॥ अद्‌भुत रामायणम् ॥

चतुर्थः सर्गः

श्रीरामचन्द्रस्य जन्मग्रहणकारणम् -

तावागतौ समीक्ष्याथ राजा संभ्रान्तमानसः ।
दिव्यमासनमादिश्य पूजयामास तावुभौ ॥ १ ॥
उभौ देवऋषी दिव्यौ नित्यज्ञानवतां वरौ ।
समासीनौ महात्मानौ कन्यार्थे मुनिसत्तमौ ॥ २ ॥
तावुभौ प्रणिपत्याग्रे कन्यां तां श्रीमतीं शुभाम् ।
स्थितां कमलपत्राक्षीं प्राह राजा यशस्विनीम् ॥ ३ ॥
अनयोर्यं वरं भद्रे ! मनसा त्वमिहेच्छसि ।
तस्मै मालामिमां देहि प्रणिपत्य यथाविधि ॥ ४ ॥
एवमुक्ता तु सा कन्या स्त्रीभिः परिवृता तदा ।
मालां हिरण्मयीं दिव्यामादाय शुभलोचना ॥ ५ ॥
यत्रासीनौ महात्मानौ तत्रागम्य स्थिता यदा ।
ईक्षमाना मुनिश्रेष्ठौ नारदं पर्वतं तथा ॥ ६ ॥
गोलांगुलमुखं भीता किञ्चिद्धास्य समन्विता ।
सम्भ्रान्तमनसा तत्र प्रवाते कदली यथा ॥ ७ ॥
तस्थौ तामाह राजासौ वत्से किं त्वं करिष्यसि ।
अनयोरेकमुद्दिश्य देहि मालामिमां शुभे ॥ ८ ॥
सा प्राह पितरं त्रस्ता इमौ तु वानराननौ ।
मुनिश्रेष्ठौ न पश्यामि नारदं पर्वतं तथा ॥ ९ ॥
अनयोर्मध्यतस्त्वेकं वरं षोडशवार्षिकम् ।
सर्वाभरणसंयुक्तमतसीपुष्पसंनिभम् ॥ १० ॥
दीर्घबाहुं विशालाक्षं तुङ्गोरःस्थलमुत्तमम् ।
चामीकराभं करणपटयुग्मकशोभितम् ॥ ११ ॥
विभक्तत्रिवलीयुक्तनाभिं व्यक्तकृशोदरम् ।
हिरण्याभरणोपेतं सुरङ्गकनखं शुभम् ॥ १२ ॥
पद्माकारकरं त्वेनं पद्यास्यं पद्मलोचनम् ।
पद्मांघ्रिं पद्महृदयं पद्मनाभं श्रिया वृतम् ॥ १३ ॥
दंतपंक्तिभिरत्यर्थं कुन्दकुड्मलसन्निभम् ।
हसन्तं मां समालोक्य दक्षिणं च प्रसार्य वै ॥ १४ ॥
पाणिं स्थितमिमं छत्रं पश्यामि शुभमूर्धजम् ।
एवमुक्ते मुनिः प्राह नारदः संशयं गतः ॥ १५ ॥
कियन्तो बाहवस्तस्य कन्ये वद यथातथम् ।
बाहुद्वयं च पश्यामीत्याह कन्या सुविस्मिता ॥ १६ ॥
प्राह तां पर्वतस्तत्र तस्य वक्षःस्थले शुभे ।
किञ्च पश्यसि मे ब्रूहि करे किं धारयत्ययि ॥ १७ ॥
कन्या तमाह मालां वै चंचद्रूपामनुत्तमाम् ।
वक्षःस्थलेऽस्य पश्यामि करे कार्मुकसायकौ ॥ १८ ॥
एवमुक्तौ मुनिश्रेष्ठौ परस्परमनुत्तमौ ।
मनसा चिन्तयन्तौ तौ मायेयं कस्यचिद्‌भवेत् ॥ १९ ॥
मायावी तस्करो नूनं स्वयमेव जनार्दनः ।
आगतो नान्यथा कुर्यात्कथं मेऽन्यो मुखं त्विदम् ॥ २० ॥
गोलांगूलीयमित्येवं चिन्तयामास नारदः ।
