॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ त्रयोदशः सर्गः ॥

श्रीमहादेव उवाच

ततः शक्रः सहस्राक्षो यमश्च वरुणस्तथा ।
कुबेरश्च महातेजाः पिनाकी वृषवाहनः ॥ १ ॥
ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारणैः ।
ऋषयः पितरः साध्या गन्धर्वाप्सरसोरगाः ॥ २ ॥
एते चान्ये विमानाग्र्यैः आजग्मुर्यत्र राघवः ।
अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते ॥ ३ ॥
कर्ता त्वं सर्वलोकानां साक्षी विज्ञानविग्रहः ।
वसूनामष्टमोऽसि त्वं रुद्राणां शङ्‌करो भवान् ॥ ४ ॥
आदिकर्तासि लोकानां ब्रह्मा त्वं चतुराननः ।
अश्विनौ घ्राणभूतौ ते चक्षुषी चन्द्रभास्करौ ॥ ५ ॥
लोकानां आदिरन्तोऽसि नित्य एकः सदोदितः ।
सदा शुद्धः सदा बुद्धः सदा मुक्तोऽगुणोऽद्वयः ॥ ६ ॥
त्वन्मायासंवृतानां त्वं भासि मानुषविग्रहः ।
त्वन्नाम स्मरतां राम सदा भासि चिदात्मकः ॥ ७ ॥
रावणेन हृतं स्थानं अस्माकं तेजसा सह ।
त्वयाद्य निहतो दुष्टः पुनः प्राप्तं पदं स्वकम् ॥ ८ ॥
एवं स्तुवत्सु देवेषु ब्रह्मा साक्षात् पितामहः ।
अब्रवीत् प्रणतो भूत्वा रामं सत्यपथे स्थितम् ॥ ९ ॥
ब्रह्मोवाच
वन्दे देवं विष्णुमशेषस्थितिहेतुं
त्वामध्यात्मज्ञानिभिः अन्तर्हृदि भाव्यम् ।
हेयाहेयद्वन्द्वविहिनं परमेकं
सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १० ॥
प्राणापानौ निश्चयबुद्ध्या हृदि रुद्‍ध्वा
छित्वा सर्वं संशयबन्धं विषयौघान् ।
पश्यन्तीशं यं गतमोहा यतयस्तं
वन्दे रामं रत्‍नकिरीटं रविभासम् ॥ ११ ॥
मायातीतं माधवमाद्यं जगदादिं
मानातीतं मोहविनाशं मुनिवन्द्यम् ।
योगिध्येयं योगविधानं परिपूर्णं ।
वन्दे रामं रञ्जितलोकं रमणीयम् ॥ १२ ॥
भावाभावप्रत्ययहीनं भवमुख्यैः
योगासक्तैः अर्चितपादाम्बुजयुग्मम् ।
नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं
वन्दे रामं वीरमशेषसुरदावम् ॥ १३ ॥
त्वं मे नाथो नाथितकार्याखिलकारी
मानातीतो माधवरूपोऽखिलधारी ।
भक्त्या गम्यो भावितरूपो भवहारी
योगाभ्यासैः भावितचेतःसहचारी ॥ १४ ॥
त्वां आद्यन्तं लोकततीनां परमीशं
लोकानां नो लौकिकमानैः अधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैः भजनीयं
वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ १५ ॥
को वा ज्ञातु त्वामतिमानं गतमानं
मायासक्तो माधव शक्तो मुनिमान्यम् ।
वृन्दारण्ये वन्दितवृन्दारकवृन्दं
वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥ १६ ॥
नानाशस्त्रैवेदकदम्बैः प्रतिपाद्यं
नित्यानन्दं निर्विषयज्ञानमनादिम् ।
मत्सेवार्थं मानुषभावं प्रतिपन्नं
वन्दे रामं मरकतवर्णं मथुरेशम् ॥ १७ ॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं
ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं
ध्यात्वा ध्याता पातकजालैर्विगतः स्यात् ॥ १८ ॥
श्रुत्वा स्तुतिं लोकगुरोर्विभावसुः
स्वाङ्‍के समादाय विदेहपुत्रिकाम् ।
विभ्राजमानां विमलारुणद्युतिं
रक्ताम्बरां दिव्यविभूषणान्विताम् ॥ १९ ॥
प्रोवाच साक्षी जगतां रघूत्तमं
प्रसन्नसर्वार्तिहरं हुताशनः ।
गृहाण देवीं रघुनाथ जानकीं
पुरा त्वया मय्यवरोपितां वने ॥ २० ॥
विधाय मायाजनकात्मजां हरे
दशाननप्राणविनाशनाय च ।
हतो दशास्यः सह पूत्रबान्धवैः -
निराकृतोऽनेन भरो भुवः प्रभो ॥ २१ ॥
तिरोहिता सा प्रतिबिम्बरूपिणी
कृता यदर्थं कृतकृत्यतां गता ।
ततोऽतिहृष्टां परिगृह्य जानकीं
रामः प्रहृष्टः प्रतिपूज्य पावकम् ॥ २२ ॥
स्वाङ्‍के समावेश्य सदानपायिनीं
श्रियं त्रिलोकीजननीं श्रियः पतिः ।
दृष्ट्वाथ रामं जनकात्मजायुतं
श्रिया स्फुरन्तं सुरनायको मुदा ।
भक्त्या गिरा गद्‍गदया समेत्य
कृताञ्जलिः स्तोतुमथोपचक्रमे ॥ २३ ॥
इन्द्र उवाच
भजेऽहं सदा राममिन्दीवराभं
भवारण्यदावानलाभाभिधानम् ।
भवानीहृदा भावितानन्दरूपं
भवाभावहेतुं भवादिप्रपन्नम् ॥ २४ ॥
सुरानीकदुःखौघनाशैकहेतुं
नराकारदेहं निराकारमीड्यम् ।
परेशं परानन्दरूपं वरेण्यं
हरिं राममीशं भजे भारनाशम् ॥ २५ ॥
प्रपन्नाखिलानन्ददोहं प्रपन्नं
प्रपन्नार्तिनिःशेषनाशाभिधानम् ।
तपोयोगयोगीशभावाभिभाव्यं
कपीशादिमित्रं भजे राममित्रम् ॥ २६ ॥
सदा भोगभाजां सुदूरे विभान्तं
सदा योगभाजां अदूरे विभान्तम् ।
चिदानन्दकन्दं सदा राघवेशं
विदेहात्मजानन्दरूपं प्रपद्ये ॥ २७ ॥
महायोगमायाविषेशानुयुक्तो
विभासीश लीलानराकारवृत्तिः ।
त्वदानन्दलीला कथा पूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥ २८ ॥
अहं मानपानाभिमत्तप्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवत्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः ॥ २९ ॥
स्फुरद्‌रत्‍नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्‍त्रं लसत्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥ ३० ॥
सुराधीशनीलाभ्रनीलाङ्‌गकान्तिं
विराधादिरक्षोवधाल्लोकशान्तिम् ।
किरीटादिशोभं पुरारातिलाभं
भजे रामचन्द्रं रघूणामधीशम् ॥ ३१ ॥
लसत्चन्द्रकोटिप्रकाशादिपीठे
समासीनमङ्‌के समाधाय सीताम् ।
स्फुरद् हेमवर्णां तडित्पुञ्जभासं
भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥ ३२ ॥
ततः प्रोवाच भगवान् भवान्या सहितो भवः ।
रामं कमलपत्राक्षं विमानस्थो नभःस्थले ॥ ३३ ॥
आगमिष्याम्ययोध्यायां द्रष्टुं त्वां राज्यसत्कृतम् ।
इदानीं पश्य पितरं अस्य देहस्य राघवः ॥ ३४ ॥
ततोऽपश्यद् विमानस्थं रामो दशरथं पुरः ।
ननाम शिरसा पादौ मुदा भक्त्या सहानुजः ॥ ३५ ॥
आलिङ्‌ग्य मूर्ध्न्यवघ्राय रामं दशरथोऽब्रवीत् ।
तारितोऽस्मि त्वया वत्स संसारद्दुःखसागरात् ॥ ३६ ॥
इत्युक्‍त्वा पुनरालिङ्‌ग्य ययौ रामेण पूजितः ।
रामोऽपि देवराजं तं दृष्ट्वा प्राह कृताञ्जलिम् ॥ ३७ ॥
मत्कृते निहतान् सङ्‍ख्ये वानरान् पतितान् भुवि ।
जीवयाशु सुधावृष्ट्या सहस्राक्ष ममाज्ञया ॥ ३८ ॥
तथेत्यमृतवृष्ट्या तान् जीवयामास वानरान् ।
ये ये मृता मृधे पूर्वं ते ते सुप्तोत्थिता एव ।
पूर्ववद्‌बलिनो हृष्टा रामपार्श्वमुपाययुः ॥ ३९ ॥
नोत्थिता राक्षसास्तत्र पीयूषस्पर्शनादपि ।
विभीषणस्तु साष्टाङ्‌गं प्रणिपत्याब्रवीद्वचः ॥ ४० ॥
देव मामनुगृह्णीष्व मयि भक्तिर्यदा तव ।
मङ्‌गलस्नानमद्य त्वं कुरु सीतासमन्वितः ॥ ४१ ॥
अलङ्‌कृत्य सह भ्राता श्वो गमिष्यामहे वयम् ।
विभीषणवचः श्रुत्वा प्रत्युवाच रघुत्तमः ॥ ४२ ॥
सुकुमारोऽतिभक्तो मे भरतो मामवेक्षते ।
जटावल्कलधारी स शब्दब्रह्मसमाहितः ॥ ४३ ॥
कथं तेन विना स्नानं अलङ्‌कारादिकं मम ।
अतः सुग्रीवमुख्यान् त्वं पूजयाशु विशेषतः ॥ ४४ ॥
पूजितेषु कपीन्द्रेषु पूजितोऽहं न संशयः ।
इत्युक्तो राघवेणाशु स्वर्णरत्‍नाम्बराणि च ॥ ४५ ॥
ववर्ष राक्षसश्रेष्ठो यथाकामं यथारुचि ।
ततस्तान् पूजितान् दृष्ट्वा रामो रत्‍नैश्च यूथपान् ॥ ४६ ॥
अभिनन्द्य यथान्यायं विससर्ज हरीश्वरान् ।
विभीषणसमानीतं पुष्पकं सूर्यवर्चसम् ॥ ४७ ॥
आरुरोह ततो रामः तद्विमानं अनुत्तमम् ।
अङ्‍के निधाय वैदेहीं लज्जमानां यशस्विनीम् ॥ ४८ ॥
लक्ष्मणेन सह भ्राता विक्रान्तेन धनुष्मता ।
अब्रवीच्च विमानस्थः श्रीरामः सर्ववानरान् ॥ ४९ ॥
सुग्रीवं हरिराजं च अङ्‌गदं च विभीषणम् ।
मित्रकार्यं कृतं सर्वं भवद्‌भिः सह वानरैः ॥ ५० ॥
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ।
सुग्रीव प्रतियाह्याशु किष्किन्धां सर्वसैनिकैः ॥ ५१ ॥
स्वराज्ये वस लङ्‌कायां मम भक्तो विभीषण ।
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः ॥ ५२ ॥
अयोध्यां गन्तुमिच्छामि राजधानीं पितुर्मम ।
एवमुक्तास्तु रामेण वानरास्ते महाबलाः ॥ ५३ ॥
ऊचुः प्राञ्जलयं सर्वे राक्षसश्च विभीषणः ।
अयोध्यां गन्तुमिच्छामः त्वया सह रघुत्तम ॥ ५४ ॥
दृष्ट्वा त्वामभिषिक्तं तु कौसल्यां अभिवाद्य च ।
पश्चाद्‍वृणीमहे राज्यं अनुज्ञां देहि नः प्रभो ॥ ५५ ॥
रामस्तथेति सुग्रीव वानरैः सविभीषणः ।
पुष्पकं स-हनूमांश्च शीघ्रमारोह साम्प्रतम् ॥ ५६ ॥
ततस्तु पुष्पकं दिव्यं सुग्रीवः सह सेनया ।
विभीषणश्च सामात्यः सर्वे चारुरुहुः द्रुतम् ॥ ५७ ॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
राघवेणाभ्यनुज्ञातं उत्पपात विहायसा ॥ ५८ ॥
बभौ तेन विमानेन हंसयुक्तेन भास्वता ।
प्रहृष्टश्च तदा रामः चतुर्मुख इवापरः ॥ ५९ ॥
ततो बभौ भास्करबिम्बतुल्यं
कुबेरयानं तपसानुलब्धम् ।
रामेण शोभां नितरां प्रपेदे
सीतासमेतेन सहानुजेन ॥ ६० ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

GO TOP