॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ नवमः सर्ग: ॥

श्रीमहादेव उवाच
ततो रामो लक्ष्मणेन जगाम विपिनान्तरम् ।
पुनर्दुःखं समाश्रित्य सीतान्वेषणतत्परः ॥ १ ॥
तत्राद्‌भुतसमाकारो राक्षसः प्रत्यदृश्यत ।
वक्षस्येव महावक्त्रः चक्षुरादिविवर्जितः ॥ २ ॥
बाहू योजनमात्रेण व्यापृतौ तस्य रक्षसः ।
कबन्धो नाम दैत्येन्द्रः सर्वसत्त्वविहिंसकः ॥ ३ ॥
तद्‌बाह्वोर्मध्यदेशे तौ चरन्तौ रामलक्ष्मणौ ।
ददर्शतुर्महासत्त्वं तद्‌बाहुपरिवेष्टितौ ॥ ४ ॥
रामः प्रोवाच विहसन् पश्य लक्ष्मण राक्षसम् ।
शिरःपादविहीनोऽयं यस्य वक्षसि चाननम् ॥ ५ ॥
बाहुभ्यां लभ्यते यद्यत् तत्तद्‌भक्षन्स्थितो ध्रुवम् ।
आवामप्येतयोर्बाह्वोः मध्ये सङ्‌कलितौ ध्रुवम् ॥ ६ ॥
गन्तुमन्यत्र मार्गो न दृश्यते रघुनन्दन ।
किं कर्तव्यमितोऽस्माभिः इदानीं भक्षयेत्स नौ ॥ ७ ॥
लक्ष्मणस्तमुवाचेदं किं विचारेण राघव ।
आवां एमेकैकमव्यग्रौ छिन्द्यावास्य भुजौ ध्रुवम् ॥ ८ ॥
तथेति रामः खड्गेन भुजं दक्षिणमच्छिनत् ।
तथैव लक्ष्मणो वामं चिच्छेद भुजमञ्जसा ॥ ९ ॥
ततोऽतिविस्मितो दैत्यः कौ युवां सुरपुङ्‌गवौ ।
मद्‌बाहुच्छेदकौ लोके दिवि देवेषु वा कुतः ॥ १० ॥
ततोऽब्रवीद् हसन्नेव रामो राजीवलोचनः ।
अयोध्याधिपतिः श्रीमान् राजा दशरथो महान् ॥ ११ ॥
रामोऽहं तस्य पुत्रोऽसौ भ्राता मे लक्ष्मणः सुधीः ।
मम भार्या जनकजा सीता त्रैलोक्यसुन्दरी ॥ १२ ॥
आवां मृगयया यातौ तदा केनापि रक्षसा ।
नीतां सीतां विचिन्वन्तौ चागतौ घोरकानने ॥ १३ ॥
बाहुभ्यां वेष्टितावत्र तव प्राणरिरक्षया ।
छिन्नौ तव भुजौ त्वं च को वा विकटरूपधृक् ॥ १४ ॥
कबन्ध उवाच
धन्योऽहं यदि रामस्त्वं आगतोऽसि ममान्तिकम् ।
पुरा गन्धर्वराजोऽहं रूपयौवनदर्पितः ॥ १५ ॥
विचरन् ल्लोकमखिलं वरनारीमनोहरः ।
तपसा ब्रह्मणो लब्धं अवध्यत्वं रघूत्तम ॥ १६ ॥
अष्टावक्रं मुनिं दृष्ट्वा कदाचिदहसं पुरा ।
क्रुद्धोऽसौ आह दुष्ट त्वं राक्षसो भव दुर्मते ॥ १७ ॥
अष्टावक्रः पुनः प्राह वन्दितो मे दयापरः ।
शापस्यान्तं च मे प्राह तपसा द्योतितप्रभः ॥ १८ ॥
त्रेतायुगे दाशरथिर्भूत्वा नारायणः स्वयम् ।
आगमिष्यति ते बाहू छिद्येते योजनायतौ ॥ १९ ॥
तेन शापाद्विनिर्मुक्तो भविष्यसि यथा पुरा ।
इति शप्तोऽहं अद्राक्षं राक्षसीं तनुमात्मनः ॥ २० ॥
कदाचिद्देवराजानं अभ्याद्रवमहं रुषा ।
सोऽपि वज्रेण मां राम शिरोदेशेऽभ्यताडयत् ॥ २१ ॥
तदा शिरो गतं कुक्षिं पादौ च रघुनन्दन ।
ब्रह्मदत्तवरान्मृत्युः नाभून्मे वज्रताडनात् ॥ २२ ॥
मुखाभावे कथं जीवेत् अयमित्यमराधिपम् ।
ऊचुः सर्वे दयाविष्टा मां विलोक्यास्यवर्जितम् ॥ २३ ॥
ततो मां प्राह मघवा जठरे ते मुखं भवेत् ।
बाहू ते योजनायामौ भविष्यत इतो व्रज ॥ २४ ॥
इत्युक्तोऽत्र वसन्नित्यं बाहुभ्यां वनगोचरान् ।
भक्षयाम्यधुना बाहू खण्डितौ मे त्वयानघ ॥ २५ ॥
इतः परं मां श्वभ्रास्ये निक्षिपाग्नीन्धनावृते ।
अग्निना दह्यमानोऽहं त्वया रघुकुलोत्तम ॥ २६ ॥
पूर्वरूपमनुप्राप्य भार्यामार्गं वदामि ते ॥ २७ ॥
इत्युक्ते लक्ष्मणेनाशु श्वभ्रं निर्मित्य तत्र तम् ।
निक्षिप्य प्रादहत्काष्ठैः ततो देहात्समुत्थितः ।
कन्दर्पसदृशाकारः सर्वाभरणभूषितः ॥ २८ ॥
रामं प्रदक्षिणं कृत्वा साष्टाङ्‌गं प्रणिपत्य च ।
कृताञ्जलिरुवाचेदं भक्तिगद्‍गदया गिरा ॥ २९ ॥
गन्धर्व उवाच
स्तोतुमुत्सहते मेऽद्य मनो रामातिसम्भ्रमात् ।
त्वामनन्तं अनाद्यन्तं मनोवाचामगोचरम् ॥ ३० ॥
सूक्ष्मं ते रूपमव्यक्तं देहद्वयविलक्षणम् ।
दृग् रूपमितरत्सर्वं दृश्यं जडमनात्मकम् ।
तत्कथं त्वां विजानीयात् व्यतिरिक्तं मनः प्रभो ॥ ३१ ॥
बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते ।
बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन्निर्विषयेऽखिलम् ॥ ३२ ॥
आरोप्यतेऽज्ञानवशात् निर्विकारेऽखिलात्मनि ।
हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट्स्मृतम् ॥ ३३ ॥
भावनाविषयो राम सूक्ष्मं ते ध्यातृमङ्‌गलम् ।
भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत् ॥ ३४ ॥
स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते ।
सप्तभिरुत्तरगुणैः वैराजो धारणाश्रयः ॥ ३५ ॥
त्वमेव सर्वकैवल्यं लोकास्तेऽवयवाः स्मृताः ।
पातालं ते पादमूलं पार्ष्णिस्तव महातलम् ॥ ३६ ॥
रसातलं ते गुल्फौ तु तलातलं इतीर्यते ।
जानुनी सुतलं राम ऊरू ते वितलं तथा ॥ ३७ ॥
अतलं च मही राम जघनं नाभिगं नभः ।
उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते ॥ ३८ ॥
वदनं जनलोकस्ते तपस्ते शङ्‌खदेशगम् ।
सत्यलोको रघुश्रेष्ठ शीर्षण्यास्ते सदा प्रभो ॥ ३९ ॥
इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती ।
अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः ॥ ४० ॥
चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः ।
भ्रू भङ्‌ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत् ॥ ४१ ॥
रुद्रोऽहङ्‌काररूपस्ते वाचश्छन्दांसि तेऽव्यय ।
यमस्ते दंष्टृदेशस्थो नक्षत्राणि द्विजालयः ॥ ४२ ॥
हासो मोहकरी माया सृष्टिस्तेऽपाङ्‌गमोक्षणम् ।
धर्मः पुरस्तेऽधर्मश्च पृष्ठभाग उदीरितः ॥ ४३ ॥
निमिषोन्मेषणे रात्रिः दिवा चैव रघूत्तम ।
समुद्राः सप्त ते कुक्षिः नाड्यो नद्यस्तव प्रभो ॥ ४४ ॥
रोमाणि वृक्षौषधयो रेतो वृष्टिस्तव प्रभो ।
महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव ॥ ४५ ॥
यदस्मिन्स्थूलरूपे ते मनः सन्धार्यते नरैः ।
अनायासेन मुक्तिः स्यात् अतोऽन्यन्नहि किञ्चन ॥ ४६ ॥
अतोऽहं राम रूपं ते स्थूलमेवानुभावये ।
यस्मिन्ध्याते प्रेमरसः सरोमपुलको भवेत् ॥ ४७ ॥
तदैव मुक्तिः स्याद्‍राम यदा ते स्थूलभावकः ।
तदप्यास्तां तवेवाहं एतत् रूपं विचिन्तये ॥ ४८ ॥
धनुर्बाणधरं श्यामं जटावल्कलभूषितम् ।
अपीच्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम् ॥ ४९ ॥
इदमेव सदा मे स्यान् मानसे रघुनन्दन ॥ ५० ॥
सर्वज्ञः शङ्‌करः साक्षात् पार्वत्या सहितः सदा ।
त्वद् रूपमेवं सततं ध्यायन्नास्ते रघूत्तम ।
मुमूर्षूणां तदा काश्यां तारकं ब्रह्मवाचकम् ॥ ५१ ॥
रामरामेत्युपदिशन् सदा सन्तुष्टमानसः ।
अतस्त्वं जानकीनाथ परमात्मा सुनिश्चितः ॥ ५२ ॥
सर्वे ते मायया मूढाः त्वां न जानन्ति तत्त्वतः ।
नमस्ते रामभद्राय वेधसे परमात्मने ॥ ५३ ॥
अयोध्याधिपते तुभ्यं नमः सौमित्रिसेवित ।
त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते ॥ ५४ ॥
श्रीराम उवाच
तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेऽनघ ।
याहि मे परमं स्थानं योगिगम्यं सनातनम् ॥ ५५ ॥
जपन्ति ये नित्यमनन्यबुद्ध्या
भक्त्या त्वदुक्तं स्तवमागमोक्तुम् ।
तेऽज्ञानसम्भूतभवं विहाय
मां यान्ति नित्यानुभवानुमेयम् ॥ ५६ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे नवमः सर्गः ॥ ९ ॥

GO TOP