॥ श्रीमद् अध्यात्मरामायण ॥

॥ सुन्दरकाण्ड ॥

॥ तृतीयः सर्गः ॥

श्रीमहादेव उवाच

उद्‌बन्धनेन वा मोक्ष्ये शरीरं राघवं विना ।
जीवितेन फलं किं स्यात् मम रक्षोऽधिमध्यतः ॥ १ ॥
दीर्घा वेणी ममात्यर्थं उद्‌बन्धाय भविष्यति ।
एवं निश्चितबुद्धिं तां मरणायाथ जानकीम् ॥ २ ॥
विलोक्य हनुमान्-किञ्चिद्विचार्यै तदभाषत ।
शनैः शनैः सूक्ष्मरूपो जानक्याः श्रोत्रगं वचः ॥ ३ ॥
इक्ष्वाकुवंशसम्भूतो राजा दशरथो महान् ।
अयोध्याधिपतिस्तस्य चत्वारो लोकविश्रुताः ॥ ४ ॥
पुत्रा देवसमाः सर्वे लक्षणैरुपलक्षिताः ।
रामस्यलक्ष्मणश्चैव भरतश्चैव शत्रुहा ॥ ५ ॥
ज्येष्ठो रामः पितुर्वाक्यात् ‍दण्डकारणमागतः ।
लक्ष्मणेन सह भ्राता सीतया भार्यया सह ॥ ६ ॥
उवास गौतमीतीरे पञ्चवट्यां महामनाः ।
तत्र नीता महाभागा सीता जनकनन्दिनी ॥ ७ ॥
रहिते रामचन्द्रेण रावणेन दुरात्मनाः ।
ततो रामोऽतिदुःखार्तो मार्गमाणोऽथ जानकीम् ॥ ८ ॥
जटायुषं पक्षिराजं अपश्यत्पतितं भुवि ।
तस्मै दत्त्वा दिवं शीघ्रं ऋष्यमूकं उपागमत् ॥ ९ ॥
सुग्रीवेण कृता मैत्री रामस्य विदितात्मनः ।
तद्‌भार्याहारिणं हत्वा वालिनं रघुनन्दनः ॥ १० ॥
राज्येऽभिषिच्य सुग्रीवं मित्रकार्यं चकार सः ।
सुग्रीवस्तु समानाप्य वानरान् वानरप्रभुः ॥ ११ ॥
प्रेषयामास परितो वानरान् परिमार्गणे ।
सीतायास्तत्र चैकोऽहं सुग्रीवसचिवो हरिः ॥ १२ ॥
सम्पातिवचनाच्छीघ्रं उल्लङ्‌घ्य शतयोजनम् ।
समुद्रं नगरीं लङ्‌कां विचिन्वन् जानकीं शुभाम् ॥ १३ ॥
शनैः अशोकवनिकां विचिन्वन् शिंशपातरुम् ।
अद्राक्षं जानकीमत्र शोचंतीं दुःखसम्प्लुताम् ॥ १४ ॥
रामस्य महिषीं देवीं कृतकृत्योऽहमागतः ।
इत्युक्‍त्वोपररामाथ मारुतिर्बुद्धिमत्तरः ॥ १५ ॥
सीता क्रमेण तत्सर्वं श्रुत्वा विस्मयमाययौ ।
किमिदं मे श्रुतं व्योम्नि वायुना समुदीरितम् ॥ १६ ॥
स्वप्नो वा मे मनोभ्रान्तिः यदि वा सत्यमेव तत् ।
निद्रा मे नास्ति दुःखेन जानाम्येतत्कुतो भ्रमः ॥ १७ ॥
येन मे कर्णपीयुषं वचनं समुदीरितम् ।
स दृश्यतां महाभागः प्रियवादी ममाग्रतः ॥ १८ ॥
श्रुत्वा तज्जनकीवाक्यं हनुमान् पत्रखण्डतः ।
अवतीर्य शनैः सीता पुरतः समवस्थितः ॥ १९ ॥
कलविङ्‌क-प्रमाणाङ्‌गो रक्तास्य पीतवानरः ।
ननाम शनकैः सीतां प्राञ्जलीः पुरतः स्थितः ॥ २० ॥
