॥ श्रीमद् अध्यात्मरामायण ॥

॥ सुन्दरकाण्ड ॥

॥ पंचमः सर्गः ॥

श्रीमहादेव उवाच

ततः सीतां नमस्कृत्य हनूमान् अब्रवीद्वचः ।
आज्ञापयतु मां देवि भवती रामसन्निधिम् ॥ १ ॥
गच्छामि रामस्त्वां द्रष्टुं आगमिष्यति सानुजः ।
इत्युक्‍त्वा त्रिःपरिक्रम्य जानकीं मारुतात्मजः ॥ २ ॥
प्रणम्य प्रस्थितो गन्तुं इदं वचनमब्रवीत् ।
देवि गच्छामि भद्रं ते तूर्णं द्रक्ष्यसि राघवम् ॥ ३ ॥
लक्ष्मणं च ससुग्रीवं वानरायुतकोटिभिः ।
ततः प्राह हनूमन्तं जानकी दुःखकर्शिता ॥ ४ ॥
त्वां दृष्ट्वा विस्मृतं दुःखं इदानीं त्वं गमिष्यसि ।
इतः परं कथं वर्ते रामवार्ताश्रुतिं विना ॥ ५ ॥
मारुतिरुवाच
यद्येवं देवि मे स्कन्धं आरोह क्षणमात्रतः
रामेण योजयिष्यामि मन्यसे यदि जानकि ॥ ६ ॥
सीतोवाच
राम सागरमाशोष्य बद्ध्वा वा शरपञ्जरैः ।
आगत्य वानरैः सार्धं हत्वा रावणमाहवे ॥ ७ ॥
मां नयेद्यदि रामस्य कीर्तिर्भवति शाश्वती ।
अतो गच्छ कथं चापि प्राणान् सन्धारयाम्यहम् ॥ ८ ॥
इति प्रस्थापितो वीरः सीतया प्रणिपत्य ताम् ।
जगाम पर्वतस्याग्रे गन्तुं पारं महोदधेः ॥ ९ ॥
तत्र गत्वा महासत्त्वः पादाभ्यां पीडयन् गिरिम् ।
जगाम वायुवेगेन पर्वतश्च महीतलम् ॥ १० ॥
गतो महीसमानत्वं त्रिंशद्योजनमुछ्रितः ।
मारुतिर्गगनान्तःस्थो महाशब्दं चकार सः ॥ ११ ॥
तं श्रुत्वा वानराः सर्वे ज्ञात्वा मारुतिमागतम् ।
हर्षेण महताविष्टाः शब्दं चक्रुर्महास्वनम् ॥ १२ ॥
शब्देनैव विजानिमः कृतकार्यः समागतः ।
हनूमानेव पश्यध्वं वानरा वानरर्षभम् ॥ १३ ॥
एवं ब्रूवत्सु वीरेषु वानरेषु स मारुतिः ।
अवतीर्य गिरेर्मुर्ध्नि वानरान् इदमब्रवीत् ॥ १४ ॥
दृष्टा सीता मया लङ्‌का धर्षिता च सकानना ।
सम्भाषितो दशग्रीवः ततोऽहं पुनरागतः ॥ १५ ॥
इदानीमेव गच्छामो रामसुग्रीवसन्निधिम् ।
इत्युक्‍त्वा वानराः सर्वे हर्षेणालिङ्‌ग्य मारुतिम् ॥ १६ ॥
केचित् चुचुम्बुर्लाङ्‌गूलं ननृतुः केचिदुत्सुकाः ।
हनूमता समेतास्ते जग्मुः प्रस्रवणं गिरिम् ॥ १७ ॥
गच्छन्तो ददृशुर्वीरा वनं सुग्रीवरक्षितम् ।
मधुसंज्ञं तदा प्राहुः अङ्‌गदं वानरर्षभाः ॥ १८ ॥
क्षुधिताः स्मो वयं वीर देह्यनुज्ञां महामते ।
भक्षयामः फलान्यद्य पिबामोऽमृतवन्मधु ॥ १९ ॥
सन्तुष्टा राघवं द्रष्टुं गच्छामोऽद्यैव सानुजम् ॥ २० ॥
अङ्‌गद उवाच
हनूमान्कृतकार्योऽयं पिबतैतत्प्रसादतः ।
जक्षध्वं फलमूलानि त्वरितं हरिसत्तमाः ॥ २१ ॥
ततः प्रविश्य हरयः पातुमारेभिरे मधु ।
रक्षिणस्तान् अनादृत्य दधिवक्‍त्रेण नोदितान् ॥ २२ ॥
पिबतस्ताडयामासुः वानरान् वानरर्षभाः ।
ततस्तान्मुष्टिभिः पादैः चूर्णयित्वा पपुर्मधु ॥ २३ ॥
ततो दधिमुखः क्रुद्धः सुग्रीवस्य स मातुलः ।
जगाम रक्षिभिः सार्धं यत्र राजा कपीश्वरः ॥ २४ ॥
गत्वा तमब्रवीद्देव चिरकालाभिरक्षितम् ।
नष्टं मधुवनं तेऽद्य कुमारेण हनुमता ॥ २५ ॥
श्रुत्वा दधिमुखेनोक्तं सुग्रीवो हृष्तमानसः ।
दृष्ट्वागतो न सन्देहः सीतां पवननन्दनः ॥ २६ ॥
नो चेत् मधुवनं द्रष्टुं समर्थः को भवेन्मम ।
तत्रापि वायुपुत्रेण कृतं कार्यं न संशयः ॥ २७ ॥
श्रुत्वा सुग्रीववचनं हृष्टो रामस्तमब्रवीत् ।
किमुच्यते त्वया राजन् वचः सीताकथान्वितम् ॥ २८ ॥
सुग्रीवस्त्वब्रवीद्वाक्यं देव दृष्टावनीसुता ।
हनुमत्प्रमुखाः सर्वे प्रविष्टा मधुकाननम् ॥ २९ ॥
भक्षयन्ति स्म सकलं ताडयन्ति स्म रक्षिणः ।
अकृत्वा देवकार्यं ते द्रष्टुं मधुवनं मम ॥ ३० ॥
न समर्थास्ततो देवी दृष्ट्वा सीतेति निश्चितम् ।
रक्षिणो वो भयं मास्तु गत्वा ब्रूत ममाज्ञया ॥ ३१ ॥
वानरान् अङ्‌गदमुखान् आनयध्वं ममान्तिकम् ।
श्रुत्वा सुग्रीववचनं गत्वा ते वायुवेगतः ॥ ३२ ॥
हनूमत्प्रमुखान् ऊचुः गच्छतेश्वरशासनात् ।
द्रष्टुमिच्छति सुग्रीवः सरामो लक्ष्मणान्वितः ॥ ३३ ॥
युष्मानतीव हृष्टास्ते त्वरयन्ति महाबला ।ः ।
तथेत्यम्बरमासाद्य ययुस्ते वानरोत्तमाः ॥ ३४ ॥
हनूमन्तं पुरस्कृत्य युवराजं तथाङ्‌गदम् ।
रामसुग्रीवयोरग्रे निपेतुर्भुवि सत्वरम् ॥ ३५ ॥
हनूमान् राघवं प्राह दृष्टा सीतानिरामया ।
साष्टाङ्‌गं प्रणिपत्याग्रे रामं पश्चाद्धरीश्वरम् ॥ ३६ ॥
कुशलं प्राह राजेन्द्र जानकी त्वां सुचान्विता ।
अशोकवनिकामध्ये शिंशपामूलमाश्रिता ॥ ३७ ॥
राक्षसीभिः परिवृता निराहारा कृशा प्रभो ।
हा राम राम रामेति शोचन्ती मलिनाम्बरा ॥ ३८ ॥
एकवेणी मया दृष्टा शनैराश्वासिता शुभा ।
वृक्षशाखान्तरे स्थित्वा सूक्ष्मरूपेण ते कथाम् ॥ ३९ ॥
जन्मारभ्य तवात्यर्थं दण्डकागमनं तथा ।
दशाननेन हरणं जानक्या रहिते त्वयि ॥ ४० ॥
सुग्रीवेण यथा मैत्री कृत्वा वालिनिबर्हणम् ।
मारणार्थं च वैदेह्या सुग्रीवेण विसर्जिताः ॥ ४१ ॥
महाबला महासत्त्वा हरयो जितकाशिनः ।
गताः सर्वत्र सर्वे वै तत्रैकोऽहमिहागतः ॥ ४२ ॥
अहं सुग्रीवसचिवो दासोऽहं राघवस्य हि ।
दृष्ट्वा यज्जानकी भाग्यात् प्रयासः फलितोऽद्य मे ॥ ४३ ॥
इत्युदीरितमाकर्ण्य सीता विस्फारितेक्षणा ।
केन वा कर्णपीयुषं श्रावितं मे शुभाक्षरम् ॥ ४४ ॥
