॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ नवमः सर्गः ॥
[हनुमंताचे लंकागमन, सीता शुद्धि व लंकादहन]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

अथ उड्डीय हनुमान् ययावाकाशवर्त्मना ।
तद्‍दृष्ट्वा तद्‍बलं ज्ञातुं सुरसां नागमातरम् ॥ १ ॥
प्रेषयामासु अमराः सा शीघ्रं तत्पुरो ययौ ।
तदा सा मारुतिं प्राह विश त्वं वदनं मम ॥ २ ॥
स प्राह रघुवीरस्य कार्यं कृत्वा विशाम्यहम् ।
दृष्ट्वा तस्यास्तु निर्बन्धं व्यवर्धत तदा कपिः ॥ ३ ॥
विवर्धितं तयाऽप्यास्यं तदा सूक्ष्मो बभूव ह ।
अंगुष्ठमात्रस्तस्याः स वक्त्रे गत्वा विनिर्गतः ॥ ४ ॥
ज्ञात्वा साऽपि बलं तस्य स्तुत्वा तं प्रययौ दिवम् ।
अथाब्धिवचनान्मार्गे मनाकः पर्वतो महान् ॥ ५ ॥
जल मध्यात् प्रादुरभूत् विश्रांत्यर्थं हनूमतः ।
नानामणिमयैः शृंगैः तस्योपरि नराकृतिः ॥ ६ ॥
भूत्वा यान्तं हनूमंतं प्राह मैनाकपर्वतः ।
आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि च ॥ ७ ॥
विश्रम्यात्र क्षणं पश्चात् गमिष्यसि यथासुखम् ।
पुरा गिरिईणां इंद्रेण युद्धमासीत् सुदारुणम् ॥ ८ ॥
तदा दशरथेनाहं मोचितोऽस्म्यत्र संस्थितः ।
अतस्तत् उपकारं हि निस्तर्तुं निर्गतोऽस्म्यहम् ॥ ९ ॥
गच्छतो रामकार्यार्थं तव विश्राम्तिहेतवे ।
तदा तं हनुमानाह रामकार्ये न मे श्रमः ॥ १० ॥
विश्रामे स्वामिकार्येऽत्र न करोम्यद्य भक्षणम् ।
मैनाकस्तं पुनः प्राह स्वस्पर्शात् पावयस्व माम् ॥ ११ ॥
तथेति सृष्टशिखरः कराग्रेण ययौ कपिः ।
किंचित् दूरं गतस्यास्य छायां छायां छायाग्रहोऽग्रहीत् ॥ १२ ॥
सिंहिकानाम सा घोरा जलमध्ये स्थिता सदा ।
आकाशगामिनां छायां आक्रम्याकृष्य भक्षती ॥ १३ ॥
तया गृहीतो हनुमान् चिंतयामान वीर्यवान् ।
केनेदं मे कृतं वेग-रोधनं विघ्नकारिणा ॥ १४ ॥
एवं विचिंत्य हनुमान् अधो दृष्टिं प्रसारयन् ।
तत्र दृष्ट्वा सिंहिकां तां तदास्ये न्यपतत्कपिः ॥ १५ ॥
तस्यांत्रजालं निष्काय तां हत्वाऽग्रे ययौ पुनः ।
ततोऽब्धेर्दक्षिणे कूले लंकां कृत्वा तु पार्श्वतः ॥ १६ ॥
पपात परलंकायां तत्र तां रावणस्वसाम् ।
क्रौंचां हत्वा सिंहिकावत् लंकां रात्रौ विवेश सः ॥ १७ ॥
तदा लंकापुरी नाम्नी राक्षसी तं व्यतर्जयत् ।
हनुमानपि तां वामं मुष्टिनाऽवज्ञयाऽहनत् ॥ १८ ॥
तदा स्मृत्वा ब्रह्मवाक्यं सा प्राहाश्रुमुखी पुरी ।
ब्रह्मणोक्ता पुरा चाहं यदा त्वां धर्षयेत्कपिः ॥ १९ ॥
तदा रामो रावणस्य वधार्थमत्र यास्यति ।
ज्ञातं मया रावणस्य बधं रामः करिष्यति ॥ २० ॥
जितं त्वया गच्छ लंकां अशोके पश्य जानकीम् ।
ततो विवेश हनुमान् लंकां पश्यन् ययौ तदा ॥ २१ ॥
ददर्श लंकां तां रम्यां गोपुराट्टलमंडिताम् ।
हट्टवीथीचतुष्काढ्यां त्रिकूटशिकरस्थिताम् ॥ २२ ॥
दृष्ट्वा बिभीषणं राम-कीर्तने हृष्तमानसम् ।
दृष्ट्वा सुलोचना युक्तं निद्रितं मेघनिःस्वनम् ॥ २३ ॥
ययौ राजगृहं रात्रौ रावणं सदसि स्थितम् ।
दृष्ट्वा स्वयं वायुरूपो दीपराजीर्व्यलोकयत् ॥ २४ ॥
अकरोद् वस्त्रहीनांस्तान् रावाणादीन् स मारुतिः ।
उल्मुकेनाकरोद् भस्म कूर्चं च रावणस्य च ॥ २५ ॥
राक्शसी कोटीशो नग्नाः कृत्वा तोयघटान् कपिः ।
बभंज लीलया तूष्णीं दूतान् पुच्छेन तर्जयन् ॥ २७ ॥
तदाऽतिविह्वलाः सर्वे प्रोचुस्ऽस्तेथ परस्परम् ।
क्रुद्धाऽद्य जानकीं सत्यं नः प्राणांतमुपागतम् ॥ २८ ॥
तत् श्रुत्वा तुष्टचित्तः स ययौ रावणसद्गृहम् ।
अदृष्ट्वा जानकीं तत्र ययौ पुष्पकमुत्तमम् ॥ २९ ॥
रावणं निद्रितं दृष्ट्वा वेष्टितं स्त्रीकदम्बकैः ।
दृष्ट्वा मंदोदरीं तत्र सीतेयं इति शंकितः ॥ ३० ॥
लक्ष्मणोक्तानि चिह्नानि पश्यन् तस्यां ददर्श न ।
तथापि सीतासदृशीं दृष्ट्वा व्यग्रमनात्मभूत् ॥ ३१ ॥
पार्वति उवाच -
कथं मंदोदरी सीता सदृशी राक्षसीरिता ।
सीतांशांशांशजाः सर्वाः स्त्रियश्चेति श्रुतं मया ॥ ३२ ॥
श्रीशिव उवाच -
श्रृणुष्व कारणं देवि सेतेयं विष्णुना चिता ।
तेनैव विष्णुना पूर्वं इयं मंदोदरी चिता ॥ ३३ ॥
एकदा कैकसी माता रावणं प्राह दुःखिता ।
शेषोच्छ्वासेन तल्लिङ्गं गतं चाद्य रसातलम् ॥ ३४ ॥
शिवादानीय मां देहि आत्मलिंगं अनुत्तमम् ।
तन्मातृवचनं श्रुत्वा गायनाद् वरदोन्मुखम् ॥ ३५ ॥
मामाह रावणो वाक्यं द्वौ वरौ देहि मां प्रभो ।
आत्मलिंगं च मन्मात्रे पत्‍न्यर्थं पार्वतीं मम ॥ ३६ ॥
तत्तस्य वचनं श्रुत्वा त्वं दत्ताऽसि गिरिंद्रजे ।
दत्त्वाऽऽत्म लिंगं संप्रोक्तो मया त्वं यदि रावण ॥ ३७ ॥
मार्गे लिंगं भूमिसंस्थं करोषि तर्ह्यहं पुनः ।
नाग्रे गच्छामि तत्स्थानात् तत्र्रैव च वसाम्यहम् ॥ ३८ ॥
तथेति रावणश्चोक्त्वा देव्या लिंगेन सो ययौ ।
तदा त्वया स्मृतो विष्णुः तेनाङ्गचंदनाविना ॥ ३९ ॥
कृत्वा मंदोदरी नारी मयहस्तेऽर्पिता शुभा ।
तां निनाय मयः शीघ्रं पाताले स्वीयसद्‌गृहम् ॥ ४० ॥
ततो द्विजस्वरूपेण विष्णुः प्राह दशाननम् ।
प्रतारितः शिवेन त्वं दत्त्वा दुर्गां तु कृत्रिमाम् ॥ ४१ ॥
पायाले मयगेहे सा गोपिताऽस्ति शिवेन हि ।
विविच्यसि त्वं स्वर्लोकं भूलोकं चेति शंकया ॥ ४२ ॥
स्वीयं मत्त्वा तु पातालं तत्र त्वं न गवेष्यसि ।
त्यजेमां कृत्रिमां दुर्गां पश्य तां मयसद्मनि ॥ ४३ ॥
गिरींद्रजां महारम्यां तत्‍नीं कृत्वा सुखं भज ।
तद्‍विप्रवचनं सत्यं मत्वा मामेत्य वै पुनः ॥ ४४ ॥
विहस्य रावणः प्राह ज्ञातं तेऽन्तर्गतं मया ।
अर्पिता कृत्रिमा देवी मां तां गोप्य रसातले ॥ ४५ ॥
तवैवास्त्वधुना चेयं त्वहं नेष्यामि गोपिताम् ।
इत्युक्त्वा त्वां विसृज्याथ पातालं गन्तुमुद्यतः ॥ ४६ ॥
तावन्मार्गे ह्यप्लशंकाग्रस्तः प्राह द्विजं तदा ।
आत्मलिंगं क्षणं हस्ते गृह्णीष्व वचनान्मम ॥ ४७ ॥
यावन्निवर्त्य शंकां स्वां अहमेष्यामि वेगतः ।
द्विजवेषधरो विष्णुः तदा प्राह दशाननम् ॥ ४८ ॥
अतिक्रांते मुहूर्तेऽथ लिंगं स्थाप्य व्रजाम्यहम् ।
तथेतिरावणश्चोक्त्वा तत्करे लिंगमर्पयत् ॥ ४९ ॥
ततो मूत्रस्य सा धारा अखंडिताऽभूत् चिरं प्रिये ।
अतिक्रान्ते मुहूर्तेऽथ लिंगं सागररोधसि ॥ ५० ॥
पश्चिमे स्थाप्य भूम्यां स ययौ स्वीयस्थलं हरिः ।
ततं स रावणश्चापि मूत्रं कृत्वा यथाविधि ॥ ५१ ॥
लिंगं दृष्ट्वा भूमिसंस्थं तच्छिरश्चालयत् तदा ।
तदा भूम्यां गतं लिंगं शिरं किंचित् चचाल न ॥ ५२ ॥
अभूत्‍गर्ता कर्णरंध्र सदृशी तच्छिरःस्थले ।
गर्तायां तच्छिरश्चाप्इ कर्णशंकूपमं कृशम् ॥ ५३ ॥
भुवं कर्णोपमं लिंगं गोकर्णं तद्वदंति हि ।
ततः खिन्नमनास्तूष्णीं पातालं रावणं ययौ ॥ ५४ ॥
मयगेहे निरीक्ष्याथ देवीं मंदोदरीं वराम् ।
मयं संप्रार्थयामास ददौ तां रावणाय सः ॥ ५५ ॥
ततो विवाहं निर्वर्त्य पारिबर्हं ददौ मयः ।
रावणाय दृढां शक्तिं अमोघां शत्रुघातिनीम् ॥ ५६ ॥
द्ह्ष्ट्वा मंदोदरं तस्याः प्राह मंदोदरीमिति ।
तां नाम्ना रावणस्तुष्टः तया स्वीयस्थलं ययौ ॥ ५७ ॥
ततौ माता धिक्कृतः स पुनस्तप्तुं त्वरान्वितः ।
गोकर्णं रावणो गत्वा तप्त्वा लब्ध्वा विधेर्वरान् ॥ ५८ ॥
त्रैलोक्यं स्ववशे कृत्वा लंकायां राज्यमाप सः ।
तस्मात्सीतासमानेयं दृष्टा मंदोदरी प्रिये ॥ ५९ ॥
लंकायां वायुपुत्रेण रावनाग्रे विनिद्रिता ।
मयोऽप्यासीत्स लंकायां गृहं कृत्वा यथासुखम् ॥ ६० ॥
मयबंधुर्गयो नाम महान् वीरः प्रतापवान् ।
रात्रौ न्विनिद्रितो गेहे ब्रह्मदत्तवरात्सुधीः ॥ ६१ ॥
दशास्यहस्तात् तन्मृत्युः विधिनोक्तं विचिंत्य च ।
तस्य वस्त्रं मारुतिना हृतं सदसि वै पुरा ॥ ६२ ॥
तत्क्षिपत् हेमपर्यंके रावणस्य कपिस्तदा ।
बिभीषणस्य पर्यंके वसनं रावणस्य च ॥ ६३ ॥
क्षिप्त्वापश्यत् जानकीं स लंकायां च मुहुः कपिः ।
ययौ अशोकवनिकां वृक्षप्रासादमंडिताम् ॥ ६४ ॥
ददर्श तत्र प्रांशुंच शिंशपानाम पादपम् ।
तन्मूले राक्षसीमध्ये ददर्शावनिकन्यकाम् ॥ ६५ ॥
एकवेणीं कृशां दीनां मलिनांबरधारिणीम् ।
भूमौ शयानां शोचंतीं रामरामेति भाषिणीम् ॥ ६६ ॥
कृतार्थोऽममिति प्राह दृष्ट्वा सीतां स मारुतिः ।
शिंशपानगशाखाग्र पल्लवाभ्यंतरे स्थितः ॥ ६७ ॥
पुरा दृष्टानलंकारान् तस्य देहे ददर्शन ।
ततः किलकिलाश्ब्दैः ययौ तत्र दशाननः ॥ ६८ ॥
ददर्श रावणं स्वप्ने कपिः कश्चित् समागतः ।
अहोकवनिकायां सा दृष्टा तेन विदेहजा ॥ ६९ ॥
रामहस्तान्मृतिः शीघ्रं तां धर्षयाम्यहम् ।
कपिर्दृष्ट्वा राघवाय निवेदयतु मत्कृतम् ॥ ७० ॥
आगमिष्यति तत् श्रुत्वा रामो मां निहनिष्यति ।
इति निश्चित्य स ययौ स्त्रीभिः सवेष्टितो मुदा ॥ ७१ ॥
नूपुराणां ध्वनिं श्रुत्वा विह्वलाऽसीत् विदेहजा ।
रावणो जानकीमाह मां दृष्ट्वा किं विलज्जसे ॥ ७२ ॥
रामं वनचरं राज्य-भ्रष्टं त्यक्तसुहृज्जनम् ।
पित्राहीनं भोगहीनं सदा त्वय्यतिनिष्ठुरम् ॥ ७३ ॥
एकांतवासिनं पिंग-जटावल्कलधारिणम् ।
तं त्यक्त्वा मां भजस्वाद्य त्रैलोक्येशं महाबलम् ॥ ७४ ॥
अप्सरोभिः सेवितं मां भाग्ययुक्तं पदश्तितम् ।
स्त्रियो मंदोदरीमुख्याः त्वां भजिष्यंत्यहर्निशम् ॥ ७५ ॥
मया राज्यं त्वदधीनं कृतमस्ति भजस्व माम् ।
मया स्वजीवितं चापि त्वदधीनं कृतं महत् ॥ ७६ ॥
इति नानाविधैर्वाक्यैः प्रार्थयामास रावणः ।
उवाचाधोमुखी सीता निधाय तृणमन्तरे ॥ ७७ ॥
राघवात् बिभ्यता नूनं भिक्षुरूपं धृतं त्वया ।
रहिते राघवाभ्यां त्वं शुनीव हविरध्वरे ॥ ७८ ॥
हृत्वानसि मां नीच तत्फलं प्राप्स्यसेऽचिरात् ।
यदा रामशराघात विदारित् वपुर्भवान् ।
भविष्यसि रणे रामं जानीषे मानुषं तदा ॥ ७९ ॥
श्रुत्वा रक्षोऽधिपः कृद्धो जानक्याः परुषाक्षरम् ।
वाक्यं क्रोधसमाविष्टः पुनर्वचनमब्रवीत् ॥ ८० ॥
भवित्री लंकायां त्रिदशवदन ग्लानिरचिरात्
स रामोऽपि स्थाता न युधि पुरतो लक्ष्मणसखः ।
तथा यास्यच्चैर्विपदमनुजेनात्र जटिलो
जयः श्रीरामे स्यात् न मम बहुतोषोऽत्र तु भवेत् ॥ ८१ ॥
तद् रावनवचः श्रुत्वा जानकी प्राह तं पुनः ।
षष्ठाक्षरपराण्येव चतुर्षु चरणेष्वपि ॥ ८२ ॥
त्वमक्षराणि चत्वारि लोप्य श्कं अमुं पथ ।
एवं तया जितो वाक्य मार्गणैः स दशानन ॥ ८३ ॥
दुद्राव भीषयन् सीतां खड्गमुद्यम्य सत्वरः ।
धृत्वा करेण तत्पाणिं मंदोदर्या निषेधितः ॥ ८४ ॥
मादृश्यः सति बह्व्यश्च त्यजैनां कृपणां कृशाम् ।
ततोऽब्रवीत् दशग्रीवो राक्षसीविकृताननाः ॥ ८५ ॥
यथा मे वशगा सीता भविष्यति सकामना ।
तथा यतध्वं त्वरितं तर्जनादरनादिभिः ॥ ८६ ॥
यदि मासद्वयात् ऊर्ध्वं मच्छयां नाभिनंदति ।
तदा ते प्रातराशाय हत्वा कुरुत मानुषीम् ॥ ८७ ॥
तदा सीता पुनः प्राह वचनं तं दशाननम् ।
बाल्यत्वेऽहं समानीता पेटिकास्था त्वया पुरा ॥ ८८ ॥
तदा मया वचः प्रोक्तं तत्त्वं किं विस्मृतोऽसि हि ।
अधुनाऽहं गमिष्यामि यास्यामि त्वरितं पुनः ॥ ८९ ॥
त्वां बंधुपुत्र सैन्याद्यः निर्हन्तुं च मयेरितम् ।
त्वत्स्वीयं वचनं सत्यं कर्तृमत्रागताऽस्म्यहम् ॥ ९० ॥
त्वां बंधुपुत्रऐन्याद्यैः निहत्य रामहस्ततः ।
ततोऽयोध्यापुरीं गत्वा पुनर्यास्यामि त्वत्पुरीम् ॥ ९१ ॥
निकुम्भजं पौंड्रकं तं मातामहगृहे स्थितम् ।
शतशीर्षं रावणं च द्वीपांतरनिवासिनम् ॥ ९२ ॥
साहाय्यार्हं पौंड्रकेन लंकायां आगतं पुनः ।
अहं तृतीयवीलायां संविधिष्यामि तावुभौ ॥ ९३ ॥
ततः स्वीयस्थलं गत्वा पुनर्यास्यामहं जवात् ।
कुंभकर्णोद्‍भवं वीरं मूलकासुरनामकम् ॥ ९४ ॥
अत्रैव तुर्यवेलायां आगत्य पुष्पकेण हि ।
अहं एव हनिष्यामि शितबाणै रणांगणे ॥ ९५ ॥
अन्यच्चापि स्मराद्य त्वं पुरा यद्‍विधिनोदितम् ।
यद्वाक्याच्च त्वया गत्वा कौसल्यानृपती हृतौ ॥ ९६ ॥
पेटिकास्थौ पुनस्त्यक्तौ साकेते दैवयोगतः ।
अतस्त्वं मर्तुकामोऽसि यतोऽहं आहृता त्वया ॥ ९७ ॥
गच्छ गेहे सुखं भुंक्ष्व रामः शीघ्रं हनिष्यति ।
इति सीतावाक्यबाणैः भिन्नमर्मस्थलोऽपि सः ॥ ९८ ॥
ययौ तूष्णीं निजं गेहं लज्जितश्च दशाननः ।
एवं दशानने याते राक्ष्स्यो रावणाज्ञया ॥ ९९ ॥
जानकीं तां स्वशब्दैश्च तथा क्रूरोक्तिभिर्मुहुः ।
आस्यर्विदीर्णखड्गाद्यैः भीषयन्त्यः करादिभिः ॥ १०० ॥
निवार्य त्रिजटानाम्नी विभीषणप्रियाऽनुगा ।
ताः सर्वा राक्षसीर्वेगात् वाक्यमाहाथ सादरम् ॥ १ ॥
न भीषयध्वं रुदतीं नमस्कुरुत जानमीम् ।
सुचिह्नै राघवः स्वने मया दृष्टोऽद्य जानकीम् ॥ २ ॥
मोचयामास दग्ध्वेमां लंकां हत्वा तु रावणम् ।
रावणो गोमयह्रदे तैलाभ्यक्तो दिगंबरः ॥ ३ ॥
मयाऽद्य दृष्टः स्वप्ने हि तस्मादेनां न साहसम् ।
कार्यं सेव्या सदा चेयं रामादभयदायिनी ॥ ४ ॥
युष्माभिर्दुःखिता चेद्वो भर्तेयं घातयिष्यति ।
इति तत् त्रिजटावाक्यं श्रुत्वा तस्थुः भयाकुलाः ॥ ५ ॥
तूष्णीमेव तदा सीता दुःखात् किंचित् उवाच सा ।
इदानीं एव मरणं केनोपायेन मे भवेत् ॥ ६ ॥
दीर्घा वेणी ममात्यर्थं उद्‍बंधाय भविष्यति ।
यन्मया स्वीयवाग्बाणैः लक्ष्मणस्ताडितः पुरा ॥ ७ ॥
तस्मादिमाः पीडयंति भोक्ष्यते स्वकृतं मया ।
मया विरागः सौमित्रिः त्रासितो गौतमीतटे ॥ ८ ॥
प्रायश्चित्तं करोम्यद्य तस्य त्यक्त्वास्वजीवितम् ।
एवं निश्चितबुद्धिं तां मरणायाथ जानकीम् ॥ ९ ॥
दृष्ट्वा शनैर्वायुपुत्रो रामवृत्तं न्यवेदयत् ।
आसाकेतर्निगमाच्च स्वसीतादर्शनावधि ॥ ११० ॥
सविस्तारम् क्रमेणैव सीतातोषार्थमादरात् ।
सीता क्रमेण तत्सर्वं श्रुत्वा साश्चरमानसा ॥ ११ ॥
किं मयेदं श्रुतं व्योम्नि स्वप्नो दृष्टोऽथवा निशि ।
येन मे कर्णपीऊष वचनं समुदीरितम् ॥ १२ ॥
स दृश्यतां महाभागः प्रियवादी ममाग्रतः ।
तत् श्रुत्वा तत्पुरो गत्वा नत्वा तां अब्रवीत् पुनः ॥ १३ ॥
रामदूतो ददौ तस्यै राघवस्यांगुलीयकम् ।
तां राममुद्रिकां दृष्ट्वा नत्वा तां अब्रवीत् कपिम् ॥ १४ ॥
सर्वं कथय तद्‍वृत्तं यथा दृष्टं त्वयाऽत्र हि ।
तदा तां साम्त्वयामास रामो मत्स्कंधसंस्थितः ॥ १५ ॥
वानरेंद्रैः समागत्य हत्वा रावणमाहवे ।
त्वां नेष्यति भयं सीते त्यज त्वं मम वाक्यतः ॥ १६ ॥
ततः सीताप्रत्ययार्थं रूपं स्वं दर्शयन् कपिः ।
ततः पुनः प्रत्ययार्थं सीतायै राघवोदितम् ॥ १७ ॥
मनःशिलायास्तिलकं चित्रकूटगिरौ कृतम् ।
कपिस्तत् कथयामास पूर्ववृत्तं सविस्तरम् ॥ १८ ॥
ततस्तुष्टां जानकीं तां मरुतिर्वाक्यमब्रवीत् ।
