॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ द्वितीयः सर्गः ॥

पार्वती उवाच
धन्यास्मि अनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।
विच्छिन्नो मेऽस्तिसन्देह ग्रन्थिर्भवदनुग्रहात् ॥ १ ॥
त्वन्मुखाद्‍गलितं रामतत्त्वामृतरसायनम् ।
पिबन्ति मे मनो देव न तृप्यति भवापहम् ॥ २ ॥
श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया ।
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् ॥ ३ ॥
श्रीमहादेव उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद्‍गुह्यतरं महत् ।
अध्यात्मरामचरितं रामेणोक्तं पुरा मम ॥ ४ ॥
तदद्य कथयिष्यामि शृणु तापत्रयापहम् ।
यच्छृत्वा मुच्यते जन्तुः अज्ञानोत्थमहाभयात् ।
प्राप्नोति परमां ऋद्धिं दीर्घायुः पुत्रसन्ततिम् ॥ ५ ॥
भूमिर्भारेण मग्ना
दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ
दिविजमुनिजनैः साकमब्जासनस्य
गत्वा लोकं रुदन्ती
व्यसनमुपगतं ब्रह्मणे प्राह सर्वं
ब्रह्मा ध्यात्वा मुहूर्तं
सकलमपिहृदा वेदशेषात्मकत्वात् ॥ ६ ॥
तस्मात्क्षीरसमुद्र
तीरमगमद् ब्रह्माथ देवैर्वृतो
देव्या चाखिललोक
हृत्स्थमजरं सर्वज्ञमीशं हरिम् ।
अस्तौषीच्छृतिसिद्ध
निर्मलपदैः स्तोत्रैः पुराणोद्‌भवैः
भक्त्या गद्‍गदया
गिरातिविमलैः आनन्दबाष्पैर्वृतः ॥ ७ ॥
ततः स्फुरत्सहस्रांशु सहस्रसदृशप्रभः ।
आविरासीद् हरिः प्राच्यां दिशां व्यपनयंस्तमः ॥ ८ ॥
कथंचिद् दृष्ट्वान् ब्रह्मा दुर्दर्शमकृतात्मनाम् ।
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् ॥ ९ ॥
किरीटहारकेयूर कुण्डलैः कटकादिभिः ।
विभ्राजमानं श्रीवत्स कौस्तुभ प्रभयान्वितम् ॥ १० ॥
स्तुवद्‌भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् ।
शङ्‍खचक्रगदापद्म वनमालाविराजितम् ॥ ११ ॥
स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च ।
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् ॥ १२ ॥
हर्षगद्‍गदया वाचा स्तोतुं समुपचक्रमे ॥ १३ ॥
ब्रह्मोवाच
नतोऽस्मि ते पदं देव प्राण बुद्धीन्द्रियात्मभिः ।
यच्चिन्त्यते कर्मपाशाद् हृदि नित्यं मुमुक्षुभिः ॥ १४ ॥
मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि ।
जगत्तेन न ते लेप आनन्दानुभवात्मनः ॥ १५ ॥
तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः ।
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा ॥ १६ ॥
अतस्तवाङ्‌घ्रिर्मे दृष्टः चित्तदोषापनुत्तये ।
सद्योऽन्तः हृदये नित्यं मुनिभिः सात्वतैर्वृतः ॥ १७ ॥
ब्रह्माद्यैः स्वार्थसिद्ध्‍यर्थं अस्माभिः पूर्वसेवितः ।
अपरोक्षानुभूत्यर्थं ज्ञानिभिः हृदि भावितः ॥ १८ ॥
तवाङ्‌घ्रिपूजानिर्माल्य तुलसीमालया विभो ।
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्‍निवत् ॥ १९ ॥
अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका ।
भक्तिमेवाभिवाञ्छन्ति त्वद्‌भक्ताः सारवेदिनः ॥ २० ॥
अतस्त्वत्पादकमले भक्तिरेव सदाऽस्तु मे ।
संसारमयतप्तानां भेषजं भक्तिरेव ते ॥ २१ ॥
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः ।
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः ॥ २२ ॥
भगवन् रावणो नाम पौलस्त्यतनयो महान् ।
राक्षसानामधिपतिः मद् दत्तवरदर्पितः ॥ २३ ॥
त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः ।
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता ।
अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो ॥ २४ ॥
श्रीभगवानुवाच
कश्यपस्य वरो दत्तः तपसा तोषितेन मे ॥ २५ ॥
याचितः पुत्रभावाय तथेत्यङ्‌गीकृतं मया ।
स इदानीं दशरथो भूत्वा तिष्ठति भूतले ॥ २६ ॥
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने ।
चतुर्धात्मानमेवाहं सृजामि इतरयोः पृथक् ॥ २७ ॥
योगमायापि सीतेति जनकस्य गृहे तदा ।
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् ।
इत्युक्त्वान्तर्दधे विष्णुः ब्रह्मा देवानथाब्रवीत् ॥ २८ ॥
ब्रह्मोवाच
विष्णुर्मानुषरूपेण भविष्यति रघोः कुले ॥ २९ ॥
यूयं सृजध्वं सर्वेऽपि वानरेषु अंशसम्भवान् ।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले ॥ ३० ॥
इति देवान् समादिश्य समाश्वास्य च मेदिनीम् ।
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः ॥ ३१ ॥
देवाश्च सर्वे हरिरूपधारिणः
स्थिताः सहायार्थमितस्ततो हरेः ।
महाबलाः पर्वतवृक्षयोधिनः
प्रतीक्षमाणा भगवन्तमीश्वरम् ॥ ३२ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP