॥ श्रीमद् अध्यात्मरामायण ॥

॥ किष्किन्धाकाण्ड ॥

॥ द्वितीयः सर्ग: ॥

इत्थं स्वात्मपरिष्वङ्‌ग निर्धूताशेषकल्मषम् ।
रामः सुग्रीवमालोक्य सस्मितं वाक्यमब्रवीत् ॥ १ ॥
मायां मोहकरीं तस्मिन् वितन्वन् कार्यसिद्धये ।
सखे त्वदुक्तं यत्तन्मां सत्यमेव न संशयः ॥ २ ॥
किन्तु लोका वदिष्यन्ति मामेवं रघुनन्दनः ।
कृतवान्किं कपीन्द्राय सख्यं कृत्वाग्निसाक्षिकम् ॥ ३ ॥
इति लोकापवादो मे भविष्यति न संशयः ।
तस्मादाह्वय भद्रं ते गत्वा युद्धाय वालिनम् ॥ ४ ॥
बाणेनैकेन् तं हत्वा राज्ये त्वामभिषेचये ।
तथेति गत्वा सुग्रीवः किष्किन्धोपवनं द्रुतम् ॥ ५ ॥
कृत्वा शब्दं महानादं तं आह्वयत वालिनम् ।
तच्छ्रुत्वा भ्रातृनिनदं रोषताम्रविलोचनः ॥ ६ ॥
निर्जगाम गृहाच्छीघ्रं सुग्रीवो यत्र वानरः ।
तमापतन्तं सुग्रीवः शीघ्रं वक्षस्यताडयत् ॥ ७ ॥
सुग्रीवमपि मुष्टिभ्यां जघान क्रोधमूर्छितः ।
वाली तमपि सुग्रीव एवं क्रुद्धौ परस्परम् ॥ ८ ॥
अयुद्ध्येतामेकरूपौ दृष्ट्वा रामोऽतिविस्मितः ।
न मुमोच तदा बाणं सुग्रीववधशङ्‌कया ॥ ९ ॥
ततो दुद्राव सुग्रीवो वमन् रक्तं भयाकुलः ।
वाली स्वभवनं यातः सुग्रीवो राममब्रवीत् ॥ १० ॥
किं मां घातयसे राम शत्रुणा भ्रातृरूपिणा ।
यदि मद्धनने वाञ्छा त्वमेव जहि मां विभो ॥ ११ ॥
एवं मे प्रत्ययं कृत्वा सत्यवादिन् रघूत्तम ।
उपेक्षसे किमर्थं मां शरणागतवत्सल ॥ १२ ॥
श्रुत्वा सुग्रीववचनं रामः साश्रुविलोचनः ।
आलिङ्‌ग्य मा स्म भैषीस्त्वं दृष्ट्वा वामेकरूपिणौ ॥ १३ ॥
मित्रघातित्वमाशङ्‌क्य मुक्तवान्सायकं न हि ।
इदानीमेव ते चिह्नं करिष्ये भ्रमशान्तये ॥ १४ ॥
गत्वाह्वय पुनः शत्रुं हतं द्रक्ष्यसि वालिनम् ।
रामोऽहं त्वां शपे भ्रातः हनिष्यामि रिपुं क्षणात् ॥ १५ ॥
इत्याश्वस्य स सुग्रीवं रामो लक्ष्मणमब्रवीत् ।
सुग्रीवस्य गले पुष्प मालामामुच्य पुष्पिताम् ॥ १६ ॥
प्रेषयस्व महाभाग सुग्रीवं वालिनं प्रति ।
लक्ष्मणस्तु तदा बद्ध्वा गच्छ गच्छेति सादरम् ॥ १७ ॥
प्रेषयामास सुग्रीवं सोऽपि गत्वा तथाकरोत् ।
पुनरप्यद्‌भुतं शब्दं कृत्वा वालीनमाह्वयत् ॥ १८ ॥
तच्छ्रुत्वा विस्मितो वाली क्रोधेन महतावृतः ।
बद्ध्वा परिकरं सम्यक् गमनायोपचक्रमे ॥ १९ ॥
गच्छन्तं वालिनं तारा गृहीत्वा निषिषेध तम् ।
न गन्तव्यं त्वयेदानीं शङ्‌का मेऽतीव जायते ॥ २० ॥
इदानीमेव ते भग्नः पुनरायाति सत्वरः ।
सहायो बलवांस्तस्य कश्चिन्नूनं समागतः ॥ २१ ॥
वाली तामाह हे सुभ्रु शङ्‌का ते व्येतु तद्‍गता ।
प्रिये करं परित्यज्य गच्छ गच्छामि तं रिपुम् ॥ २२ ॥
हत्वा शीघ्रं समायास्ये सहायस्तस्य को भवेत् ।
सहायो यदि सुग्रीवः ततो हत्वोभयं क्षणात् ॥ २३ ॥
आयास्ये मा शुचः शूरः कथं तिष्ठेद् गृहेरिपुम् ।
