॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ चतुर्थः सर्ग: ॥

श्री महादेव उवाच
मार्गे व्रजन्ददर्शाथ शैलशृङ्‌गमिव स्थितम् ।
वृद्धं जटायुषं रामः किमेतदिति विस्मितः ॥ १ ॥
धनुरानय सौमित्रे राक्षसोऽयं पुरः स्थितः ।
इत्याह लक्ष्मणं रामो हनिष्यामि ऋषिभक्षकम् ॥ २ ॥
तत्छ्रुत्वा रामवचनं गृध्रराड्भयपीडितः ।
वधार्होऽहं न ते राम पितुस्तेऽहं प्रियः सखा ॥ ३ ॥
जटायुर्नाम भद्रं ते गृध्रोऽहं प्रियकृत्तव ॥ ४ ॥
पञ्चवट्यामहं वत्स्ये तवैव प्रियकाम्यया ।
मृगयायां कदाचित्तु प्रयाते लक्ष्मणेऽपि च ॥ ५ ॥
सीता जनककन्या मे रक्षितव्या प्रयत्‍नतः ।
श्रुत्वा तद्‍गृध्रवचनं रामः सस्नेहमब्रवीत् ॥ ६ ॥
साधु गृध्र महाराज तथैव कुरु मे प्रियम् ।
अत्रैव मे समीपस्थो नातिदूरे वने वसन् ॥ ७ ॥
इत्यामंत्रितमालिङ्‌ग्य ययौ पञ्चवटीं प्रभुः ।
लक्ष्मणेन सह भ्रात्रा सीतया रघुनन्दनः ॥ ८ ॥
गत्वा ते गौतमीतीरं पञ्चवट्यां सुविस्तरम् ।
मन्दिरं कारयामास लक्ष्मणेन सुबुद्धिना ॥ ९ ॥
तत्र ते न्यवसन् सर्वे गङ्‌गाया उत्तरे तटे ।
कदम्बपनस आम्रादि फलवृक्षसमाकुले ॥ १० ॥
विविक्ते जनसंबाध वर्जिते नीरुजस्थले ।
विनोदयन् जनकजां लक्ष्मणेन विपश्चिता ॥ ११ ॥
अध्युवास सुखं रामो देवलोक इवापरः ।
कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः ॥ १२ ॥
आनीय प्रददौ राम सेवातत्परमानसः ।
धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः ॥ १३ ॥
स्नानं कुर्वन्त्यनुदिनं त्रयस्ते गौतमीजले ।
उभयोर्मध्यगा सीता कुरुते च गमागमौ ॥ १४ ॥
आनीय सलिलं नित्यं लक्ष्मणः प्रीतमानसः ।
सेवितेऽहरहः प्रीत्या एवमासन्सुखं त्रयः ॥ १५ ॥
एकदा लक्ष्मणो रामं एकान्ते समुपस्थितम् ।
विनयावनतो भूत्वा पप्रच्छ परमेश्वरम् ॥ १६ ॥
भगवन् श्रोतुमिच्छामि मोक्षस्यैकान्तिकीं गतिम् ।
त्वत्तः कमलपत्राक्ष संक्षेपात् वक्तुमर्हसि ॥ १७ ॥
ज्ञानं विज्ञानसहितं भक्तिवैराग्यबृंहितम् ।
आचक्ष्व मे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले ॥ १८ ॥
श्रीराम उवाच
शृणु वक्ष्यामि ते वत्स गुह्यात् गुह्यतरं परम् ।
यद्विज्ञाय नरो जह्यात् सद्यो वैकल्पकं भ्रमम् ॥ १९ ॥
आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम् ।
ज्ञानस्य साधनं पश्चात् ज्ञानं विज्ञानसंयुतम् ॥ २० ॥
ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात् ।
अनात्मनि शरीरादौ आत्मबुद्धिस्तु या भवेत् ॥ २१ ॥
सैव माया तयैवासौ संसारः परिकल्प्यते ।
रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन ॥ २२ ॥
विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत् ।
लिङ्‌गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः ॥ २३ ॥
अपरं तु अखिलं ज्ञान रूपं आवृत्य तिष्ठति ।
मायया कल्पितं विश्वं परमात्मनि केवले ॥ २४ ॥
रज्जौ भुजङ्‌गवत् भ्रान्त्या विचारे नास्ति किञ्चन ।
श्रूयते दृश्यते यद्यत् स्मर्यते वा नरैः सदा ॥२५ ॥
असत् एव हि तत्सर्वं यथा स्वप्नमनोरथौ ।
देह एव हि संसार वृक्षमूलं दृढं स्मृतम् ॥ २६ ॥
तन्मूलः पुत्र दारादि बन्धः किं तेऽन्यथात्मनः ॥ २७ ॥
देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम् ।
अहंकारश्च बुद्धिश्च इन्द्रियाणि तथा दश ॥ २८ ॥
चिदाभासो मनश्चैव मूलप्रकृतिरेव च ।
एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते ॥ २९ ॥
एतैर्विलक्षणो जीवः परमात्मा निरामयः ।
तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु ॥ ३० ॥
जीवश्च परमात्मा च पर्यायो नात्र भेदधीः ।
मानाभावस्तथा दम्भ हिंसादिपरिवर्जनम् ॥ ३१ ॥
पराक्षेपादिसहनं सर्वत्रावक्रता तथा ।
मनोवाक्कायसद्‌भक्त्या सद्‍गुरोः परिसेवनम् ॥ ३२ ॥
बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु ।
मनोवाक्कायदण्डश्च विषयेषु निरीहता ॥ ३३ ॥
निरहङ्‌कारता जन्म जराद्यालोचनं तथा ।
असक्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु ॥ ३४ ॥
इष्टानिष्टगमे नित्यं चित्तस्य समता तथा ।
मयि सर्वात्मके रामे ह्यनन्यविषया मतिः ॥ ३५ ॥
जनसम्बाधरहित शुद्धदेशनिषेवणम् ।
प्राकृतैर्जनसङ्‌घैश्चहि अरतिः सर्वदा भवेत् ॥ ३६ ॥
आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् ।
उक्तैः एतैः भवेज्ज्ञानं विपरीतैर्विपर्ययः ॥ ३७ ॥
बुद्धिप्राणमनोदेह अहंकृतिभ्यो विलक्षणः ।
चिदात्माहं नित्यशुद्धो बुद्ध एवेति निश्चयम् ॥ ३८ ॥
येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे ।
विज्ज्ञानं च तदैवैतत् साक्षादनुभवेद्यदा ॥ ३९ ॥
आत्मा सर्वत्र पूर्णः स्यात् चिदानन्दात्मकोऽव्ययः ।
बुद्ध्यादि उपाधिरहितः परिणामादिवर्जितः ॥ ४० ॥
स्वप्रकाशेन देहादीन् भासयन् अनपावृतः ।
एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः ॥ ४१ ॥
असङ्‌गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते ।
आचार्य-शास्त्र-उपदेशात् ऐक्यज्ञानं यदा भवेत् ॥ ४२ ॥
आत्मनोर्जीवपरयोः मूलाविद्या तदैव हि ।
लीयते कार्यकरणैः सहैव परमात्मनि ॥ ४३ ॥
सावस्था मुक्तिरित्युक्ता ह्युपचारो अयमात्मनि ।
इदं मोक्षस्वरूपं ते कथितं रघुनन्दन ॥ ४४ ॥
ज्ञानविज्ञानवैराग्य सहितं मे परात्मनः ।
किन्तु एतद्त् उर्लभं मन्ये मद्‌भक्तिविमुखात्मनाम् ॥ ४५ ॥
चक्षुष्मतामपि यथा रात्रौ सम्यङ् न दृश्यते ।
पदं दीपसमेतानां दृश्यते सम्यगेव हि ॥ ४६ ॥
एवं मद्‌भक्तियुक्तानां आत्मा सम्यक् प्रकाशते ।
मद्‌भक्तेः कारणं किञ्चित् वक्ष्यामि शृणु तत्त्वतः ॥ ४७ ॥
मद्‌भक्तसङ्‌गो मत्सेवा मद्‌भक्तानां निरन्तरम् ।
एकादशि उपवासादि मम पर्वानुमोदनम् ॥ ४८ ॥
मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः ।
मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम् ॥ ४९ ॥
एवं सततयुक्तानां भक्तिरव्यभिचारिणी ।
मयि सञ्जायते नित्यं ततः किमवशिष्यते ॥ ५० ॥
अतो मद्‌भक्तियुक्तस्य ज्ञानं विज्ञानमेव च ।
वैराग्यं च भवेत् छीघ्रं ततो मुक्तिमवाप्नुयात् ॥ ५१ ॥
कथितं सर्वमेतत्ते तव प्रश्नानुसारतः ।
अस्मिन् मनः समाधाय यः तिष्ठेत् स तु मुक्तिभाक् ॥ ५२ ॥
न वक्तव्यमिदं यत्‍नात् मद्‌भक्तिविमुखाय हि ।
मद्‌भक्ताय प्रदातव्यं आहूयापि प्रयत्‍नतः ॥ ५३ ॥
य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः ।
अज्ञानपटलध्वान्तं विधूय परिमुच्यते ॥ ५४ ॥
भक्तानां मम योगिनां सुविमल
स्वान्तातिशान्तात्मनां
मत्सेवाभिरतात्मनां च विमल
ज्ञानात्मनां सर्वदा ।
सङ्‌गं यः कुरुते सदोद्यतमतिः
तत्सेवनानन्यधीः
मोक्षस्तस्य करे स्थितोऽहमनिशं
दृश्यो भवे नान्यथा॥ ५५ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे चतुर्थः सर्गः ॥ ४ ॥

GO TOP