॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ षष्ठः सर्गः ॥
[श्रीरामाचा दंडकारण्यात प्रवेश]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


एवं त्रेतायुगे रामं नगर्यां सीतया सुखम् ।
क्रीडंतं नारदोऽर्केब्दे ययावाकाशवर्त्मना ॥ १ ॥
अथ रामो मुनिं पूज्य सीतया लक्ष्मणेन च ।
शुश्राव वचनं तस्य सुरैर्विज्ञापितं च यत् ॥ २ ॥
निहत्य रावणं युद्धे ततो राज्यं कुरुष्व हि ।
अंगीकृत्य रघुश्रेष्ठस्तं मुनिं च व्यसर्जयत् ॥ ३ ॥
अथ रामोऽब्रवीत् सीतां मम राज्याभिषेचनम् ।
कर्तुकामोऽस्ति तत्राहं विघ्नमुत्पाद्य दंडकम् ॥ ४ ॥
गच्छामि रावणादीनां वधार्थं लक्ष्मणेन च ।
अयोध्यायां वसात्र त्वं कौसल्यां पार्थिवं भज ॥ ५ ॥
तद् रामवचनं श्रुत्वा प्रणिपत्य रघुत्तमम् ।
उवाच मधुरं वाक्यं वनं मां त्वं नय प्रभो ॥ ६ ॥
कारण्यान्यत्र वै त्रीणि संति तानि वदाम्यहम् ।
भवत्वद्य प्रयाणं मे दंडकं हि त्वया सह ॥ ७ ॥
वनप्रयाणं मामाह भर्त्रा स सत्यवाग्द्विजः ।
बालत्वे कररेखां मे दृष्ट्वा कश्चित् द्विजाग्रणीः ॥ ८ ॥
अन्यत् स्वयंवरे पूर्वं सुरानपि मयोदितम् ।
यदा चापांतिकं प्राप्तः सज्जितुं त्वं सभांगणे ॥ ९ ॥
चतुर्दश वत्सराणि मुनिवृत्त्यनिवर्तिनी ।
विचरिष्याम्यरण्येऽहं धनुः सज्जं करोत्वयम् ॥ १० ॥
तत्सत्यं कुरु मद्वाक्यं प्रयाणात् दंडकं त्वया ।
अन्यत् श्रुतं मया पूर्वं रामायणं अनुत्तमम् ॥ ११ ॥
तत्र सीताम् विना रामो न गतोऽस्ति वचोऽब्रवीत् ।
विहस्य राघवः श्रीमान् समालिंग्य विदेहजाम् ॥ १३ ॥
अथ राजा दशरथः श्रीरामस्याभिषेचनम् ।
यौवराज्यपदे कर्तुम्द्युक्तः प्राह वै गुरुम् ॥ १४ ॥
यौवराज्यपदे रामं अभिषेक्तं त्वमर्हसि ।
तद्‍रामवचनं श्रुत्वा गुरुर्दशरथं नृपम् ॥ १५ ॥
कौसल्यागृहमानीय गोधयामास वै रहः ।
राजन् श्रुणु त्वं कौसल्या-सुमित्रा शृणुतं त्विमे ॥ १६ ॥
रावणस्य वधार्थं हि रामः श्वो दंडकं वनम् ।
गमिष्यति लक्ष्मणेन सीतया कैकेयीवरात् ॥ १७ ॥
तस्मात् त्वं अज्ञवत् तूष्णीं संभारान् अभिषेचितुम् ।
कारयस्व सुमंत्रेण समाहूय नृपादिकान् ॥ १८ ॥
श्रीरामविरहात् राजन् ब्राह्मणस्यापि शापतः ।
अचिरादेव स्वर्लोकं त्वं गमिष्यसि पार्थिव ॥ १९ ॥
कौसल्येवं रामराज्य उत्सवं पश्यतु वै पुनः ।
अंतरिक्षात् विमानस्थः त्वं पशुअसि महोत्सवम् ॥ २० ॥
दुर्लंघ्या भाविनी रेखा ब्रह्मादीनां नृपोत्तम ।
इति श्रुत्वा गुरोर्वाक्यं तेन राजा सभां ययौ ॥ २१ ॥
