॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ चतुर्थः सर्गः ॥
[रामाचे शत्रुराजांशी युद्ध, विष्णूस वृंदेचा शाप]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

श्रीशिव उवाच -
अथ सीतायुतः श्रीमान् रामः साकेतसंस्थितः ।
बुभुजे विविधान् भोतान् राजसेवापरोऽभवत् ॥ १ ॥
शरत्कालाश्विने मासि जनकेन स्वमंत्रिणः ।
आह्वानाय च राजानं प्रेषितास्त्वरितं ययुः ॥ २ ॥
तान् आगतान् दशरथः शीघ्रं सत्कुट्य सादरम् ।
प्रपच्छागमने हेतुं तेऽपि नत्वा तमूचिरे ॥ ३ ॥
दीपावलि उत्सवार्थं त्वं स कुटुंबं समंत्रिणम् ।
पौरजानपदैः साकं आह्वयामास ते सुहृत् ॥ ४ ॥
तत्तेषां वचनं श्रुत्वा दूतान आज्ञापयन् नृपः ।
कथ्यतां नगरे राष्ट्रे गमनं मिथिलां प्रति ॥ ५ ॥
सुमुहूर्ते ततो राजा हस्त्यश्व-रथपत्तिभिः ।
पौरेऐः जानपदैः साकं ययौ करिविराजितः ॥ ६ ॥
राज्ञः पृष्ठे समाजग्मुः गजोपरि विराजिताः ।
राम-लक्ष्मण-भरत शत्रुघ्नास्ते स्वलंकृताः ॥ ७ ॥
कौसल्याद्या राजदारा स्नुषाभिस्ताः पृथक् पृथक् ।
रत्‍नमाणिक्य मुक्तादि शोधितसु वरासु च ॥ ८ ॥
करिणीषु समासीना वेष्टिता वेत्रपाणिभिः ।
धातृकाभिः स्वदादीभिः ययुः वस्त्रादिभूषिताः ॥ ९ ॥
आपतं नृपतिं श्रुत्वा जनकः पौरवासिभिः ।
प्रत्युज्जगाम् हर्षेण निनाय नगरीं प्रति ॥ १० ॥
वाद्यघोषनिनादैश्च दुंदुभीनां महस्वनैः ।
वारांगनानां नृत्याद्यैः गायकानां च गायनैः ॥ ११ ॥
मार्गे मार्गे महासौधा-रूढस्त्रीणं कदंबकैः ।
पुष्पवृष्तिभि विवर्षाभिः ययौ नृपगृहं नृपः ॥ १२ ॥
ततो गृहाणि रम्याणि पूरितान्यन्नवारिभिः ।
प्राविवेश नृपश्रेष्ठो जनकेनातिमानितः ॥ १३ ॥
ततो नानासमुत्साहैः मिष्ठानैः नृत्यगायनैः ।
वस्त्रैराभरणैः सर्वान् जामातॄश्च विशेषतः ॥ १४ ॥
मणिरत्‍नादिदीपैश्च मुहुर्नीराजनैरपि ।
जनकः पूजयामास दीपवल्यां महादिने ॥ १५ ॥
दीपोत्सवैः महापुण्यैः बल्लिराज्यं प्रवर्तते ।
आनंदः सर्वलोकानां मंगलानि गृहे गृहे ॥ १६ ॥
अभ्यंग उद्वर्त्नाद्यैश्च वरपक्वान्नभोजनैः ।
गो-दासदासीदानैश्च हस्त्यश्व रथपत्तिभिः ॥ १७ ॥
चकार तुष्टान् जामातॄन् जनको नृपतिं तथा ।
नृपपत्‍नी स्वदुहितॄर अयोध्यास्थादिकान् क्रमात् ॥ १८ ॥
ततः प्रश्तानं अकरोत् पुरीं दशरथो नृपः ।
ततो राजा दशरथः सैन्येन परिवेष्टितः ॥ १९ ॥
ययौ शनैः शनैः मार्ग सुहृन्मंत्रिपुरःसरः ।
एतस्मिन् अंतरे मार्गे सीतार्थं धनुषा पुरा ॥ २० ॥
भग्नमाना नृपतयः पूर्ववैरं अनुस्मरन् ।
असंख्याताः ससैन्यास्ते रुरुधुर्नृपतिं पति ॥ २१ ॥