दृष्ट्वा तं जानकी भीता रावणोऽयमुपागतः ।
मां मोहयितुमायातो मायया वानराकृतिः ॥ २१ ॥
इत्येवं चिन्तयित्वा सा तूष्णिमासीदधोमुखी ।
पुनरप्याह तां सीतां देवि यत्त्वं विशङ्‌कसे ॥ २२ ॥
नाहं तथाविधो मातः त्यज शङ्‌कां मयि स्थिताम् ।
दासोऽहं कोसलेन्द्रस्य रामस्य परमात्मनः ॥ २३ ॥
सचिवोऽहं हरिन्द्रस्य सुग्रीवस्य शुभप्रदे ।
वायोः पुत्रोऽहमखिल प्राणभूतस्य शोभने ॥ २४ ॥
तच्छ्रुत्वा जानकी प्राह हनूमन्तं कृताञ्जलिम् ।
वानराणां मनुष्याणां सङ्‌गतिर्घटते कथम् ॥ २५ ॥
यथा त्वं रामचंद्रस्य दासोऽहमिति भाषसे ।
तामाह मारुतिः प्रीतो जानकीं पुरतः स्थितः ॥ २६ ॥
ऋष्यमूकमगात् ‍रामः शबर्या नोदितः सुधीः ।
सुग्रीवो ऋष्यमूकस्थो दृष्टवान् रामलक्ष्मणौ ॥ २७ ॥
भीतो मां प्रेषयामास ज्ञातुं रामस्य हृद्‍गतम् ।
ब्रह्मचारिवपुर्धृत्वा गतोऽहं रामसन्निधिम् ॥ २८ ॥
ज्ञात्वा रामस्य सद्‌भावं स्कन्धोपरि निधाय तौ ।
नीत्वा सुग्रीवसामीप्यं सख्यं चाकारवं तयोः ॥ २९ ॥
सुग्रीवस्य हृता भार्या वालिनो तं रघुत्तमः ।
जघानैकेन बाणेन ततो राज्येऽभ्यषेचयत् ॥ ३० ॥
सुग्रीवं वानराणां स प्रेषयामास वानरान् ।
दिग्भ्यो महाबलान्वीरान् भवत्याः परिमार्गणे ॥ ३१ ॥
गच्छन्तं राघवो दृष्ट्वा मां अभाषत सादरम् ॥ ३२ ॥
त्वयि कार्यमशेषं मे स्थितं मारुतनन्दन ।
ब्रूहि मे कुशलं सर्वं सीतायै लक्ष्मणस्य च ॥ ३३ ॥
अङ्‌गुलीयकमेतन्मे परिज्ञानार्थमुत्तमम् ।
सीतायै दीयतां साधु मन्नामाक्षर मुद्रितम् ॥ ३४ ॥
इत्युक्‍त्वा प्रददौ मह्यं कराग्राद् अङ्‌गुलीयकम् ।
प्रयत्‍नेन मयानीतं देवि पश्याङ्‌गुलीयकम् ॥ ३५ ॥
इत्युक्‍त्वा प्रददौ देव्यै मुद्रिकां मारुतात्मजः ।
नमस्कृत्य स्थितो दूरात् बद्धाञ्जलिपुटो हरिः ॥ ३६ ॥
दृष्ट्वा सीता प्रमुदिता रामनामाङ्‌कितां तदा ।
मुद्रिकां शिरसा धृत्वा स्रवत् आनन्दनेत्रजा ॥ ३७ ॥
कपे मे प्राणदाता त्वं बुद्धिमानसि राघवे ।
भक्तोऽसि प्रियकरी त्वं विश्वासोऽति तवैव हि ॥ ३८ ॥
नो चेन्मत्सन्निधिं चान्यं पुरुषं प्रेषयेत्कथम् ।
हनूमन् दृष्टमखिलं मम दुःखादिकं त्वया ॥ ३९ ॥
सर्वं कथय रामाय यथा मे जायते दया ।
मासद्वयावधि प्राणाः स्थास्यन्ति मम सत्तम ॥ ४० ॥
नागमिष्यति चेद्‍रामो भक्षयिष्यति मां खलः ।
अतः शीघ्रं कपीन्द्रेण सुग्रीवेण समन्वितः ॥ ४१ ॥
