॥ अद्‌भुत रामायणम् ॥

नवमः सर्गः

परशुरामविश्वरूपदर्शनवर्णनम् -

रामः सीतापरिणयं कृत्वा दशरथादिभिः ।
भ्रातृभिश्चापि सहितो भार्यया सह सीतया ॥ १ ॥
अयोध्यां गन्तुमारेभे नानावाद्यपुरःसरम् ।
आर्चीकनन्दनो रामो भार्गवो रेणुकासुतः ॥ २ ॥
तस्य दाशरथेः श्रुत्वा रामस्याक्लिष्टकर्मणः ।
विवाहकौतुकं वीरः पथा तेन समागमत् ॥ ३ ॥
धनुरादाय तद्दिव्यं क्षत्रियाणां निबर्हणम् ।
जिज्ञास्यमानो रामस्य वीर्यं दाशरथेस्तथा ॥ ४ ॥
स तमभ्यागतं दृष्ट्वा उद्यतास्त्रमवस्थितम् ।
प्रहसन्निव विप्रेन्द्रं रामो वचनमब्रवीत् ॥ ५ ॥
स्वागतं ते मुनिश्रेष्ठ किं कार्यं करवाणि ते ।
प्रोवाच भार्गवो वाक्यं स्वागतेन किमस्ति मे ॥ ६ ॥
क्षत्रकालं हि राजेन्द्र धनुरेतन्ममास्ति हि ।
समारोपय यत्‍नेन यदि शक्तोऽसि राघव ॥ ७ ॥
इत्युक्तस्त्वाह भगवंस्त्वं नाधिक्षेप्तुमर्हसि ।
नहि न ह्यधमो धर्मः क्षत्रियाणां द्विजातिषु ॥ ८ ॥
इक्ष्वाकूणां विशेषेण बाहुवीर्येण कत्थनम् ।
तमेवं वादिनं तत्र रामो वचनब्रवीत् ॥ ९ ॥
बलं वागुपदेशेन धनुरायच्छ राघव ।
ततो जग्राह रोषेण क्षत्रियर्षभसूदनम् ॥ १० ॥
रामो दाशरथिर्दिव्यं हस्ताद्‌रामस्य कार्मुकम् ।
धनुरारोपयामास सलीलमिव राघवः ॥ ११ ॥
ज्याशब्दमकरोत्तत्र स्मयमानः स वीर्यवान् ।
तस्य शब्देन भूतानि वित्रेसुरशनेरिव ॥ १२ ॥
अथाब्रवीद्वचो रामं रामो दाशरथिस्तदा ।
इदमारोपितं ब्रह्मन्किमन्यत्करवाणि ते ॥ १३ ॥
तस्य रामो ददौ दिव्यं जामदग्न्यो महाबलः ।
शरमाकर्णदेशान्तमयमाकृष्यतामिति ॥ १४ ॥
एतच्छ्रुत्वाब्रवीद्‌रामः प्रदीप्त इव मन्युना ।
श्रूयते क्षम्यते चैव दर्पपूर्णोऽसि भार्गव ॥ १५ ॥
त्वया ह्यधिगतं तेजः क्षत्रियेभ्यो विशेषतः ।
पितामहप्रसादेन तेन मां क्षिपसि धुवम् ॥ १६ ॥
पश्य मां स्वेन रूपेण चक्षुस्ते वितराम्यहम् ।
इत्युक्त्वा प्रददौ तस्मै रामो दिव्यां दृशं तदा ॥ १७ ॥
ततो रामशरीरे वै रामोऽपश्यत्स भार्गवः ।
आदित्यान्सवसून् रुद्रान्साध्यांश्च समरुद्‌गणान् ॥ १८ ॥
पितॄन्हुताशनांश्चैव नक्षत्राणि ग्रहांस्तथा ।
गन्धर्वान् राक्षसान्यक्षान्नदीस्तीर्थानि यानि वै ॥ १९ ॥
ऋषीन्वै निखिलान्यांश्च ब्रह्मभूतान्सनातनान् ।
देवर्षीश्चैव कार्स्न्येन समुद्रान्पर्वतांस्तथा ॥ २० ॥
वेदांश्च सोपनिषदान्वषट्कारान्सहाध्वरैः ।
ऋचो यजूंषि सामानि धनुर्वेदांश्च सर्वशः ॥ २१ ॥
विद्युतो मेघवृन्दानि वर्षाणि च महाव्रत ।
ततः स भगवान्विष्णुस्तं वै बाणं मुमोच ह ॥ २२ ॥
शुष्काशनि समाकीर्णं महोल्काभिश्च सुव्रतः ।
पांसुवर्षेण महता मेघसंघैश्च केवलम् ॥ २३ ॥
भूमिकम्पैः सनिर्घातैर्नादैश्च विपुलैरपि ।
भार्गवं विह्वलं कृत्वा तेजश्चाक्षिप्य केवलम् ॥ २४ ॥
आगच्छज्ज्वलितो रामं बाणो बहुप्रचोदितः ।
स तु विह्वलतां गत्वा प्रतिलभ्य च चेतनाम् ॥ २५ ॥
रामः प्रत्यागतप्राणः प्राणमद्विष्णुतेजसम् ।
विष्णुना सोऽभ्यनुज्ञातो महेन्द्रमगमत्पुनः ॥ २६ ॥
भीतश्च तत्र न्यवसद्विनीतश्च महातपाः ।
ततस्तं वत्सरेऽतीते हृतौजसमवस्थितम् ॥ २७ ॥
निर्मदं दुःखितं दृष्ट्वा पितरो राममबुवन् ।
न वै सम्यगिदं पुत्र विष्णुमासाद्य वै कृतम् ॥ २८ ॥
स हि पूज्यश्च मान्यश्च त्रिषु लोकेषु सर्वदा ।
गच्छ पुत्र नदीं पुण्यां वधूसरकृताह्वयाम् ॥ २९ ॥
तत्रोपस्पृश्य तीर्थेषु पुनर्वपुरवाप्स्यसि ।
दीप्तोदं नाम तत्तीर्थं यत्र ते प्रपितामहः ॥ ३० ॥
भृगुर्देवयुगे राम तप्तवानुत्तमं तपः ।
तत्तथा कृतवान्‌ रामो भार्गवो वचनात्पितुः ॥ ३१ ॥
प्राप्तवांश्च पुनस्तेजो भारद्वाज महामुने ।
एतद्यः शृणुयाद्वत्स रामचरित्रमुत्तमम् ॥ ३२ ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
ततो रामो जानकीस्पृष्टपाणिः
     सूतैर्भक्त्या मागधैः स्तूयमानः
पुष्पासारैरास्तृतो देवसङ्घैः
     स उत्तरान्कोसलानाजगाम ॥ ३३ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
जामदन्त्यविश्वरूपदर्शनं नाम नवमः सर्गः ॥ ९ ॥

GO TOP