तान्दृष्त्वा नृपतींश्चापि किं एतत् इति विह्वलः ।
मंत्रिभिः मंत्रयामास जनकः स्वजनैरपि ॥ २२ ॥
एतस्नि अंतरे रामः श्रुत्वा चिंतार्णवे निजम् ।
निमग्नं पितरं शीघ्रं ययौ लक्ष्मणसंयुतः ॥ २३ ॥
नत्वा दशरथं रामः किंचित् नम्र इदं जगौ ।
तात राजन्न कर्तव्या राजाऽऽलिंग्य रघुत्तमम् ॥ २४ ॥
प्राह षड्वार्षिको बालः त्वं कथं युद्धुमिच्छसि ।
अरण्ये सकुटुंबोऽहं वेष्टितोऽस्मि नृपाधमैः ॥ २६ ॥
अहमेव गमिष्यामि योद्धुं रक्षस्व वाहिनीम् ।
तत् तातवचनं श्रुत्वा रामस्तं पुनरब्रात् ॥ २७ ॥
यदा मे कुठितां शक्तिं पश्यसि त्वं रणांगणे ।
तदा कुरु मे साहाय्यं तवदत्र स्थिरो भव ॥ २८ ॥
स्वां वाहिनीं स्वक्टुंबां तात त्वं रक्ष मद्‍गिरा ।
इत्युक्त्वा पितरं नत्वा सज्जीकृत्य शरासनम् ॥ २९ ॥
जगाम रथमारूढो लक्ष्मणोऽपि तमन्वगात् ।
तौ दृष्ट्वा भरतश्चाथ शत्रुघ्नोऽपि जगाम सः ॥ ३० ॥
तान् दृष्ट्वा दशसाहत्रीं राजसेनामचिदयत् ।
ततस्ते पार्थिवाः सर्वे रथस्थं तं रघुत्तमम् ॥ ३१ ॥
निरीक्ष्य दर्शयामासुः स्वसेनायां परस्परम् ।
समागोतोऽयं श्रीरामः स्वपितृस्यन्दनस्थितः ॥ ३२ ॥
एष वै सुमहत् श्रीमान् विटपी संप्रकाशते ।
विराजत्युज्ज्वलस्कंधः कोविदारध्वजो रथे ॥ ३३ ॥
दशरथाज्ञया तस्य रथे शस्त्रौघपूरिते ।
ध्वजबद्ध पताकोच्च कोविदारे स्थितस्त्वयम् ॥ ३४ ॥
एवं वदंतः ते सर्वे रथैर्योद्धुं समाययुः ।
ततोऽभवन् महायुद्धं गोरं तच्च परस्परम् ॥ ३५ ॥
अस्त्रैः शस्त्रैर्भिन्दिपालैः शतघीभिः परश्वधैः ।
रामस्य सैनिकान् मुक्त्वा राजानो राममन्वयुः ॥ ३६ ॥
ते ववर्षुः महाशस्त्रैः बाणैर्व्याप्य दिगंबरम् ।
तान् दृष्ट्वा नृपतीन् सर्वान् राममेवाभिसम्मुखान् ॥ ३८ ॥
लक्ष्मणः प्राद्रवच्छीघ्र भरतोऽपि च शत्रुहा ।
स्वामितारकवत् घोरं आसीत् युद्धं सुदारुणम् ॥ ३८ ॥
तोअतो नृपतयः सर्वे शस्त्रौघैः भरतं तदा ।
ते विध्वा मूर्च्छितं चक्रुः स्यंदनात् पतितो भुवि ॥ ३९ ॥
भरतं पतितं दृष्ट्वा शत्रुघ्नं विव्यधिः शरैः ।
तं चापि विरथं कृत्वा दुद्रुवुर्लक्ष्मणं नृपाः ॥ ४० ॥
ववर्षुर्निशितैः बाणैः चक्रुस्तुं व्याकुलं रणे ।
तथैव राघवं चापि शरैः आच्छादयन् नृपाः ॥ ४१ ॥
ततः श्रीरामचंद्रोऽपि लीलया समरांगणे ।
पश्यत्सु जालरंध्रैश्च कौसल्याद्यासु मातृषि ॥ ४२ ॥
सीतया भ्रातृपत्‍नीषु पित्रा मंत्रिकुलेष्वपि ।
टणत्कृत्य महच्चाप वायव्यास्त्रेण तान् नृपान् ॥ ४३ ॥
शुष्कपर्णवत् उद्धूय प्राक्षिपदब्धिरोधसि ।