ज्ञात्वाप्याह्वयमानं हि हत्वायास्यामि सुन्दरि ॥ २४ ॥
तारोवाच
मत्तोऽन्यच्छृणु राजेन्द्र श्रुत्वा कुरु यथोचितम् ।
आह मामङ्‌गदः पुत्रो मृगयायां श्रुतं वचः ॥ २५ ॥
अयोध्याधिपतिः श्रीमान् रामो दाशरथिः किल ।
लक्ष्मणेन सह भ्राता सीतया भार्यया सह ॥ २६ ॥
आगतो दण्डकारण्यं तत्र सीता हृता किल ।
रावणेन सह भ्राता मार्गमाणोऽथ जानकीम् ॥ २७ ॥
आगतो ऋष्यमूकाद्रिं सुग्रीवेण समागतः ।
चकार तेन सुग्रीवः सख्यं चानलसाक्षिकम् ॥ २८ ॥
प्रतिज्ञां कृतवान् रामः सुग्रीवाय सलक्ष्मणः ।
वालिनं समरे हत्वा राजानं त्वां करोम्यहम् ॥ २९ ॥
इति निश्चित्य तौ यातौ निश्चितं शृणु मद्वचः ।
इदानीमेव ते भग्नः कथं पुनरुपागतः ॥ ३० ॥
अतस्त्वं सर्वथा वैरं त्यक्‍त्वा सुग्रीवमानय ।
यौवराज्येऽभिषिञ्चाशु रामं त्वं शरणं व्रज ॥ ३१ ॥
पाहि मामङ्‌गदं राज्यं कुलं च हरिपुङ्‌गव ।
इत्युक्‍त्वाश्रुमुखी तारा पादयोः प्रणिपत्य तम् ॥ ३२ ॥
हस्ताभ्यां चरणौ धृत्या रुरोद भयविह्वला ।
तामालिङ्‌ग्य तदा वाली सस्नेहमिदमब्रवीत् ॥ ३३ ॥
स्त्रीस्वभावाद्‌बिभेषि त्वं प्रिये नास्ति भयं मम ।
रामो यदि समायातो लक्ष्मणेन समं प्रभुः ॥ ३४ ॥
तदा रामेण मे स्नेहो भविष्यति न संशयः ।
रामो नारायणः साक्षात् अवतीर्णोऽखिलप्रभुः ॥ ३५ ॥
भूभारहरणार्थाय श्रुतं पूर्वं मयानघे ।
स्वपक्षः परपक्षो वा नास्ति तस्य परात्मनः ॥ ३६ ॥
आनेष्यामि गृहं साध्वि नत्वा तच्चरणाम्बुजम् ।
भजतोऽनुभजत्येष भक्तिगम्यः सुरेश्वरः ॥ ३७ ॥
यदि स्वयं समायाति सुग्रीवो हन्मि तं क्षणात् ।
यदुक्तं यौवराज्याय सुगीवस्याभिषेचनम् ॥ ३८ ॥
कथमाहूयमानोऽहं युद्धाय रिपुणा प्रिये ।
शूरोऽहं सर्वलोकानां सम्मतः शुभलक्षणे ॥ ३९ ॥
भीतभीतमिदं वाक्यं कथं वाली वदेत्प्रिये ।
तस्माच्छोकं परित्यज्य तिष्ठ सुन्दरि वेश्मनि ॥ ४० ॥
एवमाश्वास्य तारां तां शोचन्तीमश्रुलोचनाम् ।
गतो वाली समुद्युक्तः सुग्रीवस्य वधाय सः ॥ ४१ ॥
दृष्ट्वा वालीनमायान्तं सुग्रीवो भीमविक्रमः ।
उत्पपात गले बद्ध पुष्पमालो मतङ्‌गवत् ॥ ४२ ॥
मुष्टिभ्यां ताडयामास वालिनं सोऽपि तं तथा ।
अहन्वाली च सुग्रीवं सुग्रीवो वालिनं तथा ॥ ४३ ॥
रामं विलोकयन्नेव सुग्रीवो युयुधे युधि ।
इत्येवं युद्‍ध्यमानौ तौ दृष्ट्वा रामः प्रतापवान् ॥ ४४ ॥
बाणमादाय तूणीरात् ऐन्द्रे धनुषि सन्दधे ।
आकृष्य कर्णपर्यन्तं अदृश्यो वृक्षखण्डगः ॥ ४५ ॥
निरीक्ष्य वालिनं सम्यक् लक्ष्यं तद्‍धृदयं हरिः ।
उत्ससर्जाशनिसमं महावेगं महाबलः ॥ ४६ ॥
बिभेद स शरो वक्षो वालिनः कम्पयन्महीम् ।
उत्पपात महाशब्दं मुञ्चन्स निपपात ह ॥ ४७ ॥
तदा मुहूर्तं निःसंज्ञो भूत्वा चेतनमाप सः ।
ततो वाली ददर्शाग्रे रामं राजीवलोचनम् ।
