॥ अद्‌भुत रामायणम् ॥

पञ्चमः सर्गः

कौशिकादीनां वैकुण्ठगमनं तथा सीतायाः जन्मग्रहणकारणकथनम् -

भरद्वाज शृणुष्वाथ सीताजन्मनि कारणम् ।
पुरा त्रेतायुगे कश्चित्कौशिको नाम वै द्विजः ॥ १ ॥
वासुदेवपरो नित्यं नामगानरतः सदा ।
भोजनासनशय्यासु सदा तद्‌गतमानसः ।
उदारचरितं विष्णोर्गायमानः पुन पुनः ॥ २ ॥
विष्णुस्थलं समासाद्य हरेः क्षेत्रमनुत्तमम् ।
अगायत हरिं तत्र तालवल्गुलयान्वितम् ॥ ३ ॥
मूर्च्छनामूर्च्छायोगेन श्रुतिमण्डलवेदितम् ।
भक्तियोगसमापन्नो भिक्षामश्नाति तत्र वै ॥ ४ ॥
तत्रैनं गायमानं च दृष्ट्वा कञ्चिद्‌द्विजस्तदा ।
पद्माक्ष इति विख्यातस्तस्मै चान्नं ददौ सदा ॥ ५ ॥
सकुटुम्बो महातेजा अश्नन्नंन्न च तस्य वै ।
कौशिकोऽपि तदा हृष्टो गायन्नास्ते हरि प्रभुम् ॥ ६ ॥
शृण्वन्नास्ते स पद्माक्षः काले काले च भक्तितः ।
कालयोगेन सम्प्राप्ताः शिष्या वै कौशिकस्य च ॥ ७ ॥
सप्तराजन्यवैश्यानां विप्राणां कुलसम्भवाः ।
ज्ञानविद्याधिका शुद्धा वासुदेवपरायणाः ॥ ८ ॥
तेषामपि तथान्नाद्यं पद्माक्षः प्रददौ स्वयम् ।
शिष्यैश्च सहितो नित्यं कौशिको हृष्टमानसः ॥ ९ ॥
विष्णुस्थले हरिं तत्र आस्ते गायन्यथाविधि ।
तत्रैव मालवो नाम वैद्यो विष्णुपरायणः ॥ १० ॥
दीपमालां हरेर्नित्यं करोति प्रीतमानसः ।
मालतीनाम भार्यासीत्तस्य नित्यं पतिव्रता ॥ ११ ॥
गोमयेन समालिप्य हरेः क्षेत्रं समन्ततः ।
भर्त्रा सहास्ते सम्प्रीता शृण्वती गानमुत्तमम् ॥ १२ ॥
कुशस्थलीसमुत्पन्ना ब्राह्मणाः शंसितव्रताः ।
पञ्चाशद्वै समापन्ना हरेर्गानार्थमुत्तमा ॥ १३ ॥
साधयन्तो हि कार्याणि कौशिकस्य महात्मनः ।
ज्ञानविद्यार्थतत्त्वज्ञाः शृण्वन्तो ह्यवसंस्तु ते ॥ १४ ॥
ख्यातमासीत्तदा तस्य गानं वै कौशिकस्य च ।
श्रुत्वा राजा समभ्येत्य कालिङ्गो वाक्यमब्रवीत् ॥ १५ ॥
कौशिकाद्यगणैः सार्धं गायस्वेह च मां पुनः ।
शृणुध्वं च तथा यूयं कुशस्थलजना अपि ॥ १६ ॥
तच्छ्रुत्वा कौशिकः प्राह राजानं सान्त्वयान्गिरा ।
न जिह्वाग्रे महाराज वाणी च मम सर्वदा ॥ १७ ॥
हरेरन्यमपीन्द्रं वा स्तौति नापि न वक्ति च ।
एवमुक्ते च तच्छिष्या वसिष्ठो गौतमोऽरुणिः ॥ १८ ॥
सारस्वतस्तथा वैश्यश्चित्रमालस्तथा शिशुः ।
ऊचुस्तं पार्थिवं तत्त्वं यथा प्राह स कौशिकः ॥ ।१९ ॥