मोहनास्त्रेण शेषान् हि मोहयामास राघवः ॥ ४४ ॥
लुलुण्ठ सकलं सैन्यं हस्त्यश्व रथसंकुलम् ।
ततो मूर्छितमालोक्य भरतं कैकयी रणे ॥ ४५ ॥
करीण्याःशीघ्रमुत्प्लुत्य शुशोचांके निधाय तम् ।
ततो दशरथश्चापि कौसल्याद्या नृपस्त्रियः ॥ ४६ ॥
सांत्वयित्वाऽथ तान् रामः सौमित्रिं प्राह वेगतः ।
इतो विदूरे सौमित्रे मुद्‍गलस्य तपोनिधेः ॥ ४७ ॥
आश्रमोऽस्ति तत्र त्वं गत्वा वल्लीः शुभावहाः ।
संजीविन्यादिकाः सर्वां श्रीघ्रमानय लक्ष्मण ॥ ४८ ॥
मुनेस्तपःप्रभावेण बहवः संति तत्र वै ।
तथेति लक्ष्मणो गत्वा स्यंदनस्थः त्वरान्वितः ॥ ४९ ॥
अवरुह्यः रथाद्‍वीरः संविविशाश्रमं मुनेः ।
निवारितः स वटुकैः समाधिविरमे मुनेः ॥ ५० ॥
यांचा कृत्वा शुभा वल्लीः प्राप्स्यसे त्वं न चान्यथा ।
कालातिक्रमभीत्या स लक्ष्मणोऽपि रघूत्तमम् ॥ ५१ ॥
वृत्तं निवेदयामास पुनस्तं राघवोऽब्रवीत् ।
निवारयित्वा वटुकान् विना शस्त्रैस्त्वरान्वितः ॥ ५२ ॥
आनय त्वं शुभा वल्लीः मा शंकां च मुनेः कुरु ।
सोऽपि रामाज्ञया गत्वा निवार्य वटुकान् क्षणात् ॥ ५३ ॥
बलात्कारेण ता वाल्लीः गृहित्वा राममागतः ।
भरतं जीवयामास विशल्यं कृत्य सानुजम् ॥ ५४ ॥
ततः समुत्थितं दृष्ट्वा कैकेयी भरतं मुदा ।
संतोषं परमं चक्रे कैकेयी पितरं तदा ॥ ५५ ॥
राघवं सा समालिंग्य भरतं परिषस्वजे ।
ततो राजाऽतिसंतुष्टः समालिंग्य रघुत्तमम् ॥ ५६ ॥
हर्षान् नानोत्सवान् तत्र चकार गुरुणा द्विजैः ।
ततस्ते वटवः सर्वे हाहाकृत्य मुनीश्वरम् ॥ ५७ ॥
वृत्तं निवेदयामासुः समाधिविरमे मुनेः ।
स मुद्‍गलोऽपि तत् श्रुत्वा विस्मयेनाब्रवीत् वटून् ॥ ५८ ॥
को लक्ष्मणः किमर्थं कस्याज्ञया सोऽहरत् द्रुमं ।
विदित्वा सकलं वृत्तं आगच्छध्वं त्वरान्विताः ॥ ५९ ॥
तथेति ते दशरथ्ं गत्वा प्रोचुस्त्वरान्विताः ।
कस्त्वं किमर्थं आनीता वल्ल्यो लक्ष्मणहस्ततः ॥ ६० ॥
तान् दृष्ट्वा क्रोधसंयुक्तान् राजा चिंतातुरोऽब्रवीन् ।
अहं दशरथो वल्ल्यो भरतार्थं ममाज्ञया ॥ ६१ ॥
आनीता मुनये सर्वे ब्रुवध्वं नतिपूर्वकाः ।
अहमप्यागमिष्यामि मुनिं सांत्वयितुं जवात् ॥ ६२ ॥
ततस्ते मुनये सर्वं ब्रुवध्वं नृपनामाद्यवर्णयन् ।
श्रुत्वा रामस्य पितरं क्रोधं संहृत्य वेगतः ॥ ६३ ॥
दर्शनार्थं मतिं चक्रे तावत्‍दृष्टो नृपः पुरः ।
बद्ध्वा करसंपुटं तं प्रणमंतं नृपोत्तमम् ॥ ६४ ॥
प्रार्थयन्तं समुत्थाप्य पूजयामास सादरम् ।
रामाद्या नृपपुत्राश्च कौसल्याद्या नृपस्त्रियः ॥ ६५ ॥
प्रणम्याथ मुनिं स्तुत्वा तस्तुः मुद्‍गलभार्यया ।