वानरानीकपैः सार्धं हत्वा रावणमाहवे ।
सपुत्रं सबलं रामो यदि मां मोचयेत्प्रभुः ॥ ४२ ॥
तत्तस्य सदृश्यं वीर्यं वीर वर्णय वर्णितम् ।
यथा मां तारयेद्‍रामो हत्वा शीघ्रं दशाननम् ॥ ४३ ॥
तथा यतस्व हनुमन् वाचा धर्ममवाप्नुहि ।
हनुमानपि तामाह देवि दृष्टो यथा मया ॥ ४४ ॥
रामः सलक्ष्मणः शीघ्रं आगमिष्यति सायुधः ।
सुग्रीवेण ससैन्येन हत्वा दशमुखं बलात् ॥ ४५ ॥
समानेष्यति देवि त्वां अयोध्यां नात्र संशयः ।
तमाह जानकी रामः कथं वारिधिमाततम् ॥ ४६ ॥
तीर्त्वायास्यति अमेयात्मा वानरानीकपैः सह ।
हनूमानाह मे स्कन्धौ आरुह्य पुरुषर्षभौ ॥ ४७ ॥
आयास्यतः ससैन्यश्च सुग्रीवो वानरेश्वरः ।
विहायसा क्षणेनैव तीर्त्वा वारिधिमाततम् ॥ ४८ ॥
निर्दहिष्यति रक्षौघान् त्वत्कृते मात्र संशयः ।
अनुज्ञां देहि मे देवि गच्छामि त्वरयान्वितः ॥ ४९ ॥
द्रष्टुं रामं सह भ्राता त्वरयामि तवान्तिकम् ।
देवि किञ्चितभिज्ञानं देहि मे येन राघवः ॥ ५० ॥
विश्वसेन्मां प्रयत्‍नेन ततो गन्ता समुत्सुकः ।
ततः किञ्चित् विचार्याथ सीता कमललोचना ॥ ५१ ॥
विमुच्य केशपाशान्ते स्थितं चूडामणिं ददौ ।
अनेन विश्वसेद्‍रामः त्वां कपीन्द्र सलक्ष्मणः ॥ ५२ ॥
अभिज्ञानार्थमन्यच्च वदामि तव सुव्रत ।
चित्रकूटगिरौ पूर्वं एकदा रहसि स्थितः ।
मदङ्‌के शिर आधाय निद्राति रघुनन्दनः ॥ ५३ ॥
ऐन्द्रः काकस्तदागत्य नखैस्तुण्डेन चासकृत् ।
मत्पादाङ्‌गुष्ठमारक्तं विददारामिषाशया ॥ ५४ ॥
ततो रामः प्रबुद्‍ध्याथ दृष्ट्वा पादं कृतवर्णनम् ।
केन भद्रे कृतं चैतत् विप्रियं मे दुरात्मना ॥ ५५ ॥
इत्युक्‍त्वा पूरतोऽपश्यत् वायसं मां पुनः पुनः ।
अभिद्रवन्तं रक्ताक्त नखतुण्डं चुकोप ह ॥ ५६ ॥
तृणमेकमुपादाय दिव्यास्त्रेणाभियोज्य तत् ।
चिक्षेप लीलया रामो वायसोपरि तज्ज्वलत् ॥ ५७ ॥
अभ्यद्रवत् वायसश्च भीतो लोकान् भ्रमन्पुनः ।
इन्द्रब्रह्मादिभिश्चापि न शक्यो रक्षितुं तदा ॥ ५८ ॥
रामस्य पादयोरग्रे अपतद्‌भीत्या दयानिधेः ।
शरणागतमालोक्य रामस्तं इदमब्रवीत् ॥ ५९ ॥
अमोघं एतत् अस्त्रं मे दत्वैकाक्षमितो व्रज ।
सव्यं दत्त्वा गतः काक एवं पौरुषवानपि ॥ ६० ॥
उपेक्षते किमर्थं मां इदानीं सोऽपि राघवः ।
हनूमानपि तामाह श्रुत्वा सीतानुभाषितम् ॥ ६१ ॥
देवि त्वां यदि जानाति स्थितामत्र रघूत्तमः ।
करिष्यति क्षणाद्‌भस्म लङ्‌कां राक्षसमण्डिताम् ॥ ६२ ॥
जानकी प्राह तं वत्स कथं त्वं योत्स्यसेऽसुरैः ।
अतिसूक्ष्मवपुः सर्वे वानराश्च भवादृशा ॥ ६३ ॥
श्रुत्वा तद्वचनं देव्यै पूर्वरूपमदर्शयत् ।
मेरुमन्दरसङ्‌काशं रक्षोगणविभीषणम् ॥ ६४ ॥
दृष्ट्वा सीता हनुमन्तं महापर्वतसन्निभम् ।
हर्षेण महताविष्टा प्राह तं कपिकुञ्जरम् ॥ ६५ ॥
समर्थोऽसि महासत्त्व द्रक्ष्यन्ति त्वां महाबलम् ।
राक्षस्यस्ते शुभः पन्था गच्छ रामान्तिकं द्रुतम् ॥ ६६ ॥
बुभुक्षितः कपिं प्राह दर्शनात्पारणं मम ।
भविष्यति फलैः सर्वैः तव दृष्टौ स्थितैर्हि मे ॥ ६७ ॥
तथेत्युक्तः स जानक्या भक्षयित्वा फलं कपिः ।
ततः प्रस्थापितोऽगच्छत् जानकीं प्रणिपत्य सः ।
किञ्चित्‍दूरमथो गत्वा स्वात्मन्येवान्वचिन्तयत् ॥ ६८ ॥
कार्यार्थमागतो दूतः स्वामिकार्याविरोधतः ।
अन्यत्किञ्चित् असम्पाद्य गच्छत्यधम एव सः ॥ ६९ ॥
अतोऽहं किञ्चिदन्यच्च कृत्वा दृष्ट्वाथ रावणम् ।
सम्भाष्य च ततो राम दर्शनार्थ व्रजाम्यहम् ॥ ७० ॥
इतिनिश्चित्य मनसा वृक्षखण्डान् महाबलः ।
उत्पाट्यशोकवनिकां निर्वृक्षां अकरोत्क्षणात् ॥ ७१ ॥
सीताश्रयनगं त्यक्‍त्वा वनं शून्यं चकार सः ।
उत्पाटयन्तं विपिनं दृष्ट्वा राक्षसयोषितः ॥ ७२ ॥
अपृच्छञ् जानकीं कोऽसौ वानराकृति उद्‌भटः ॥७३ ॥
जानक्युवाच
भवत्य एवं जानन्ति मायां राक्षसनिर्मिताम् ।
नाहमेनं विजानामि दुःखशोकसमाकुला ॥ ७४ ॥
इत्युक्‍त्वास्त्वरितं गत्वा राक्षस्यो भयपीडिताः ।
हनूमता कृतं सर्वं रावणाय न्यवेदयन् ॥ ७५ ॥
देव कश्चिन्महासत्त्वो वानराकृतिदेहभृत् ।
सीतया सह सम्भाष्य ह्यशोकवनिकां क्षणात् ।
उत्पाट्य चैत्यप्रासादं बभञ्जामितविक्रमः ॥ ७६ ॥
प्रासादरक्षिणः सर्वान् हत्वा तत्रैव तस्थिवान् ।
तच्छ्रुत्वा तूर्णमुत्थाय वनभङ्‌गं महाप्रियम् ॥ ७७ ॥
किङ्‌करान् प्रेषयामास नियुतं राक्षसाधिपः ।
निभग्नचैत्यप्रासाद प्रथमान्तरसंस्थितः ॥ ७८ ॥
हनुमान् पर्वताकारो लोहस्तम्भकृतायुधः ।
किञ्चिल्लाङ्‌गुलचलनो रक्तायो भीषणाकृतिः ॥ ७९ ॥
आपतन्तं महासङ्‌घं राक्षसानां ददर्श सः ।
चकार सिंहनादं च श्रुत्वा ते मुमुहुर्भृशम् ॥ ८० ॥
हनुमन्तं अथो दृष्ट्वा राक्षसा भीषणाकृतिम् ।
निर्जघ्नुर्विविधास्त्रौघैः सर्वराक्षसघातिनम् ॥ ८१ ॥
तत उत्थाय हनुमान् मुद्‍गरेण समन्ततः ।
निष्पिपेष क्षणादेव मशकानिव यूथपः ॥ ८२ ॥
निहतान् किङ्‌करान् श्रुत्वा रावणः क्रोधमूर्च्छितः ।
पञ्च सेनापतींस्तत्र प्रेषयामास दुर्मदान् ॥ ८३ ॥
हनूमानपि तान् सर्वान् लोहस्तम्भेन चाहनत् ।
ततः क्रुद्धो मंत्रिसुतान् प्रेषयामास सप्त सः ॥ ८४ ॥
आगतानपि तान् सर्वान् पूर्ववत् वानरेश्वरः ।
क्षणान्निःशेषतो हत्वा लोहस्तभेन मारुतिः ॥ ८५ ॥
पूर्वस्थानमुपाश्रित्य प्रतीक्षन् राक्षसान् स्थितः ।
ततोजगाम बलवान् कुमारोऽक्षःप्रतापवान् ॥ ८६ ॥
तमुत्पपात हनुमान् दृष्ट्वाकाशे समुद्‍गरः ।
गगनात्त्वरितो मूर्ध्नि मुद्‍गरेण व्यताडयत् ॥ ८७ ॥
हत्वा तमक्षं निःशेषं बलं सर्वंचकार सः ॥ ८८ ॥
ततः श्रुत्वा कुमारस्य वधं राक्षसपुङ्‌गवः ।
क्रोधेन महताविष्ट इन्द्रजेतारमब्रवीत् ॥ ८९ ॥
पुत्र गच्छाम्यहं तत्र यत्रास्ते पुत्रहा रिपुः ।
हत्वातमथवा बद्‍ध्वा आनयिष्यामि तेऽन्तिकम् ॥९० ॥
इन्द्रजित् पितरं प्राह त्यज शोकं महामते ।
मयि स्थिते किमर्थं त्वं भाषसे दुःखितं वचः ॥ ९१ ॥
बद्‍ध्वान्येष्ये द्रुतं तात वानरं ब्रह्मपाशतः ।
इत्युक्‍त्वा रथमारुह्य राक्षसैर्बहुविर्भृतः ॥ ९२ ॥
जगाम वायुपुत्रस्य समीपं वीरविक्रमः ।
ततोऽतिगर्जितं श्रुत्वा स्तम्भमुद्यस्य वीर्यवान् ॥ ९३ ॥
उत्पपात मधोदेशं गरुत्मानिव मारुतिः ।
ततो भ्रमन्तं नभसि हनूमन्तं शिलीमुखैः ॥ ९४ ॥
विद्‍ध्वा तस्य शिरोभागं इषुभिश्चाष्टभिःपुनः ।
हृदयं पादयुगलं षड्‌भिरेकेन वालधिम् ॥ ९५ ॥
भेदयित्वा ततो घोरं सिंहनादमथाकरोत् ।
ततोऽतिहर्षाद्धनुमान स्तम्भमुद्यस्य वीर्यवान् ॥ ९६ ॥
जघान सारथिं साश्वं रथं चाचूर्णयत्क्षणात् ।
ततोऽन्यं रथमादाय मेघनादो महाबलः ॥ ९७ ॥
शीघ्रं ब्रह्मास्त्रमादाय बद्‍ध्वा वानरपुङ्‌गवम् ।
निनाय निकटं रज्ञो रवणस्य महाबलः ॥ ९८ ॥
यस्य नाम सततं जपन्ति ये-
अज्ञानकर्मकृतबंधनं क्षणात् ।
सद्य एव परिमुच्य तत्पदं
यान्ति कोटिरविभासुरं शिवम् ॥ ९९ ॥
तस्यैव रामस्य पदाम्बुजं सदा
हृत्पद्यमधे सुनिधाय मारुतिः ।
सदैव निर्मुक्तसमस्तबन्धनः
किं तस्य पाशैरितैश्च बन्धनैः ॥ १०० ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
सुन्दरकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP