॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ प्रथमः सर्गः ॥

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

श्रीवाल्मीकिः उवाच -
वामे भूमिसुतो पुरस्तु हनुमान् पृष्ठे सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोः वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुदिं रामं भजे श्यामलम् ॥ १ ॥
आदौ रावण मर्दनं द्विजगिरा तीर्थाटनं सीतया
साकेते दशवाजिमेधकरणं पत्न्याः विलासाटनम् ।
स्त्रीपुत्रग्रहणं स्नुषार्थमटनं पृथ्व्याश्च संरक्षणं
रामार्चादिनिरूपणं दयितया स्वीयं स्थलारोहणम् ॥ २ ॥
एकदा पार्वती देवी शंकरं प्राह हर्षिता ।
कैलासवासिनं नत्वा रामभक्त्यैकतत्परा ॥ ३ ॥
पार्वती उवाच -
शंभो त्वया पुराणानि कथितानि ममांतिके ।
रघुनाथस्य चरितं जन्मकर्मसमन्वितम् ॥ ४ ॥
कथयस्वाधुना देव मम प्रीतिविवर्धनम् ।
आनन्ददायकं कर्म रघुवीरेण यत्कृतम् ॥ ५ ॥
श्रीशिव उवाच -
सम्यक् पृष्टं त्वया कान्ते रामचन्द्रकथानकम् ।
कथयामि सविस्तारं महामंगलकारकम् ॥ ६ ॥
आदिनारायणाद् ब्रह्माऽभून्मरीचिर्विधेः सुतः ।
मरीचेः कश्यपः पुत्रः तत्सुतः सूर्य उच्यते ॥ ७ ॥
सूर्यपुत्रः श्राद्धदेवो मनुर्वैवस्वतस्त्विति ।
स एव प्रोच्यते तस्य ईक्ष्वाकुः पुत्रः प्रतापवान् ॥ ८ ॥
इक्ष्वाकोस्तु विकुक्षिर्हि शशादश्च स एव हि ।
विकुक्षेस्तु ककुत्स्थश्च स एवात्र पुरञ्जयः ॥ ९ ॥
स एवोक्तश्चन्द्रवाहः ककुत्स्थनृपतेः सुतः ।
अनेनास्तस्य पुत्रोऽभूत् विश्वरन्धिश्च तत्सुतः ॥ १० ॥
चन्द्रश्चन्द्रस्य पुत्रोऽभूत् युवनाश्व प्रतापवान् ।
शावस्तो युवनाश्वस्य शावस्तस्य सुतो महान् ॥ ११ ॥
बृहदश्व इति ख्यातः तस्माज्जज्ञे नृपोत्तमः ।
कुवलयाश्वो नृपतिः दृढाश्वस्तत्सुतः स्मृतः ॥ १२ ॥
हर्यश्व इति तत्पुत्रो निकुम्भस्तत्सुतः स्मृतः ।
युवनाश्वः श्येनजितो युवनाश्वनृपोत्तमात् ॥ १३ ॥
कृताश्वो नृपतिः प्रोक्तः श्येनजित् तत्सुतः स्मृतः ।
बर्हणाश्वो निकुम्भस्य बर्हणाश्वनृपोत्तमात् ॥ १४ ॥
मान्धाता त्रसद्दस्युर्हि स एव कथितो भुवि ।
पुरुकुत्सश्च मान्धातुः पुरुकुत्सस्य वै पुनः ॥ १५ ॥
त्रसद्दस्युरिति ख्यातो अनरण्यश्चापि तत्सुतः ।
अनरण्यस्य हर्यश्वो हर्यश्वस्यारुणः सुतः ॥ १६ ॥
त्रिबन्धनोऽरुणात् जातः त्रिबन्धनसुतो महान् ।
सत्यव्रतः स एवात्र त्रिशङ्कुारिति वै स्मृतः ॥ १७ ॥
सत्यव्रतस्य पुत्रोऽभूत् हरिश्चन्द्रः प्रतापवान् ।
रोहितस्तत्सुतः प्रोक्तः तस्माच्च हरितः स्मृतः ॥ १८ ॥
हरितस्य सुतश्चम्पः सुदेवश्चम्पदेहजः ।
सुदेवाद्विजयः प्रोक्तः तत्पुत्रो भरुकः स्मृतः ॥ १९ ॥
भरुकस्य वृकः पुत्रो वृकपुत्रस्तु बाहुकः ।
बाहुकात् सगरो जज्ञे असमञ्जझ् सगरात्मजः ॥ २० ॥
असमञ्जसश्च पुत्रोऽभूत् अंशुमान् इति नामतः ।
तस्य पुत्रो दिलीपस्तु दिलीपाच्च भगीरथः ॥ २१ ॥
भगीराथात् श्रुतो जातः श्रुतान्नाभः क्रकीर्त्यते ।
नाभस्य सिन्ध्द्वीपश्च ह्ययुताश्च तत्सुतः ॥ २२ ॥
ऋतुपर्णस्त्वयुतायोः सुदासस्तस्य कीर्त्यते ।
मित्रसहः स एवात्र कल्माषांघ्रि स एव हि ॥ २३ ॥
सुदास्याश्मकः पुत्रो मूलकोऽश्मकदेहजः ।
स एव नारीकवचो मूलकस्य सुतो महान् ॥ २४ ॥
नाम्ना दशरथः प्रोक्तः तस्य पुत्राः प्रतापवान् ।
नाम्ना त्वैडविडः प्र्क्तः तस्य विश्वसहः स्मृतः ॥ २५ ॥
तस्य पुत्रस्य खट्वाङ्गः खट्वाङ्गात् दीर्घबाहुकः ।
दिलीपश्च स एवात्र तस्य पुत्रो रघुः स्मृतः ॥ २६ ॥
रघोः पुत्रो ह्यजः प्रोक्तः तस्मात् दशरथः स्मृतः ।
राज्ञो दशरथात् जातः श्रीरामं परमेश्वरः ॥ २७ ॥
यस्य नामानि अनन्तानि गृणंति मुनयः सदा ।
विष्णोरारभ्य कथिता एकषष्टिर्नृपा मया ।
एकषष्टिर्नृपाश्चाग्रे मध्ये रामो विराजते ।
तस्य ते चरितं कृत्स्नं संक्षेपाच्च ब्रवीम्यहम् ॥ २९ ॥
इक्ष्वाकुवंशप्रवरः क्षत्रियो लोकविश्रुतः ।
बलवान् सरयूतीरे अयोध्यायां पार्थिवोत्तमः ॥ ३० ॥
नाम्ना दशरथः श्रीमान् जम्बूद्वीपपतिर्महान् ।
शशास राज्यं धर्मेण सैन्येन महाताऽवृतः ॥ ३१ ॥
अयोध्यायास्तु सान्निध्ये देशे श्रीकोसलाह्वये ।
कोसलायां महापुण्यः कोसलाख्यो नृपो महान् ॥ ३२ ॥
तस्यासीत् दुहिता रम्या कौसल्या पतिकामुका ।
तस्या दशरथेनैव विवाहो निश्चितो मुदा ॥ ३३ ॥
लग्नार्थं तु समानेतुं दूता दशरथं नृपम् ।
ययुर्विनिश्चयं कृत्वा विवाहदिवसस्य च ॥ ३४ ॥
तथा दशरथश्चापि साकेते सरयूजले ।
नौकास्थो जलजां क्रीडां चक्रे वै मंत्रिबंधुभिः ॥ ३५ ॥
निशायां सेनया युक्तः स्तुतो मागधबंदिभिः
रत्‍नदीपप्रकाशैश्च ननृतुर्वारयोषितः ॥ ३६ ॥
तस्मिन्काले तु लंकायां विधिं पप्रच्छ रावणः ।
कस्मान्मे मरणं ब्रह्मन् तत्त्वं मां वक्तुमर्हसि ॥ ३७ ॥
तद् रावणवचः श्रुत्वा कथयामास तं विधिः ।
कौसल्यायां दशरथात् रामः साक्षात् जनार्दनः ॥ ३८ ॥
चतुर्धा पुत्ररूपेण भूत्वा स निहनिष्यति ।
पंचमेऽहनि लग्नस्य राज्ञो दशरथस्य हि ॥ ३९ ॥
दिवसो निश्चितो विप्रैः कौसल्याख्येन रावण ।
तत् विधेर्वचनं श्रुत्वा पुष्पकस्थो दशाननः ॥ ४० ॥
अयोध्यां सत्वरं गत्वा राक्षसैः परिवेष्टितः ।
नौकास्थं तं दशरथं जित्वा युद्धैः सुदारुणः ॥ ४१ ॥
बभंज निजपादेन तां नौकां सरयूजले ।
तदा सर्वे मृतास्तत्र सरय्वा निमले जले ॥ ४२ ॥
दशरथसुमंत्रौ द्वौ नैकाखण्डोपरि स्थितौ ।
शनैः शनैः प्रवाहेण गत्वा भागीरथीं जदीम् ॥ ४३ ॥
ततः समुद्रमध्ये हि जीवितौ ईश्वरेच्छया ।
रावणः कोसल गत्वा कृत्वा परमसंगरम् ॥ ४४ ॥
कोसलाख्यं नृपं जित्वा कौसल्यां तां जहार सः ।
ततः प्रमुदितो लंकां ययौ आकाशवर्त्मना ॥ ४५ ॥
दृष्ट्वा तिमिंगिलं मत्स्यं वसंतं लवणार्णवे ।
चित्ते विचारयामास देवास्ते मम शत्रवः ॥ ४६ ॥
लंकायाश्च हरिष्यन्ति कौसल्यां गुप्तविग्रहाः ।
अतः तिमिंग्गिलायेमां न्यासभूतां करोम्यहम् ॥ ४७ ॥
ओतो निश्चित्य मनसि पेटिकायां निधाय ताम् ।
मत्स्यं समर्प्य हृष्टात्मा ययओ लंकाअं दशाननः ॥ ४८ ॥
तिमिंगिलोऽपि तामास्ये घृताब्धौ व्यचरत् सुखम् ।
अग्रे दृष्ट्वा रिपु स्वीयं तेन युद्धार्थमुद्यतः ॥ ४९ ॥
द्वीपे तां पेटिकां स्थाप्य संग्रामं रिपुणाऽकरोत् ।
एतस्मिन्नन्तरे नौका खंडं तं द्वीपमागतम् ॥ ५० ॥
तदा तौ मंत्रीनृपती द्वीपं तं आरुरुहतुः ।
तत्र पेटिकां दृष्ट्वा समुद्ध्याट्यातिविस्मितौ ॥ ५१ ॥
तस्यां दृष्ट्वाऽथ कौसल्यां ज्ञात्वा वृत्तं परस्परम् ।
तया मुहूर्तसमये द्वीपे दशरथो नृपः ॥ ५२ ॥
गान्धर्वाख्यं विवाहां च चकार मुदिताननः ।
ततो राजाऽथ कौसल्या सुंत्रो मंत्रिसत्तमः ॥ ५३ ॥
त्रयःस्थित्वा पेटिकायां तद्द्वारं पिदधुः पुनः ।
तिमिंगलो रिपुं जित्वा चकारास्ये तु पेटिकाम् ॥ ५४ ॥
लांकायां रावणश्चापि समाहूय विधिं पुनः ।
उवाच प्रहसन् वाक्यं सभायां संस्थितः सुखम् ॥ ५५ ॥
विधे तव मृषा वाक्यं रावनेन मया कृतम् ।
हतो दशरथस्तोये कौसल्या गोपिता मया ॥ ५६ ॥
तद् रावणवचः श्रुत्वा सभायां पद्मसंभवः ।
दीर्घस्वरेण प्रोवाच ॐपुण्याहं इति स्फुटम् ॥ ५७ ॥
रावणः संभ्रमात् प्राह किमिदं व्याहृतं त्वया ।
विधिः प्रोवाच लग्नं तु जातं दशरथस्य हि ॥ ५८ ॥
तदा विधिं मृषा कर्तुं दूतान् संप्रेष्य सादरम् ।
तिमिंगिलात् समानीय पेटिकां ब्रह्मणोऽन्तिके ॥ ५९ ॥
समुद्ध्ट्य ददर्शासौ तत्र तस्यां दशाननः ।
तदाऽतिचकित्अः क्रुद्धः तान् हंतुं खड्गमाददे ॥ ६० ॥
तदाऽतिसंभ्रमात् वेधा रावणं वाक्यमब्रवीत् ।
किं करोषि दशास्य त्वां माऽधुना साहसं कुरु ॥ ६१ ॥
कौसल्यैका स्थापिताऽस्यां पेतिकायां त्वया पुरा ।
त्रयस्तत्र तु संजाता भविष्यन्त्यत्र कोटिशः ॥ ६२ ॥
भविषति वधस्तेऽद्य रामोऽद्यैव जनिष्यति ।
साहसं कुरु माऽद्यैव सत्यायुषि दशानन ॥ ६३ ॥
यद् भविष्यं तद्‌भवतु तदग्रे माऽस्तु सांप्रतम् ।
एतान् दूतैः प्रेषयाद्य साकेतं त्वं सुखी भव ॥ ६४ ॥
न भविष्यति मद्वाणी मृषा जानीहि निश्चयम् ।
यद्‌भाव्यं तद्‌भवत्येन गहना कर्मणो गतिः ॥ ६५ ॥
तद्‌विधेर्वचनं सत्यं मत्वा भीतो दशाननः ।
पेटिकां प्रेषयामास साकेतं स्वभटैर्जवात् ॥ ६६ ॥
साकेते पेटिकां त्यक्त्वा भटास्ते रावनं गताः ।
अयोध्यायां महानासीत् संभ्रमो नृपदर्शनात् ॥ ६७ ॥
अयोध्यावासिनां नृणां कोसलाधिपतेरपि ।
ततः पुनर्विवाहस्य संभ्रमं कोसलाधिपः ॥ ६८ ॥
कृत्वा स्वराज्यं जामात्रे ददौ प्रीत्या हि पुत्रिकाम् ।
तदारभ्य कोसलेन्द्राः प्रोच्यन्ते रविवंशजाः ॥ ६९ ॥
ततो राजा दशरथः सुमित्रां मगधेशजाम् ।
विवाहेनापरां पत्‍नीं चकार दयितां प्रियाम् ॥ ७० ॥
कैकेयनृपतेः कन्यां कैकेयीं पद्मलोचनाम् ।
विवाहेनाकरोत् भार्यां तृतीयां परमादरात् ॥ ७१ ॥
तथाऽन्यानि सप्तशत कलत्राण्यकरोत् नृपः ।
एवं राजा दशरथः शशास जगतीतलम् ॥ ७२ ॥
दानैः भोगैः दशरथो बभूव जरठो महान् ।
नाभवत् संततिस्तस्य धार्मिकस्य अवनीपतेः ॥ ७३ ॥
कौसल्या च सुमित्रा च कैकेयी च गिरींद्रजे ।
एताः कुलीनाः सुभगा रूपयौवनसंयुताः ॥ ७४ ॥
तस्मिन् शासति राज्यं तु स्थितेऽयोध्यापुरि प्रिये ।
देवानां दानवानां च राज्यार्थं विग्रहो महान् ॥ ७५ ॥
तत्र वागभवच्छ्रेष्ठा यत्रायोध्यापतिर्महान् ।
जयस्तत्र न संदेहः तां श्रुत्वा पवनो जवात् ॥ ७६ ॥
प्रार्थयामास नृपतिं गत्वा युद्धाय सादरम् ।
ततो गत्वा दशरथः चकार कदनं महत् ॥ ७७ ॥
एतस्मिन् अंतरे तत्र संग्रामेऽतिभयावहे ।
भिन्नाक्षं स्वरथं राजा नाविदद्दिष्टसंभ्रमात् ॥ ७८ ॥
राज्ञोऽन्तिके स्थिता सुभ्रूः कैकेयी रणकौतुकम् ।
पश्यन्ती स्वरथं भिन्नं ददर्श समरांगणे ॥ ७९ ॥
अक्षवत्सा निजं हस्त चकार जयहेतवे ।
तया तु पूर्वं बाल्यत्वात् मष्यास्यं कस्यचिन्मुनेः ॥ ८० ॥
कृष्णवर्णं कृतं तेन शप्ता तेऽप्यपवादतः ।
मुखमग्रे निरीक्ष्यन्ति नैव लोकाः कदाचन ॥ ८१ ॥
ततस्तं गन्तुमुद्युक्तं कैकेयी वामहस्ततः ।
दंडादिकं ददौ तस्य मुनेर्हस्तेऽति भक्तितः ॥ ८२ ॥
तस्यै ददौ वरं विप्रः तव वामकरो वरात् ।
भविता वज्रकठिनः क्वापि नाहं च ईर्ष्यति ॥ ८३ ॥
कैकेयी तं वरं स्मृत्वा स्वं चकारक्षवत्करम् ।
अथ जित्वा रणे दैत्यान् दृष्ट्वा तत्कर्म पार्थिवः ॥ ८४ ॥
ददौ वरौ द्वौ तस्यै स न्यासभूतौ कृतौ तया ।
यदाऽहं याचयिष्यामि तदा त्वं देहि तौ मम ॥ ८५ ॥
तथेत्युक्त्वा नृपः पत्‍नीं ययौ स्वनगरीं प्रति ।
एकदा स निशायां तु मृगयायां महावने ॥ ८६ ॥
चकार वारिबंधं च अवधीत् वनचरान् वहन् ।
एतस्मिन्नन्तरे तत्र अने वाराणसीपथा ॥ ८७ ॥
करंडस्थौ स्वपितरौ स्वस्कन्धे श्रवणो वहन् ।
काशीं नेतुं ययौ वैश्यो धर्माबाधाभयान्निशि ॥ ८८ ॥
नीरं पातुं शिशो देहि चावयोश्चेति प्रार्थितः ।
ताभ्यां करंडके न्यस्य तटाके जलसंनिधौ ॥ ८९ ॥
गत्वा जले स्वयं कुम्भं न्युब्जं तस्थौ जले क्षणम् ।
कुम्भस्य न्युब्जतः शब्दो बभूव करिणो यथा ॥ ९० ॥
वनद्विपो न हंतव्यः चेति हानन्नपि नृपः ।
वैश्यं राजा द्विपं मत्वा विव्याध स पतत्त्रिणा ॥ ९१ ॥
पपात श्रवणस्तोये हा केनाहं प्रताडितः ।
ब्रुवतश्चेति तद्वाक्यं श्रुत्वाऽभूत् विह्वलो नृपः ॥ ९२ ॥
गत्वा जलात् बहिर्वेगात् तं कृत्वाऽऽकर्ण्य तद्गिरा ।
सर्वं वृत्तं विशल्य तं चकार भयविह्वलः ॥ ९३ ॥
तावंधावपि तत्पुत्र वधं श्रुत्वा रुरोदतुः ।
कारयित्वा नृपतिना चितिं पुत्रसमन्वितौ ॥ ९४ ॥
दशरथाय तौ शापं ददतुः पुत्रदुःखितौ ।
पुत्रशोकात् आवयोर्हि यथा मृत्युस्तवास्त्विति ॥ ९५ ॥
ययौ नृपोऽपि नगरं गुरुं वृत्तं न्यवेदयत् ।
वसिष्ठो नृपतेर्दोष शांत्यर्थं तुरगध्वरम् ॥ ९६ ॥
नृपेण कारयामास साकेते सरयूतटे ।
रोमपाद इति ख्यातः तस्मै दशरथः सखा ॥ ९७ ॥
शांतां स्वकन्यां प्रायच्छत् तत् राष्ट्रेऽभूत् अवर्षणम् ।
विभांडकाश्रमं वार नारीः संप्रेष्य तत्सुतम् ॥ ९८ ॥
रोमाअदो मोहयित्वा ऋष्यश्रुंगं समानयत् ।
वारस्त्रियो वने गत्वा समानिन्युः ऋषेः सुतम् ॥ ९९ ॥
नाट्यसंगीतवादित्रैः विभ्रमालिंगनार्हणैः ।
तत्प्रतापादभूद्‌वृष्टिः पुत्रोऽपि नृपतेरभूत् ॥ १०० ॥
ततस्तुष्टो रोअमादः तस्मै शांतां ददौ सुताम् ।
दशरथोऽपि स्वपुरीं आनयामास तं मुनिम् ॥ १ ॥
स तु राज्ञोऽनपत्यस्य निरूप्येष्टिं मरुत्वतः ।
प्रत्यक्षं हि चकाराग्निं यज्ञकुंडात् सपायसम् ॥ २ ॥
आविर्भूत्वा स्वयं वह्निः ददौ राज्ञे सुपायसम् ।
राज्ञा विभक्तं स्त्रीभ्यस्तत् कैकेया दुष्टभावतः ॥ ३ ॥
अहरत् पायसं हस्तात् गृध्री शापविमोचनम् ।
सुवर्चलाऽप्सरोमुख्या नृत्यभंगात् स्वयंभुवा ॥ ४ ॥
शप्ता जाता तु सा गृध्री तया वेधाः सुतोषितः ।
तस्यै तुष्टो विधिः प्राह कैकेयीपायसं यदा ॥ ५ ॥
प्रक्षिपस्यंजनगिरौ तदा ते व्हविता गतिः ।
अप्सरा त्वं पूर्ववत् च भविष्यसि न संशयः ॥ ६ ॥
तस्मात् सा पायसं नीत्वा अक्षेपदंजनिपर्वते ।
निजं स्वरूपं सा लब्ध्वा जगाम सुरमंदिरम् ॥ ७ ॥
ततस्ताभ्यां तु कैकेय्यै दत्तं किंचित्तु पायसम् ।
अथ ता भक्षयामासुः अंतर्गर्भास्तदाऽभावन् ॥ ८ ॥
आसन् तासां दोहदास्ते पुत्राणां भाविकर्मभिः ।
पुत्राणां भाविकर्माणि विदुस्ते दोहदैर्जनाः ॥ १०९ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे प्रथमः सर्गः ॥ १ ॥


GO TOP