सुमत्या पूजिताः सर्वा राजदारा विशेषतः ॥ ६६ ॥
ततो दशरथः प्राह मुनिं स्तुत्वा पुनः पुनः ।
मयाऽपराधितं राज्ञा क्षम्यतां तत्त्वया मुने ॥ ६७ ॥
मुनिर्दशरथं प्राह ह्युपकारो महान् कृतः ।
नोचेत् कथं दर्शनं मे ध्यानस्थस्य सुतस्य ते ॥ ६८ ॥
श्रीरामस्य ससीतस्य नृवेषस्य हि मायया ।
इति तस्य वचं श्रुत्वा दृष्ट्वा तुष्टं मुनीश्वरम् ॥ ६९ ॥
उवाच नृपतिर्नत्वा किंचित् प्रष्टुमना मुनिम् ।
ज्ञात्वा नृपस्य स निः हृद्‍गतं प्रष्टुकामुकम् ॥ ७० ॥
एकांते तुलसीखंड नीत्वा तं नृपमेव सः ।
पप्रच्छ कीं ते वांछाऽस्ति वदस्व कथ्यते मया ॥ ७१ ॥
तमब्रवीत् दशरथः श्रीरामस्य हि भावि य ।
हिताहितं सुविस्तारं ज्ञातुमिच्छे मुनीश्वर ॥ ७२ ॥
नृपस्य वचनं श्रुत्वा राजानं मुनिरब्रवीत् ।
मुद्‍गल उवाच -
साक्षात् नारायणो विष्णुः सर्वव्यापी जनार्दनः ॥ ७३ ॥
भूभारहरणार्थाय तवापि वरदानतः ।
अवतीर्णोऽस्ति त्वत्तो हि तव पुण्यमहोदयात् ॥ ७४ ॥
अधर्मस्य विनाशं च वृद्धिं धर्मस्य साअदरम् ।
निर्दलनं हि दुष्टानां सज्जनानां च पालयम् ॥ ७५ ॥
करिष्यति महानेष तव पुत्रो रघुत्तमः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ ७६ ॥
करिष्यति महद् राज्यं गते त्वयि दिवं नृप ।
सप्तद्वीप पतिश्चायं भविष्यति नृपो महान् ॥ ७७ ॥
द्वौं तौ पविष्यतः पुत्रौ चतस्रश्च स्नुषास्तथा ।
चतुर्विंशति पौत्राश्च पौत्र्यस्तु द्वादशैव हि ॥ ७८ ॥
असंख्याताः प्रपौत्राद्या भविष्यन्ति सुतस्य ते ।
कियत् दिनैरयं वृंदा शापं भोक्तुं हि दंडके ॥ ७९ ॥
गमिष्यति ततः पश्चान् महद्‍राज्यं करिष्यति ।
तत्तस्य वचनं श्रुत्वा नृपः प्राह मुनिं पुनः ॥ ८० ॥
दशरथ उवाच -
का वृंदा कस्य भार्या सा कथं शप्तो हरिस्तया ।
तत् सर्वं विस्तरेणैव कथयस्व मुनीश्वर ॥ ८१ ॥
मुद्‍गल उवाच -
पुरा जलंधरेणासीत् युद्धं श्रीशंकरस्य च ।
वृंदापातिव्रत बलार् रक्षितं विष्णुना तदा ॥ ८२ ॥
ज्ञात्वा तद्दर्शितपथा पार्वत्या धर्षणादिना ।
जालाम्धरपुरं गत्वा तद्देत्यपुटभेदनम् ॥ ८३ ॥
पातिव्रतस्य भंगाय वृंदायाश्चाकरोन्मतिम् ।
अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ॥ ८४ ॥
भर्तारं महिषारूढं तैलाभ्यक्तं दिगंबरम् ।
दक्षिणाशागतं मुण्डं तमसाऽप्याऽवृतं तदा ॥ ८५ ॥
ततं प्रबुद्धासा बाला तं स्वप्नं स्वं विचिन्वती ।
कुत्रापि नालभच्छर्म गोपुराट्टालभूमिषु ॥ ८६ ॥
ततः सखीद्वययुता नगरोद्यानमागता ।
वनाद्वनांतरं याता ददर्शातीव भीषणौ ॥ ८७ ॥
राक्षसौ सिंहवन्नादौ दंष्ट्रानयनभीषणौ ।
तौ दृष्ट्वा विह्वलाऽतीव पयालयनपरा तदा ॥ ८८ ॥
ददर्श तापसं शांतं सशिष्यं मौनमास्थितम् ।
ततस्तत्कठमासम्य निजबाहुलतां भयात् ॥ ८९ ॥
मुनि मां रक्ष शरणं आगतामित्यभाषत ।
तत्तस्या वचनं श्रुत्वा ध्यानम् मुक्त्वा स वै मुनिः ॥ ९० ॥
उन्मील्य नयने वृंदा हृदि दृष्ट्वाऽब्रवीद्वचः ।
तिष्ठ त्वं बालिके ह्यत्र मा भयं कुरु सर्वथा ॥ ९१ ॥
इत्युक्त्वा पुरतो दृष्ट्वा राक्षसौ मुनिसत्तमः ।
निर्भर्त्सयंतौ हुंकारैः क्रोधेन महता वृतः ॥ ९२ ॥
तौ तत् हुंकारतस्त्रस्तौ पलायनपरौ तदा ।
तत्सामर्थ्यं मुनेर्दृष्ट्वा वृंदा सा विस्मयावृता ॥ ९३ ॥
प्रणम्य दंडवत् भूमौ मुनिं वचनमब्रवीत् ।
वृंदा उवाच
रक्षिताऽद्य त्वया घोरात् भयात् अस्मात् कृपानिधे ॥ ९४ ॥

किंचित् विज्ञप्तुमिच्छामि कृपया त्द् वदस्व माम् ।
जलंधरो हि मे भर्ता रुद्रं योद्धुं गतः प्रभो ॥ ९५ ॥
सतत्रास्ते कथं युद्धे तन्मे कथय सुव्रत ।
मुनिस्तत् वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ॥ ९६ ॥
तावत् कपी समायातौ तं प्रणम्याग्रतः स्थितौ ।
ततस्तद् भूलतासंज्ञा प्रयुक्तौ गगनांतरात् ॥ ९७ ॥
गत्वा क्षणार्धाद् आगत्य वानरौ अग्रतः स्थितौ ।
शिरःकबंधहस्तौ च दृष्ट्वाऽब्धितनयस्य सा ॥ ९८ ॥
पपात मूर्च्छिता भूमौ भर्तृव्यसनदुःखिता ।
कमंडलुजलैः सिक्ता मुनिनाऽश्वासिता तदा ॥ ९९ ॥
रिदित्वा सुचिरं वृंदा तं मुनिं वाक्यमब्रवीत् ।
कृपानिधे मुनिश्रेष्ठ जीवयैनं मुने प्रियम् ॥ १०० ॥
त्वं एव अस्य पुनः शक्तो जीवनाय मतो मम ।
मुनिरुवाच -
नायं जीवयितुः शक्यो रुद्रेण निहतो युधि ॥ १०१ ॥
तथापि त्वत्कृपाविष्टः पुनः संजीवयाम्यहम् ।
इत्युक्त्वांतर्दधे यावत् तावत् सागरनंदनः ॥ २ ॥
वृंदां आलिंग्य तत्वक्त्रं चुचुंब प्रीतमानसः ।
अथ वृंदाऽपि भर्तारं दृष्ट्वा हर्षितमानसा ॥ ३ ॥
रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम् ।
कदाचित् सुर्ततस्यांते दृष्ट्वा विष्णुं तमेव हि ॥ ४ ॥
निर्भर्त्स्य क्रोधसंयुक्ता वृंदा वचनमब्रवीत् ।
वृंदोवाच -
तव ज्ञातं हरे शीलं परदाराभिगामिनः ॥ ५ ॥
त्वां ज्ञातोऽसि मया सम्यक् मायी प्रत्यक्षतापसः ।
यौ त्वया मायया द्वै तौ स्वकीयौ दर्शितौ मम ॥ ६ ॥
तौ एव राक्षसौ भूत्वा तव भार्यां विनेष्यतः ।
जयविजय नामानौ ज्ञातौ कृत्रिमरूपिणौ ॥ ७ ॥
त्वं चापि भार्यादुःखार्तो ब्वने कपिसहायवान् ।
भव सर्वेश्वरोऽपि त्वं यत्ते शिष्यौ समागतौ ॥ ८ ॥
पुण्यशीलशुशीलौ तौ कपिरूपधरावुभौ ।
अतस्ते वानरैः अस्तु संगतिर्दंडके वने ॥ ९ ॥
वटुरूपधरः शिष्यो यस्तार्क्ष्यश्चेति वेद्महम् ।
इत्युक्त्वा सा तदा वृंदा प्रविवेश हुताशनम् ॥ ११० ॥
मुद्‍गल उवाच -
ततो जालंधरौ दैत्यो निहतो युधि शंभिना ।
तस्मात् राजन् इदानीं तौ कुंभकर्णदशाननौ ॥ ११ ॥
जातौ सागरमध्ये तओ लंकायां अधुना स्थितौ ।
नीत्वा जनकजां बालां पंचवट्यास्तु मातृवत् ॥ १२ ॥
पालयित्वाऽथ षण्मासान् रामाबाणात् मरिष्यति ।
रामोऽपि वाल्लिनं हत्वा सुग्रीवेण समन्वितः ॥ १३ ॥
शिलाभिः सागरं बद्ध्वा सीतां आदाय यास्यस्ति ।
यात्रायज्ञविलासांश्च सप्तद्वीपप्ररक्षणम् ॥ १४ ॥
करिष्यति दयितया बंधुभिश्च यथासुखम् ।
इदं गोप्य त्वया राजन् कथनीयं न कुत्रचित् ॥ १५ ॥
श्रीशिव उवाच -
इत्युक्त्वा मुद्‍गलः सर्वं भावि रामस्य कौतुकम् ।
चरित्रं वर्णयामास यदा यत् यत् करिष्यति ॥ १६ ॥
तत्सर्वं नृपतिः श्रुत्वा तुष्टः पप्रच्छ तं पुनः ।
पूर्वजन्मनि कश्चाहं किं मया सुक्रुतं कृतम् ॥ १७ ॥
तत्सर्वं वद मां ब्रह्मन् यस्मात् जातो हरिः सुतः ।
मम साक्षात् रामचंद्रो लक्ष्मीःसीता त्वभूत्स्नुषा ॥ १८ ॥
इति तस्य वचः श्रुत्वा नृपमाह पुनर्मुनिः ।
मुद्‍गल उवाच -
आसीत् सह्याद्रि विषये करवीरपुरे पुरा ॥ १९ ॥
ब्राह्मणो धर्मवित् कश्चित् धर्मदत्त इति श्रुतः ।
विष्णुव्रतकरः समक् विष्णुपूजारतः सदा ॥ १२० ॥
द्वादशाक्षरविद्यायां जपनिष्ठोऽतिथिप्रियः ।
कदाचित् कार्तिके मासि हरिजागरणाय सः ॥ २१ ॥
रात्र्यां तुर्यावशेषायां जगाम हरिमंदिरम् ।
परिपूजोपकरणान् प्रगृह्य व्रजता तदा ॥ २२ ॥
तेन दृष्ट्वा समायाता राक्षसी भीमनिःस्वना ।
वक्रदंष्ट्रा ललज्जिह्वा निनग्ना रक्तलोचना ॥ २३ ॥
दिगंबरा सुष्कमांसा लंबोष्ठी घर्घरस्वना ।
तां दृष्ट्वा भयसंत्रस्तः कंपितावयवस्तदा ॥ २४ ॥
पूजोपकरणैः सर्वैः पयोभिश्चाहनद् बलात् ।
संस्मृत्य यद् हरेर्नाम तुलसीयुक्तवारिणा ॥ २५ ॥
सोऽहनद् वारिणा तस्मात् तप्त्पापं लयमागतम् ।
अथ संस्मृत्य सा पूर्व-जन्मकर्मविपाकजम् ॥ २६ ॥
स्वां दशां अब्रवीत् तीव्रं दंडवच्च प्रणम्य सा ।
कलहोवाच -
पूर्वकर्मविपाकेन दशां एतां गताऽस्म्यहम् ॥ २७ ॥
तत् कथं तु पुनर्विप्र याम्यहं गतिमुत्तमाम् ।
मुद्‍गल उवाच -
तां दृष्ट्वा प्रणतां आर्तां वदमानां स्वकर्म च ॥ २८ ॥
अतीव विस्मितो विप्रः तदा वचनमब्रवीत् ।
धर्मदत्त उवाच -
केन कर्मविपाकेन त्वं दशां ईदृशीं गता ॥ २९ ॥
कुतः प्राप्ता च किंशीला तत्सर्वं विसतार् वद ।
कलहोवाच -
सौराष्ट्रनगरे ब्रह्मन् भिक्षुनामाऽभवद् द्विजः ॥ १३० ॥
तस्याहं गृहिणी ब्रह्मन् कलहाख्याऽतिनिष्ठुरा ।
न कदाचित् मया भर्तुः वचसाऽपि शुभं कृतम् ॥ ३१ ॥
नर्पितं तस्य मिष्टान्नं भर्तृवचनभङ्गया ।
पाककाले मया नित्यं यद्यच्चान्नं मनोरमम् ॥ ३२ ॥
तत्तत् पूर्वं स्वयं भुक्त्वा पश्चात् भर्त्रे निवेदितम् ।
एकदा स पतिर्मित्रं मम वृत्तं न्यवेदयत् ॥ ३३ ॥
नैव श्रृणोमि मे पत्‍नी मद्वाक्यं किं करोम्यहम् ।
तेन श्रुत्वा तु सकलं क्षणं संचिंत्य वै हृदि ॥ ३४ ॥
उवाच मत्पतिं किंचित् युक्तिं तां ते वदाम्यहम् ।
निषेधोक्त्या वदस्व त्वं गृहिणी सा करिष्यति ॥ ३५ ॥
तव वाक्येन कार्यादि यत्किंचित् तव वांछितम् ।
तथेति मित्रवाक्येन गृहमेत्य पतिर्मम ॥ ३६ ॥
मां आह दयिते मा त्वं भोजनार्थं समाह्वय ।
मम मित्रं महत् दुष्टं तत् श्रुत्वा स्वपतेर्वचः ॥ ३७ ॥
तदा भर्या मयोक्तः स मित्रं ते साधुसम्मतम् ।
समाह्वयम्यशनार्थं अद्यैव ब्राह्मणोत्तमम् ॥ ३८ ॥
ततो मया समाहूतः स्वयं गत्वा पतें सखा ।
तदारम्भ्य निषेधोक्त्या कार्यमाज्ञापयत् पतिः ॥ ३९ ॥
एकदा स पितुर्दृष्ट्वा क्षयाहः स्वपतिर्मम ।
मामाह दयिते श्राद्धं न करिष्याम्यहं पितुः ॥ १४० ॥
तद्वाक्यं स्वपतेः श्रुत्वा मया विप्रा निमंत्रिताः ।
मया धिक् धिक् कृतो भर्ता कथं श्राद्धं करोषि न ॥ १४१ ॥
पुत्रधर्मं न जानासि क गतिस्ते भविष्यति ।
ततः पुनः स मामाह पक्वान्नं अद्य मा कुरु ॥ ४२ ॥
द्विजं निमंत्रयस्वैकं मा विस्तारं कुरु प्रिय ।
तत्तस्य वचनं श्रुत्वा मयाऽष्टादश भूसुराः ॥ ४३ ॥
निमत्रितास्तु श्राद्धार्थं पक्वान्नानि कृतानि हि ।
ततः पुनः स मामाह प्रिये श्रृणु वचो मम ॥ ४४ ॥
मया सहादौ त्वं मिष्टं पाकं भुक्त्वा ततः परम् ।
स्वीयोच्छिष्टं त्वद्य विप्रान्परिवेषणमाचर ॥ ४५ ॥
तन्मया कथित श्रुत्वा स पतिर्धिकृतः पुनः ।
कथमादौ स्वयं भुक्त्वा पश्चात् विप्रान् समर्पयेत् ॥ ४६ ॥
एवं सर्वं निषेधोक्त्या श्राद्धं चांगं चकार सः ।
पिंडदानादिकं कृत्वा मामाह स पतिः पुनः ॥ ४७ ॥
अहञ्चोपोषणं त्वद्य करिष्यामि न संशयः ।
तत्तस्य वचनं श्रुत्वा मिष्टान्नेन स भोजितः ॥ ४८ ॥
ततो दैववशात् भर्ता विस्मृत्य प्राह मां पुनः ।
नीत्वा पिंडान् क्षिपस्वाद्य सत्तीर्थे परमादरात् ॥ ४९ ॥
ततो मया शौचकूपे नीत्वा पिंडा विसर्जिताः ।
ततःखिन्नमना विप्रो हाहेत्युक्त्वा स्थिरोऽभवत् ॥ १५० ॥
क्षणं विचिंत्य मामाह पिंडान् मा त्वं बहिः कुरु ।