श्रीकराश्च तथा प्रोचुः पार्थिवं विष्णुतत्पराः ।
श्रोत्राणीमानि वृण्वन्ति हरेरन्यं न पार्थिवम् ॥ २० ॥
मा ते कीर्तिं वयं तस्माच्छृणुमो नैव वा स्तुतिम् ।
तच्छ्रुत्वा पार्थिवो रुष्टो गीयतामिति चाब्रवीत् ॥ ।२१ ॥
स्वभृत्यान्ब्राह्मणा ह्येते कीर्तिं शृण्वन्ति वै यथा ।
न शृण्वन्ति कथं तस्माद्‌गीयमानं समन्ततः ॥ २२ ॥
एवमुक्तास्ततो भृत्या जगुः पार्थिवसत्तमम् ।
निरुद्धकर्णा विप्रास्ते गाने वृत्ते सुदुःखिताः ॥ २३ ॥
काष्ठशंकुभिरन्योन्यं श्रोत्राणि बिभिदुः किल ।
कौशिकाद्यास्तु तां ज्ञात्वा मनोवृत्तिं नृपस्य वै ॥ २४ ॥
निर्बन्धं कुरुते कस्मात्स्वगानेऽसौ नृपः स्थिरम् ।
इत्युक्त्वा ते सुनियता जिह्वाग्रं चिच्छिदुः स्वकम् ॥ २५ ॥
ततो राजा सुसंक्रुद्धः स्वदेशात्तान्व्यवासयत् ।
आदाय वित्तं सर्वेषां ततस्ते जग्मुरुत्तराम् ॥ २६ ॥
दिशामासाद्य कालेन कालधर्मेण योजिताः ।
तानागतान्यमो दृष्ट्वा किंकर्तव्यमिति स्म ह ॥ २७ ॥
विस्मितस्तत्क्षणे विप्र ब्रह्मा प्राह सुराधिपान् ।
कौशिकादीन्द्विजानद्य वासुदेवपरायणान् ॥ २८ ॥
गानयोगेन ये नित्यं पूजयन्ति जनार्दनम् ।
तानादाय भद्रं वो यदि देवत्वमिच्छथ ॥ २९ ॥
इत्युक्त्वा लोकपालास्ते कौशिकेति पुनः पुनः ।
मालतीति तथा केचित्पद्माक्षेति तथापरे ॥ ३० ॥
क्रोशमानाः समभ्येत्य तानादाय विहायसा ।
ब्रह्मलोकं गताः शीघ्रं मुहूर्तार्द्धेन वै सुराः ॥ ३१ ॥
कौशिकादींस्तथा दृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रत्यागम्य यथान्यायं स्वागतेनाभ्यपूजयत् ॥ ३२ ॥
ततः कोलाहलश्चाभूदतिगौरवमुल्बणम् ।
ब्रह्मणा च कृतं दृष्ट्वा देवानां द्विजसत्तम ॥ ३३ ॥
हिरण्यगर्भो भगवांस्तान्निवार्य सुरोत्तमान् ।
कौशिकादींस्तदाऽऽदाय मुनिदेवैः समावृत्तः ॥ ३४ ॥
विष्णुलोकं ययौ शीघ्रं वासुदेवपरायणः ।
तत्र नारायणो देवः श्वेतद्वीपनिवासिभिः ॥ ३५ ॥
ज्ञानयोगेश्वरैः सिद्धैर्विष्णुभक्तिपरायणैः ।
नारायणसमैर्दिव्यैश्चतुर्बाहुधरैः शुभैः ॥ ३६ ॥
विष्णुचिह्नसमापन्नैर्दीप्यमानैरकल्मषैः ।
अष्टाशीतिसहस्रैस्तु सेव्यमानो मनोजवैः ॥ ३७ ॥
अस्माभिर्नारदाद्यैश्च सनकाद्यैरकल्मषैः ।
भुतैर्नानाविधैश्चैव दिव्यस्त्रीभिः समन्ततः ॥ ३८ ॥
सेव्यमानोऽथ मध्ये वै सहस्रद्वारसंवृत्ते ।