रामराज्याभिषेकाय संभारान् अकरोन्मुदा ।
दूतैराकारयामास नृपान् दशरथस्तदा ॥ २२ ॥
ऋषीश्वराः सम्नाजग्मुः नानाश्रमनिवासिनः ।
नगरीं शोभयामासुः दूताश्चित्रध्वजोत्तमैः ॥ २३ ॥
पताकाभिः तोरणैश्चैव हेमकुंभैर्मनोरमैः ।
गुरुराज्ञापयामास सुमंत्रं नृपमंत्रिणम् ॥ २४ ॥
श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः ।
तिष्ठन्तु षोडश गजाः स्वर्णरत्‍नादिभूषिताः ॥ २५ ॥
चतुर्दंतः समायातु ऐरावतकुलोद्‍भवः ।
नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः ॥ २६ ॥
स्थाप्यतां तत्र वैव्याघ्र चर्माणि त्रीणि वा नव ।
श्वेतच्छत्रं रत्‍नदंडं मुक्तामणिविराजितम् ॥ २७ ॥
दिव्यमालानि वस्त्राणि दिव्यान्याभरणानि च ।
मुनयः संस्कृतास्तत्र तिष्ठन्तु कुशपाणहः ॥ २८ ॥
नर्तक्यो वारमुख्याश्च गायका वैदिकास्तथा ।
नानावादित्रकुशला वादयंतु नृपांगणे ॥ २९ ॥
हस्त्यश्वरथपादाता बहिस्तिष्ठंतु सायुधाः ।
नगरे यानि तिष्ठंति देवतायतनानि च ॥ ३० ॥
तेषु प्रवर्ततां पूजा नानाबलिभिरादृताः ।
राजानः शीघ्रमायांतु नानोपायनपाणयः ॥ ३१ ॥
इत्यादिस्य वसिष्ठास्तु रथेन रघुनंदनम् ।
गत्वा सम्मानितस्तेन सर्वं वृत्तं न्यवेदयत् ॥ ३२ ॥
निमित्तमात्रस्त्वं राम श्वो गमिष्यसि दंडकान् ।
चतुर्दश समास्तत्र स्थित्वा संह्य्त्य रावणम् ॥ ३३ ॥
बंधुना सीतया सार्धं ततो राज्यं करिष्यसि ।
लौकिकीं वृत्तिमालंब्य स्वीकुरुष्व पितिर्वचः ॥ ३४ ॥
अद्य त्वां सीतया सार्धं उपवासं यथाविधि ।
कृत्वा शुचिर्भूमिशायी भव राम जितेंद्रियः ॥ ३५ ॥
इत्य्क्त्वा रथमारुह्य दृष्ट्वा रामं सलक्ष्मणम् ।
जानकीं चापि स गुरुर्ययौ राजगृहं पुनः ॥ ३६ ॥
कौसल्या च सुमित्रा च रामराज्याभिषेचनम् ।
मृषाऽपि श्रुत्वा श्रीगुरोः आस्यात् स्नेहसमन्विते ॥ ३७ ॥
चक्रतुः पूजनं देव्याः तद्विघ्नोपशमस्पृहे ।
बलिदानैः शांतिपाठैः मुनिवृंदसमन्विते ॥ ३८ ॥
अथापराह्णे सौधस्था दास्याः पुत्री तु मंथरा ।
शोभितां नगरीं दृष्ट्वा पृष्ट्वा वृद्धां पथि स्थिताम् ॥ ३९ ॥
श्रुत्वा श्रीरामराज्यार्थं ययौ वेगेन कैकेयीम् ।
सर्वं वृत्तं निवेद्याथ तूष्णीमासीत् तदा क्षणम् ॥ ४० ॥
तत् श्रुत्वा कैकेयी चापि तस्यै भूषणमर्पयत् ।
एतस्मिन् अंतरे वाण्या देववाक्यात् सुमोहिता ॥ ४१ ॥
तुष्टां दृष्ट्वा तु कैकेयीं भर्त्सयत्याह तां पुनः ।
मूढे कथं त्वं तुष्टाऽसि हतभाग्याऽसि वेद्‍म्यहम् ॥ ४२ ॥
रामे राज्यपदं प्राप्ते कौसल्यायाश्च कैकयि ।
दासी भविष्यसि त्व हिअतो मद्‍वचनं कुरु ॥ ४३ ॥
वरेण न्यासभूतेन राज्यं श्रीभरताय हि ।
नृपं प्रार्थय रामस्य द्वितीयेन वरेण च ॥ ४४ ॥
दंडकारण्यगमनं चतुर्दश समाः पदा ।
क्रोधागारं प्रविश्याद्य कुरुष्व यन्मयेरितम् ॥ ४५ ॥
तन् मंथरोक्तं स्वहितः मत्त्वा सापि तथाऽकरोत् ।
मोहिता सा अविवेकेन श्रीराघवसुरेच्छया ॥ ४६ ॥
ततो निशायां राज्ञा सा ज्ञाता क्रोधगृहस्थिता ।
गत्वा तत्र नृपः शीघ्रं ददर्श कैकेयीं तदा ॥ ४७ ॥
विकीर्यमाणकेशां तां त्यक्ताऽलंकारमंडनाम् ।
भूमौ शयानां तां दृष्ट्वा ज्ञात्वा तस्या मनोगतम् ॥ ४८ ॥
रामाय दंडकारण्यं यौवराज्यं सुताय च ।
वराभ्यां याचितं ज्ञात्वा हेत्युक्त्वा मूर्च्छितोऽभवत् ॥ ४९ ॥
प्रभाते तत् सुमंत्रेण वृत्तं श्रुत्वा नृपं ययौ ।
कैकेयी मंत्रिणा पृष्टा सुमंत्रं प्राह सा तदा ॥ ५० ॥
अत्रानयस्व श्रीरामं द्रष्टुं तं वांछते नृपः ।
सोऽप्याह रामं नृपतिं अपृष्ट्वा नानयाम्यहम् ॥ ५१ ॥
तदा शनैर्नृपः प्राह शीघ्रमानय राघवम् ।
सुमंत्रोऽप्यानयामास राघवं पार्थिवाज्ञया ॥ ५२ ॥
ततो रामो नृपं गत्वा श्रुत्वा कैकेयजागिरा ।
आत्मानं दंडके वासं वरदानं पितुः पुरा ॥ ५३ ॥
तथेत्यंगीचकाराथ नृपं वचनमब्रवीत् ।
माते शोकोऽस्तु हे तात ह्यहं गच्छामि दंडकान् ॥ ५४ ॥
तत् रामवचनं श्रुत्वा हाहेत्युक्त्वा नृपोऽब्रवीत् ।
मां विहाय कथं घोरं विपिनं गन्तुमिच्छसि ॥ ५५ ॥
तस्य तद्वचनं श्रुत्वा सांत्वयामास राघवः ।
अहं प्रतिज्ञां निस्तीर्य शीघ्रं यास्यामि ते पुरीम् ॥ ५६ ॥
इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृच्छयः ।
मातरं स समाश्वास्य ह्यनुनीय च जानकीम् ॥ ५७ ॥
आगत्य पादौ वंदित्वा तव यास्ये सुखं वनम् ।
इत्युक्त्वा तौ परिक्रम्य मातरं द्रष्टुमाययौ ॥ ५८ ॥
नत्वा स्वमातरं रामः समाश्वास्य पुनः पुनः ।
नत्वा प्रदक्षिणः कृत्वा तामामंत्र्य ययौ गृहम् ॥ ५९ ॥
सर्वं वृत्तं तु सीतां स कथयामास राघवः ।
सीतया लक्ष्मणेनापि वनं गंतुं पुनः पुनः ॥ ६० ॥
प्रार्थितश्च तथेत्युक्त्वा त्वरयामास राहवः ।
सर्वस्वं ब्राह्मणान् दत्त्वा सीतयाऽग्नि समन्वितः ॥ ६१ ॥
पद्भ्यामेव शनैर्भ्रात्रा ययौ रामो नृपान्तिकम् ।
गच्छतं पथि श्रीरामं पद्भ्यां दृष्ट्वा पुरौकसः ॥ ६२ ॥
परस्परेण ते वृत्तं श्रुत्वा व्याकुलमानसाः ।
बभूवुस्तान् वामदेवः कथयामास सादरात् ॥ ६३ ॥
नारदागमनं राम-प्रतिज्ञां रावणस्य च ।
वधादिकं सविस्तारं विष्णुं मनुजरूपिणम् ॥ ६४ ॥
पौराः श्रुत्वा गतक्लेशा भ्यभूवन् पथि संस्थिताः ।
ततो नत्वा नृपं रामः कैकेयीं वाक्यमब्रवीत् ॥ ३५ ॥
अम्बागतोऽहं विपिनं गंतुमाज्ञां ददस्व मां ।
ततः सा वल्कलादीनि ददौ रामादिकान् तदा ॥ ६६ ॥
रामस्तान् परिधायाथ स्वयं सीतां अशिक्षयत् ।
तद्‍दृष्ट्वा कैकेयीं प्राह गुरुः क्रोधेन भर्त्सयन् ॥६७ ॥
जडे पापिनि दुर्वृत्ते राम एव त्वया वृतः ।
वनवासाय दुष्टे त्वं सीतायै किं प्रदास्यसि ॥ ६८ ॥
इत्युक्त्वा दिव्यवस्त्राणि सीतायै स गुरुर्ददौ ।
राजा दशरथोऽप्याह सुमंत्रं रथमानय ॥ ६९ ॥
रथमारुह्य गच्छन्तु वनं वनचरप्रियाः ।
रामः प्रदक्षिणं कृत्वा पितरौ रथमारुहत् ॥ ७० ॥
सीतया लक्ष्मणेनाथ चोदयामास सारथिम् ।
कौसल्यां च सुमित्रां च तातमाश्वास्य वै पुनः ॥ ७१ ॥
समाश्वास्य जनान् रामः तमसा तीरमाययौ ।
माघमासे सिते पक्षे पंचम्यां परमेऽहनि ॥ ७२ ॥
प्राप्ते ह्यष्टादशे वर्षे राघवाय महात्मने ।
आसीनत् वनप्रयाणं हि स्वपुर्याः तमसातटम् ॥ ७३ ॥
इंद्राद्या निर्जराश्चक्रुः तदा तन्मार्गसत्क्रियाम् ।
आसन् शुभाश्च शकुना रामस्य व्रजतो वनम् ॥ ७४ ॥
उषित्वैकां निशीं तत्र श्रृंगवेरपुरं ययौ ।
गुहेन मानितश्चापि तत्र रात्रिं निनाय सः ॥ ७५ ॥
गुहानीतैः वटक्षीरैः बबंध राघवो जटाम् ।
प्रभाते सीतयाऽरुह्य नौकायां लक्ष्मणेन सः ॥ ७६ ॥
प्रेषयामास सरथं सुमंत्रं नगरीं प्रति ।
गुहस्तां वाहयामास नौकां स्वज्ञातिभिस्तदा ॥ ७७ ॥
गंगामध्यगतां गंगां प्रार्थयामास जानकी ।
देवि गंगे नमस्तेऽस्तु निवृत्ता वनवासतः ॥ ७८ ॥
रामेण सहिताऽहं त्वाम् लक्ष्मणेन च पूजये ।
सुरामांसोपहारैश्च नानाबलिभिरादृता ॥ ७९ ॥
इत्युक्त्वा परकूलं तु गत्वा रामो गुहं तदा ।
विसर्जयित्वा तत्रैकां निशां नीत्वा शनैः शनैः ॥ ८० ॥
भारद्वाजाश्रमं गत्वा तस्थौ तेनातिपूजितः ।
चित्रकूटे लक्ष्मणेन पर्णशालां मनोरमाम् ॥ ८२ ॥
कृत्वा मांसैर्मृगोद्‍भूतैः बलिं दत्त्वा रघूत्तमः ।
तस्थौ तस्यां सुखं भ्रात्रा सीतया स्वगृहं यथा ॥ ८३ ॥
शयनासन पाकाग्नि देवादीनां पृथक् पृथक् ।
तत्रासन् विविधाः शालाः तरुवल्लिविराजिताः ॥ ८४ ॥
कंदैर्मूलैः वनोद्‍भूतैः मृगमांसफलादिभिः ।
मुनीश्वराणां आतिथ्यं चक्रुस्ते स्वगृहे यथा ॥ ८५ ॥
एकदा निद्रितं रामं सीतांके सन्निरीक्ष्य च ।
ऐन्द्रः काकस्तदागत्य नखैस्तुंडेन चासकृत् ॥ ८६ ॥
सीतांगुष्ठं तु काकेन भिन्नं दृष्ट्वा रघुत्तमः ।
अभिद्रवम्तं रक्तास्यं ईषिकास्त्रं मुमोच सः ॥ ८८ ॥
केनापिरक्षितस्यास्त्र भयात् ब्रह्माण्डगोलके ।
स्वशरणमाततस्यास्य पुनर्नारदवाक्यतः ॥ ८७ ॥
ईषिकास्त्रेण काकस्य बिभेद नयनं क्षणात् ।
एवं नानाकौतुकानि कुर्वन् तस्थौ सुखं प्रभुः ॥ ९० ॥
सुमंत्रोऽपि पुरीं गत्वा नृपं वृत्तं न्यवेदयत् ।
सोऽपि राजा राघवेति जपन् स्वं जीवितं जहौ ॥ ९१ ॥
नृपं मृतं गुरुर्ज्ञात्वा तैलद्रोण्यां निधाय तम् ।
युधाजित् नगरात् दूतैः कैकेयास्तनयावुभौ ॥ ९२ ॥
आनयामास भरत-शत्रुघ्नौ वेगतस्तदा ।
तौ उभौ अपि वेगेन स्वां पुरीं संविवेशतुः ॥ ९३ ॥
मात्रा संपादितं कृत्यं ज्ञात्वा धिक्कृत्य मातरम् ।
भरतः पितरः वह्निं ददौ सरयुसैकते ॥ ९४ ॥
वीराणां मातरस्ताश्च जग्मुर्न स्वामिना दिवम् ।
पितुरुत्तरकार्यादि कर्म कृत्वा सविस्तरम् ॥ ९५ ॥
मंथरां ताडयामास मातुरग्रे पुनः पुनः ।
प्रार्थितोऽप्यभिषेकार्थं राज्यमंगीचकार न ॥ ९६ ॥
ततो मंत्रिजनैः साकं मातृभिः पुरवासिभिः ।
परावर्तयितुं रामं ययौ स भरतस्तदा ॥ ९७ ॥
गुहेन मानतिश्चापि भारद्वाजाश्रमं ययौ ।
तपोबलेन भूस्वर्गं निर्माय भरतं मुनिः ॥ ९८ ॥
ससैन्यं पूजयामास तं नत्वा भरतोऽपि सः ।
मुनिसंदर्शितपथा चित्रकूटेऽग्रजं ययौ ९९ ॥॥
दृष्ट्वा रामं तु शालायां सीतया बंधुना स्थितम् ।
नत्वा तेनालिंगितश्च सर्वं वृत्तं न्यवेदयत् ॥ १०० ॥
रामः श्रुत्वा मृतं तातं गत्वा मंदाकिनीं नदीम् ।
स्नात्वा तिलांजलिं दत्त्वा ययौ शालां निजांगिरौ ॥ १ ॥
ततस्तं प्रार्थयामास भरतो गुरुणा सह ।
राज्यार्थं राघवश्चापि नेत्युवाच पुनः पुन्हः ॥ २ ॥
प्रायोपवेशनं तत्र दर्भेषु भरतस्तदा ।
चकार निग्रहं तस्य ज्ञात्वा गुरुमचोदयत् ॥ ३ ॥
रामाज्ञया गुरुश्चाह भ्रतं बोधयन् तदा ।
भूभारहरणार्थाय विष्णुः साक्षात् रघूत्तमः ॥ ४ ॥
अत्र जातोऽस्ति देवानां वचनार् रावनादिकान् ।
हंतुं गच्छति रामोऽद्य मा त्वं निग्रहमाचर ॥ ५ ॥
ततो ज्ञात्वा हरिं रामं भरतो राममब्रवीत् ।
राज्यार्थं पादुके देहि तयोः सेवां करोम्यहम् ॥ ६ ॥
जटावल्कलधारीच वसामि नगरात् बहिः ।
प्रतीक्षां तव राजेंद्र वर्षाणि च चतुर्दश ॥ ७ ॥
कृत्वा चतुर्दशे वर्षे पूर्णे गुप्ते रवौ त्वहम् ।
प्रवेक्ष्याम्यनलं राम सत्यमेतत् वचो मम ॥ ८ ॥
तत्तस्यवचनं श्रुत्वा तथेत्युक्त्वा रघूत्तमः ।
राज्यार्थं स्वीयपदयोः पादुके रत्‍नभूषिते ॥ ९ ॥
ददौ रामस्तदा तस्मै ततस्तं स व्यसर्जयत् ।