तदोत्तीर्य शौचकूपे मया पिंडा बहिं कृता ॥ ५१ ॥
ततः पुनः स मामाह पिंडान् तीर्थे क्षिपस्व मा ।
तदा तीर्थे मया क्षिप्ताः ते पिण्डा परमादरात् ॥ ५२ ॥
एवं मया कदा भर्तुः वचनं न कृतं तदा ।
कलहप्रियया नित्यं मयि उद्विग्नमना यदा ॥ ५३ ॥
परिणेतुं ततोऽन्यां वै मनश्चक्रे पतिर्मम ।
ततो गरं समादाय प्राणस्त्यक्तो मया द्विज ॥ ५४ ॥
अथ बद्ध्वा वध्यमानां मां निन्युयमकिंकरा ।
यमश्च मां दता दृष्ट्वा चित्रगुप्तं अपृच्छत ॥ ५५ ॥
यम उवाच -
अनया किं कृतं कर्म फलं शुभं अथ अशुभम् ।
प्राप्नोत्येषा च तत्कर्म चित्रगुप्तावलोकय ॥ ५६ ॥
कलह उवाच -
चित्रगुप्तस्तदा वाक्यं भर्त्स्यन् मां उवाच ह ।
चित्रगुप्त उवाच -
अनया तु शुभं कर्म कृतं किंचित् न विद्यते ॥ ५७ ॥
मिष्ठान्नं भुज्यमानेयं न भर्तरि तदर्पितम् ।
अतश्च बगुलीयोन्यां स्वविष्ठादाऽत्र तिष्ठतु ॥ ५८ ॥
पतिं द्वेष्टि सदा एवेषा नित्यं कलहकारिणी ।
विष्ठादा शूकरीयोन्यां तस्मात्तिष्ठत्वियं यम ॥ ५९ ॥
पाकभांडे सदा भुंक्ते गुप्तं चैका यतस्ततः ।
तस्मात् दोषात् बिडालाऽस्तु स्वजातापत्यभक्षिणी ॥ १६० ॥
भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया ।
तस्मात् प्रेत्तशरीरेऽपितिष्ठत्वेकाऽतिनिंदिता ॥ ६१ ॥
अतश्चैषा मरुदेशे प्रापितव्या हरेर्भटैः ।
तत्र प्रेतशरीरस्था चिरं तिष्ठत्वियं ततः ॥ ६२ ॥
ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी ।
कलहोवाच -
ततो दूतैः प्रापिताऽहं मरुदेशं क्षणाद्‍द्विज ॥ ६३ ॥
दत्त्वा प्रेतशरीरं मां गतास्ते स्वस्थलं प्रति ।
साऽहं पंचदशाब्दानि प्रेतदेहे स्थिता किल ॥ ६४ ॥
क्शुत्तृड्भ्यां पीडिता‍त्यर्थं दुःखिता स्वेन कर्मणा ।
ततं क्षुत्पीडिता नित्यं शरीर वणिजस्त्वहम् ॥ ६५ ॥
प्रविश्य दक्षिणे प्राप्ता कृष्णावेण्यास्तु संगमे ।
तत्तीरं संश्रिता यावत् तावत्तस्य शरीरतः ॥ ६६ ॥
शिवविष्णुगणैः दूरं अपाकृष्टा बलादहम् ।
ततः क्षुत्क्षामया दृष्टो भमंत्या त्व मया द्विज ॥ ६७ ॥
त्वत् हस्त् तुलसीवारि संस्पर्शात् गतपापका ।
तत्कृपां कुरु विप्रेंद्र कथं मुक्ता भवाम्यहम् ॥ ६८ ॥
योनित्रयात् अग्रभागात् अस्माच्च प्रेतभावतः ।
मांउद्धर मुश्रेष्ठ त्वां अहं शरणं गता ॥ ६९ ॥
इथं निशम्य कलहावचनं द्विजश्च
तत्पापकर्म भयविस्मयदुःखयुक्त ।
तद्‍ग्लानिदर्शनकृपाचलचित्तवृत्तिः
ध्यात्वा चिरं सुवचनं निजगाद दुःखात् ॥ १७० ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे चतुर्थः सर्गः ॥ ४ ॥


GO TOP