॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ पंचमः सर्गः ॥

श्रीमहादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्‌कुले ।
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः ॥ १ ॥
सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् ।
विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः ॥ २ ॥
पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम् ।
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् ॥ ३ ॥
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ ।
तथेत्युक्त्वा मुनिर्यष्टुं आरेभे मुनिभिः सह ॥ ४ ॥
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ ।
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी ॥ ५ ॥
रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः ।
आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् ॥ ६ ॥
तयोरेकस्तु मारीचं भ्रामयन् शतयोजनम् ।
पातयामास जलधौ तद् अद्‌भुतमिवाभवत् ॥ ७ ॥
द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् ।
अपरे लक्षमणेनाशु हतास्तदनुयायिनः ॥ ८ ॥
पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् ।
देवदुन्दुभयो नेदुः तुष्टुवः सिद्धचारणाः ॥ ९ ॥
विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् ।
अङ्‌के निवेश्य चालिङ्‌ग्य भक्त्या बाष्पाकुलेक्षणः ॥ १० ॥
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः ।
पुराणवाक्यैर्मधुरैः निर्नाय दिवसत्रयम् ॥ ११ ॥
चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् ।
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् ॥ १२ ॥
विदेहराजनगरे जनकस्य महात्मनः ।
तत्र माहेश्वरं चापं अस्ति न्यस्तं पिनाकिना ॥ १३ ॥
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च ।
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्‌गासमीपगम् ॥ १४ ॥
गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः ।
दिव्यपुष्पफलोपेत पादपैः परिवेष्टितम् ॥ १५ ॥
मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं ।
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः ॥ १६ ॥
कस्यैतद् आश्रमपदं भाति भास्वत् शुभं महत् ।
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् ॥ १७ ॥
आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः ॥ १८ ॥
विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविशृतः ।
सर्वधर्मभृतां श्रेष्ठः तपसाराधयन् हरिम् ॥ १९ ॥
तस्मै ब्रह्मा ददौ कन्यां अहल्यां लोकसुन्दरीम् ।
ब्रह्मचर्येण सन्तुष्टः शुश्रूषण परायणाम् ॥ २० ॥
तया सार्धमिहावत्सीद्‍ गौतमस्तपतां वरः ।
शक्रस्तु तां धर्षयितुं अन्तरं प्रेप्सुरन्वहम् ॥ २१ ॥
कदाचित् मुनिवेषेण गौतमे निर्गते गृहात् ।
धर्षयित्वाथ निरगात् त्वरितं मुनिरप्यगात् ॥ २२ ॥
दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः ।
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः ॥ २३ ॥
सत्यं ब्रूहि न चेद्‌भस्म करिष्यामि न संशयः ।
सोऽब्रवीत् देवराजोऽहं पाहि मां कामकिङ्‌करम् ॥ २४ ॥
कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा ।
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् ॥ २५ ॥
योनिलम्पट दुष्टात्मन् सहस्रभगवान्भव ।
शत्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम् ॥ २६ ॥
दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् ।
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम ॥ २७ ॥
निराहारा दिवारात्रं तपः परममास्थिता ।
आतपानिलवर्षादि सहिष्णुः परमेश्वरम् ॥ २८ ॥
ध्यायन्ती राममेकाग्र मनसा हृदि संस्थितम् ।
नानाजन्तुविहीनोऽयं आश्रमो मे भविष्यति ॥ २९ ॥
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च ।
रामो दाशरथिः श्रीमान् आगमिष्यति सानुजः ॥ ३० ॥
यदा त्वदाश्रयशिलां पादाभ्यां आक्रमिष्यति ।
तदैव धूतपापा त्वं रामं संपूज्य भक्तितः ॥ ३१ ॥
परिक्रम्य नमस्कृत्य स्तुत्वा शापाद् विमोक्ष्यसे ।
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् ॥ ३२ ॥
इत्युक्त्वा गौतमः प्रागाद् धिमवन्तं नगोत्तमम् ।
तदाद्यहल्या भूतानां अदृश्या स्वाश्रमे शुभे ॥ ३३ ॥
तव पादरजःस्पर्शं काङ्‌क्षते पवनाशना ।
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता ॥ ३४ ॥
पावयस्व मुनेर्भार्यां अहल्यां ब्रह्मणः सुताम् ।
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्‌गवः ॥ ३५ ॥
दर्शयामास चाहल्यां उग्रेण तपसा स्थितम् ।
रामः शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनाम् ॥ ३६ ॥
ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् ।
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् ॥ ३७ ॥
चतुर्भुजं शङ्‌खचक्र गदापङ्‌कजधारिणम् ।
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् ॥ ३८ ॥
स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्‌कितवक्षसम् ।
नीलमाणिक्यसङ्‌काशं द्योतयन्तं दिशो दश ॥ ३९ ॥
दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा ।
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं परम् ॥ ४० ॥
संपूज्य विधिवद्‍रामं अर्घ्यादिभिरनिन्दिता ।
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा ॥ ४१ ॥
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् ।
पुलकाङ्‌कितसर्वाङ्‌गा गिरा गद्‍गदयैलत ॥ ४२ ॥
अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
पादाब्जसंलग्न रजःकणादहम् ।
स्पृशामि यत्पद्मज शंकरादिभिः
विमृग्यते रन्धितमानसैः सदा ॥ ४३ ॥
अहो विचित्रं तव राम चेष्टितं
मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्रं चरणादिवर्जितः
सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ ४४ ॥
यत्पादपङ्‌कजपरागपवित्रगात्रा
भागीरथी भवविरिञ्चिमुखान् पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ४५ ॥
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं
भजामि नित्यं न परान्-भजिष्ये ॥ ४६ ॥
यत्पादपङ्‌कजरजः श्रुतिभिर्विमृग्यं
यन्नाभिपङ्‌कजभवः कमलासनश्च ।
यन्नामसार-रसिको भगवान्पुरारिः
तं रामचन्द्रमनिशं हृदि भावयामि ॥ ४७ ॥
यस्यावतारचरितानि विरिञ्चिलोके
गायन्ति नारदमुखा भवपद्मजाद्याः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ४८ ॥
सोऽयं परात्मा पुरुषः पुराण
एकः स्वयंज्योतिरनन्त आद्यः ।
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एष रामः ॥ ४९ ॥
अयं हि विश्वोद्‌भवसंयमानाम्
एकः स्वमायागुणबिम्बितो यः ।
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतंत्रः परिपूर्ण आत्मा ॥ ५० ॥
नमोऽस्तु ते राम तवाङ्‌घ्रिपङ्‌कजं
श्रिया धृतं वक्षसि लालितं प्रियात् ।
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैः अभिमानवर्जितैः ॥ ५१ ॥
जगतां आदिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंयुक्त एको भाति भवान्परः ॥ ५२ ॥
ओंकारवाच्यस्त्वं राम वाचां अविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ५३ ॥
कार्यकारणकर्तृत्व फलसाधनभेदतः ।
एको विभासि राम त्वं मायया बहुरूपया ॥ ५४ ॥
त्वन्मायामोहितधियः त्वां न जानन्ति तत्त्वतः ।
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् ॥ ५५ ॥
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।
असङ्‌गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ ५६ ॥
योषिन् मूढाहमज्ञा ते तत्त्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यां अनन्यधीः ॥ ५७ ॥
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत् पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ५८ ॥
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते ॥ ५९ ॥
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्‍नवत्-कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे ॥ ६० ॥
स्तुत्वैवं पुरुषं साक्षाद् राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् ॥ ६१ ॥
अहल्यया कृतं स्तोत्रं यः पठेद्‌भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ ६२ ॥
पुत्राद्यर्थे पठेद्‌भक्त्या रामं हृदि निधाय च ।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ ६३ ॥
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः ॥ ६४ ॥
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः
स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं
भोगैकबद्धातुरः ।
नित्यं स्तोत्रमिदं जपन् रघुपतिं
भक्त्या हृदिस्थं स्मरन्
ध्यायन्मुक्तिमुपैति किं पुनरसौ
स्वाचारयुक्तो नरः ॥ ६५ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे
अहल्योद्धरणं नाम पञ्चमः सर्गः ॥ ५ ॥

GO TOP