॥ अद्‌भुत रामायणम् ॥

द्वितीयः सर्गः

भगवतो नारायणस्य अम्बरीषवरप्रदानम् -

भरद्वाज ! शृणुष्वाथ रामचन्द्रस्य धीमतः ।
जन्मनः कारणं विप्र ! इक्ष्वाकुकुलवारिधौ ॥ १ ॥
सीतायाश्च महादेव्याः पृथिव्यां जन्महेतुकम् ।
तत्र रामकथामादौ वक्ष्यामि मुनिपुङ्गव ॥ २ ॥
श्रूयतां मुनिशार्दूल अम्बरीषकथाश्रयम् ।
पुरुषोत्तममाहात्म्यं सर्वपापहरं परम् ॥ ३ ॥
त्रिशंकोर्दयिता भार्या सर्वलक्षणशोभिता ।
अम्बरीषस्यजननी नित्यशोचसमन्विता ॥ ४ ॥
योगनिद्रासमारुढं शेषपर्यङ्कशायिनिम् ।
नारायणं महात्मानं ब्रह्माण्डकमलोद्‌भवम् ॥ ५ ॥
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् ।
सत्वेन सर्वगं विष्णुं सर्वदेवनमस्कृतम् ॥ ६ ॥
अर्चयामास सततं वाङ्मनःकायवृत्तिभिः ।
माल्यदामादिकं सर्वं स्वयमेव व्यचीकरत् ॥ ७ ॥
गन्धादिपेषणञ्चैव धूपद्रव्यादिकं तथा ।
तत्सर्वं कौतुकाविष्टा स्वयमेव चकार सा ॥ ८ ॥
शुभा पद्मावती नित्यं वचो नारायणेति वै ।
अनन्तेति च सा नित्यं भाषमाणा यतव्रता ॥ ९ ॥
दशवर्षसहस्राणि तत्परेणान्तरात्मना ।
अर्चयामास गोविन्दं गन्धपुष्पादिभिः शुभैः ॥ १० ॥
विष्णुभक्तान्महाभागान् सर्वपापविवर्जितान् ।
दानमानार्चनैर्नित्यं धनैरत्‍नैरतोषयत् ॥ ११ ॥
ततः कदाचित्सा देवी द्वादश्यां समुपोष्य वै ।
हरेरग्रे महाभागा सुष्वाप पतिना सह ॥ १२ ॥‌
तत्र नारायणो देवस्तामाह पुरुषोत्तमः ।
किमिच्छसि वरं भद्रे मत्तः किं ब्रूहि भामिनि ॥ १३ ॥
सा दृष्टवा तं वरं वव्रे पुत्रस्त्वद्‌भक्तिमान्भवेत् ।
सार्वभौमो महातेजाः स्वकर्मनिरतः शुचिः ॥ १४ ॥
तथेत्युक्त्वा ददौ तस्यै फलमेकं जनार्दनः ।
सा प्रबुद्धा फलं दृष्ट्वा भर्त्रे सर्वं निवेद्य च ॥ १५ ॥
भक्षयामास संहृष्टा फलं तद्‌गतमानसा ।
ततः कालेन सा देवी पुत्रं कुलविवर्द्धनम् ॥ १६ ॥
असूयत शुभाचारं वासुदेवपरायणम् ।
शुभलक्षणसम्पन्नं चक्राङ्कितमनुत्तमम् ॥ १७ ॥
जातं दृष्ट्वा पिता पुत्रं क्रियाः सर्वाश्चकार वै ।
अम्बरीष इति ख्यातो लोके समभवत्प्रभुः ॥ १८ ॥
पितर्युपरते श्रीमानभिषिक्तो महात्मभिः ।
मंत्रिष्वाधाय राज्यं च तप उग्रं वकार सः ॥ १९ ॥
संवत्सर सहस्रं वै जगन्नारायणं प्रभुम् ।
हृत्पुण्डरीकमध्यस्थं सूर्यमण्डलमध्यगम् ॥ २० ॥
शंखचक्रगदापद्मं धारयन्तं चतुर्भुजम् ।
शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम् ॥ ।२० ॥
सर्वाभरणसंयुक्तं पीताम्बरधरं प्रभुम् ।
श्रीवत्सवक्षसं देवं पुरुषं पुरुषोत्तमम् ॥ २२ ॥
ततो गरुडमारुह्य सर्वदेवैरभिष्टुतः ।
आजगाम स विश्वात्मा सर्वलोकनमस्कृतः ॥ २३ ॥
ऐरावतमिवाचित्य कृत्वा वै गरुडं हरिः ।
स्वयं शक्र इवासीनस्तमाह नृपसत्तमम् ॥ २४ ॥
इन्द्रोऽहमस्मि भद्रं ते किं ददामि तवाद्य वै ।
सर्वलोकेश्वरोऽहं त्वां रक्षितुं समुपागतः ॥ २५ ॥
अम्बरीषस्तु तं दृष्ट्वा शक्रमैरावतस्थितम् ।
उवाच वचनं धीमान् विष्णुभक्तिपरायणः ॥ २६ ॥
नाहं त्वामभिसन्धाय तप आतिष्ठवानिह ।
त्वया दत्तञ्च नेच्छामि गच्छ शक्र यथासुखम् ॥ २७ ॥
मम नारायणो नाथस्त्वां नस्तोष्येऽमराधिप ।
व्रजेन्द्र मा कृथास्त्वत्र ममाश्रमविलोपनम् ॥ २८ ॥
ततः प्रहस्य भगवान् स्वरूपमकरोद्धरिः ।
शार्ङ्गचक्रगदापाणिः शङ्खहस्तो जनार्दनः ॥ २९ ॥
गरुडोपरि विश्वात्मा नीलाचल इवापरः ।
देवगन्धर्वसंघैश्च स्तूयमानः समन्ततः ॥ ३० ॥
प्रणम्य राजा सन्तुष्टस्तुष्टाव गरुडध्वजम् ।
प्रसीद लोकनाथस्त्वं मम नाथ जनार्दन ॥ ३१ ॥
कृष्ण कृष्ण जगन्नाथ सर्वलोकनमस्कृत ।
त्वमादिस्त्वमनादिस्त्वमनन्तः पुरुषः प्रभुः ॥ ३२ ॥
अप्रमेयो विभुर्विष्णुगोविन्दः कमलेक्षणः ।
महेश्वरांशजो मध्यः पुष्करः खगमः खगः ॥ ३३ ॥
कव्यवाहः कपाली त्वं हव्यवाहः प्रभञ्जनः ।
आदिदेवः क्रियानन्दः परमात्मनि संस्थितः ॥ ३४ ॥
त्वां प्रपन्नोऽस्मि गोविन्द पाहि मां पुष्करेक्षण ।
नान्या गतिस्त्वदन्या मे त्वामेव शरणं गतः ॥ ३५ ॥
तमाह भगवान् विष्णुः किं ते हृदि चिकीर्षितम् ।
तत्सर्वं सम्प्रदास्यामि भक्तोऽसि मम सुव्रत ॥ ३६ ॥
भक्तप्रियोऽस्मि सततं तस्माद्दातुमिहागतः ।
अम्बरीषस्तु तच्छ्रुत्वा हर्षगद्गदया गिरा ॥ ३७ ॥
प्रोवाच परमात्मानं नारायणमनामयम् ।
त्वयि विष्णौ परानन्द नित्यं मे वर्त्ततां मतिः ॥ ३८ ॥
भवेयं त्वत्परोनित्यं वाङ्मनः कायकर्मभिः ।
पालयिष्यामि पृथिवीं कृत्वा वै वैष्णवं जगत् ॥ ३९ ॥
यज्ञहोमार्चनैश्चैव तर्पिष्यामि सुरोत्तमान् ।
वैष्णवान् पालयिष्यामि हनिष्यामि च शात्रवान् ॥ ४० ॥
एवमुक्तस्तु भगवान् प्रत्युवाच नृपोत्तमम् ।
एवमस्तु तवेच्छा वै चक्रमेतत्सुदर्शनम् ॥ ४५ ॥
पुरा रुद्रप्रभावेन लब्धं वै दुर्लभं मया ।
ऋषिशापादिकं दुःख शत्रु रोगादिकं तथा ॥ ४२ ॥
निहनिष्यति ते दुःखमित्युक्त्वान्तरधीयत ।
ततः प्रणम्य मुदितो राजा नारायणं प्रभुम् ॥ ४३ ॥
प्रविश्य नगरीं दिव्यामयोध्यां पर्यपालयत् ।
ब्राह्मणादींस्तथा वर्णान् स्वे स्वे कर्मण्ययोजयत् ॥ ४४ ॥
नारायणपरो नित्यं विष्णुं भक्तानकल्मषान् ।
पालयामास हृष्टात्मा विशेषेण जनाधिपः ॥ ४५ ॥
अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि च ।
पालयामास पृथिवीं सागरावरणामिमाम् ॥ ४६ ॥
गृहे गृहे हरिस्तस्थौ वेदघोषो गृहे गृहे ।
नामघोषो हरेश्चैव यज्ञघोषस्तथैव च ॥ ४७ ॥
अभवन्नृपशार्दूले तस्मिन् राज्यं प्रशासति ।
नासस्या नातृणा भूमिर्न दुर्भिक्षादिभिर्युता ॥ ४८ ॥
रोगहीना प्रजा नित्यं सर्वोपद्रववर्जिता ।
अम्बरीषो महातेजाः पालयामास मेदिनीम् ॥ ४६ ॥
स वै महात्मा सततं च रक्षितः सुदर्शनेन प्रियदर्शनेन ।
शुभां समुद्रावधिसन्ततां महीं सुपालयामास महींमहीन्द्रः ॥ ५० ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
अम्बरीषवरप्रदानं नाम द्वितीयः सर्गः ॥ २ ॥

GO TOP