अनुज्ञां देहि मे मातः त्वभिज्ञानं ददस्व माम् ॥ १९ ॥
सा तं चूडामणिं पित्रा दत्तं केशांतरस्थितम् ।
निष्कास्य तत्करे दत्त्वा पूर्वं काकेन यत्कृतम् ॥ १२० ॥
चित्रकूटगिरौ वृत्तं कथयामास तत्कपिम् ।
ततो नत्वा रामपत्‍नीं चिंतयामास चेतसि ॥ २१ ॥
स्वामिकार्यं कृतं चैतद् अन्यत् किंचित् करोम्यहम् ।
इति निश्चित्य मनसा जानकीं पुनरब्रवीत् ॥ २२ ॥
मातर्मेऽतीव क्षुब्धोधः स्त्वद्य विक्लवदो महान् ।
अस्मिन् वनेऽतिमधुरः फलसंगोऽतिदुर्लभः ॥ २३ ॥
त्वयाज्ञयाऽद्य सीतेऽहं करिष्ये भक्षणं ध्रुवम् ।
इति तद्‍वचनं श्रुत्वा जानकी स्वीयकंकणम् ॥ २४ ॥
निष्कास्य हस्तात् तं प्राह गृह्णीष्वेदं प्लवंगम ।
अनेन फलसंभारान् लंकाहट्टात् प्रगृह्य च ॥ २५ ॥
भुक्त्वापीत्वा सुखं गच्छ वनेऽस्मिन् त्रोटयस्व मा ।
तदा कपिः पुनः प्राह परहस्तफलानि हि ॥ २६ ॥
नाहं भुंजामि सीते मे व्रतमस्ति व्रजाम्यहम् ।
व्रजंतं मारुतिं दृष्ट्वा सीता वचनमब्रवीत् ॥ २७ ॥
भो बालककपिश्रेष्ठ रावणोऽस्ति वनाधिपः ।
न शक्तिर्न च शक्यं ते कथं त्वं भक्षयिष्यसि ॥ २८ ॥
तत्तस्या वचनं श्रुत्वा मारुतिः प्राह जानकीम् ।
श्रीरामेति परं पत्र-शस्त्रम् मे हृदयांतरे ॥ २९ ॥
तेन सर्वाणि रक्षांसि तृणरूपाणि सांप्रतम् ।
तदा तं जानकी प्राह पतितान्यत्र वै भुवि ॥ १३० ॥
भुंक्ष्वैतानि फलानि त्वं तूष्णीं मा त्रोटयात्र वै ।
तथेति मारुतिश्चोक्त्वा वृक्षान् पुच्छेन चालयन् ॥ ३१ ॥
वृक्षांदोलनमात्रेण निपेतुश्च फलानि हि ।
भक्षयामास तान्येव सुफलानि क्षणेन सः ॥ ३२ ॥
ततो वृषान् समुत्पाट्य लांगूलेन स मारुतिः ।
क्षिप्त्वा तान् अन्यवृक्षेषु समस्तानि फलानि वै ॥ ३३ ॥
पातयामास भूम्यां तु भक्षयामास तानि सः ।
भक्षितानि समस्तानि फलानि वनजानि हि ॥ ३४ ॥
दृष्ट्वा तं दुद्रुवुर्धर्तुं मारुतिं वनरक्षकाः ।
राक्षसान् आगतान् दृष्ट्वा वृक्षैस्तान् ताडयत् कपिः ॥ ३५ ॥
उत्पाट्याशोकवनिकां निर्वृक्षामकरोत् क्षणात् ।
सीताश्रयनगं त्यक्त्वा वनं शून्यं चकार सः ॥ ३६ ॥
बभंज चैत्यप्रासादं हत्वा तद् रक्षकाम् क्षणात् ।
ततस्ता राक्शसीः सर्वा वनभंगं निरीक्ष्य च ॥ ३७ ॥
पप्रच्छुर्जानकीं स्र्वाः कोऽयं कस्य कुतस्त्विह ।
ताः सर्वा जानकी प्राह राक्षसाः कामरूपिणः ॥ ३८ ॥
वोचरंति मुदा भूम्यां वेद्म्यहं भिक्षुरूपिणा ।
तदा हृता पंचवट्यां रावणेन हि तद्वनात् ॥ ३९ ॥
तस्मात् ज्ञेयस्तु युष्माभिः कोयं मां पृच्छतेद्यकिम् ।
इति तस्या वचः श्रुत्वा राक्षस्यो भयविह्वलाः ॥ १४० ॥
दशाननः हि तद्‍वृत्तं ययुः शीघ्रं निवेदितुम् ।
एतस्मिन् अंतरे प्रातः मंचके कटिबंधनम् ॥ ४१ ॥
निरीक्ष्य रावणश्चाथ जयस्य चकितस्तदा ।
भुक्तां मंदोदरीं ज्ञात्वा तां हंतुं खड्गमाददे ॥ ४२ ॥
तदा निवारितः स्त्रीभिः स्त्रीहत्यां माकरोत्विति ।
तदा क्रुद्धो दशग्रीवः तूष्णीं गत्वा गयगृहम् ॥ ४३ ॥
अवधीन्निद्रितं वीरं खड्गेन स्वगृहं ययौ ।
तदा विभीषणं प्रातः बंधोर्वस्त्रं स्वमंचके ॥ ४४ ॥
दृष्ट्वा तां स रमां हंतुं दुद्रुवे वर्जितस्तदा ।
स्त्रीभिर्धृत्वा तस्य स्त्री हत्या गर्हिता त्विति ॥ ४५ ॥
something missing in previous line
विभीषणस्तदारभ्य बंधोस्त्रासममन्यत ।
एवमासीच्च लंकायां कौतुकं कपिना कृतम् ॥ ४६ ॥
अथ वेगेन राक्षस्यः समासंस्थम् दशाननम् ।
वृत्तं निवेदयामासुः स्खलद्‍वाण्या वनोद्‍भवम् ॥ ४७ ॥
तत् श्रुत्वा रावणः क्रोधात् कपिनोत्पाटितं वनम् ।
वनपालं समाहूय जम्बुमालिनमब्रवीत् ॥ ४८ ॥
राक्षसैर्नियुतैर्गच्छ कीशं धृत्वा समानय ।
तथेति स ययौ वेगात् अशोकवनिकां प्रति ॥ ४९ ॥
दृष्ट्वा सैन्य दीर्घनादं चकार कपिकुंजरः ।
ततस्ते राक्षसाः शस्त्रैः निजघ्नुर्वानरोत्तमम् ॥ १५० ॥
तत उत्प्लुत्य हनुमान् तोरणेन समंततः ।
निष्पिपेष क्षणादेव मशकानिव यूथपः ॥ ५१ ॥
हत्वा तान् राक्षसान् सर्वान् ततो वेगेन मारुतिः ।
तालवृक्षं समुत्पाट्य जघान जंबुमालिनम् ॥ ५२ ॥
तान् सर्वान् निहता श्रुत्वा त्वा पंचसेनापतीन्पुनः ।
रावणः प्रेषयामास हतास्ते तोरणेन च ॥ ५३ ॥
वायुपुत्रेण वेगेन लक्षराक्षससंयुताः ।
स तानपि मृतान् श्रुत्वा अक्षं पुत्रं प्रैषयत्तदा ॥ ५४ ॥
कपिना मारितः सोऽपि ससैन्यो मुद्‍गरेण च ।
ततः स प्रेषयामास पुत्रं इंद्रजितं पुनः ॥ ५५ ॥
ततः स रथमारूढः कोटिराक्षसवेष्टितः ।
युद्धं चकार कपिना शस्त्रैरस्त्रैः सुदुर्धरैः ॥ ५६ ॥
तदा पुच्छेन सैन्याय कृत्वा प्रापारमुत्तमम् ।
निष्पिपेष तोरणेन राक्षसान् मारुतिः क्षणात् ॥ ५७ ॥
ततो वृक्षं समुत्पाट्य मेघनादं अताडयत् ।
वृक्षेण भिन्नसर्वांगो मेघोनादोऽविशद्‍गुहाम् ॥ ५८ ॥
एतस्मिन् अंतरे ब्रह्मा प्रार्थयामास मारुतिम् ।
ब्रह्मास्त्रं मानयन्मेऽद्य त्वं लंकां याहि रावणम् ॥ ५९ ॥
तथेत्यंगीचकारासौ मेघनादं ययौ विधिः ।
विधिः प्राह मेघनादं क्व गतोऽद्य पराक्रमः ॥ १६० ॥
गच्छ मेऽस्त्रेण तं बद्ध्वा पितुरग्रे समानय ।
स ब्रह्मवचनं श्रुत्वा मेघनादः पुनर्ययौ ॥ ६१ ॥
ब्रह्मास्त्रेणाथ तं बद्ध्वा तं आनयामास राअणम् ।
ततो रावणवाक्येन प्रहस्तः प्राह मारुतिम् ॥ ६२ ॥
कस्त्वं कुतः समायातः प्रेषितः केन वा अद ।
ततः स रामवृत्तः हि कथयामास विस्तरात् ।
ततस्तं बोधयामास रावणं वायुनंदनः ॥ ६३ ॥
विसृज्य मौख्याद्‌हृदि शत्रुभावनां
भजस्व रामं शरणागतप्रियम् ।
सीतां पुरस्कृत्य सपुत्रबांधवो
रामं नमस्कृत्य विमुच्यसे भयात् ॥ ६४ ॥
यावन्नगाभाः कपयो महाबला
हरींद्रतुल्या नखदंष्ट्रयोधिनः ।
लंकां समाक्रम्य विनाशयंति ते
तावत् द्रुतं देहि रघूत्तमाय ताम् ॥ ६५ ॥
जीवन्न रामेण विमोक्ष्यसे त्वं
गुप्तः सुरेंद्रैरपि शंकरेण
ने देवराजांकगतो न मृत्योः
पाताललोकानपि संप्रविष्टः ॥ ६६ ॥
शुभं हितं पवित्रं च वायुपुत्रवचः खलः ।
प्रतिजग्राह नैवासौ मिर्य्माण इवौषधिम् ॥ ६७ ॥
इति तद्‍वचनं श्रुत्वा मारुतिं प्राह राअणः ।
विनिर्जिता येन देवाः तस्य मे पौरुषं त्वया ॥ ६८ ॥
न दृष्टं वल्गसे व्यर्थं श्रृणु किंचित् वदामि ते ।
पंचांगपाठकश्चायं पश्य ब्रह्मा कुतो मया ॥ ६९ ॥
प्रतीहारस्त्वयं सूर्यः शशी छत्रधरः कृतः ।
वरुणोऽयं जलग्राही मार्जकः पवनस्त्विह ॥ १७० ॥
अग्निः कृतोऽयं रजको मालाकारः शचीपतिः ।
दंपाणिर्यमश्चात्र दास्यश्चात्र सुरस्त्रियः ॥ ७१ ॥
मार्तंडो नापितश्चायं गणपः खर्रक्षकः ।
मंगलाद्या ग्रहाः सप्त मे सोपानायितासने ॥ ७२ ॥
शिशुसेवातत्परेण षष्ठी देवी मया कृता ।
आंदोलितश्च कैलासः कुबेरोऽपि विनिर्जितः ॥ ७३ ॥
कथं ममाग्रे विलपस्यभीतवत्
प्लवंमानामधमोऽसि दुष्टधीः ।
क एष रामः कतमो वनेचरो
निहन्मि सुग्रीवयुतं नराधमम् ॥ ७४ ॥
इत्युक्त्वा हंतुमुद्युक्तः तं दशास्य सभास्थितः ।
तदा निवारयामास रावणं स विभीषणः ॥ ७५ ॥
परदूतो न हंतव्य इत्यादिवचनैस्तदा ।
ततः क्रोधसमाविष्टो रावणो लोकरावणः ॥ ७६ ॥
दूतान् आज्ञापयामासुः छेदनीयं तु लांगुलम् ।
तद् रावनवचः श्रुत्वा राक्षतास्ते सहस्रशः ॥ ७७ ॥
स्वायुधैश्च्छेदयामासु कुठारक्रकचादिभिः ।
आयुधान्येव शतशः तत् पुच्छाघातमात्रतः ॥ ७८ ॥
बभूवुः शतचूर्णानि तस्य रोम्णोऽपि न व्यथा ।
तन्निक्ष्य दशास्यः स मारुतिं वाक्यमब्रवीत् ॥ ७९ ॥
न वीरा ग्पयंत्यत्र स्वीयं मृत्युमपि क्वचित् ।
अतस्त्वं वद पुच्छस्य येन घातोऽद्य ते भवेत् ॥ १८० ॥
तदाऽमरत्वं स्वं प्राह कपिस्तच्च मृषेति सः ।
मत्वा दशास्यस्तं प्राह पुनः सत्यं वदेति च ॥ ८१ ॥
तदा स मारुतिस्तूष्णीं क्षणं चित्ते व्यचिंतयत् ।
मत्पितुश्च सखा वह्निः तस्मात् नास्ति भयं मम ॥ ८२ ॥
तस्मात् पुच्छं दीपयित्वा लंकां दग्धां करोम्यहम् ।
ततस्तं रावणं प्राह मारुतिः सदसि स्थितः ॥ ८३ ॥
पुच्छं मे वह्निना दग्धं भविष्यति न संशयः ।
तत्तस्य वचनं श्रुत्वा रावणो निनिजकिंकरान् ॥ ८४ ॥
आज्ञापयामास पुच्छं दीपयित्वा प्रयत्‍नतः ।
लंकायां दर्शनीयोऽयं दृष्ट्वैनं मद्‍भयं भवेत् ॥ ८५ ॥
सर्वेषां मद् रिपुणां च तथा चक्रुस्त्वरानिवताः ।
तैलाक्तैः शणपत्तैश्च राक्षसा वसनैरपि ॥ ८६ ॥
पुच्छं संवेष्टयामासुः तदा पुच्छं व्यवर्द्धत ।
ततो वसनहट्टात्तु वस्त्रकोशान् विलुण्ठ्य च ॥ ८७ ॥
तत्पुच्छं वेष्टयामासुः गृहवस्त्रैः अनेकशः ।
ततः पुरुषनारीणां लंकास्थानां नृषाज्ञया ॥ ८८ ॥
बलात् आच्छिद्य वस्त्राणि चक्रुः सर्वान् दिगंबरात् ।
ततः शय्यामंडपांश्च कंचुकीः कंचुकानपि ॥ ८९ ॥
पौराणां राजगेहाच्च ते वस्त्राणि समानयम् ।
दृष्ट्वाऽपूर्तिं तु पुच्छस्य समाश्तानां नृपस्य च ॥ १९० ॥
वस्त्रमात्रैः समस्तैश्च लांगूलं वेष्टयन् तदा ।
ध्वजोष्णीषपताकाभिः विप्राणां वसनैरपि ॥ ९१ ॥
मंदोदर्यादि वस्त्रैश्च भिक्षूणाम् वसनादिभिः ।
वेष्टयन् कपिलांगूलं ततं सीतां ययुश्चराः ॥ ९२ ॥
तज्ज्ञात्वा मारुतिश्चापि पुच्छापूर्तिं प्रदर्शयत् ।
तदा कोलाहलश्चासीत् वस्त्रार्थं प्रतिसद्मनि ॥ ९३ ॥
तैलार्थं च घृतार्थं च स्नेहपाशं समानयन् ।
नासीत् निशायां दीपार्थं शिशूनामपि नो घृतम् ॥ ९४ ॥
आसन् स्त्रीपुरुषा नग्ना लज्जा नासीत् परस्परम् ।
ततस्तद् दीपयामासुः वह्निना भस्त्रकंपनैः ॥ ९५ ॥
प्रदीप्तं नाभवत् पुच्छं ततो मारुतिरब्रवीत् ।
यदा स्वीयमुखेनायं लज्जमानोऽद्य रावणः ॥ ९६ ॥
वह्निं प्रज्वालयेद् अत्र तदा ज्वाला भविष्यति ।
तन्मारुतिवचः श्रुत्वा ययावग्रे दशाननः ॥ ९७ ॥
यावत्फूत्कारयामास तत्पुच्छानलमाननैः ।
तावत् तच्छिरजाः श्मश्रु कूर्चां दग्धा तदाऽभवन् ॥ ९८ ॥
तदा विंशद्‍भुजैः स्वीयं मुखोपरि दशाननः ।
ताडयत् वह्निशांत्यर्थः जहसू राक्षसास्तदा ॥ ९९ ॥
हास्य चकार हनुमान् तदा क्रुद्धः स रावणः ।
नीयतां मर्कटश्चायं इति दूतान् वचोऽब्रवीत् ॥ २०० ॥
ततो दूताः कपिं निन्युः लंकायां ते समंततः ।
श्रृंखलाभिर्दृढं बद्ध्वा भ्रामायामासुः आदरात् ॥ १ ॥
वाद्यघोषैं दीर्घशब्दैः वेष्टितं शस्त्रधारिभिः ।
एवं दिवा सर्वलंकां दृष्ट्वोड्डीय स मारुतिः ॥ २ ॥
धृत्वाऽतिसूक्ष्मरूपं तु दृढबंधविनिर्गतः ।
यथास्थानं ब्रह्मणोऽस्त्रं तद्ययौ पूर्वमेव हि ॥ ३ ॥
ततः पश्चिमदिक् संस्थं लंकाद्वारं समानयत् ।
निष्कास्य तोरणं द्वारात् जघान द्वाररक्षकान् ॥ ४ ॥
हत्वा स्वरक्षकांश्चापि प्रासादेषु समंततः ।
ददौ अग्निं स्वपुच्छेन लंकां दग्धां चकार सः ॥ ५ ॥
तदा कोलाहलश्चासीत् लंकायां प्रतिसद्मनि ।
निद्रितानपि बालांश्च त्यक्त्वा नार्यो गृहाद्‍बहिः ॥ ६ ॥
दुद्रुवुः प्राणरक्षार्थं दग्धस्त्रालकास्तदा ।
क्रमेण रावणादीनां प्रासादान् जालयन् कपिः ॥ ७ ॥
तां रावणसभां दग्ध्वा जनान् पुच्छेन ताडयत् ।
अभवन् राक्षसा दग्धा मुखवाद्यानि चक्रिरे ॥ ८ ॥
तदा स रावणः क्रुद्धो राक्षसैर्दशकोटिभिः ।
ययौ योद्धुं मारुतिना तान् सर्वान् तोरणेन सः ॥ ९ ॥
घातयामास पुच्छेन बद्ध्वा चैकत्र कोटिशः ।
तथैव लीलया पुच्छं रावणस्य च मस्तके ॥ २१० ॥
संताड्य तत् त्वच दग्धां अकरोन्मारुतिः क्षणात् ।
तत्पुच्छवह्निना दग्धो मूर्छितोऽभूत् दशाननः ॥ ११ ॥
कपिः श्रीरामप्रीत्यर्थं रावणं न जघान सः ।
पतितं पितरं दृष्ट्वा दृष्ट्वा दग्धान् स्वराक्षसा ।
आत्मनः प्राणरक्षार्थं इंद्रजित् विवरं ययौ ।
कपिर्लक्ष्मणप्रीत्यर्थं मेघनादं जघान न ॥ १३ ॥
एवं सर्वान् विनिर्जित्य गोपुराट्टालमंडिताम् ।
दग्ध्वा लंकां सविस्तारां ययौ सागरमुत्तमम् ॥ १४ ॥
तटे पुच्छं स्थापयित्वा जलजान् रक्षयन् कपिः ।
तत्तरंगैः शीतलं स्वं कृत्वा लांगूलमुत्तमम् ॥ १५ ॥
निजकण्ठाच्च धूम्रेणश्लेष्माणं सागरेऽक्षिपत् ।
ततः कपिः क्षणं तूष्णीं स्थित्वा सीतां विचिन्त्य च ॥ १६ ॥
ताडयामास हृदये मत्त्वा दग्धां विदेहजाम् ।
आत्मानं गर्हयामास स्थित्वासागर रोधसि ॥ १७ ॥
धिग्दिङ्मां वानरं मूढं स्वामिपत्‍न्याश्च दाहकम् ।
निश्चयेन मया दग्धा जानकी रामतोषदा ॥ १८ ॥
न विचारः कृतः पूर्वं लंकादाहेऽविवेकिना ।
आत्मघातं करोम्यद्य पुच्छबंधेन चात्र वै ॥ १९ ॥
किं रामायेदृशं स्वास्यं दर्शयेऽद्य विगर्हितम् ।
रामस्तु श्रुत्वा सीताया वृत्तं शीघ्रं मरिष्यति ॥ २२० ॥
तद्‍दुःखेन स सौमित्रिः मरिष्यति न संशयः ।
तयोर्दुःखेन सुग्रीवः तदर्थं सा च वै रुमा ॥ २१ ॥
तं श्रुत्वा सोऽङ्गदश्चापि मरिष्यत्यतिलालितः ।
ताराऽपि पुत्रशोकेन नृपे नष्टेऽथ वानराः ॥ २२ ॥
प्राप्ते पंचदशे वर्षे भरतोऽपि मरिष्यति ।
रामदुःखेन कौसल्या सुमित्रा पुत्रदुःखतः ॥ २३ ॥
तथा सा कैकेयी दुष्टा सर्वानर्थकरी तु या ।
शत्रुघ्नो बंधुदुःखेन रामार्थं मुनयश्च ते ॥ २४ ॥
राघवा रामभक्ताश्च मंत्रिणः सुहृदस्तथा ।
सीतापितुः कुलं सर्वं कौसल्याः पितुः कुलम् ॥ २५ ॥
सुमित्रायाश्च कैकेय्याः तेषां संबंधिनस्तथा ।
नष्टे राजकुले जाते प्रजा स्वेच्छानुवर्तिनी ॥ २६ ॥
मरिष्यति न संदेहः ततः स्थावरजंगमम् ।
भूमिस्थाः प्राणिनः सर्वे यदा नष्टास्तदा दिवि ॥ २७ ॥
हव्यकव्यविहीनास्ते देवा नाशं गता इव ।
अकाले प्रलयं दृष्ट्वा नष्टां सृष्टिं स्वनिर्मिताम् ॥ २८ ॥
पश्चात् तापेन धाताऽपि मरिष्यति न संशयः ।
एवं क्रमेण ब्रह्मांडं नश्यत्येव न संशयः ॥ २९ ॥
एतद्धातनिमित्तोऽहं विधिना निर्मितः पुरा ।
इत्युक्तवत खेदेन देहत्यागार्थमुत्तमम् ॥ २३० ॥
दृष्ट्वा साऽऽकाशजा वाणी बभूव बहुहर्षदा ।
मा कुरुष्व कपे खेदं न दग्धा जानकी शिभा ॥ ३१ ॥
आत्मानं दर्शयित्वा तां शीघ्रं गच्छ रघूद्वहम् ।
तां वाणीं हनुमान् श्रुत्वा बभूव हर्षपूरितः ॥ ३२ ॥
द्रुतं तां जानकीं द्रष्टुं अशोकवनिकां ययौ ।
तावत् ददर्श लंकायां सुवर्णवेष्टितां भुवम् ॥ ३३ ॥
तत्कारणं वदाम्यद्य तत् श्रुणुष्व गिरींद्रजे ।
आसीत् गिरिवरो देवि त्रिकूट इति विश्रुतः ॥ ३४ ॥
क्षिरोदेनावृतः श्रीमान् योजनायुमुच्छ्रितः ।
तावता विस्तृतः पर्यक् त्रिभिः श्रृंगैः पयोनिधिम् ॥ ३५ ॥
दिशं खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ।
तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ॥ ३६ ॥
उद्यानं ऋतुमन्नाम आक्रीडं सुरयोषिताम् ।
तस्मिन् सरः विपुलं कसत्कांचनपंकजम् ॥ ३७ ॥
कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् ।
नैतद्कृतघ्ना पश्यंति न नृशंसा न नास्तिकाः ॥ ३८ ॥
तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः ।
आसीत् ग्राहो गजेंद्राणां दुराधर्षो महाबलः ॥ ३९ ॥
अथ दंतोज्ज्वलमुखः कदाचित् गजयूथपः ।
आजगाम तृषाक्रांतः करेणुपरिवारितः ॥ २४० ॥
तृषितः पानकामोऽयं अवतीर्णश्च तत् सरः ।
पिबतः तस्य तत्तोयं ग्राहस्तं उपपद्यत ॥ ४१ ॥
सुलीनं पंकजवृते यूथमध्यगतः करी ।
गृहीतस्तेन रौद्रेण ग्राहणातिबलीयसा ।
गजो ह्याकर्षते तीरं ग्राह आकर्षते जलम् ॥ ४२ ॥
पश्यंतीनां करेणूनां क्रोशंतीनां सुदारुणम् ।
नीयते पंकजवने ग्राहेणाव्यक्तमूर्तिना ॥ ४३ ॥
तथाऽऽतुरं यूथपतिं करेणवो
विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशुर्दीनधियोऽपरे गजाः
पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ ४४ ॥
तयोः युद्धं अभूत् घोरं दिव्यवर्षसहस्रकम् ।
वारुणैः संयतः पाशैः निष्प्रयत्‍नगतिः कृतः ॥ ४५ ॥
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागैदृढैस्तथा ।
विस्फूर्जितमहाशक्तिः विक्रोशंश्च महारवान् ॥ ४६ ॥
व्यथितः स निरुत्साहो गृहितो घोरकर्मणा ।
परामापदमापन्नो मनसाऽर्चितयत् हरिम् ॥ ४७ ॥
एकाग्रो निगृहीतात्मा विशुद्धेनांतरात्मना ।
प्रगृह्य पुष्कराग्रेण कांचनं कमलोत्तमम् ॥ ४८ ॥
नैवेद्यं मनसा ध्यात्वा पूजयित्वा जनार्दनम् ।
आपद्विमोक्षमन्विच्छन् गजः स्तोत्रं उदीरयत् ॥ ४९ ॥
तत्कृतेन स्तवेनैव सुप्रीतः परमेश्वरः ।
आरुह्य गरुडं विष्णुः आजगाम सुरोत्तमः ॥ २५० ॥
ग्राहग्रस्तं गजेंद्रं च तं ग्राहं च जलाशयात् ।
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥ ५१ ॥
जलस्थं दारयामास नक्रं चक्रेण माधवः ।
मोचयामास नागेंद्रःं पाशेभ्यः शरणागतम् ॥ ५४ ॥
आसीत् गजः पुरा पाण्ड्य इंद्रद्युम्न इति श्रुतः ।
एकदा स तपोनिष्ठो बभूव ध्यानतत्परः ॥ ५३ ॥
यदृच्छया ययौ तत्र कुंभजन्मा नृपांतिकम् ।
ध्यानस्थः स नृपो नैव मुनिं वेद समागतम् ॥ ५४ ॥
ददौ शापं मुन्र्भूपं दृष्ट्वात्मानं तु नोत्थितम् ।
तपोमदेन संभ्रातः त्वयस्मान् नोत्थितोऽसि माम् ॥ ५५ ॥
अतो भव गज भ्रांतो मदेन विपिनेऽचिरात् ।
तं श्रुत्वा नृपतिः शापं तं प्रणम्य पुनः पुनः ॥ ५६ ॥
विशापं प्रार्थयामास मुनिः प्राह हरेः करात् ।
भविष्यति विमुक्तिस्ते पदा ग्राहो धरिष्यति ॥ ५७ ॥
पुरा तदैव गंधर्वः त्वप्सरोगणसेवितः ।
सरस्यस्मिन् जलक्रीडां करुत्ं हूहूः समागतः ॥ ५८ ॥
सरस्यघमर्षणार्थं तं दृष्ट्वा स देवलं चिरम् ।
संस्थितं च बहिः कर्तुं गंधर्वः स व्यचिंतयत् ॥ ५९ ॥
स्वयं भूत्वा जले लीनः त्वत्पादौ स्वकरेण हि ।
दृढं धृत्वा कर्षयंतं ज्ञात्वा तं अपशन् मुनिः ॥ २६० ॥
ग्राहवन्मे धृतौ पादौ तस्मात् ग्राहो भ्वात्र वै ।
तेन संप्रार्थितः प्राह करिस्त्वां उद्धरिष्यति ॥ ६१ ॥
एवं तौ पूर्वशापेन पतितावतिसंकटे ।
हरिरुद्‍धृत्य तौ ताभ्यां ययौ स्वीयस्थलं पुनः ॥ ६२ ॥
क्षुधितेनाथ तार्क्ष्येण प्रार्थितः प्राह त्अं हरिः ।
गच्छ भक्षस्व पतिते गजग्राहकलेवरे ॥ ६३ ॥
ययौ तार्क्ष्यः सरः पुण्यं तावद्‍भ्रूभंगगृध्रराट् ।
कलेवरांतिकं प्रापतः तं निहत्य खगेश्वरः ॥ ६४ ॥
पदेनैकेन भ्रूभंगं अपरेण कलेवरे ।
धृत्वा तार्क्ष्यं शुद्धदेशं भक्षणार्थमपश्यत ॥ ६५ ॥
तावत् क्षीरार्णवे जांबूनदवृक्षं समीक्ष्य सः ।
आयामविस्तरोच्चैस्तु सहस्रयोजन शुभम् ॥ ६६ ॥
तच्छाखायां विशालायां यावत्तस्थौ स पक्षिरात् ।
तावत् बभंज तच्छाखा वालखिल्यैरधोमुखैः ॥ ६७ ॥
तपद्‍भिः षष्टिसाहस्रैः चिरकालं समाश्रिताः ।
तांस्तादृशान् विलोक्याथ तच्छापभयशंकितः ॥ ६८ ॥
धृत्वा स्वचंचुना शाखां बभ्राम गगने पुनः ।
ततो दृष्ट्वा कश्यपं स्वतातं नत्वा व्यजिज्ञपत् ॥ ६९ ॥
वद शुद्धां भुवं मेऽद्य कुर्वेऽहं यत्र भोजनम् ।
तत्पितुर्वचनात् लंकां ययौ तार्क्ष्यः क्षणेन सः ॥ ७१ ॥
प्रोच्चयोः पक्षयोः शाखां स्थाप्य तान् भक्षयन् मुदा ।
तत्त्यक्तैरस्थिभिस्तत्र शृंगिणि त्रीणि चाभवन् ॥ ७२ ॥
त्रिकूट इति नाम्ना स लंकायां गिरिराडभूत् ।
तेषु श्रृंगेषु तां शाखां तार्क्ष्यः संस्थाप्य संययौ ॥ ७३ ॥
वालखिल्यास्तपोऽन्ते ते ययुर्विष्णोः परं पदम् ।
आसीत् शाखाऽन्तरले सा लंकायां श्रृंगमूर्द्धसु ॥ ७४ ॥
ग्रावभूतां शैवलेन न विदुस्तां तु राक्षसाः ।
लंकागिना द्रवीभूता मर्दयन्ती क्षपाचरान् ॥ ७५ ॥
पपात तत् रसेनासीत् लंकाभूमिः हिरण्मयी ।
तां दृष्ट्वा चकोतो वेगात् वने सीतां ययौ कपिः ॥ ७६ ॥
दृष्ट्वाऽशोके पुनः सीतां तामाह कपिकुंजरः ।
मत्स्कंधसंस्थिता रामं अद्य पश्यसि जानकि ॥ ७७ ॥
सा प्राह मोचितामन्यैः मां रामो न सहिष्यति ।
नीत्वा पुनर्मुद्रिकां त्वं राघवाय सपर्पय ॥ ७८ ॥
इत्युक्त्वा तत्करे सीता ददौ श्रीराममुद्रिकाम् ।
ततस्तां मारुतिः पुष्ट्वा नत्वां शीघ्रम् ययौ पुनः ॥ ७९ ॥
आरुरोह सुवेलाद्रिं चूर्णं तमकरोद् गिरिम् ।
एतस्मिन् अंतरे ब्रह्मा ददौ पत्रं सविस्तरम् ॥ २८० ॥
यद्यत्कृतं मारुतिना लंकायां तस्य सूचकम् ।
तद्‍गृह्य मारुतिर्वेगात् नत्वा पृष्ट्वा विधिं पुनः ॥ ८१ ॥
तत उड्डीय वेगेन यथावाकाशवर्त्मना ।
कुर्वन् शब्दं महाघोरं कपीनां ऊर्ध्वतस्तदा ॥ ८२ ॥
उदग्‍दिश्यंतरा किंचित् पपात भुवि मारुतिः ।
मया श्रीरामकार्यं तु कृतमस्ति मुनीश्वर ॥ ८४ ॥
पानीयं पातुमिच्छामि दर्शयस्व जलाशयम् ।
तर्जन्या दर्शयामास मुनिस्तस्मै जलाशयम् ॥ ८५ ॥
ततः स मारुतिर्मुद्रां मणिं पत्रं मुनेः पुरः ।
संस्थाप्य नीरं पातुं वै ययौ कासारमुत्तमम् ॥ ८६ ॥
ततस्तत्र कपिः कश्चिन् मुद्रिकां मुनिसन्निधौ ।
कमंडलौ प्राक्षिपत्स ययौ तावच्च मारुतिः ॥ ८७ ॥
गृहित्वा त्अं मणिं पत्रं मुनिं पप्रच्छ मुद्रिकाम् ।
मुनिर्भ्रूसंज्ञया तस्मै कमंडलुं अदर्शयत् ॥ ८८ ॥
ततः कमंडलौ तूष्णीं मुद्रिकां अवलोकयत् ।
तवत् ददर्शांजनेयः तस्मिन् श्रीराममुद्रिकाः ॥ ८९ ॥
दृष्ट्वा सहस्रस्तत्र चकितः प्राह तं मुनिम् ।
कुतस्त्विमा मुद्रिकाश्च वद का मम मुद्रिका ॥ २९० ॥
एतास्य् तं मुनिश्रेष्ठ तदा तं मुनिरब्रवीत् ।
यदा यदा वायुपुत्रः सीतां तां राघवाज्ञया ॥ ९१ ॥
लंकां गत्वा समानीता शुद्धिमुद्रास्तदा तदा ।
मदग्रे स्थापितास्ताश्च कपिभिश्च कमंडलौ ॥ ९२ ॥
निक्षिप्तास्तास्त्विमाः सर्वा पश्यंतासु स्वमुद्रिकाम् ।
तन्मुनेर्वचनं श्रुत्वा गतगर्वस्तमब्रवीत् ॥ ९३ ॥
कियंतो राघवाश्चात्र समायाता मुनीश्वर ।
मुनिस्तं प्राह निष्कास्य गणयस्वाद्य मुद्रिकाम् ॥ ९४ ॥
कमंडलोरंजलिभिः तदाऽथ मुद्रिका मुहुः ।
बहिः क्षिपन् मारुतिः स नांतं तासां ददर्श सः ॥ ९५ ॥
पुनः कमंडलौ कृत्वा मुनिं नत्वा कपिः क्षणम् ।
चिंतयामास मनसि मादृशैः शतशः पुरा ॥ ९६ ॥
समानीतास्ति सीतायाः शुद्धिः का गणनाऽद्यमे ।
इति निश्चित्य मनसि गतगर्वस्तदा कपि ॥ ९७ ॥
पुनर्दक्षिणमार्गेण ययौ यत्रांगदादयः ।
प्रायोपवेशनस्थास्ते तं दृष्ट्वा तुष्टमानसाः ॥ ९८ ॥
बभूवुर्वानराः सर्वे समालिंघ्याथ तं मुहुः ।
ज्ञात्वा तन्मुखतः सीता दृष्टाऽऽशोकवने त्विति ॥ ९९ ॥
ययुस्ते राघवंशीघ्रं मार्गे सुग्रीवपालितम् ।
दृष्ट्वा मधुवनं सर्वे दृष्ट्वा तं वालिनंदनम् ॥ ३०० ॥
फलानि भक्षयामासुः दधिवक्त्रो न्यषेधयत् ।
ततस्ते ताडयामासुः दधिवक्त्रं कपीश्वरम् ॥ १ ॥
ज्ञात्वा तु मातुलमपि सुग्रीवस्यांगदादयः ।
स गत्वा सकलं वृत्तं सुग्रीवाय न्यवेदयत् ॥ २ ॥
सोऽपि श्रुत्वा जनकजा दृष्टा तैरित्यमन्यत ।
नोचेन्मधुवनं रम्यं कथमश्नन्ति वानराः ॥ ३ ॥
ततो विसर्जयामास दधिवक्त्रं कपीश्वरः ।
मा निषेधस्त्वया कार्यः त्वं शीघ्रं प्रेषयस्व तान् ॥ ४ ॥
ममांतिकं ततो गत्वा दधिवक्त्रास्तथाऽकरोत् ।
ततः सुग्रीववचनं श्रुत्वा तेन समीरितम् ॥ ५ ॥
युयुस्ते वानराः सर्वे रामं नत्वा पुरःस्थिताः ।
ततो हर्षान्मारुतिः स ब्रह्मपत्रं न्यवेदयत् ॥ ६ ॥
दत्त्वा चूडामणिं रामं काकवृत्तं न्यवेदयत् ।
तत् श्रुत्वा सकलं वृत्तं ज्ञात्वा मारुतिना कृतम् ॥ ७ ॥
लंकायां वायुपुत्रेण रामस्तुष्टो ब्अभूव सः ।
समालिंग्य हनूमंतं राघवो वाक्यमब्रवीत् ॥ ८ ॥
तवोपकारिणश्चाहं न पश्याम्यद्य मारुते ।
कर्तुं प्रत्युपकारं ते धन्य्ऽसि जगतीतले ॥ ९ ॥
परिरंभो हि मे लोके दुर्लभः परमात्मनः ।
अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुंगवः ॥ ३१० ॥
यद्पादपद्मयुगलं तुलसीदलाद्यैः
संपूज्य विष्णु पदवीं अतुला प्रयांति ।
तेनैव किं पुनरसौ परिरब्धमूर्ती
रामेण वायुतनयः कृतपुण्यपुंजः ॥ ११ ॥
रामं स पारुतिः प्राह भीतभीतोऽतिजंपितः ।
मयाऽपराधितमिति मुद्रावृत्तं मुनेर्वचः ॥ १२ ॥
तत् श्रुत्वा रामचंद्रोऽपि विहस्योवाच मारुतिम् ।
मयैव दर्शितं मार्गे कौतुकं मुनिरूपिणा ॥ १३ ॥
त्वत्‍गर्वपरिहारार्थं मुद्रिकां मत्करे त्विमाम् ।
कनिष्ठिकायां त्वं पश्य समानीता त्वयाद्य वै ॥ ३१४ ॥
तां राममुद्रिकां दृष्ट्वा श्रीरामस्य करांगुलौ ।
ननाम गरगर्वः स रामं विष्णुममन्यत ॥ १५ ॥
मय्यप्यस्यैव कृपया पौरुषं चेत्यमन्यत ।
एवं गिरींद्रजे प्रोक्तं चरित्रं सुंदराभिधम् ॥ १६ ॥
रामार्थं वायुपुत्रेण कृतं सर्वार्थदायकम् ॥ ३१७ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे नवमः सर्गः ॥ ९ ॥


GO TOP