॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ अष्टमः सर्ग: ॥

वसिष्ठो मुनिभिः सार्धं मंत्रिभिः परिवारितः ।
राज्ञः सभां देवसभा सन्निभामविशद्विभुः ॥ १ ॥
तत्रासने समासीनः चतुर्मुख इवापरः ।
आनीय भरतं तत्र उपवेश्य सहानुजम् ॥ २ ॥
अब्रवीद्वचनं देश-कालोचितमरिन्दमम् ।
वत्स राज्येऽभिषेक्ष्यामः त्वामद्य पितृशासनात् ॥ ३ ॥
कैकेय्या याचितं राज्यं त्वदर्थे पुरुषर्षभ ।
सत्यसन्धो दशरथः प्रतिज्ञाय ददौ किल ॥ ४ ॥
अभिषेको भवत्वद्य मुनिभिर्मंत्रपूर्वकम् ।
तत्‍श्रुत्वा भरतोऽप्याह मम राज्येन किं मुने ॥ ५ ॥
रामो राजाधिराजश्च वयं तस्यैव किङ्‌कराः ।
श्वः प्रभाते गमिष्यामो रामं आनेतुमञ्जसा ॥ ६ ॥
अहं यूयं मातरश्च कैकेयीं राक्षसीं विना ।
हनिष्याम्यधुनैवाहं कैकेयीं मातृगन्धिनीम् ॥ ७ ॥
किन्तु मां नो रघुश्रेष्ठः स्त्रीहन्तारं सहिष्यते ।
तच्छ्वो भूते गमिष्यामि पादचारेण दण्डकान् ॥ ८ ॥
शत्रुघ्नसहितस्तूर्णं यूयमायात वा न वा ।
रामो यथा वने यातः तथाहं वल्कलाम्बरः ॥ ९ ॥
फलमूलकृताहारः शत्रुघ्नसहितो मुने ।
भूमिशायी जटाधारी यावद्‍रामो निवर्तते ॥ १० ॥
इति निश्चित्य भरतः तूष्णीमेवावतस्थिवान् ।
साधुसाध्विति तं सर्वे प्रशशंसुर्मुदान्विताः ॥ ११ ॥
ततः प्रभाते भरतं गच्छन्तं सर्वसैनिकाः ।
अनुजग्मुः सुमंत्रेण नोदिताः साश्वकुञ्जराः ॥ १२ ॥
कौसल्याद्या राजदारा वसिष्ठप्रमुखा द्विजाः ।
छादयन्तो भुवं सर्वे पृष्ठतः पार्श्वतोऽग्रतः ॥ १३ ॥
शृङ्‌गवेरपुरं गत्वा गङ्‌गाकूले समन्ततः ।
उवास महती सेना शत्रुघ्नपरिचोदिता ॥ १४ ॥
आगतं भरतं श्रुत्वा गुहः शङ्‌कितमानसः ।
महत्या सेनया सार्धं आगतो भरतः किल ॥ १५ ॥
पापं कर्तुं न वा याति रामस्याविदितात्मनः ।
गत्वा तद् हृदयं ज्ञेयं यदि शुद्धस्तरिष्यति ॥ १६ ॥
गङ्‌गा नोचेत्समाकृष्य नावस्तिष्ठन्तु सायुधाः ।
ज्ञातयो मे समायत्ताः पश्यन्तः सर्वतोदिशम् ॥ १७ ॥
इति सर्वान्समादिश्य गुहो भरतमागतः ।
उपायनानि संगृह्य विविधानि बहून्यपि ॥ १८ ॥
प्रययौ ज्ञातिभिः सार्धं बहुभिर्विविधायुधैः ।
निवेद्योपयानान्यग्रे भरतस्य समन्ततः ॥ १९ ॥
दृष्ट्वा भरतमासीनं सानुजं सह मंत्रिभिः ।
चीराम्बरं घनश्यामं जटामुकुटधारिणम् ॥ २० ॥
राममेवानुशोचन्तं रामरामेति वादिनम् ।
ननाम शिरसा भूमौ गुहोऽहमिति चाब्रवीत् ॥ २१ ॥
शीघ्रमुत्थाप्य भरतो गाढमालिङ्‌ग्य सादरम् ।
पृष्ट्वा नामयमव्यग्रः सखायं इदमब्रवीत् ॥ २२ ॥
भ्रातस्त्वं राघवेणात्र समेतः समवस्थितः ।
रामेणालिङ्‌गितः सार्द्रनयनेनामलात्मना ॥ २३ ॥
धन्योऽसि कृतकृत्योऽसि यत्त्वया परिभाषितः ।
रामो राजीवपत्राक्षो लक्ष्मणेन च सीतया ॥ २४ ॥
यत्र रामस्त्वया दृष्टः तत्र मां नय सुव्रत ।
सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे ॥ २५ ॥
त्वं रामस्य प्रियतमो भक्तिमानसि भाग्यवान् ।
इति संस्मृत्य संस्मृत्य रामं साश्रुविलोचनः ॥ २६ ॥
गुहेन सहितस्तत्र यत्र रामः स्थितो निशि ।
ययौ ददर्श शयनस्थलं कुशसमास्तृतम् ॥ २७ ॥
सीताऽऽभरणसंलग्न स्वर्णबिन्दुभिरर्चितम् ।
दुःखसन्तप्तहृदयो भरतः पर्यदेवयत् ॥ २८ ॥
अहोऽतिसुकुमारी या सीता जनकनन्दिनी ।
प्रासादे रत्‍नपर्यङ्‌के कोमलास्तरणे शुभे ॥ २९ ॥
रामेण सहिता शेते सा कथं कुशविष्टरे ।
सीता रामेण सहिता दुःखेन मम दोषतः ॥ ३० ॥
धिङ्‌मां जातोऽस्मि कैकेय्या पापराशिसमानतः ।
मन्निमित्तमिदं क्लेशं रामस्य परमात्मनः ॥ ३१ ॥
अहोऽतिसफलं जन्म लक्ष्मणस्य महात्मनः ।
राममेव सदान्वेति वनस्थमपि हृष्टधीः ॥ ३२ ॥
अहं रामस्य दासा ये तेषां दासस्य किङ्‌करः ।
यदि स्यां सफलं जन्म मम भूयान्न संशयः ॥ ३३ ॥
भ्रातर्जानासि यदि तत् कथयस्व ममाखिलम् ।
यत्र तिष्ठति तत्राहं गच्छाम्यानेतुमञ्जसा ॥ ३४ ॥
गुहस्तं शुद्धहृदयं ज्ञात्वा सस्नेहमब्रवीत् ।
देव त्वमेव धन्योऽसि यस्य ते भक्तिरीदृशी ॥ ३५ ॥
रामे राजीवपत्राक्षे सीतायां लक्ष्मणे तथा ।
चित्रकूटाद्रिनिकटे मन्दाकिन्याविदूरतः ॥ ३६ ॥
मुनीनामाश्रमपदे रामस्तिष्ठति सानुजः ।
जानक्या सहितो नन्दात् सुखमास्ते किल प्रभुः ॥ ३७ ॥
तत्र गच्छामहे शीघ्रं गङ्‌गां तर्तुमिहार्हसि ।
इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह ॥ ३८ ॥
समानयत्ससैन्यस्य तर्तुं गङ्‌गां महानदीम् ।
स्वयमेवानिनायैकां राजनावं गुहस्तदा ॥ ३९ ॥
आरोप्य भरतं तत्र शत्रुघ्नं राममातरम् ।
वसिष्ठं च तथान्यत्र कैकेयीं चान्ययोषितः ॥ ४० ॥
तीर्त्वा गङ्‌गां ययौ शीघ्रं भरद्वाजाश्रमं प्रति ।
दूरे स्थाप्य महासैन्यं भरतः सानुजो ययौ ॥ ४१ ॥
आश्रमे मुनिमासीनं ज्वलन्तमिव पावकम् ।
दृष्ट्वा ननाम भरतः साष्टाङ्‌गं अतिभक्तितः ॥ ४२ ॥
ज्ञात्वा दाशरथिं प्रीत्या पूजयामास मौनिराट् ।
पप्रच्छ कुशलं दृष्ट्वा जटावल्कलधारिणम् ॥ ४३ ॥
राज्यं प्रशासतस्तेऽद्य किमेतद्वल्कलादिकम् ।
आगतोऽसि किमर्थं त्वं विपिनं मुनिसेवितम् ॥ ४४ ॥
भरद्वाजवचः श्रुत्वा भरतः साश्रुलोचनः ।
सर्वं जानासि भगवन् सर्वभूताशयस्थितः ॥ ४५ ॥
तथापि पृच्छसे किञ्चित् तदनुग्रह एव मे ।
कैकेय्या मत्कृतं कर्म रामराज्यविघातनम् ॥ ४६ ॥
वनवासादिकं वापि न हि जानामि किञ्चन ।
भवत्पादयुगं मेऽद्य प्रमाणं मुनिसत्तम ॥ ४७ ॥
इत्युक्त्वा पादयुगलं मुनेः स्पृष्ट्वाऽर्त्तमानसः ।
ज्ञातुमर्हसि मां देव शुद्धो वाशुद्ध एव वा ॥ ४८ ॥
मम राज्येन किं स्वामिन् रामे तिष्ठति राजनि ।
किङ्‌करोऽहं मुनिश्रेष्ठ रामचन्द्रस्य शाश्वतः ॥ ४९ ॥
अतो गत्वा मुनिश्रेष्ठ रामस्य चरणान्तिके ।
पतित्वा राज्यसम्भारान् समर्प्यात्रैव राघवम् ॥ ५० ॥
अभिषेक्ष्ये वसिष्ठाद्यैः पौरजानपदैः सह ।
नेष्येऽयोध्यां रमानाथं दासः सेवेतिनीचवत् ॥ ५१ ॥
इत्युदीरितमाकर्ण्यं भरतस्य वचो मुनिः ।
आलिङ्‌ग्य मूर्ध्न्यवघ्राय प्रशशंस सविस्मयः ॥ ५२ ॥
वत्स ज्ञातं पुरैवैतद् ‌भविष्यं ज्ञानचक्षुषा ।
मा शुचस्त्वं परो भक्तः श्रीरामे लक्ष्मणादपि ॥ ५३ ॥
आतिथ्यं कर्तुमिच्छामि ससैन्यस्य तवानघ ।
अद्य भुक्त्वा ससैन्यस्त्वं श्वो गन्ता रामसन्निधिम् ॥ ५४
यथाऽऽज्ञापयति भवान् तथेति भरतोऽब्रवीत् ।
भरद्वाजस्त्वपः स्पृष्ट्वा मौनी होमगृहे स्थितः ॥ ५५ ॥
दध्यौ कामदुघां काम-वर्षिणीं कामदो मुनिः ।
असृजत्कामधुक्सर्वं यथाकामं अलौकिकम् ॥ ५६ ॥
भरतस्य ससैन्यस्य यथेष्टं च मनोरथम् ।
यथा ववर्ष सकलं तृप्तास्ते सर्वसैनिकाः ॥ ५७ ॥
वसिष्ठं पूजयित्वाग्रे शास्त्रदृष्टेन कर्मणा ।
पश्चात्ससैन्यं भरतं तर्पयामास योगिराट् ॥ ५८ ॥
उषित्वा दिनमेकं तु आश्रमे स्वर्गसन्निभे ।
अभिवाद्य पुनः प्रातर्भरद्वाजं सहानुजः ।
भरतस्तु कृतानुज्ञः प्रययौ रामसन्निधिम् ॥ ५९ ॥
चित्रकूटमनुप्राप्य दूरे संस्थाप्य सैनिकान् ।
रामसंदर्शनाकाङ्‌क्षी प्रययौ भरतः स्वयम् ॥ ६० ॥
शत्रुघ्नेन सुमंत्रेण गुहेन च परन्तपः ।
तपस्विमण्डलं सर्वं विचित्वानो न्यवर्तत ॥ ६१ ॥
अदृष्ट्वा रामभवनं अपृच्छद् ऋषिमण्डलम् ।
कुत्रास्ते सीतया सार्धं लक्ष्मणेन रघूत्तमः ॥ ६२ ॥
ऊचुरग्रे गिरेः पश्चाद्‍ गङ्‌गाया उत्तरे तटे ।
विविक्तं रामसदनं रम्यं काननमण्डितम् ॥ ६३ ॥
सफलैः आम्रपनसैः कदलीखण्डसंवृतम् ।
चम्पकैः कोविदारैश्च पुन्नागैर्विपुलैस्तथा ॥ ६४ ॥
एवं दर्शितमालोक्य मुनिभिर्भरतोऽग्रतः ।
हर्षाद्ययौ रघुश्रेष्ठ भवनं मंत्रिणा सह ॥ ६५ ॥
ददर्श दूरादतिभासुरं शुभं
रामस्य गेहं मुनिवृन्दसेवितम् ।
वृक्षाग्रसंलग्नसुवल्कलाजिनं
रामाभिरामं भरतः सहानुजः ॥ ६६ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे अष्टमः सर्गः ॥ ८ ॥

GO TOP