॥ श्रीमद् अध्यात्मरामायण ॥

॥ किष्किन्धाकाण्ड ॥

॥ सप्तमः सर्गः ॥

श्रीमहादेव उवाच
अथ तत्र समासीना वृक्षखण्डेषु वानराः ।
चिन्तयन्तो विमुह्यन्तः सीतामार्गणकर्शिताः ॥ १ ॥
तत्रोवाचाङ्‌गदः कांश्चिद् वानरान् वानरर्षभः ।
भ्रमतां गह्वरेऽस्माकं मासो नूनं गतोऽभवत् ॥ २ ॥
सीता नाधिगतास्माभिः न कृतं राजशासनम् ।
यदि गच्छाम किष्किन्धां सुग्रीवोऽस्मान् हनिष्यति ॥ ३ ॥
विशेषतः शत्रुसुतं मां मिषान्निहनिष्यति ।
मयि तस्य कुतः प्रीतिः अहं रामेण रक्षितः ॥ ४ ॥
इदानीं रामकार्यं मे न कृतं तन्मिषं भवेत् ।
तस्य मद्धनने नूनं सुग्रीवस्य दुरात्मनः ॥ ५ ॥
मातृकल्पां भ्रातृभार्यां पापात्मानुभवत्यसौ ।
न गच्छेयं अतः पार्श्वं तस्य वानरपुङ्‌गवाः ॥ ६ ॥
त्यक्ष्यामि जीवितं चात्र येन केनापि मृत्युना ।
इत्यश्रुनयनं केचित् दृष्ट्वा वानरपुङ्‌गवाः ॥ ७ ॥
व्यथिताः साश्रुनयना युवराजमथाब्रूवन् ॥ ८ ॥
किमर्थं तव शोकोऽत्र वयं ते प्राणरक्षकाः ।
भवामो निवसामोऽत्र गुहायां भयवर्जिताः ॥ ९ ॥
सर्वसौभाग्यसहितं पुरं देवपुरोपमम् ।
शनैः परस्परं वाक्यं वदतां मारुतात्मजः ॥ १० ॥
श्रुत्वाङ्‌गदं समालिङ्‌ग्य प्रोवाच नयकोविदः ।
विचार्यते किमर्थं ते दुर्विचारो न युज्यते ॥ ११ ॥
राज्ञोऽत्यनतप्रियस्त्वं हि तारापुत्रोऽतिवल्लभः ।
रामस्य लक्ष्मणात्प्रीतिः त्वयि नित्यं प्रवर्धते ॥ १२ ॥
अतो न राघवाद्‌भीतिः तव राज्ञो विशेषतः ।
अहं तव हिते सक्तो वत्स नान्यं विचारय ॥ १३ ॥
गुहावासश्च निर्भेद्य इत्युक्तं वानरैस्तु यत् ।
तदेतद् राबाणानां अभेद्यं किं जगत्त्रये ॥ १४ ॥
ये त्वां दुर्बोधयन्त्येते वानरा वानरर्षभ ।
पुत्रदारादिकं त्यक्‍त्वा कथं स्थास्यन्ति ते त्वया ॥ १५ ॥
अन्यद्‍गुह्यतमं वक्ष्ये रहस्यं शृणु मे सुत ।
रामो न मानुषो देवः साक्षान्नारायणोऽव्ययः ॥ १६ ॥
सीता भगवती माया जनसम्मोहकारिणी ।
लक्ष्मणो भुवनाधारः साक्षाच्छेषः फणिश्वरः ॥ १७ ॥
ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने ।
मायामानुषभावेन जाता लोकैकरक्षकाः ॥ १८ ॥
वयं च पार्षदाः सर्वे विष्णोर्वैकुण्ठवासिनः ।
मनुष्यभावमापन्ने स्वेच्छया परमात्मनि ॥ १९ ॥
वयं वानररूपेण जातास्तस्यैव मायया ।
वयं तु तपसा पूर्वं आराध्य जगतां पतिम् ॥ २० ॥
तेनैवानुगृहीताः स्मः पार्षदत्वमुपागताः ।
इदानीमपि तस्यैव सेवां कृत्वैव मायया ॥ २१ ॥
पुनर्वैकुण्ठमासाद्य सुखं स्थास्यामहे वयम् ।
इत्यङ्‌गदमथाश्वास्य गता विन्ध्यं महाचलम् ॥ २२ ॥
विचिन्वन्तोऽथ शनकैः जानकीं दक्षिणाम्बुधेः ।
तीरे महेन्द्राख्यगिरेः पवित्रं पादयाययुः ॥ २३ ॥
दृष्ट्वा समुद्रं दुष्पारं अगाधं भयवर्धनम् ।
वानरा भयसंत्रस्ताः किं कुर्म इति वादिनः ॥ २४ ॥
निषेदुरुदधेस्तीरे सर्वे चिन्तासमन्विताः ।
मंत्रयामासुरन्योन्यं अङ्‌गदाद्या महाबलाः ॥ २५ ॥
भ्रमतो मे वने मासो गतोऽत्रैव गुहान्तरे ।
न दृष्टो रावणो वाद्य सीता वा जनकात्मजा ॥ २६ ॥
सुग्रीवस्तीक्ष्णदण्डऽस्मान् निहत्येव न संशयः ।
सुग्रीववधतोऽस्माकं श्रेयः प्रायोपवेशनम् ॥ २७ ॥
इति निश्चित्य तत्रैव दर्भानास्तीर्य सर्वतः ।
उपाविवेशुस्ते सर्वे मरणे कृतनिश्चयाः ॥ २८ ॥
एतस्मिन्नन्तरे तत्र महेन्द्रादिगुहान्तरात् ।
निर्गत्य शनकैरागाद्‍ गृध्रः पर्वतसन्निभः ॥ २९ ॥
दृष्ट्वा प्रावोपवेशेन स्थितान्वानरपुङ्‌गवान् ।
उवाच शनकैर्गृध्रः प्राप्तो भक्ष्योऽद्य मे बहुः ॥ ३० ॥
एकैकशः क्रमात्सर्वान् भक्षयामि दिने दिने ।
श्रुत्वा तद्‍गृध्रवचनं वानरा भीतमानसाः ॥ ३१ ॥
भक्षयिष्यति नः सर्वान् असौ गृध्रो न संशयः ।
रामकार्यं च नास्माभिः कृतं किञ्चिद्धरीश्वराः ॥ ३२ ॥
सुग्रीवस्यापि च हितं न कृतं स्वात्मनामपि ।
वृथानेन वधं प्राप्ता गच्छामो यमसादनम् ॥ ३३ ॥
अहो जटायुर्धर्मात्मा रामस्यार्थे मृतः सुधीः ॥
मोक्षं प्राप दुरावापं योगिनामप्यरिन्दमः ॥ ३४ ॥
सम्पातिस्तु तदा वाक्यं श्रुत्वा वानरभाषितम् ।
के वा यूयं मम भ्रातुः कर्णपीयूषसन्निभम् ॥ ३५ ॥
जटायुरिति नामद्य व्याहरन्तः परस्परम् ।
उच्यतां वो भयं मा अभूत् मत्तः प्लवगसत्तमाः ॥ ३६ ॥
तमुवाचाङ्‌गदः श्रीमान् उत्थितो गृध्रसन्निधौ ।
रामो दाशरथिः श्रीमान् लक्ष्मणेन समन्वितः ॥ ३७ ॥
सीतया भार्यया सार्धं विचचार महावने ।
तस्य सीता हृता साध्वी रावणेन दुरात्मना ॥ ३८ ॥
मृगयां निर्गते रामे लक्ष्मणे च हृता बलात् ।
रामरामेति क्रोशन्ती श्रुत्वा गृध्रः प्रतापवान् ॥ ३९ ॥
जटायुर्नाम पक्षीन्द्रो युद्धं कृत्वा सुदारुणम् ।
रावणेन हतो वीरो राघवार्थं महाबलः ॥ ४० ॥
रामेण दग्धो रामस्य सायुज्यं अगमत्क्षणात् ।
रामः सुग्रीवमासाद्य सख्यं कृत्वाग्निसाक्षिकम् ॥ ४१ ॥
सुग्रीवचोदितो हत्वा वालिनं सुदुरासदम् ।
राज्यं ददौ वानराणां सुग्रीवाय महाबलः ॥ ४२ ॥
सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ।
अस्मान् वानरवृन्दान्वै महासत्त्वान् महाबलः ॥ ४३ ॥
मासाद् अर्वाङ्‌निवर्तध्वं नोचेत्प्राणान्हरामि वः ।
इत्याज्ञया भ्रमन्तोऽस्मिन् वने गह्वरमध्यगाः ॥ ४४ ॥
गतो मासो न जानीमः सीतां वा रावणं च वा ॥
मर्तुं प्रायोपविष्टा स्मस्तीरे लवणवारिधेः ॥ ४५ ॥
यदि जानासि हे पक्षिन् सीतां कथय नः शुभाम् ।
अङ्‌गदस्य वचः श्रुत्वा सम्पातिर्हृष्टमानसः ॥ ४६ ॥
उवाच मत्प्रियो भ्राता जटायुः प्लवगेश्वराः ।
बहुवर्षसहस्रान्ते भ्रातृवार्ता श्रुता मया ॥ ४७ ॥
वाक्यसाहाय्यं करिष्येऽहं भवतां प्लवगेश्वराः ।
भ्रातुः सलिलदानाय नयध्वं मां जलान्तिकम् ॥ ४८ ॥
पश्चात्सर्वं शुभं वक्ष्ये भवतां कार्यसिद्धये ।
तथेति निन्युस्ते तीरं समुद्रस्य विहङ्‌गमम् ॥ ४९ ॥
सोऽपि तत्सलिले स्न्वात्वा भ्रातुर्दत्त्वा जलाञ्जलिम् ।
पुनः स्वस्थानमासाद्य स्थितो नीतो हरीश्वरैः ।
सम्पातिः कथयामास वानरान् परिहर्षयन् ॥ ५० ॥
लङ्‌का नाम नगर्यास्ते त्रिकूटगिरिमूर्धनि ।
तत्राशोकवने सीता राक्षसीभिः सुरक्षिता ॥ ५१ ॥
समुद्रमध्ये सा लङ्‌का शतयोजनदूरतः ।
दृश्यते मे न सन्देहः सीता च परिदृश्यते ॥ ५२ ॥
गृध्रत्वाद्दूरदृष्टिर्मे नात्र संशयितुं क्षमम् ।
शतयोजनविस्तीर्णं समुद्रं यस्तु लङ्‌घयेत् ॥ ५३ ॥
स एव जानकीं दृष्ट्वा पुनरायास्यति ध्रुवम् ।
अहमेव दुरात्मानं रावणं हन्तुमुत्सहे ।
भ्रातुर्हन्तारमेकाकी किन्तु पक्षविवर्जितः ॥ ५४ ॥
यतध्वं अतियत्‍नेन लङ्‌घितुं सरतां पतिम् ।
ततो हन्ता रघुश्रेष्ठो रावणं राक्षसाधिपम् ॥ ५५ ॥
उल्लङ्‌घ्य सिन्धुं शतयोजनायतं
लङ्‌कां प्रविश्याथ विदेहकन्यकाम् ।
दृष्ट्वा समाभाष्य च वारिधिं पुनः-
तर्तुं समर्थः कतमो विचार्यताम् ॥ ५६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
किष्किन्धाकाण्डे सप्तमः सर्गः ॥ ७ ॥

GO TOP