यदि सत्यं तदायातु मद्दर्शनपथं तु सः ।
ततोऽहं वानराकारः सूक्ष्मरूपेण जानकीम् ॥ ४५ ॥
प्रणम्य प्राञ्जलीर्भूत्वा दूरादेव स्थितः प्रभो ।
पृष्टोऽहं सीतया कस्त्वं इत्यादि बहुविस्तरम् ॥ ४६ ॥
मया सर्वं क्रमेणैव विज्ञापितमरिन्दम ।
पश्चान्मयार्पितं देव्यै भवद्दत्ताङ्‌गुलीयकम् ॥ ४७ ॥
तेन मामतिविश्वस्ता वचनं चेदमब्रवीत् ।
यथा दृष्टास्मि हनुमन् पीड्यमाना दिवानिशम् ॥ ४८ ॥
राक्षसीनां तर्जनैस्तत् सर्वं कथय राघवे ।
मयोक्तं देवि रामोऽपि त्वच्चिन्तापरिनिष्ठितः ॥ ४९ ॥
परिशोचत्यहोरात्रं त्वद्वार्तां नाधिगम्य सः ।
इदानीमेव गत्वाहं स्थितिं रामाय ते ब्रुवे ॥ ५० ॥
रामः श्रवणमात्रेण सुग्रीवेण सलक्ष्मणः ।
वानरानीकपैः सार्धं मागमिष्यति तेऽन्तिकम् ॥ ५१ ॥
रावणं सकुलं हत्वा नेष्यति त्वां स्वकं पुरम् ।
अभिज्ञां देहि मे देवि यथा मां विश्वसेद्विभुः ॥ ५२ ॥
इत्युक्ता सा शिरोरत्‍नं चूडापाशे स्थितं प्रियम् ।
दत्त्वा काकेन यद्‍वृत्तं चित्रकूटगिरौ पुरा ॥ ५३ ॥
तदप्याहाश्रुपूर्णाक्षी कुशलं ब्रूहि राघवम् ।
लक्ष्मणं ब्रूहि मे किञ्चित् दुरुक्तं भाषितं पुरा ॥ ५४ ॥
तत्क्षमस्वाज्ञभावेन भाषितं कुलनन्दन ।
तारयेन्मां यथा रामः तथा कुरु कृपान्वितः ॥ ५५ ॥
इत्युक्‍त्वा रुदती सीता दुःखेन महतावृता ।
मयाप्याश्वासिता राम वदता सर्वमेव ते ॥ ५६ ॥
ततः प्रस्थापितो राम त्वत्समीपं इहागतः ।
तदागमनवेलायां अशोकवनिकां प्रियाम् ॥ ५७ ॥
उत्पाट्य राक्षसांस्तत्र बहून् हत्वा क्षणादहम् ।
रावणस्य सुतं हत्वा रावणेनाभिभाष्य च ॥ ५८ ॥
लङ्‌कां अशेषतो दग्ध्वा पुनरप्यागमं क्षणात् ।
श्रुत्वा हनूमतो वाक्यं रामोऽत्यन्तप्रहृष्टधीः ॥ ५९ ॥
हनूमंस्ते कृतं कार्यं देवैरपि सुदुष्करम् ।
उपकारं न पश्यामि तव प्रत्युपकारिणः ॥ ६० ॥
इदानीं ते प्रयच्छामि सर्वस्वं मम मारुते ।
इत्यालिङ्‌ग्य समाकृष्य गाढं वानरपुङ्‌गवम् ॥ ६१ ॥
सार्द्रनेत्रो रघुश्रेष्ठः परां प्रीतिमवाप सः ।
हनूमन्तं मुवाचेदं राघवो भक्तवत्सलः ॥ ६२ ॥
परिरम्भो हि मे लोके दुर्लभः परमात्मनः ।
अतस्त्वं मम भक्तोऽसि प्रियोऽसि हरिपुङ्‌गव ॥ ६३ ॥
यत्पादपद्मयुगलं तुलसीदलाद्यैः
सम्पूज्य विष्णुपदवीं अतुलां प्रयान्ति ।
तेनैव किं पुनरसौ परिरब्धमूर्ती
रामेण वायुतनयः कृतपुण्यपुञ्जः ॥ ६४ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे पञ्चमः सर्गः ॥ ५ ॥

GO TOP




॥ समाप्तमिदम् सुन्दरकाण्डम् ॥