गिरेर्मूर्ध्नि चतुर्भिः सह वानरैः ।
स्थित्वा ददर्श तौ यान्तौ आरुरोह गिरेः शिरः ॥ ७ ॥
भयादाह हनूमन्तं कौ तौ वीरवरौ सखे ।
गच्छ जानीहि भद्रं ते वटुर्भूत्वा द्विजाकृतिः ॥ ८ ॥
वालिना प्रेषितौ किंवा मां हन्तुं समुपागतौ ।
ताभ्यां सम्भाषणं कृत्वा जानीहि हृदयं तयोः ॥ ९ ॥
यदि तौ दुष्टहृदयौ संज्ञां कुरु कराग्रतः ।
विनयावनतो भूत्वा एवं जानीहि निश्चयम् ॥ १० ॥
तथेति वटुरूपेण हनुमान् समुपागतः ।
विनयावनतो भूत्वा रामं नत्वेदमब्रवीत् ॥ ११ ॥
कौ युवां पुरुषव्याघ्रौ युवानौ वीरसम्मतौ ।
द्योतयन्तौ दिशः सर्वाः प्रभया भास्कराविव ॥ १२ ॥
युवां त्रैलोक्यकर्तारौ इति भाति मनो मम ।
युवां प्रधानपुरुषौ जगद्धेतु जगन्मयौ ॥ १३ ॥
मायया मानुषाकारौ चरन्तौ इव लिलया ।
भूभारहरणार्थाय भक्तानां पालनाय च ॥ १४ ॥
अवतीर्णौ इह परौ चरन्तौ क्षत्रियाकृती ।
जगत्स्थितिलयौ सर्गं लीलया कर्तुमुद्यतौ ॥ १५ ॥
स्वतन्‍त्रौ प्रेरकौ सर्व हृदयस्थाविहेश्वरौ ।
नरनारायणौ लोके चरन्तौ इति मे मतिः ॥ १६ ॥
श्रीरामो लक्ष्मणं प्राह पश्यैनं वटुरूपिणम् ।
शब्दशास्त्रमशेषेण श्रुतं नूनमनेकधा ॥ १७ ॥
अनेन भाषितं कृत्स्नं न किञ्चित् अपशब्दितम् ।
ततः प्राह हनूमन्तं राघवो ज्ञानविग्रहः ॥ १८ ॥
अहं दाशरथी रामः त्वयं मे लक्ष्मणोऽनुजः ।
सीतया भार्यया सार्धं पितुर्वचनगौरवात् ॥ १९ ॥
आगतस्तत्र विपिने स्थितोऽहं दण्डके द्विज ।
तत्र भार्या हृता सीता रक्षसा केनचिन्मम ।
तां अन्वेष्टुं इहायातौ त्वं को वा कस्य वा वद ॥ २० ॥
वटुरुवाच
सुग्रीवो नाम राजा यो वानराणां महामतिः ।
चतुर्भिर्मन्‍त्रिभिः सार्धं गिरिमूर्धनि तिष्ठति ॥ २१ ॥
भ्राता कनियान् सुग्रीवो वालिनः पापचेतसः ।
तेन निष्कासितो भार्या हृता तस्येह वालिना ॥ २२ ॥
तद्‌भयात् ऋष्यमूकाख्यं गिरिमाश्रित्य संस्थितः ।
अहं सुग्रीवसचिवो वायुपुत्रो महामते ॥ २३ ॥
हनुमान्नाम विख्यातो ह्यञ्जनीगर्भसम्भवः ।
तेन सख्यं त्वया युक्तं सुग्रीवेण रघूत्तम ॥ २४ ॥
भार्यापहारिणं हन्तुं सहायस्ते भविष्यति ।
इदनीमेव गच्छाम आगच्छ यदि रोचते ॥ २५ ॥
श्रीराम उवाच
अहमप्यागतस्तेन सख्यं कर्तुं कपीश्वर ।
सख्युस्तस्यापि यत्कार्यं तत्करिष्याम्यसंशयम् ॥ २६ ॥
हनुमान् स्वस्वरूपेण स्थितो राममथाब्रवीत् ।
आरोहतां मम स्कन्धौ गच्छामः पर्वतोपरि ॥ २७ ॥
यत्र तिष्ठति सुग्रीवो मन्‍त्रिभिर्वालिनो भयात् ।
तथेति तस्यारुरोह स्कन्धं रामोऽथ कक्ष्मणः ॥ २८ ॥
उत्पपात गिरेर्मूर्ध्नि क्षणादेव महाकपिः ।
वृक्षच्छायां समाश्रित्य स्थितौ तौ रामलक्ष्मणौ ॥ २९ ॥
हमुमानपि सुग्रीवं उपगम्य कृताञ्जलिः ।
व्येतु ते भयमायातौ राजन् श्रीरामलक्ष्मणौ ॥ ३० ॥
शीघ्रमुत्तिष्ठ रामेण सख्यं ते योजितं मया ।
अग्निं साक्षिणमारोप्य तेन सख्यं द्रुतं कुरु ॥ ३१ ॥
ततोऽतिहर्षात्सुग्रीवः समागम्य रघूत्तमम् ।
वृक्षशाखां स्वयं छित्वा विष्टराय ददौ मुदा ॥ ३२ ॥
हनूमाँल्लक्ष्मणायादात् सुग्रीवाय च लक्ष्मणः ।
हर्षेण महताविष्टाः सर्व एवावतस्थिरे ॥ ३३ ॥
लक्ष्मणस्त्वब्रवीत्सर्वं रामवृत्तान्तमादितः ।
वनवासाभिगमनं सीताहरेणमेव च ॥ ३४ ॥
लक्ष्मणोक्तं वचः श्रुत्वा सुग्रीवो राममब्रवीत् ।
अहं करिष्ये राजेन्द्र सीतायाः परिमार्गणम् ॥ ३५ ॥
सहाय्यमपि ते राम करिष्ये शत्रुघातिनः ।
शृणु राम मया दृष्टं किञ्चित्ते कथवाम्यहम् ॥ ३६ ॥
एकदा मन्‍त्रिभिः सार्धं स्थितोऽहं गिरिमूर्धनि ।
विहायसा नीयमानां केनचित् प्रमदोत्तमाम् ॥ ३७ ॥
क्रोशन्तीं रामरामेति दृष्ट्वास्मान् पर्वतोपरि ।
आमुच्याभरणान्याशु स्वोत्तरीयेण भामिनी ॥ ३८ ॥
निरीक्ष्याधः परित्यज्य क्रोशन्ती तेन रक्षसा ।
नीताहं भूषणान्याशु गुहायामक्षिपं प्रभो ॥ ३९ ॥
इदानीमपि पश्य त्वं जानीहि तव वा न वा ।
इत्युक्‍त्वानीय रामाय दर्शयामास वानरः ॥ ४० ॥
विमुच्य रामस्तद्‍दृष्ट्वा हा सीतेति मुहुर्मुहुः ।
हृदि निक्षिप्य तत्सर्वं रुरोद प्राकृतो यथा ॥ ४१ ॥
अश्वास्य राघवं भ्राता लक्ष्मणो वाक्यमब्रवीत् ।
अचिरेणैव ते राम प्राप्यते जानकी शुभा ।
वानरेन्द्रसहायेन हत्वा रावणमाहवे ॥ ४२ ॥
सुग्रीवोऽप्याह हे राम प्रतिज्ञां करवाणि ते ।
समरे रावणं हत्वा तव दास्यामि जानकीम् ॥ ४३ ॥
ततो हनूमान्प्रज्वाल्य तयोरग्निं समीपतः ।
तावुभौ रामसुग्रीवौ अग्नौ साक्षिणि तिष्ठति ॥ ४४ ॥
बाहू प्रसार्य चालिङ्‌ग्य परस्परमकल्मषौ ।
समीपे रघुनाथस्य सुग्रीवः समुपाविशत् ॥ ४५ ॥
स्वोदन्तं कथयामास प्रणयाद् रघुनायके ।
सखे शृणु ममोदन्तं वालिना यत्कृतं पुरा ॥ ४६ ॥
मयपुत्रोऽथ मायावी नाम्ना परमदुर्मदः ।
किष्किन्धां समुपागत्य वालिनं समुपाह्वयत् ॥ ४७ ॥
सिंहनादेन महता वाली तु तदमर्षणः ।
निर्ययौ क्रोधताम्राक्षो जघान दृढमुष्टिना ॥ ४८ ॥
दुद्राव तेन संविग्नो जगाम स्वगुहां प्रति ।
अनुदुद्राव तं वाली मायाविनमहं तथा ॥ ४९ ॥
ततः प्रविष्टमालोक्य गुहां मायाविनं रुषा ।
वाली मामाह तिष्ठ त्वं बहिर्गच्छाम्यहं गुहाम् ।
इत्युक्‍त्वाविश्य स गुहां मासमेकं न निर्ययौ ॥ ५० ॥
मासादूर्ध्वं गुहाद्वारान् निर्गतं रुधिरं बहु ।
तद्‍दृष्ट्वा परितप्ताङ्‌गो मृतो वालीति दुःखितः ॥ ५१ ॥
गुहाद्वारि शिलामेकां निधाय गृहामागतः ।
ततोऽब्रवं मृतो वाली गुहायां रक्षसा हतः ॥ ५२ ॥
तच्छ्रुत्वा दुःखिताः सर्वे मामनिच्छन्तमप्युत ।
राज्येऽभिषेचनं चक्रुः सर्वे वानरमन्‍त्रिणः ॥ ५३ ॥
शिष्टं तदा मया राज्यं किञ्चित्कालमरिन्दम ।
ततः समागतो वाली मामाह परुषं रुषा ॥ ५४ ॥
बहुधा भर्त्सयित्वा मां निजघान च मुष्टिभिः ।
ततो निर्गत्य नगरात् अधावं परया भिया ॥ ५५ ॥
लोकान् सर्वान्परिक्रम्य ऋष्यमूकं समाश्रितः ।
ऋषेः शापभयात्सोऽपि नायातीमं गिरिं प्रभो ॥ ५६ ॥
तदामि मम भार्यां स स्वयं भुङ्‌क्ते विमूढधीः ।
अतो दुःखेन सन्तप्तो हृतदारो हृताश्रयः ॥ ५७ ॥
वसाम्यद्य भवत्पाद संस्पर्शात्सुखितोऽस्म्यहम् ।
मित्रदुःखेन सन्तप्तो रामो राजीवलोचनः ॥ ५८ ॥
हनिष्यामि तव द्वेष्यं शीघ्रं भार्यापहारिणम् ।
इति प्रतिज्ञामकरोत् सुग्रीवस्य पुरस्तदा ॥ ५९ ॥
सुग्रीवोऽप्याह राजेन्द्र वाली बलवतां बली ।
कथं हनिष्यति भवान् देवैरपि दुरासदम् ॥ ६० ॥
शृणु ते कथयिष्यामि तद्‌बलं बलिनां वर ।
कदाचिद् दुन्दुभिर्नाम महाकायो महाबलः ॥ ६१ ॥
किष्किन्धां अगमद् राम महामहिषरूपधृक् ।
युद्धाय वालिनं रात्रौ समाह्वपत भीषणः ॥ ६२ ॥
तच्छ्रुत्वासहमानोऽसौ वाली परमकोपनः ।
महिषं शृङ्‌गयोर्धृत्वा पातयामास भूतले ॥ ६३ ॥
पादेनैकेन तत्कायं आक्रम्यास्य शिरो महत् ।
हस्ताभ्यां भ्रामयंश्छित्त्वा तोलयित्वाक्षिपद्‌भुवि ॥ ६४ ॥
पपात तच्छिरो राम मातङ्‌गाश्रमसन्निधौ ।
योजनात्पतितं तस्मात् मुनेराश्रममण्डले ॥ ६५ ॥
रक्तवृष्टिः पपातोच्चैः दृष्ट्वा तां क्रोधमूर्च्छितः ।
मातङ्‌गो वालिनं प्राह यद्यागन्तासि मे गिरिम् ॥ ६६ ॥
इतः परं भग्नशिरा मरिष्यसि न संशयः ।
एवं शप्तस्तदारभ्य ऋष्यमूकं न यात्यसौ ॥ ६७ ॥
एतज्ज्ञात्वाहमप्यत्र वसामि भयवर्जितः ।
राम पश्य शिरस्तस्य दुन्दुभेः पर्वतोपमम् ॥ ६८ ॥
तत्क्षणेपणे यदा शक्तः शक्तस्त्वं वालिनो वधे ।
इत्युक्‍त्वा दर्शयामास शिरस्तद्‌गिरिसन्निभम् ॥ ६९ ॥
दृष्ट्वा रामः स्मितं कृत्वा पादाङ्‌गुष्ठेन चाक्षिपत् ।
दशयोजनपर्यन्तं तदद्‌भूतमिवाभवत् ॥ ७० ॥
साधु साध्विति सम्प्राह सुग्रीवो मन्‍त्रिभिः सह ।
पुनरप्याह सुग्रीवो रामं भक्तपरायणम् ॥ ७१ ॥
एते ताला महासाराः सप्त पश्य रघूत्तम ।
एकैकं चालयित्वासौ निष्पत्रान् कुरुतेऽञ्जसा ॥ ७२ ॥
यदि त्वमेकबाणेन विद्‍ध्वा छिद्रं करोषि चेत् ।
हतस्त्वया तदा वाली विश्वासो मे प्रजायते ।
तथेति धनुरादाय सायकं तत्र सन्दधे ॥ ७३ ॥
बिभेद च तदा रामः सप्त तालान्महाबलः ।
तालान्सप्त विनिर्भिद्य गिरिं भूमिं च सायकः ॥ ७४ ॥
पुनरागत्य रामस्य तूणीरे पूर्ववत्स्थितः ।
ततोऽपिहर्षात्सुग्रीवो राममाहातिविस्मितः ॥ ७५ ॥
देव त्वं जगतां नाथः परमात्मा न संशयः ।
मत्पूर्वकृतपुण्यौघैः सङ्‌गतोद्य मयास ह ॥ ७६ ॥
त्वां भजन्ति महात्मानः संसारविनिवृत्तये ।
त्वां प्राप्य मोक्षसचिवं प्रार्थयेऽहं कथं भवम् ॥ ७७ ॥
दाराः पुत्रा धनं राज्यं सर्वं त्वन्मायया कृतम् ।
अतोऽहं देवदेवेश नाकाङ्‌क्षेऽन्यत्प्रसीद मे ॥ ७८ ॥
आनंदानुभवं त्वाद्य प्राप्तोहं भाग्यगौरवात् ।
मृदर्थं यतमानेन निधानमिव सत्पते ॥ ७९ ॥
अनाद्यविद्यासंसिद्धं बन्धनं छिन्नमद्य नः ।
यज्ञदानतपः कर्म पूर्तेष्टादिभिरप्यसौ ॥ ८० ॥
न जीर्यते पुनर्दार्ढ्यं भजते संसृतिः प्रभो ।
त्वत्पाददर्शनात्सद्यो नाशमेति न संशयः ॥ ८१ ॥
क्षणार्धमपि यच्चित्तं त्वयि तिष्ठत्यचञ्चलम् ।
तस्याज्ञानमनर्थानां मूलं नश्यति तत्क्षणात् ॥ ८२ ॥
तत्तिष्ठतु मनो राम त्वयि नान्यत्र मे सदा ॥ ८३ ॥
रामरामेति यद्वाणी मधुरं गायति क्षणम् ।
स ब्रह्महा सुरापो वा मुच्यते सर्वपातकैः ॥ ८४ ॥
नकाङ्‌क्षे विजयं राम न च दारसुखादिकम् ।
भक्तिमेव सदाकाङ्‌क्षे त्वयि बन्धविमोचनीम् ॥ ८५ ॥
त्वन्मायाकृतसंसारः त्वदंशोऽहं रघूत्तम ।
स्वपादभक्तिमादिश्य त्राहि मां भवसङ्‌कटात् ॥ ८६ ॥
पूर्वं मित्रार्युदासीनाः त्वन्मायावृतचेतसः ।
आसन्मेऽद्य भवत्पाद दर्शनादेव राघव ॥ ८७ ॥
सर्वं ब्रह्मैव मे भाति क्व मित्रं क्व च मे रिपुः ।
यावत्त्वन्मायया बद्धः तावद्‍गुणविशेषता ॥ ८८ ॥
सा यावदस्ति नानात्वं तावद्‌भवति नान्यथा ।
यावन्नानात्वमज्ञानात् तावत्कालकृतं भयम् ॥ ८९ ॥
अतोऽविद्यामुपास्ते यः सोऽन्धे तमसि मज्जति ।
मायामूलमिदं सर्वं पुत्रदारादिबन्धनम् ।
तदुत्सारय मायां त्वं दासीं तव रघूत्तम ॥ ९० ॥
त्वत्पादपद्मार्पितचित्तवृत्तिः -
त्वन्नामसङ्‌गीतकथासु वाणी ।
त्वद्‌भक्तसेवानिरतौ करौ मे
त्वदङ्‌गसङ्‌गं लभतां मदङ्‌गम् ॥ ९१ ॥
त्वन्मूर्तिभक्तान् स्वगुरुं च चक्षूः
पश्यत्वजस्रं स शृणोति कर्णः ।
त्वज्जन्मकर्माणि च पादयुग्मं
व्रजत्वजस्रं तव मन्दिराणि ॥ ९२ ॥
अङ्‌गानि ते पादरजोविमिश्र-
तीर्थानि बिभ्रत्वहिशत्रुकेतो ।
शिरस्त्वदीयं भवपद्मजाद्यैः-
जुष्टं पदं राम नमत्वजस्रम् ॥ ९३ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
किष्किन्धाकाण्डे प्रथमः सर्गः ॥ १ ॥

GO TOP