॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ चतुर्थः सर्गः ॥

श्रीमहादेव उवाच
सेतुं आरभमाणस्तु तत्र रामेश्वरं शिवम् ।
संस्थाप्य पूजयित्वाह रामो लोकहिताय च ॥ १ ॥
प्रणमेत् सेतुवन्धं यो दृष्ट्वा रामेश्वरं शिवम् ।
ब्रह्महत्यादिपापेभो मुच्यते मदनुग्रहात् ॥ २ ॥
सेतुबन्धे नरः स्नात्वा दृष्ट्वा रामेश्वरं हरम् ।
सङ्‌कल्पनियतो भूत्वा गत्वा वारणसीं नरः ॥ ३ ॥
आनीय गङ्‌गासलिलं रामेशमभिषिच्य च ।
समुद्रे क्षिप्ततद्‌भारो ब्रह्म प्राप्नोत्यसंशयम् ॥ ४ ॥
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ।
द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः ॥ ५ ॥
तृतीयेन तथा चाह्ना योजनान्येकविंशतिः ।
चतुर्थेन तथा चाह्ना द्वाविंशतिरिति श्रुतम् ॥ ६ ॥
पञ्चमेन त्रयोविशत् योजनानि समन्ततः ।
बबन्ध सागरे सेतुं नलो वानरसत्तमः ॥ ७ ॥
तैनेव जग्मुः कपयो योजनानां शतं द्रुतम् ।
असङ्‌ख्याताः सुवेलाद्रिं रुरुधुः प्लवगोत्तमाः ॥ ८ ॥
आरुह्य मारुतीं रामो लक्ष्मणोऽप्यङ्‌गदं तथा ।
दिदृक्षू राघवो लङ्‌कां आरुरोहाचलं महत् ॥ ९ ॥
दृष्ट्वा लङ्‌कां सुविस्तीर्णा नानाचित्रध्वजाकुलाम् ।
चित्रप्रासादसम्बाधां स्वर्णप्राकारतोरणाम् ॥ १० ॥
परिखाभिः शतघ्निभिः सङ्‌क्रमैश्च विराजितम् ।
प्रासादोपरि विस्तीर्ण प्रदेशे दशकन्धरः ॥११ ॥
मंत्रिभिः सहितो वीरैः किरीटदशकोज्ज्वलः ।
नीलाद्रिशिखराकारः कालमेघसमप्रभः ॥१२ ॥
रत्‍नदण्डैः सितच्छत्रैः अनेकैः परिशोभितः ।
एतस्मिन्नन्तरे बद्धो मुक्तो रामेण वै शुकः ॥ १३ ॥
वानतैस्ताडितः सम्यक् दशाननमुपागतः ।
प्रहसन् रावणः प्राह पीडितः किं परैः शुक ॥१४ ॥
रावणस्य वचः श्रुत्वा शुको वचनमब्रवीत् ।
सागस्योत्तरे नीरे अब्रवं ते वचनं यथा ।
तत उत्प्लुत्य कपयो गृहीत्वा मां क्षणात्ततः ॥ १५ ॥
मुष्टिभिर्नखदंतैश्च हन्तुं लोप्तुं प्रचक्रमुः ।
ततो मां राम रक्षेति क्रोशन्तं रघुपुङ्‌गवः ॥ १६ ॥
विसृज्यतामिति प्राह विसृष्टोऽहं कपीश्वरैः ।
ततोऽहमागतो भीत्या दृष्ट्वा तद्वानरं बलम् ॥ १७ ॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ।
नैतयोर्विद्यते सन्धिः देवदानवयोरिव ॥ १८ ॥
पुरप्राकारमायान्ति क्षिप्रं एकतरं कुरु ।
सीतां वास्मै प्रयच्छाशु युद्धं वा दीयतां प्रभो ॥१९ ॥
मामाह रामस्त्वं ब्रूहि रावणं मद्वचः शुक ।
यद्‌बलं च समाश्रित्य सीतां मे हृतवानसि ॥ २० ॥
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ।
श्वःकाले नगरीं लङ्‌कां सप्राकारां सतोरणाम् ॥ २१ ॥
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ।
घोररोषमहं मोक्ष्ये बलं धारय रावण ॥ २२ ॥
इत्युक्‍त्वोपररामाथ रामः कमललोचनः ।
एकस्थानगता यत्र चत्वारः पुरुषर्षभाः ॥ २३ ॥
श्रीरामो लक्ष्मणश्चैव सुग्रीवश्च विभीषणः ।
एत एव समर्थास्ते लङ्‌कां नाशयितुं प्रभो ॥ २४ ॥
उत्पाट्य भस्मीकरणे सर्वे तिष्ठन्तु वानराः ।
तस्य यादृक् बलं दृष्टं रूपं प्रहरणानि च ॥ २५ ॥
वधिष्यति पुरं सर्वं एकस्तिष्ठन्तु ते त्रयः ।
पश्य वानरसेनां तां असङ्‌ख्यातां प्रपूरिताम् ॥ २६ ॥
गर्जन्ति वानरास्तत्र पश्य पर्वतसन्निभाः ।
न शक्यास्ते गणयितुं प्राधान्येन ब्रवीमि ते ॥ २७ ॥
एष योऽभिमुखो लङ्‌कां नदंस्तिष्ठति वानरः ।
यूथपानां सहस्राणां शतेन परिवारितः ॥ २८ ॥
सुग्रीवसेनाधिपतिः नीलो नामाग्निनन्दनः ।
एष पर्वतशृङ्‌गाभः पद्मकिञ्जल्कसन्निभः ॥ २९ ॥
स्फोटयत्यभिसंरब्धो लाङ्‌गूलं च पुनः पुनः ।
युवराजोऽङ्‌गदो नाम वालिपुत्रोऽतिवीर्यवान् ॥ ३० ॥
येन दृष्टा जनकजा रामस्यातीव वल्लभा ।
हनूमानेष विख्यातो हतो येन तवात्मजः ॥ ३१ ॥
श्वेतो रजतसङ्‌काशो महाबुद्धिपराक्रमः ।
तूर्णं सुग्रीवमागत्य पुनर्गच्छति वानरः ॥ ३२ ॥
यस्त्वेष सिंहसं‌काशः पश्यत्यतुलविक्रमः ।
रम्भो नाम महासत्त्वो लङ्‌कां नाशयितुं क्षमः ॥ ३३ ॥
एष पश्यति वै लङ्‌कां दिधक्षन्निव वानरः ।
शरभो नाम राजेन्द्र कोटियूथप नायकः ॥ ३४ ॥
पनसश्च महावीर्यो मैन्दश्च द्विविदस्तथा ।
नलश्च सेतुकर्तासौ विश्वकर्मसुतो बली ॥ ३५ ॥
वानराणां वर्णने वा सङ्‍ख्याने वा क ईश्वरः ।
शूराः सर्वे महाकायाः सर्वे युद्धाभिकाङ्‌क्षिणः ॥ ३६ ॥
शक्ता सर्वे चूर्णयितुं लङ्‌कां रक्षोगणै सह ।
एतेषां बलसङ्‍ख्यानं प्रत्येकं वच्मि ते शृणु ॥३७ ॥
एषां कोटिसहस्त्राणि नव पञ्च च सप्त च ।
तथा शङ्‌खसहस्राणि तथार्बुदशतानि च ॥ ३८ ॥
सुग्रीवसचिवानां ते बलं एतत्‌प्रकीर्तितम् ।
अन्येषां तु बलं नाहं वक्तुं शक्तोऽस्मि रावण ॥ ३९ ॥
रामो न मानुषः सक्षात् आदिनारायण परः ।
सीता साक्षात् जगत् हेतुः चिच्छक्तिर्जगदात्मिका ॥ ४० ॥
ताभ्यामेवसमुत्पन्नं जगत्स्थावरजङ्‌गमम् ।
तस्माद्‍रामश्च सीताच जगतस्तस्थुषश्च तौ ॥ ४१ ॥
पितरौ पृथिवीपाल तयोर्वैरी कथं भवेत् ।
अजानता त्वयानीता जगन्मातैव जानकी ॥ ४२ ॥
क्षणनाशिनि संसारे शरीरे क्षणभङ्‌गुरे ।
पञ्चभूतात्मके राजन् चतुर्विंशतितत्त्वके ॥ ४३ ॥
मलमांसास्थिदुर्गन्ध भूयिष्ठेऽहङ्‌कृतालये ।
कैवास्था व्यतिरिक्तस्य काये तव जडात्मके ॥ ४४ ॥
यत्कृते ब्रह्महत्यादि पातकानि कृतानि च ।
भोगभोक्ता तु यो देहः स देहोऽत्र पतिष्यति ॥ ४५ ॥
पुण्यपापे समायातो जीवेन सुखदुःखयोः ।
कारणे देहयोगादिन् आत्मनः कुरुतोऽनिशम् ॥४६ ॥
यावद्देहोऽस्मि कर्तास्मीति आत्माहंकुरुतेऽवशः ।
अध्यासात्तावदेव स्यात् जन्मनाशादिसम्भवः ॥ ४७ ॥
तस्मात्त्वं त्यज देहादौ अभिमानं महामते ।
आत्मातिनिर्मलः शुद्धो विज्ञानात्माचलोऽव्ययः ॥ ४८ ॥
स्व-अज्ञानवशतो बन्धं प्रतिपद्य विमुह्यति ।
तस्मात्त्वं शुद्धभावेन ज्ञात्वात्मानं सदा स्मर ॥ ४९ ॥
विरतिं भज सर्वत्र पुत्रदारगृहादिषु ।
निरयेष्वपि भोगः स्यात् श्वशूकरतनौ अपि ॥ ५० ॥
देहं लब्ध्वा विवेकाढ्यं द्विजत्वं च विशेषतः ।
तत्रापि भारते वर्षे कर्मभूमौ सुदुर्लभम् ॥ ५१ ॥
को विद्वानात्मसात्कृत्वा देहं भोगानुगो भवेत् ।
अतस्त्वं ब्राह्मणो भूत्वा पौलस्त्यतनयश्च सन् ॥ ५२ ॥
अज्ञानीव सदा भोगान् अनुधावसि किं मुधा ।
इतः परं वा त्यक्‍त्वा त्वं सर्वसङ्‌गं समाश्रयः ॥ ५३ ॥
राममेव परात्मनं भक्तिभावेन सर्वदा ।
सीतां समर्प्य रामाय तत्पादानुचरो भव ॥ ५४ ॥
विमुक्त सर्वपापेभ्यो विष्णुलोकं प्रयास्यसि ।
नो चेद्‍गमिष्यसेऽधोऽधः पुनरावृत्तिवर्जितः ।
अङ्‌गीकुरुष्व मद्वाक्यं हितमेव वदामि ते ॥ ५५ ॥
सत्सङ्‌गतिं कुरु भजस्व हरिं शरण्यं
श्रीराघवं मरकतोपलकान्तिकान्तम् ।
सीतासमेतमनिशं धृतचापबाणं
सुग्रीवलक्ष्मणविभीषण सेविताङ्‌घ्रिम् ॥ ५६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे चतुर्थः सर्गः ॥ ४ ॥

GO TOP