गृहित्वा पादुके दिव्ये भरतो रत्‍नभूषिते ॥ ११० ॥
मस्तकोपरि ते बद्ध्वा कृतकृत्यममन्यत ।
ततो नत्वा रघुश्रेष्ठं परिक्रम्य पुनः पुनः ॥ ११ ॥
सैन्येन मातृभिः शीघ्रं राममामंत्र्य सो ययौ ।
संप्रार्थयत् कैकेयी सा रामचंद्रं पुनः पुनः ॥ १२ ॥
मयाऽपराधितं राम तत्क्षंतव्यं रघूत्तम ।
तामाह रामचंद्रोऽपि न त्वया मेऽपराधितम् ॥ १३ ॥
मच्छंदान् मंथरावाक्यात् त्वं वाण्या मोहितातस्दा ।
सुखं गच्छांब स्वपुरीं न क्रोधोऽस्ति मम त्वयि ॥ १४ ॥
इत्युक्ता रामचंद्रेण भरतेन न्यवर्तत ।
भरतः पूर्वमार्गेण ययौ स्वनगरीं मुदा ॥ १५ ॥
सर्वान् स्थाप्य नगर्यां तु नंदिग्राममक्ल्पयत् ।
तस्थौ स भरतस्तत्र स्थाप्य सिंहासनौपरि ॥ १६ ॥
रामस्य पादुके दिव्ये फलमूलाशनः स्वयम् ।
राजकार्याणि सर्वाणि यावम्ति पृथिवीपतेः ॥ १७ ॥
तानि पादुकयोः सम्यक् निवेदयति राघवः ।
गणयन् दिवसान्येव रामागमनकांक्षया ॥ १८ ॥
स्थितो रामार्पितमनाः साक्षात् ब्रह्ममुनिर्यथा ।
रामोऽपि चित्रकूटाद्रौ वसन् मुनिभिरादृतः ॥ १९ ॥
चकार सीतया क्रीडां विपिने रम्यपर्वते ।
मनःशिलासुतिलकं सीताया भालकेऽकरोत् ॥ १२० ॥
गंडयोश्चित्रवल्लीः स चकार निजहस्ततः ।
वृक्षारुणदलैश्चित्रैः कोमलैः कुसुमादिभिः ॥ २१ ॥
एवं क्रीडन् सुखं रामः तस्थौ पत्‍न्याऽनुजेन च ।
नागरास्तं सदा जग्मू रामदर्शनलालसाः ॥ २२ ॥
दृष्ट्वा सज्जनसंबाधं रामस्तत्याज तं गिरिम् ।
अन्वगात् सीतया भ्राता ह्यत्रेराश्रममुत्तमम् ॥ २३ ॥
नत्वाऽत्रिं मानितस्तेन तस्थौ तत्र दिनत्रयम् ।
गृहस्थामनुसूयां तां सीताऽत्रेर्वचनात् तदा ॥ २४ ॥
नत्वा तयाऽऽलिंगिता सा तदंके समुपाविशत् ।
अनुसूया तदा सीतां पूजयामास सादरम् ॥ २५ ॥
अंगरागं च सीतायै ददावत्रेस्तु सा प्रिया ।
न त्यक्षते अंगशोभां त्वं कदापि जनकात्मजे ॥ २७ ॥
पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि ।
कुशली राघवो यातु त्वया भ्रात्रा पुनर्गृहम् ॥ २८ ॥
भोजयित्वा यथान्यायं रामं सीतासमन्वितम् ।
अत्रिर्विसर्जयामास रामो नत्वा ययौ वनम् ॥ २९ ॥
एवं वर्षमतिक्रांतं रामस्य गिरिवासिनः ।
यथासुखं लक्ष्मणेन जानक्या सहितस्य च ॥ १३० ॥
एवं गिरींद्रजेऽयोध्यापुर्यां रामेण यत्कृतम् ।
चरित्रं तन्मया किंचित् त्वदग्रे विनिवेदितम् ॥ १३१ ॥
इति श्री शतकोटिरामचरितान्तर्गते श्रीमद्
आनंदरामायणे वाल्मीकिये सारकांडे अयोध्याचरित्रे दंडकवनप्रवेशोनाम षष्ठः सर्गः ॥ ६ ॥


GO TOP