सहस्रयोजनायामे दिव्ये मणिमये शुभे ॥ ३९ ॥
विमाने विमले चित्रे भद्रपीठासने हरिः ।
लोककार्यप्रसक्तानां दत्त्वा दृष्टिं समास्थितः ॥ ४० ॥
तस्मिन्कालेऽथ भगवान्कौशिकाद्यैश्च संवृत्तः ।
आगम्य प्रणिपत्याग्रे तुष्टाव गरुडध्वजम् ॥ ४१ ॥
ततोऽवलोक्य भगवान्हरिर्नारायणः प्रभुः ।
कौशिकेत्याह सम्प्रीत्या तान्सर्वांश्च यथाक्रमम् ॥ ४२ ॥
जयघोषो महानासीन्माहाश्चर्ये समागते ।
ब्रह्माणमाह विश्वात्मा शृणु ब्रह्मन्यथोदितम् ॥ ४३ ॥
कौशिकस्य च ये विप्राः साध्यसाधनतत्पराः ।
हिताय सम्प्रवृत्ता वै कुशस्थलनिवासिनः ॥ ४४ ॥
मत्कीर्तिश्रवणे युक्ता गानतत्त्वार्थकोविदाः ।
अनन्यदेवता भक्ताः साध्या देवा भवन्त्विमे ॥ ४५ ॥
मत्समीपे तथा ह्यस्य प्रवेशं देहि सर्वदा ।
एवमुक्त्वा पुनर्देवः कौशिकं प्राह माधवः ॥ ४६ ॥
स्वशिष्यैस्त्वं महाप्राज्ञ दिग्बलो नाम वै सदा ।
गणाधिपत्यमापन्नो यत्राहं तत्समास्व वै ॥ ४७ ॥
मालतीमालवं चेति प्राह दामोदरो वचः ।
मम लोके यथाकामं भार्यया सह मालव ॥ ४८ ॥
दिव्यरूपधरः श्रीमाञ्छृण्वन्गानमिहानुगैः ।
आस्व नित्यं यथाकामं यावल्लोका भवन्ति वै ॥ ४९ ॥
पद्माक्षमाह भनवान् धनदो भव मानद ।
धनानामीश्वरो भूत्वा विहरस्य यथासुखम् ॥ ५० ॥
ब्रह्माणं च ततः प्राह कौशिकोऽभूद्‌गणाधिपः ।
गणाः स्तोष्यन्ति तं चाशु प्राप्तो मेऽस्ति सलोकताम् ॥ ५१ ॥
एते च विप्रा नियतं मम भक्ता यशस्विनः ।
श्रोत्रच्छिद्रं यथाहत्य शंकुभिर्वै परस्परम् ॥ ५२ ॥
श्रोष्यामो नैव चान्यद्वै हरेः कीर्तिं विनेति ये ।
महाव्रतधरा विप्रा मम भक्तिपरायणाः ॥ ५३ ॥
एते प्राप्ताश्च देवत्वं मम सान्निध्यमेव च ।
मालवो भार्यया सार्द्धं मत्क्षेत्रं परिगृह्य वै ॥ ५४ ॥
मानमानादिभिर्नित्यमभ्यर्च्य सततं हि माम् ।
गानं शृणोति नियतो मत्कीर्तिचरितान्वितम् ॥ ५५ ॥
तेनासौ प्राप्तवाँल्लोकं मम ब्रह्मन् सनातनम् ।
पद्माक्षोऽसौ महाभागः कौशिकस्य महात्मनः ॥ ५६ ॥
धनेशत्वमवाप्तोऽसौ मम सान्निध्यमेव च ।
एवमुक्त्वा हरिस्तत्र समास्ते लोकपूजितः ॥ ५७ ॥
ततो हरिर्भक्तजनैः समावृतः
     सुखेन तस्थौ कनकासने शुभे ।
भक्तैकगम्यो निजभक्तलोकान्
    स लालयन्पाणिसरोरुहेण ॥ ५८ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
कौशिकादि वैकुण्ठगमनं नाम पंचमः सर्गः ॥ ५ ॥

GO TOP