॥ अद्‌भुत रामायणम् ॥

षड्‌विंशतितमः सर्गः

श्रीरामविजयवर्णनम् -

एवं नामसहस्रेण स्तुत्वाऽसौ रघुनन्दनः ।
भूयः प्रणम्य प्रीतात्मा प्रोवाचेदं कृतांजलिः ॥ १ ॥
यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत्प्रदर्शय ॥ २ ॥
एवमुक्ताथ सा देवी तेन रामेण मैथिली ।
संहृत्य दर्शयामास स्वं रूपं परमं पुनः ॥ ३ ॥
काञ्चनाम्बुरुहप्रख्यं पद्मोत्पलसुगन्धिकम् ।
सुनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ ४ ॥
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद्विशालसद्‌वृत्तललाटतिलकोज्ज्वलम् ॥ ५ ॥
भूषितं चारुसर्वांगं भूषणैरभिशोभितम् ।
दधानां सुरसां मालां विशालां हेमनिर्मिताम् ॥ ६ ॥
ईषत्स्मितं सुबिम्बोष्ठं नूपुराम्बरसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ ७ ॥
तदीदृशं समालोक्य रूपं रघुकुलोत्तमः ।
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ ८ ॥
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा ॥ ९ ॥
त्वया सृष्टं जगत्सर्वं प्रधानाद्यं त्वयि स्थितम् ।
त्वय्येव लीयते देवि त्वमेव च परागतिः ॥ १० ॥
वदन्ति केचित्त्वामेव प्रकृतिं विकृतेः पराम् ।
अपरे परमात्मज्ञाः शिवेति शिवसंश्रये ॥ ११ ॥
त्वयि प्रधानः पुरुषो महान्ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कालाद्याः शतशोऽभवन् ॥ १२ ॥
त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वभेदाश्रया निजा ॥ १३ ॥
त्वामधिष्ठाय योगेशि ! पुरुषः परमेश्वरीम् ।
प्रधानाद्यं जगत्कृत्स्नं करोति विकरोति च ॥ १४ ॥
त्वयैव संगतो देवः स्वमानन्दं समश्नुते ।
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ १५ ॥
त्वमेव परमं व्योम महाज्योतिर्निरंजनम् ।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ॥ १६ ॥
त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामपि ।
सांख्यानां कपिलो देवो रुद्राणामसि शंकरः ॥ १७ ॥
आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ।
वेदानां सामवेदस्त्वं गायत्री छन्दसामपि ॥ १८ ॥
अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ।
माया त्वं सर्वशक्तीनां कालः कलयतामपि ॥ १९ ॥
ॐकारः सर्वगुह्यानां वर्णानां च द्विजोत्तमः ।
आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः ॥ २० ॥
पुंसां त्वमेव पुरुषः सर्वभूतहृदि स्थितः ।
सर्वोपनिषदां देवि गुह्योपनिषदुच्यसे ॥ २१ ॥
ईशनं चासि भूपानां युगानां कृतमेव च ।
आदित्यः सर्वमार्गाणां वाचां देवी सरस्वती ॥ २२ ॥
त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामपि ।
अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ २३ ॥
सूक्तानां पौरुषं सूक्तं ज्येष्ठं साम च सामसु ।
सावित्री ह्यसि जप्यानां यजुषां शतरुद्रियम् ॥ २४ ॥
पर्वतानां महामेरुनन्तो भोगिनामसि ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ २५ ॥
रूपं तवाशेषकलाविहीनमगोचरं निर्मलमेकरूपम् ।
अनादिमध्यान्तमनन्तमाद्यं नमामि सत्यं तमसः परस्तात् ॥ २६ ॥
यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः ।
आनन्दमात्रं परमाभिधानं तदेव रूपं प्रणतोऽस्मि नित्यम् ॥ २७ ॥
अशेषसूत्रान्तरसन्निविष्टं प्रधानसंयोगवियोगहेतुः ।
तेजोमयं जन्मविनाश हीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ २८ ॥
आद्यन्तहीनं जगदात्मरूपं विभिन्नसंस्थं प्रकृतेः परस्तात् ।
कूटस्थमव्यक्तवपुस्तवैव नमामि रूपं पुरुषाभिधानम् ॥ २९ ॥
सर्वाश्रयं सर्वजगन्निधानं सर्वत्रगं जन्मविनाशहीनम् ।
नतोऽस्मि ते रूपमणुप्रभेदमाद्यं महत्त्वे पुरुषानुरूपम् ॥ ३० ॥
प्रकृत्यवस्थं त्रिगुणात्मबीजमैश्वर्यविज्ञानविरागधर्मैः ।
समन्वितं देवि नतोऽस्मि रूपं द्विसप्तलोकात्मकमम्बुसंस्थम् ॥ ३१ ॥
विचित्रभेदं पुरुषैकनाथमनन्तभूतैर्विनिवासितं ते ।
नतोऽस्मिरूपं जगदण्डसंज्ञमशेषवेदात्मकमेकमाद्यम् ॥ ३२ ॥
स्वतेजसा पूरितिलोकभेदं नमामि रूपं रविमण्डलस्थम् ।
सहस्रमूर्द्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् ।
शयानमन्तः सलिले तवैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ ३३ ॥
दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् ।
अशेषभूताण्ड विनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ ३४ ॥
फणासहस्रेण विराजमानं भुवस्तलेऽधिष्ठितमप्रमेयम् ।
अशेषभारोद्वहने समर्थं नमामि ते रूपनमन्तसंज्ञम् ॥ ३५ ॥
अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मात्मताऽऽनन्दरसंज्ञमेकम् ।
युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ ३६ ॥
प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितपादयुग्मम् ।
सुकोमलं देवि ! विशालशुभ्रं नमामि ते रूपमिदं नमामि ॥ ३७ ॥
एतावदुक्त्वा वचनं रघुराजकुलोद्वहः ।
सम्प्रेक्षमाणो वैदेहीं प्रांजलिः पार्श्वतोऽभवत् ॥ ३८ ॥
अथ सा तस्य वचनं निशम्य जगतीपतेः ।
सस्मितं प्राह भर्तारं शृणुष्वैकं वचो मम ॥ ३९ ॥
गृहीतं यन्मया रूपं रावणस्य वधाय हि ।
तेन रूपेण राजेन्द्र वसामि मानसोत्तरे ॥ ४० ॥
प्रकृत्या नीलरूपस्त्वं लोहितो रावणार्दितः ।
नीललोहितरूपेण त्वया सह वसाम्यहम् ॥ ४१ ॥
गृहाण च वरं राम ! मत्तो यदभिकांक्षितम् ।
तच्छ्रुत्वा राघवो वीरः प्रतिश्रुत्य गिरौ स्थितिम् ॥ ४२ ॥
भारद्वाजांशभागेन ययाचे परमेश्वरीम् ।
देवि ! सीते ! महाभागे ! दर्शितं रूपमैश्वरम् ॥ ४३ ॥
हृदयान्नापगच्छेत्तदिति मे दीयतां वरः ।
भ्रातरो मम कल्याणि ! वानराः सविभीषणाः ॥ ४४ ॥
सेनान्यो मम वैदेहि अयोध्यायोधमुख्यकाः ।
पुनस्ते संगताः सन्तु मया रावणतर्जिता: ॥ ४५ ॥
एतस्मिन्नन्तरे चाभूदाकाशे दुन्दुभिस्वनः ।
पपात पुष्पवृष्टिश्च रामभीतोपरि द्विज ॥ ४६ ॥
प्रहस्य सीता पुनराह रामं तथपि रामोऽपि विरिंचिमुख्यान् ।
स तान्विसृज्य प्रतिगृह्य सीतां गन्तुं स्वकं देशमसावियेष ॥ ४७ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे श्रीरामविजयो नाम षड्‌विंशतितमः सर्गः ॥ २६ ॥

GO TOP