॥ अद्‌भुत रामायणम् ॥

तृतीयः सर्गः

नारद-पर्वतयोः अम्बरीषराजसभायां आगमनम् -

तस्यैवं वर्त्तमानस्य कन्या कमल लोचना ।
श्रीमती नाम विख्याता सर्वलक्षणशोभिता ॥ १ ॥
प्रदानसमयं प्राप्ता देवमायेव शोभना ।
तस्मिन्काले मुनिः श्रीमान् नारदोऽभ्यागतो गृहम् ॥ २ ॥
अम्बरीषस्य राज्ञो वै पर्वतश्च महाद्युतिः ।
तावुभावागतौ दृष्ट्वा प्रणिपत्य यथाविधि ॥ ३ ॥
अम्बरीषो महातेजाः पूजयामास तावृषी ।
कन्यां तां प्रेक्ष्य भगवान् नारदः प्राह विस्मितः ॥ ४ ॥
केयं राजन् महाभागा कन्या सुरसुतोपमा ।
ब्रूहि धर्मभृतां श्रेष्ठ सर्वलक्षणशोभिता ॥ ५ ॥
निशम्य वचनं तस्य राजा प्राह कृताञ्जलिः ।
दुहितेयं मम विभो श्रीमती नाम नामतः ॥ ६ ॥
प्रदानसमयं प्राप्ता वरमन्विषती शुभा ।
इत्युक्तो मुनिशार्दूलस्तामैच्छन्नारदो द्विजः ॥ ७ ॥
पर्वतोऽपि मुनिस्तां वै चकमे सर्षिसत्तमः ।
अनुज्ञाप्य च राजानं नारदो वाक्यमब्रवीत् ॥ ८ ॥
रहस्याहूय धर्मात्मा मम देहि सुतामिमाम् ।
पर्वतोऽपि तथा प्राह राजानं रहसि प्रभुम् ॥ ९ ॥
तावुभौ प्राह धर्मात्मा प्रणिपत्य भयार्दितः ।
उभौ भवन्तौ कन्यां मे प्रार्थमानौ कथं त्वहम् ॥ १० ॥
करिष्यामि महाप्राज्ञौ शृणु नारद मे वचः ।च्
त्वञ्च पर्वत मे वाक्यं शृणु वक्ष्यामि यत्प्रभो ॥ ११ ॥
कन्येयं युवयोरेकं वरयिष्यति चेच्छुभा ।
तस्मै कन्यां प्रयच्छामि नान्यथा शक्तिरस्ति मे ॥ १२ ॥
तथेत्युक्त्वा तु तौ विप्रौ श्व आयास्याव एवहि ।
इत्युक्त्वा मुनिशार्दूलौ जग्मतुः प्रीतमानसौ ॥ १३ ॥
वासुदेवपरो नित्यमुभौ ज्ञानवतां वरौ ।
विष्णुलोकं ततो गत्वा नारदो मुनिसत्तमः ॥ १४ ॥
प्रणिपत्य हृषीकेशं वाक्यमेतदुवाच ह ।
वृत्तान्तञ्च निवेद्याग्रे नाथ नारायणाव्यय ॥ १५ ॥
रहसि त्वां प्रवक्ष्यामि नमस्ते भुवनेश्वर ।
ततः प्रहस्य गोविन्दः सर्वात्मा कर्मठं मुनिम् ॥ १६ ॥
ब्रूहीत्याह स विश्वात्मा मुनिराह च केशवम् ।
त्वदीयो नृपतिः श्रीमानम्बरीषो महामतिः ॥ १७ ॥
तस्य कन्या विशालाक्षी श्रीमती नाम नामतः ।
परिणेतुमहं तां वै इच्छामि वचनं शृणु ॥ १८ ॥
पर्वतोऽयं मुनिः श्रीमान् तव भृत्यस्तपोनिधिः ।
तामैछत्सोऽपि भगवन्सनावाह जनाधिपः ॥ १९ ॥
अम्बरीषो महातेजाः कन्येयं युवयोर्वरम् ।
लावण्ययुक्तं वृणुयात् यदि तस्मै ददाम्यहम् ॥ २० ॥
इत्याहावां नृपस्तत्र तथेत्युक्त्वाप्यहं ततः ।
आगमिष्यामि ते राजन् श्वः प्रभाते गृहं प्रति ॥ २१ ॥
आगतोऽहं जगन्नाथ कर्तुमर्हसि मे प्रियम् ।
वानराननवद्‌भाति पर्वतस्य मुखं यथा ॥ २२ ॥
तथा कुरु जगन्नाथ मम चेदिच्छसि प्रियम् ।
श्रीमतीं तु कुरु यथा नान्यंपश्येत्तथाविधम् ॥ २३ ॥
तथेत्युक्त्वा स गोविन्दः प्रहस्य मधुसूदनः ।
त्वयोक्तं तत्करिष्यामि गच्छ सौम्य ! यथासुखम् ॥ २४ ॥
एवमुक्तो मुनिर्हृष्टः प्रणिपत्य जनार्दनम् ।
मन्यमानः कृतात्मानमयोध्यां वै जगाम सः ॥ २५ ॥
गते मुनिवरे तस्मिन् पर्वतोऽपि महामुनिः ।
प्रणम्य माधवं हृष्टो रहस्येनमुवाच ह ॥ २६ ॥
वृत्तान्तश्च निवेद्याग्रे नारदस्य जगत्पतेः ।
गोलाङ्गुलमुखं यद्वन्मुखं भाति तथा कुरु ॥ २७ ॥
श्रीमती तु यथा पश्येन्नान्यं पश्येत्तथाविधम् ।
तच्छ्रुत्वा भगवान्विष्णुस्त्वयोक्तं च करोमि वै ॥ २८ ॥
गच्छ शीघ्रमयोध्यां त्वं मा वादीर्नारदस्य वै ।
त्वया मे सम्विदं यच्च तथेत्युक्त्वा जगाम सः ॥ २९ ॥
ततो राजा समाज्ञाय प्राप्तौ मुनिवरौ तदा ।
माङ्गल्यैर्विविधैर्भद्रैरयोध्यां ध्वजमालिनीम् ॥ ३० ॥
मण्डयामास लाजैश्च पुष्पैश्चैव समन्ततः ।
अभिषिक्तगृहद्वारां सिक्ताङ्गणमहापथाम् ॥ ३१ ॥
दिव्यगन्धरसोपेतां धूपितां दिव्यधूपकैः ।
कृत्वा च नगरीं राजा मण्डयामास तां सभाम् ॥ ३२ ॥
दिव्यैर्गन्धैस्तथा धूपै रत्‍नैश्च विविधैस्तथा ।
अलंकृतां मणिस्तम्भैर्नानामाल्योपशोभितैः ॥ ३३ ॥
परार्ध्यास्तरणोपेतैर्दिव्यैर्भद्रासनैर्वृताम् ।
नानाजनसमावेशैर्नरेन्द्रैरभिसंवृताम् ॥ ३४ ॥
कृत्वा नृपेन्द्रस्तां कन्यामादाय प्रविवेश ह ।
सर्वाभरणसम्पन्ना श्रीरिवायतलोचना ॥ ३५ ॥
करसम्मितमध्याङ्गी पञ्चस्निग्धा शुभानना ।
स्त्रीभिः परिवृता दिव्या श्रीमती संस्थिता सती ॥ ३६ ॥
सभा तु सा भूमिपतेः समृद्धा
     मणिप्रवेकोत्तमरत्‍नचित्रा ।
न्यस्तासना माल्यवती सुगन्धा
     तामन्वयुस्ते सुरराजवर्याः ॥ ३७ ॥
अथाययौ ब्रह्मवरात्मजो महां-
     स्त्रैविद्यवृद्धोभगवान्महात्मा ।
सपर्वतो ब्रह्मविदां वरिष्ठो
     महामुनिर्नारद आजगाम ॥ ३८ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये अद्‌भुतोत्तरकाण्डे
नारदपर्वत सभाप्रवेशो नाम तृतीयः सर्गः ॥ ३ ॥

GO TOP