धनुरालम्ब्य वामेन हस्तेनान्येन सायकम् ॥ ४८ ॥
बिभ्राणं चीरवसनं जटामुकुटधारिणम् ।
विशालवक्षसं भ्राजत् वनमालाविभूषितम् ॥ ४९ ॥
पीनचार्वायतभूजं नवदूर्वादलच्छविम् ।
सुग्रीवलक्ष्मणाभ्यां च पार्श्वयोः परिसेवितम् ॥ ५० ॥
विलोक्य शनकैः प्राह वाली रामं विगर्हयन् ।
किं मयापकृतं राम तव येन हतोऽस्म्यहम् ॥ ५१ ॥
राजधर्ममविज्ञाय गर्हितं कर्म ते कृतम् ।
वृक्षखण्डे तिरोभूत्वा त्यजता मयि सायकम् ॥ ५२ ॥
यशः किं लप्स्यसे राम चोरवत् कृतसङ्‌गरः ।
यदि क्षत्रियदायादो मनोर्वंशसमुद्‌भवः ॥ ५३ ॥
युद्धं कृत्वा समक्षं मे प्राप्यसे तत्फलं तदा ।
सुग्रीवेण कृतं किं ते मयावा न कृतं किमु ॥ ५४ ॥
रावणेन हृता भार्या तव राम महावने ।
सुग्रीवं शरणं यातः तदर्थमिति शुश्रुम ॥ ५५ ॥
बत राम न जानीषे मद्‌बलं लोकविश्रुतम् ।
रावण सकुलं बद्ध्वा ससीतं लङ्‌कया सह ॥ ५६ ॥
आनयामि मुहूर्त्तार्द्धात् यदि चेच्छामि राघव ।
धर्मिष्ठ इति लोकेऽस्मिन् कथ्यसे रघुनन्दन ॥ ५७ ॥
वानरं व्याधवद्धत्वा धर्मं कं लप्स्यसे वद ।
अभक्ष्यं वानरं मांसं हत्वा मां किं करिष्यसि ॥ ५८ ॥
इत्येवं बहु भाषन्तं वालिनं राघवोऽब्रवीत् ।
धर्मस्य गोप्ता लोकेऽस्मिन् चरामि सशरासनः ॥ ५९ ॥
अधर्मकारिणं हत्वा सद्धर्मं पालयाम्यहम् ।
दुहिता भगिनी भ्रातुः भार्या चैव तथा स्नुषा ॥ ६० ॥
समा यो रमते तासां एकामपि विमूढधीः ।
पातकी स तु विज्ञेयः स वधो राजभिः सदा ॥ ६१ ॥
त्वं तु भ्रातुः कनिष्ठस्य भार्यायां रमसे बलात् ।
अतो मया धर्मविदा हतोऽसि वनगोचर ॥ ६२ ॥
त्वं कपित्वान्न जानीषे महान्तो विचरन्ति यत् ।
लोकं पुनानाः सञ्चारैः अतस्तान् नातिभाषयेत् ॥ ६३ ॥
तच्छ्रुत्वा भयसन्‍त्रस्तो ज्ञात्वा रामं रमापतिम् ।
वाली प्रणम्य रभसाद् रामं वचनमब्रवीत् ॥ ६४ ॥
राम राम महाभाग जाने त्वां परमेश्वरम् ।
अजानता मया किञ्चित् उक्तं तत्क्षन्तुमर्हसि ॥ ६५ ॥
साक्षात्त्वच्छरघातेन विशेषेण तवाग्रतः ।
त्यजाम्यसून्महायोगि दुर्लभं तव दर्शनम् ॥ ६६ ॥
यन्नाम विवशो गृह्णन् म्रियमाणः परं पदम् ।
याति साक्षात्स एवाद्य मुमूर्षोर्मे पुरः स्थितः ॥ ६७ ॥
देव जानामि पुरुषं त्वां श्रियं जानकीं शुभम् ।
रावणस्य वधार्थाय जातं त्वां ब्रह्मणार्थितम् ॥ ६८ ॥
अनुजानीहि मां राम यान्तं तत्पदमुत्तमम् ।
मम तुल्यबले बाले अङ्‌गदे त्वं दयां कुरु ॥ ६९ ॥
विशल्यं कुरु मे राम हृदयं पाणिना स्पृशन् ।
तथेति बाणमुद्‍धृत्य रामः पस्पर्श पाणिना ।
त्यक्त्वा तद्वानरं देहं अमरेन्द्रोऽभवत्क्षणात् ॥ ७० ॥
वाली रघूत्तमशराभिहतो विमृष्टो
रामेण शीतलकरेण सुखाकरेण ।
सद्यो विमुच्य कपिदेहमनन्यलभ्यं
प्राप्तं पदं परमहंसगणैर्दुरापम् ॥ ७१ ॥

इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP