॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ द्वितीयः सर्ग: ॥

अथ राजा दशरथः कदाचित् रहसि स्थितः ।
वसिष्ठं स्वकुलाचार्यं आहूयेदमभाषत ॥ १ ॥
भगवन् राममखिलाः प्रशंसन्ति मुहुर्मुहुः ।
पौराश्च निगमा वृद्धा मंत्रिणश्च विशेषतः ॥ २ ॥
ततः सर्वगुणोपेतं रामं राजीवलोचनम् ।
ज्येष्ठं राज्येऽभिषेक्ष्यामि वृद्धोऽहं मुनिपुङ्‌गव ॥ ३ ॥
भरतो मातुलं द्रष्टुं गतः शत्रुघ्नसंयुतः ।
अभिषेक्ष्ये श्व एवाशु भवान् तच्चानुमोदताम् ॥ ४ ॥
सम्भाराः सम्भ्रियन्तां च गच्छ मंत्रय राघवम् ।
उच्छ्रीयन्तां पताकाश्च नानावर्णाः समन्ततः ॥ ५ ॥
तोरणानि विचित्राणि स्वर्णमुक्तामयानि वै ।
आहूय मंत्रिणं राजा सुमंत्रं मंत्रिसत्तमम् ॥६ ॥
आज्ञापयति यद्यत्त्वां मुनिस्तत्तत्समानय ।
यौवराज्येऽभिषेक्ष्यामि श्वोभूते रघुनन्दनम् ॥ ७ ॥
तथेते हर्षात्स मुनिं किं करोमीत्यभाषत ।
तमुवाच महातेजा वसिष्ठो ज्ञानिनां वरः ॥ ८ ॥
श्वः प्रभाते मध्यकक्षे कन्यकाः स्वर्णभूषिताः ।
तिष्ठन्तु षोडश गजाः स्वर्णरत्‍नादि भूषिताः ॥ ९ ॥
चतुर्दन्तः समायातु ऐरावतकुलोद्‌भवः ।
नानातीर्थोदकैः पूर्णाः स्वर्णकुम्भाः सहस्रशः ॥ १०
स्थाप्यन्तां नववैयाघ्र चर्माणि त्रीणि चानय ।
श्वेतच्छत्रं रत्‍नदण्डं मुक्तामणिविराजितम् ॥ ११ ॥
दिव्यमाल्यानि वस्त्राणि दिव्यान्याभरणानि च ।
मुनयः सत्कृतास्तत्र तिष्ठन्तु कुशपाणयः ॥ १२ ॥
नर्तक्यो वारमुख्याश्च गायका वेणुकास्तथा ।
नानावादित्रकुशला वादयन्तु नृपाङ्‌गणे ॥ १३ ॥
हस्त्यश्वरथपादाता बहिस्तिष्ठन्तु सायुधाः ।
नगरे यानि तिष्ठन्ति देवतायतनानि च ॥ १४ ॥
तेषु प्रवर्ततां पूजा नानाबलिभिरावृता ।
राजानः शीघ्रमायान्तु नानोपायनपाणयः ॥ १५ ॥
इत्यादिश्य मुनिः श्रीमान् सुमंत्रं नृपमंत्रिणम् ।
स्वयं जगाम भवनं राघवस्यातिशोभनम् ॥ १६ ॥
रथमारुह्य भगवान् वसिष्ठो मुनिसत्तमः ।
त्रीणि कक्षाण्यतिक्रम्य रथात् क्षितिमवातरत् ॥ १७ ॥
अन्तः प्रविश्य भवनं स्वाचार्यत्वादवारितः ।
गुरुमागतमाज्ञाय रामस्तूर्णः कृताञ्जलिः ॥ १८ ॥
प्रत्युद्‍गम्य नमस्कृत्य दण्डवद्‌भक्तिसंयुतः ।
स्वर्णपात्रेण पानीयं आनिनायाशु जानकी ॥ १९ ॥
रत्‍नासने समावेश्य पादौ प्रक्षाल्य भक्तितः ।
तदपः शिरसा धृत्वा सीताया सह राघवः ॥ २० ॥
धन्योऽस्मीत्यब्रवीद्‍रामः तव पादाम्बुधारणात् ।
श्रीरामेणैवमुक्तस्तु प्रहसन् मुनिरब्रवीत् ॥ २१ ॥
त्वत्पादसलिलं धृत्वा धन्योऽभूद् गिरिजापतिः
ब्रह्मापि मत्पिता ते हि पादतीर्थहताशुभः ॥ २२ ॥
इदानीं भाषसे यत्त्वं लोकानां उपदेशकृत् ।
जानामि त्वां परात्मानं लक्ष्म्या संजातमीश्वरम् ॥ २३ ॥
देवकार्यार्थसिद्ध्यर्थं भक्तानां भक्तिसिद्धये ।
रावणस्य वधार्थाय जातं जानामि राघव ॥ २४ ॥
तथापि देवकार्यार्थं गुह्यं नोद्‍घाटयाम्यहम् ।
तथा त्वं मायया सर्वं करोषि रघुनन्दन ॥ २५ ॥
तथैवानुविधास्येऽहं शिष्यस्त्वं गुरुरप्यहम् ।
गुरुर्गुरूणां त्वं देव पितॄणां त्वं पितामहः ॥ २६ ॥
अन्तर्यामी जगद्यात्रा वाहकस्त्वमगोचरः ।
शुद्धसत्त्वमयं देहं धृत्वा स्वाधीनसम्भवम् ॥ २७ ॥
मनुष्य इव लोकेऽस्मिन् भासि त्वं योगमायया ।
पौरोहित्यमहं जाने विगर्ह्यं दूष्यजीवनम् ॥ २८ ॥
इक्ष्वाकूणां कुले रामः परमात्मा जनिष्यते ।
इति ज्ञातं मया पूर्वं ब्रह्मणा कथितं पुरा ॥ २९ ॥
ततोऽहमाशया राम तव सम्बन्धकाङ्‌क्षया ।
अकार्षं गर्हितमपि तवाचार्यत्वसिद्धये ॥ ३० ॥
ततो मनोरथो मेऽद्य फलितो रघुनन्दन ।
त्वदधीना महामाया सर्वलोकैकमोहिनी ॥ ३१ ॥
मां यथा मोहयेन्नैव तथा कुरु रघूद्वह ।
गुरुनिष्कृतिकामस्त्वं यदि देह्येतदेव मे ॥ ३२ ॥
प्रसङ्‌गात्सर्वमप्युक्तं न वाच्यं कुत्रचिन्मया ।
राज्ञा दशरथेनाहं प्रेषितोऽस्मि रघूद्वह ॥ ३३ ॥
त्वां आमंत्रयितुं राज्ये श्वोऽभिषेक्ष्यति राघव ।
अद्य त्वं सीतया सार्धं उपवासं यथाविधि ॥ ३४ ॥
कृत्वा शुचिर्भूमिशायी भव राम जितेन्द्रियः ।
गच्छामि राजसान्निध्यं त्वं तु प्रातर्गमिष्यसि ॥ ३५ ॥
इत्युक्त्वा रथमारुह्य ययौ राजगुरुर्द्रुतम् ।
रामोऽपि लक्ष्मणं दृष्ट्वा प्रहसन् इदमब्रवीत् ॥ ३६ ॥
सौमित्रे यौवराज्ये मे श्वोऽभिषेको भविष्यति ।
निमित्तमात्रमेवाहं कर्ता भोक्ता त्वमेव हि ॥ ३७ ॥
मम त्वं बहिः प्राणो नात्र कार्या विचारणा ।
ततो वसिष्ठेन यथा भाषितं तत् तथाकरोत् ॥ ३८ ॥
वसिष्ठोऽपि नृपं गत्वा कृतं सर्वं न्यवेदयत् ।
वसिष्ठस्य पुरो राज्ञा ह्युक्तं रामाभिषेचनम् ॥ ३९ ॥
यदा तदैव नगरे श्रुत्वा कश्चित् पुमान् जगौ ।
कौसल्यायै राममात्रे सुमित्रायै तथैव च ॥ ४० ॥
श्रुत्वा ते हर्षसम्पूर्णे ददतुर्हारमुत्तमम् ।
तस्मै ततः प्रीतमाना कौसल्या पुत्रवत्सला ॥ ४१ ॥
लक्ष्मीं पर्यचरद् देवीं रामस्यार्थप्रसिद्धये ।
सत्यवादी दशरथः करोत्येव प्रतिश्रुतम् ॥ ४२ ॥
कैकेयीवशगः किन्तु कामुकः किं करिष्यति ।
इति व्याकुलचित्ता सा दुर्गां देवीमपूजयत् ॥ ४३ ॥
एतस्मिन् अन्तरे देवा देवीं वाणीमचोदयन् ।
गच्छ देवि भुवो लोकं अयोध्यायां प्रयत्‍नतः ॥ ४४ ॥
रामाभिषेकविघ्नार्थं यतस्वं ब्रह्मवाक्यतः ।
मन्थरां प्रविशस्वादौ कैकेयीं च ततः परम् ॥ ४५ ॥
ततो विघ्ने समुत्पन्ने पुनरेहि दिवं शुभे ।
तथेत्युक्त्वा तथा चक्रे प्रविवेशाथ मन्थराम् ॥ ४६ ॥
सापि कुब्जा त्रिवक्रा तु प्रासादाग्रमथारुहत् ।
नगरं परितो दृष्ट्वा सर्वतः समलंकृतम् ॥ ४७ ॥
नानातोरणसम्बाधं पताकाभिरलंकृतम् ।
सर्वोतवसमायुक्तं विस्मिता पुनरागमत् ॥ ४८ ॥
धात्रीं पप्रच्छ मातः किं नगरं समलंकृतम् ।
नानोत्सवसमायुक्ता कौसल्या चातिहर्षिता ॥ ४९ ॥
ददाति विप्रमुख्येभो वस्त्राणि विविधानि च ।
तामुवाच तदा धात्री रामचन्द्राभिषेचनम् ॥ ५० ॥
श्वो भविष्यति तेनाद्य सर्वतोऽलंकृतं पुरम् ।
तत् श्रुत्वा त्वरितं गत्वा कैकेयीं वाक्यमब्रवीत् ॥ ५१ ॥
पर्यङ्‌कस्थां विशालाक्षीं एकान्ते पर्यवस्थिताम् ।
किं शेषे दुर्भगे मूढे महद्‌भयमुपस्थितम् ॥ ५२ ॥
न जानीषेऽतिसौन्दर्य मानिनी मत्तगामिनी ॥ ५३ ॥
रामस्यानुग्रहाद् राज्ञः श्वोऽभिषेको भविष्यति ।
तत् श्रुत्वा सहसोत्थाय कैकेयी प्रियवादिनी ॥ ५४ ॥
तस्यै दिव्यं ददौ स्वर्ण नूपुरं रत्‍नभूषितम् ।
हर्षस्थाने किमिति मे कथ्यते भयमागतम् ॥ ५५ ॥
भरताधिको रामः प्रियकृन्मे प्रियंवदः ।
कौसल्यां मां समं पश्यन् सदा शुश्रूषते हि माम् ॥ ५६
रामाद्‌भयं किमापन्नं तव मूढे वदस्व मे ।
तत् श्रुत्वा विषसादाथ कुब्जाकारणवैरिणी ॥ ५७ ॥
शृणु मद्वचनं देवि यथार्थं ते महद्‌भयम् ।
त्वां तोषयन्सदा राजा प्रियवाक्यानि भाषते ॥ ५८ ॥
कामुकोऽतथ्यवादी च त्वां वाचा परितोषयन् ।
कार्यं करोति तस्या वै राममातुः सुपुष्कलम् ॥ ५९
मनस्येतन्निधायैव प्रेषयामास ते सुतम् ।
भरतं मातुलकुले प्रेषयामास सानुजम् ॥ ६० ॥
सुमित्रायाः समीचीनं भविष्यति न संशयः ।
लक्ष्मणो राममन्वेति राज्यं सोऽनुभविष्यति ॥ ६१ ॥
भरतो राघवस्याग्रे किङ्‌करो वा भविष्यति ।
विवास्यते वा नगरात् प्राणैर्वा हाप्यतेऽचिरात् ॥ ६२ ॥
त्वं तु दासीव कौसल्यां नित्यं परिचरिष्यसि ।
ततोऽपि मरणं श्रेयो यत्सपत्‍न्याः पराभवः ॥ ६३ ॥
अतः शीघ्रं यतस्वाद्य भरतस्याभिषेचने ।
रामस्य वनवासार्थं वर्षाणि नव पञ्च च ॥ ६४ ॥
ततो रूढोऽभये पुत्रः तव राज्ञि भविष्यति ।
उपायं ते प्रवक्ष्यामि पूर्वमेव सुनिश्चितम् ॥ ६५ ॥
पुरा देवासुरे युद्धे राजा दशरथः स्वयम् ।
इन्द्रेण याचितो धन्वी सहायार्थं महारथः ॥ ६६ ॥
जगाम सेनया सार्धं त्वया सह शुभानने ।
युद्धं प्रकुर्वतस्तस्य राक्षसैः सह धन्विनः ॥ ६७ ॥
तदाक्षकीलो न्यपतत् छिन्नस्तस्य न वेद सः ।
त्वं तु हस्तं समावेश्य कीलरन्ध्रेऽतिधैर्यतः ॥ ६८ ॥
स्थितवत्यसितापाङ्‌गि पतिप्राणपरीप्सया ।
ततो हत्वासुरान् सर्वान् ददर्श त्वामरिन्दमः ॥ ६९ ॥
आश्चर्यं परमं लेभे त्वां आलिङ्‌ग्य मुदान्वितः ।
वृणीष्व यत्ते मनसि वाञ्छितं वरदोऽस्म्यहम् ॥ ७०
वरद्वयं वृणीष्व त्वं एवं राजावदत्स्वयम् ।
त्वयोक्तो वरदो राजन् यदि दत्तं वरद्वयम् ॥ ७१ ॥
त्वय्येव तिष्ठतु चिरं न्यासभूतं ममानघ ।
यदा मेऽवसरो भूयात् तदा देहि वरद्वयम् ॥ ७२ ॥
तथेत्युक्त्वा स्वयं राजा मन्दिरं व्रज सुव्रते ।
त्वत्तः श्रुतं मया पूर्वं इदानीं स्मृतिमागतम् ॥ ७३ ॥
अतः शीघ्रं प्रविश्याद्य क्रोधागारं रुषान्विता ।
विमुच्य सर्वाभरणं सर्वतो विनिकीर्य च ।
भूमावेव शयाना त्वं तूष्णीमातिष्ठ भामिनि ॥ ७४ ॥
यावत्सत्यं प्रतिज्ञाय राजाभीष्टं करोति ते ।
श्रुत्वा त्रिवक्रयोक्तं तत् तदा केकयनन्दिनी ॥ ७५ ॥
तथ्यमेवाखिलं मेने दुःसङ्‌गाहितविभ्रमा ।
तां आह कैकेयी दुष्टा कुतस्ते बुद्धिः ईदृशी ॥ ७६ ॥
एवं त्वां बुद्धिसम्पन्नां न जाने वक्रसुन्दरि ।
भरतो यदि मे राजा भविष्यति सुतः प्रियः ॥ ७७ ॥
ग्रामान् शतं प्रदास्यामि मम त्वं प्राणवल्लभा ।
इत्युक्त्वा कोपभवनं प्रविश्य सहसा रुषा ॥ ७८ ॥
विमुच्य सर्वाभरणं परिकीर्य समन्ततः ।
भूमौ शयाना मलिना मलिनाम्बरधारिणी ॥ ७९ ॥
प्रोवाच शृणु मे कुब्जे यावद्‍रामो वनं व्रजेत् ।
प्राणांस्त्यक्ष्येऽथ वा वक्रे शयिष्ये तावदेव हि ॥ ८०
निश्चयं कुरु कल्याणि कल्याणं ते भविष्यति ।
इत्युक्त्वा प्रययौ कुब्जा गृहं सापि तथाकरोत् ॥ ८१ ॥
धीरोऽत्यन्तदयान्वितोऽपि सगुणा
चारान्वितो वाथवा
नीतिज्ञो विधिवाददेशिकपरो
विद्याविवेकोऽथवा ।
दुष्टानामतिपापभावितधियां
सङ्‌गं सदा चेद्‌भजेत्
तद्‌बुद्ध्या परिभावितो व्रजति तत्
साम्यं क्रमेण स्फुटम् ॥ ८२ ॥
अत सङ्‌गः परित्याज्यो दुष्टानां सर्वदैव हि ।
दुःसङ्‌गी च्यवते स्वार्थात् यथेयं राजकन्यका ॥ ८३ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP