॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ षष्ठः सर्गः ॥

विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् ।
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् ॥ १ ॥
दृष्ट्वा क्रतुवरं पश्चाद् अयोध्यां गन्तुमर्हसि ।
इत्युक्त्वा प्रययौ गङ्‌गां उत्तर्तुं सहराघवः ।
तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः ॥ २ ॥
नाविक उवाच
क्षालयामि तव पादपङ्‌कजं
नाथ दारुदृषदोः किमन्तरम् ।
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी ॥ ३ ॥
पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि ।
नोचेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटम्बहानिः ॥४ ॥
इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः ।
कौशिको रघुनाथेन सहितो मिथिलां ययौ ॥ ५ ॥
विदेहस्य पुरं प्रातः ऋषिवाटं समाविशत् ।
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः ॥ ६ ॥
पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ ।
दण्डवत् प्रणिपत्याथ पूजयामास कौशिकम् ॥ ७ ॥
पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ ।
द्योतयन्तौ दिशः सर्वाः चन्द्रसूर्याविवापरौ ॥ ८ ॥
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ ।
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव ॥ ९ ॥
प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १० ॥
मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् ।
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् ॥ ११ ॥
शरेणैकेन हतवान् नोदितो मेऽतिविक्रमः ।
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् ॥ १२ ॥
सुबाहुप्रमुखान् हत्वा मारीचं सागरेऽक्षिपत् ।
ततो गङ्‌गातटे पुण्ये गौतमस्याश्रमं शुभम् ॥ १३ ॥
गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता ।
पादपङ्‌कजसंस्पर्शात् कृता मानुषरूपिणी ॥ १४ ॥
दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक् प्रपूजितः ।
इदानीं द्रष्टकामस्ते गृहे माहेश्वरं धनुः ॥ १५ ॥
पूजितं राजभिः सर्वैः दृष्टं इत्यनुशुश्रुवे ।
अतो दर्शय राजेन्द्र शैवं चापं अनुत्तमम् ।
दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति ॥ १६ ॥
इत्युक्तो मुनिना राजा पूजार्हौ इति पूजया ।
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा ॥ १७ ॥
जनक उवाच
ततः सम्प्रेषयामास मंत्रिणं बुद्धिमत्तरम् ।
शीघ्रमानय विश्वेश चापं रामाय दर्शय ॥ १८ ॥
ततो गते मंत्रिवरे राजा कौशिकमब्रवीत् ।
यदि रामो धनुर्धृत्वा कोट्यां आरोपयेद्‍गुणम् ॥ १९ ॥
तदा मयात्मजा सीता दीयते राघवाय हि ।
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् ॥ २० ॥
शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे ।
एवं ब्रुवति मौनीश आगताश्चापवाहकाः ॥ २१ ॥
चापं गृहीत्वा बलिनः पङ्चसाहस्रसङ्‌ख्यकाः ।
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् ॥ २२ ॥
दर्शयामास रामाय मंत्री मंत्रयतां वरः ।
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् ॥ २३ ॥
गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः ।
आरोपयामास गुणं पश्यत्सु अखिलराजसु ॥ २४ ॥
ईषदाकर्षयामास पाणिना दक्षिणेन सः ।
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् ॥ २५ ॥
दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् ।
तद् अद्‌भुतं अभूत्तत्र देवानां दिवि पश्यताम् ॥ २६ ॥
आच्छादयन्तः कुसुमैः देवाः स्तुतिभिरीडिरे ।
देवदुन्दुभयो नेदुः ननृतुश्चाप्सरोगणाः ॥ २७ ॥
द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्‌ग्य रघूद्वहम् ।
विस्मयं लेभिरे सीता मातरोऽन्तःपुराजिरे ॥ २८ ॥
सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे ।
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता ॥ २९ ॥
मुक्ताहारैः कर्णपत्रैः क्वणच्चरणनूपुरा ।
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी ॥ ३० ॥
रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ ।
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्‌कृतम् ॥ ३१ ॥
गवाक्षजालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनम् ।
ततोऽब्रवीन् मुनिं राजा सर्वशास्त्रविशारदः ॥ ३२ ॥
भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् ।
राजा दशरथः शीघ्रं आगच्छतु सपुत्रकः ॥ ३३ ।
विवाहार्थं कुमाराणां सदारः सहमंत्रिभिः ।
तथेति प्रेषयामास दूतान् त्वरितविक्रमान् ॥ ३४ ॥
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् ।
श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः ॥ ३५ ॥
मिथिलागमनार्थाय त्वरयामास मंत्रिभिः ।
गच्छन्तु मिथिलां सर्वे गजाश्व-रथपत्तयः ॥ ३६ ॥
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् ।
वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः ॥ ३७ ॥
राममातॄः समादाय मुनिर्मे भगवान् गुरुः ।
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् ॥ ३८ ॥
महत्या सेनया सार्धं आरुह्य त्वरितो ययौ ।
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः ॥ ३९ ॥
प्रत्युज्जगाम जनकः शतानन्दपुरोधसा ।
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् ॥ ४० ॥
रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः ।
ततो हृष्टो दशरथो रामं वचनमब्रवीत् ॥ ४१ ॥
दिष्ट्या पश्यामि ते राम मुखं फुल्लाम्बुजोपमम् ।
मुनेरनुग्रहात् सर्वं सम्पन्नं मम शोभनम् ॥ ४२ ॥
इत्युक्त्वाघ्राय मूर्धानं आलिङ्‌ग्य च पुनः पुनः ।
हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा ॥ ४३ ॥
ततो जनकराजेन मन्दिरे सन्निवेशितः ।
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी ॥ ४४ ॥
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् ।
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा ॥ ४५ ॥
रत्‍नस्तम्भसुविस्तारे सुविताने सुतोरणे ।
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते ॥ ४६ ॥
वेदविद्‌भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः ।
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते ॥ ४७ ॥
भेरीदुन्दुभिनिर्घोषैः गीतनृत्यैः समाकुले ।
दिव्यरत्‍नाञ्चिते स्वर्ण पीठे रामं न्यवेशयत् ॥ ४८ ॥
वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः ।
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः ॥ ४९ ॥
स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि ।
सीतामानीय शोभाढ्यां नानारत्‍नविभूषिताम् ॥ ५० ॥
सभार्यो जनकः प्रायाद् रामं राजीवलोचनम् ।
पादौ प्रक्षाल्य विधिवत् तदपो मूर्ध्न्यधारयत् ॥ ५१ ॥
या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा ।
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् ॥ ५२ ॥
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः ।
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता ॥ ५३ ॥
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम ।
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् ॥ ५४ ॥
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे ।
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा ॥ ५५ ॥
तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके ।
भरताय ददय् एकां शत्रुघ्नायापरां ददौ ॥ ५६ ॥
चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः ।
विरेजुः प्रजया सर्वे लोकपाला इवापरे ॥ ५७ ॥
ततोऽब्रवीद् वसिष्ठाय विश्वामित्राय मैथिलः ।
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् ॥ ५८ ॥
यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्‌गलेन मे ।
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा ॥ ५९ ॥
तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् ।
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना ॥ ६० ॥
एकदा नारदोऽभ्यागाद् विविक्ते मयि संस्थिते ।
रणयन् महतीं वीणां गायन् नारायणं विभुम् ॥ ६१ ॥
पूजितः सुखमासीनो मामुवाच सुखान्वितः ।
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् ॥ ६२ ॥
परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया ।
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च ॥ ६३ ॥
जातो राम इति ख्यातो मायामानुषवेषधृक् ।
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः ॥ ६४ ॥
योगमायापि सीतेति जाता वै तव वेश्मनि ।
अतस्त्वं राघवायैव देहि सीतां प्रयत्‍नतः ॥ ६५ ॥
नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः ।
इत्युक्त्वा प्रययौ देव-गतिं देवमुनिस्तदा ॥ ६६ ॥
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते ।
कथं मया राघवाय दीयते जानकी शुभा ॥ ६७ ॥
इति चिन्तासमाविष्टः कार्यं एकं अचिन्तयम् ।
मत्पितामहगेहे तु न्यासभूतमिदं धनुः ॥ ६८ ॥
ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् ।
धनुरेतत्पणं कार्यं इति चिन्त्य कृतं तथा ॥ ६९ ॥
सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् ।
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः ॥ ७० ॥
आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः ।
अद्य मे सफलं जन्म राम त्वां सह सीतया ॥ ७१ ॥
एकासनस्थं पश्यामि भ्राजमानं रविं यथा ।
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः ॥ ७२ ॥
बलिस्त्वत्पादसलिलं धृत्वाभूद् दिविजाधिपः ।
त्वत्पादपांसु संस्पर्शाद् अहल्या भर्तृशापतः ॥ ७३ ॥
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता ॥ ७४ ॥
यत्पादपङ्‌कजपरागसुरागयोगि
वृन्दैर्जितं भवभयं जितकालचक्रैः ।
यन्नमकीर्तनपरा जितदुःखशोका
देवास्तमेव शरणं सततं प्रपद्ये ॥ ७५ ॥
इति स्तुत्वा नृपः प्रादाद् राघवाय महात्मने ।
दीनाराणां कोटिशतं रथानां अयुतं तदा ॥ ७६ ॥
अश्वानां नियुतं प्रादाद् गजानां षट्शतं तथा ।
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ ॥ ७७ ॥
दिव्याम्बराणि हारांश्च मुक्तारत्‍नमयोज्ज्वलान् ।
सीतायै जनकः प्रादात् प्रीत्या दुहितृवत्सलः ॥ ७८ ॥
वसिष्ठादीन् सुसंपूज्य भरतं लक्ष्मणं तथा ।
पूजयित्वा यथान्यायं तथा दशरथं नृपन् ॥ ७९ ॥
प्रस्थापयामास नृपो राजानं रघुसत्तमम् ।
सीतामालिङ्‌ग्य रुदतीं मातरः साश्रुलोचनाः ॥ ८० ॥
श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता ।
पातिव्रत्यं उपालम्ब्य तिष्ठ वत्से यथा सुखम् ॥ ८१ ॥
प्रयाणकाले रघुनन्दनस्य
भेरीमृदङ्‌गानकतूर्यघोषः ।
स्वर्वासिभेरीघनतूर्यशब्दैः
संमूर्च्छितो भूतभयङ्‌करोऽभूत् ॥ ८२ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे षष्ठः सर्गः ॥ ६ ॥

GO TOP