॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ प्रथमः सर्ग: ॥

एकदा सुखमासीनं रामं स्वान्तःपुराजिरे ।
सर्वाभरणसंपन्नं रत्‍नसिंहासने स्थितम् ॥ १ ॥
नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् ।
सीतया रथदण्डेन चामरेणाथ वीजितम् ॥ २ ॥
विनोदयन्तं ताम्बूल चर्वणादिभिरादरात् ।
नारदोऽवतरद् द्रष्टुं अम्बराद्यत्र राघवः ॥ ३ ॥
शुद्धस्फटिकसङ्‌काशः शरच्चन्द्र इवामलः ।
अतर्कितमुपायातो नारदो दिव्यदर्शनः ॥ ४ ॥
तं दृष्ट्वा सहसोत्थाय रामः प्रीत्या कृताञ्जलिः ।
ननाम शिरसा भूमौ सीतया सह भक्तिमान् ॥ ५ ॥
उवाच नारदं रामः प्रीत्या परमया युतः ।
संसारिणां मुनिश्रेष्ठ दुर्लभं तव दर्शनम् ।
अस्माकं विषयासक्त चेतसां नितरां मुनेः ॥ ६ ॥
अवाप्तं मे पूर्वजन्म कृतपुण्यमहोदयैः ।
संसारिणापि हि मुने लभ्यते सत्समागमः ॥ ७ ॥
अतस्त्वद्दर्शनादेव कृतार्थोऽस्मि मुनीश्वर ।
किं कार्यं ते मया कार्यं ब्रूहि तत्करवाणि भोः ॥ ८ ॥
अथ तं नारदोऽप्याह राघवं भक्तवत्सलम् ।
किं मोहयसि मां राम वाक्यैर्लोकानुसारिभिः ॥ ९ ॥
संसार्यहमिति प्रोक्तं सत्यमेतत्त्वया विभोः ।
जगतामादिभूता या सा माया गृहिणी तव ॥ १० ॥
त्वत्सन्निकर्षात् जायन्ते तस्यां ब्रह्मादयः प्रजाः ।
त्वदाश्रया सदा भाति माया या त्रिगुणात्मिका ॥ ११ ॥
सूतेऽजस्रं शुक्लकृष्ण लोहिताः सर्वदा प्रजाः ।
लोकत्रयमहागेहे गृहस्थस्त्वं उदाहृतः ॥ १२ ॥
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा ।
ब्रह्मा त्वं जानकी वाणी सूर्यस्त्वं जानकी प्रभा ॥ १३ ॥
भवान् शशाङ्‌कः सीता तु रोहिणी शुभलक्षणा ।
शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् ॥१४ ॥
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो ।
निर्‌ऋतिस्त्वं जगन्नाथ तामसी जानकी शुभा ॥ १५ ॥
राम त्वमेव वरुणो भार्गवी जानकी शुभा ।
वायुस्त्वं राम सीता तु सदागतिरितीरिता ॥ १६ ॥
कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता ।
रुद्राणी जानकी प्रोक्ता रुद्रस्त्वं लोकनाशकृत् ॥१७ ॥
लोके स्त्रीवाचकं यावत् तत्सर्वं जानकी शुभा ।
पुन्नामवाचकं यावत् तत्सर्वं त्वं हि राघव ॥ १८ ॥
तस्मात् लोकत्रये देव युवाभ्यां नास्ति किञ्चन ॥ १९ ॥
त्वद् आभासोदिताज्ञानं अव्याकृतमितीर्यते ।
तस्मान्महांस्ततः सूत्रं लिङ्‌गं सर्वात्मकं ततः ॥ २०
अहङ्‌कारश्च बुद्धिश्च पञ्चप्राणेन्द्रियाणि च ।
लिङ्‌गमित्युच्यते प्राज्ञैः जन्ममृत्युसुखादिमत् ॥ २१ ॥
स एव जीवसंज्ञश्च लोके भाति जगन्मयः ।
अवाच्यानाद्यविद्यैव कारणोपाधिरुच्यते ॥ २२ ॥
स्थूलं सूक्ष्मं कारणाख्यं उपाधित्रितयं चितेः ।
एतैर्विशिष्टो जीवः स्यात् वियुक्तः परमेश्वरः ॥ २३ ॥
जाग्रत्स्वप्नसुषुप्ताख्या संसृतिर्या प्रवर्तते ।
तस्या विलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम ॥ २४ ॥
त्वत्त एव जगज्जातं त्वयि सर्वं प्रतिष्ठितम् ।
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् ॥ २५ ॥
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत् ।
परात्माहं इति ज्ञात्वा भयदुःखैर्विमुच्यते ॥ २६ ॥
चिन्मात्रज्योतिषा सर्वाः सर्वदेहेषु बुद्धयः ।
त्वया यस्मात् प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् ॥२७ ॥
अज्ञानान् न्यस्यते सर्वं त्वयि रज्जो भुजङ्‌गवत् ।
त्वज्ज्ञानात् लीयते सर्वं तस्माज्ज्ञानं सदाभ्यसेत् ॥ २८ ॥
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् ।
तस्मात् त्वद्‌भक्तियुक्ता ये मुक्तिभाजस्त एव हि ॥ २९ ॥
अहं त्वद्‌भक्तभक्तानां तद्‌भक्तानां च किङ्‌करः ।
अतो मां अनुगृह्णीष्व मोहयस्व न मां प्रभो ॥ ३० ॥
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो ।
अतस्तवाहं पौत्रोऽस्मि भक्तं मां पाहि राघव ॥ ३१ ॥
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रु परिप्लुतः ।
उवाच वचनं राम ब्रह्मणा नोदितोऽस्म्यहम् ॥ ३२ ॥
रावणस्य वधार्थाय जातोऽसि रघुसत्तम ।
इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति ॥ ३३ ॥
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि ।
प्रतिज्ञा ते कृता राम भूभारहरणाय वै ॥ ३४ ॥
तत्सत्यं कुरु राजेन्द्र सत्यसंधस्त्वमेव हि ।
श्रुत्वैतद्‍गदितं रामो नारदं प्राह सस्मितम् ॥ ३५ ॥
शृणु नारद मे किञ्चित् विद्यतेऽविदितं क्वचित् ।
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः ॥ ३६ ॥
किन्तु कालानुरोधेन तत् तत् प्रारब्धसंक्षयात् ।
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् ॥ ३७ ॥
रावणस्य विनाशार्थं श्वो गन्ता दण्डकाननम् ।
चतुर्दश समास्तत्र ह्युषित्वा मुनिवेषधृक् ॥ ३८ ॥
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् ।
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह ॥ ३९ ॥
प्रदक्षिणत्रयं कृवा दण्डवत् प्रणिपत्य तम् ।
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः ॥ ४० ॥
संवादं पठति शृणोति संस्मरेद्वा
यो नित्यं मुनिवररामयोः सभक्त्या ।
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं
कैवल्यं विरतिपुरःसरं क्रमेण ॥ ४१ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
अयोध्याकाण्डे प्रथमः सर्गः ॥ १ ॥

GO TOP