पर्वतोऽपि तथैवैतद्वानरत्वं कथं मया ॥ २१ ॥
प्राप्तमित्येव सहसा चिन्तामापेदिवांस्तथा ।
ततो राजा प्रणम्यासौ नारदं पर्वतं तथा ॥ २२ ॥
भवद्‌भ्यां किमिदं भद्रौ कृतं बुद्धिविमोहनम् ।
स्वस्थौ भवन्तौ तिष्ठेतां यदि कन्यार्थमुद्यतौ ॥ २३ ॥
एवमुक्तौ मुनिश्रेष्ठौ नृपमूचतुरुल्वणौ ।
त्वमेव मोहं कुरुषे नावामिह कथञ्चन ॥ २४ ॥
आवयोरेकमेषा ते वरयत्वेव भामिनी ।
ततः सा कन्यका भूयः प्रणिपत्य च देवताम् ॥ २५ ॥
पित्रा नियुक्ता सहसा मुनिशापभयाद्‌द्विज ।
मालामादाय तिष्ठन्ती तयोर्मध्ये समाहिता ॥ २६ ॥
पूर्ववत्पुरुषं दृष्ट्वा माल्ये तस्मै ददौ हि सा ।
अनन्तरं च सा कन्या दृष्टा न मनुजैः पुनः ॥ २७ ॥
ततो नादः समभवत्किमेतदिति विस्मयात्
तामादाय गतो विष्णुः स्वस्थानं पुरुषोत्तमः ॥ २८ ॥
पुरा तदर्थमनिशं तपस्तप्त्वा वराङ्गना ।
श्रीमतीयं समुत्पन्ना सा गता च तथा हरिम् ॥ २९ ॥
तावुभौ मुनिशार्दूलौ धिक्त्वामित्येव दुःखितौ ।
वासुदेवं प्रति सदा जग्मतुर्भवनं हरेः ॥ ३० ॥
तावागतौ समीक्ष्याह श्रीमतीं भगवान्हरिः ।
मुनि श्रेष्ठौ समायातौ गूढस्वात्मानमत्र वै ॥ ३१ ॥
तथेत्युक्ता च सा देवी प्रहसन्ती चकार ह ।
नारदः प्रणिपत्याग्रे प्राह दामोदरं हरिम् ॥ ३२ ॥
किमिदं कृतवानद्य मम त्वं पर्वतस्य च ।
त्वमेव नूनं गोविन्द कन्यां तां हृतवानसि ॥ ३३ ॥
तच्छ्रुत्वा पुरुषो विष्णुः पिधाय श्रोत्रमच्युतः ।
पाणिभ्यां प्राह भगवन्भवता किमुदीरितम् ॥ ३४ ॥
कामवादो न भावोऽयं मुनिवृत्तेरहो किल ।
एवमुक्तो मुनिः प्राह वासुदेवं स नारदः ॥ ३५ ॥
कर्णमूले मम कथं गोलागलमुखं त्विति ।
तदाकर्ण्य महाबुद्धिर्देवो नारायणो हरिः ॥ ३६ ॥
कर्णमूले तमाहेदं वानरास्यं कृतं मया ।
पर्वतस्य तथा विप्र गोलांगूलमुखं तव ॥ ३७ ॥
यथा भवांस्तथा सोऽपि प्रार्थयामास निर्जने ।
मामेवं भक्तिवशगस्तथास्म्यकरवं मुने ॥ ३८ ॥
न स्वेच्छया कृतं तद्वां प्रियार्थं नान्यथा त्विति ।
याचते यच्च यश्चैव तच्च तस्य ददाम्यहम् ॥ ३९ ॥
न दोषोऽत्र गुणो वापि युवयोर्मम वा द्विजः ।
पर्वतोऽपि तथा प्राह तस्याप्येवं जगाद सः ॥ ४० ॥
शृण्वतोरुभयोस्तत्र प्राह दामोदरो वचः ।
प्रियं भवतोः कृतवान्सत्येनायुधमालभे ॥ ४१ ॥
नारदः प्राह धर्मात्मा आवयोर्मध्यतः स्थितः ।
धनुष्मान्द्विभुजःको नु तां हृत्वा गतवान्किल ॥ ४२ ॥
तच्छ्रुत्वा वासुदेवोऽसौ प्राह तौ मुनिसत्तमौ ।
मायाविनौ महात्मानौ बहवः सन्ति सत्तमौ ॥ ४३ ॥
तत्र सा श्रीमती देवी हृता केनापि सुव्रतौ ।
चक्रपाणिरहं नित्यं चतुर्बाहुरिति स्थितिः ॥ ४४ ॥
तस्मान्नाहमतथ्यो वै भवद्‌भ्यां विदितं हि तत् ।
इत्युक्तौ प्रणिपत्यैनमूचतुः प्रतिमानसौ ॥ ४५ ॥
कोऽत्र दोषस्तव विभो नारायण जगत्पते ।
दौरात्म्यं तु नृपस्यैव मायां हि कृतवानसौ ॥ ४६ ॥
इत्युक्त्वा जग्मतुस्तस्मान्मुनी नारदपर्वतौ ।
अम्बरीषं समासाद्य शापेनैनमयोजयत् ॥ ४७ ॥
नारदः पर्वतश्चैव यस्मादावामिहागतौ ।
आहूय पश्चादन्यस्मै कन्यां त्वं दत्तवानसि ॥ ४८ ॥
मायायोगेन तस्मात्त्वं तमोऽज्ञानी भविष्यसि ।
तेन नात्मानमत्यर्थं यथावत्त्वं हि वेत्स्यसि ॥ ४९ ॥
एवं शापे प्रवृत्तेतु तमोराशि रथोत्थितः ।
नृपं प्रति ततश्चक्रं विष्णोः प्रादुरभूत्क्षणात् ॥ ५० ॥
चक्रवित्रासितं घोरं तावुभावभ्यगात्तमः ।
ततः संत्रस्तसर्वांगौ धावमानौ महामुनी ॥ ५१ ॥
पृष्ठतश्चक्रमालोक्य तमोराशिं च दुर्मदौ ।
कन्यासिद्धिरहो प्राप्तस्त्वावयोरिति वेगितौ ॥ ५२ ॥
लोकालोकं दिवानिशं धावमानौ तमोऽर्दितौ ।
त्राहि त्राहीति गोविन्दं भाषमाणौ भयार्दितौ ॥ ५३ ॥
विष्णुलोकं ततो गत्वा नारायण जगत्पते ।
वासुदेव हृषीकेश पद्मनाभ जनार्दन ॥ ५४ ॥
त्राह्यावां पुण्डरीकाक्ष नाथोऽसि पुरुषोत्तम ।
इत्यूचतुर्वासुदेवं मुनी नारदपर्वतौ ।
ततो नारायणोऽचिन्त्यः श्रीमांछ्रीवत्सलक्षणः ॥ ५५ ॥
निवार्य चक्रं ध्वान्तं च भक्तानुग्रहकाम्यया ।
अम्बरीषश्च मद्‌भक्तस्तथेमौ मुनिसत्तमौ ॥ ५६ ॥
अनयोर्नृपस्य च तथा हितं कार्यं मया पुनः ।
आहूय तौ ततः श्रीमान्गिरा प्रह्लादयन्हरिः ॥ ५७ ॥
उवाच भगवान्विष्णुः श्रूयतामिति मे वचः ।
क्षमेतां मुनिशार्दूलौ भक्तसंरक्षणाय मे ॥ ५८ ॥
अपराद्धं च चक्रेण क्षमाशीला हि साधवः ।
ततस्तौ मुनिशार्दूलौ मायां तस्यावबुध्य च ॥ ५९ ॥
ददतुश्च ततः शापं विष्णुमुद्दिश्य कोपनौ ।
श्रीमतीहरणं विष्णो यत्कृतं छद्मना त्वया ॥ ६० ॥
यया मूर्त्या तथैव त्वं जायेथाः मधुसूदन ।
अम्बरीषस्यान्ववाये राज्ञो दशरथस्य हि ॥ ६१ ॥
पुत्रस्त्वं भविता पुत्री श्रीमती धरणी प्रजा ।
भविष्यति विदेहश्च प्राप्य तां पालयिष्यति ॥ ६२ ॥
राक्षसापदः कश्चित्तां ते भार्यां हरिष्यति ।
यतो राक्षसधर्मेण हृतासि श्रीमती शुभा ॥ ६३ ॥
अतस्ते रक्षसा भार्या हर्तव्या छद्मनाऽच्युत ।
यथा प्राप्तं महद्‌दुःखमावाभ्यां श्रीमतीकृते ॥ ६४ ॥
हाहेति रुदता लक्ष्यं तथा दुःखं च तत्कृते ।
इत्युक्तवन्तौ तौ विप्रौ प्रोवाच मधुसूदनः ॥ ६५ ॥
अम्बरीषस्यान्ववाये भविष्यति महायशाः ।
श्रीमान्दशरथो नाम भूमिपालोऽतिधार्मिकः ॥ ६६ ॥
तस्याहमग्रजः पुत्रो रामो नाम भवाम्यहम् ।
तत्र मे दक्षिणो बाहुर्भरतो भविता किल ॥ ६७ ॥
शत्रुघ्नो वामबाहुश्च शेषोऽसौ लक्ष्मणः स्वयम् ।
ऋषिशापो न चैव स्यादन्यथा चक्र गम्यताम् ॥ ६८ ॥
ऋषिशापतमोराशे यदा रामो भवाम्यहम् ।
तत्र मां समुपागच्छ गच्छेदानीं नृपं विना ॥ ६९ ॥
त्यक्त्वापि च मुनिश्रेष्ठाविति स्म प्राह माधवः ।
एवमुक्ते तमोनाशं तत्क्षणाच्च जगाम वै ॥ ७० ॥
त्यक्त्वापि च मुनिश्रेष्ठाविति स्म प्राह माधवः ।
एवमुक्ते तमोनाशं तत्क्षणाच्च जगाम वै ॥ ७१ ॥
आत्मार्थं सञ्चितं तेन प्रगुणा भक्तरक्षिणा ।
निवारितं हरेश्चक्रं यथापूर्वमतिष्ठत ॥ ७२ ॥
मुनिश्रेष्ठौ भयान्मुक्तौ प्रणिपत्य जनार्दनम् ।
निर्गतौ शोकसन्तप्तावूचतुस्तौ परस्परम् ॥ ७३ ॥
अद्यप्रभृति देहान्तमावां कन्यापरिग्रहम् ।
न करिष्याव इत्युक्त्वा प्रतिज्ञाय च तावृषी ॥ ७४ ॥
मौनध्यानपरौ शुद्धौ यथापूर्वं व्यवस्थितौ ।
अम्बरीषोऽपि राजासौ परिपाल्य च मेदिनीम् ॥ ७५ ॥
सभृत्यज्ञातिसम्बन्धो विष्णुलोकं जगाम वै ।
मानार्थमम्बरीषस्य तथैव मुनिसिंहयोः ॥ ७६ ॥
रामो दाशरथिर्भूत्वा तमसा लुप्तबुद्धिकः ।
कदाचित्कार्यवशतः स्मृतिः स्यादात्मनः प्रभोः ॥ ७७ ॥
पूर्णार्थोऽपि महाबाहुरपूर्णार्थ इव प्रभुः ।
अनुग्रहाय भक्तानां प्रभूणामीदृशी गतिः ॥ ७८ ॥
मायां कृत्वा महेशस्य प्रोत्थिता मानुषी तनुः ।
तस्मान्माया न कर्तव्या विद्वद्‌भिर्दोषदर्शिभिः ॥ ७९ ॥
एतत्ते कथितं सर्वं रामजन्मकथाश्रयम् ।
अम्बरीषस्य माहात्म्यं मायावित्त्वं च वै हरेः ॥ ८० ॥
यः पठेच्छृणुयाद्वापि मायावित्त्वं हरेर्विभोः ।
मायां विसृज्य पुण्यात्मा विष्णुलोकं स गच्छति ॥ ८१ ॥
दशरथसुत जन्मकारणं यः
     पठति शृणोत्यनुमोदते द्विजेन्द्रः ।
व्रजति सभगवद्‌गृहातिथित्वं
     नहि शमनस्य भवं कृतश्चिदस्य ॥ ८२ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
श्रीरामजन्मोपक्रमश्चतुर्थः सर्गः ॥ ४ ॥

GO TOP