॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ सप्तमः सर्गः ॥

श्रीमहादेव उवाच

वाल्मीकिना बोधितोऽसौ कुशः सद्योगतभ्रमः ।
अन्तर्मुक्तो बहिः सर्वं अनुकुर्वंश्चकार सः ॥ १ ॥
वाल्मीकिरपि तौ प्राह सीतापुत्रौ महाधियौ ।
तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः ॥ २ ॥
रामस्याग्रे प्रगायेतं शुश्रूषुर्यदि राघवः ।
न ग्राह्य वै युवाभ्यां तद् यदि किञ्चित् प्रदास्यति ॥ ३ ॥
इति तौ चोदितौ तत्र गायमानौ विचेरतुः ।
यथोक्तं ऋषिणा पूर्वं तत्र तत्राभ्यगायताम् ॥ ४ ॥
तां स सुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः ।
अपूर्वपाठजातिं च गेयेन समभिप्लुताम् ॥ ५ ॥
बालयोः राघवः श्रुत्वा कौतूहलमुपेयिवान् ।
अथ कर्मान्तरे राजा समाहूय महामुनीम् ॥ ६ ॥
राज्ञश्चैव नरव्याघ्रः पण्डितांश्चैव नैगमान् ।
पौराणिकान् शब्दविदो ये च वृद्धा द्विजातयः ॥ ७ ॥
एतान्सर्वान्समाहूय गायकौ समवेशयत् ।
ते सर्वे हृष्टमनसो राजानो ब्रह्मणादयः ॥ ८ ॥
रामं तौ दारकौ दृष्ट्वा विस्मिताः ह्यनिमेषणाः ।
अवोचन् सर्व एवैते परस्परमथागताः ॥ ९ ॥
इमौ रामस्य सदृशौ बिम्बाद्‌बिम्बमिवोदितौ ।
जटिलौ यदि न स्यातां न च वल्कलधरिणौ ॥ १० ॥
विशेषं नाधिगच्छामो राघवस्यानयोस्तदा ।
एवं संवदतां तेषां विस्मितानां परस्परम् ॥ ११ ॥
उपचक्रमतुर्गातुं तावुभौ मुनिरादकौ ।
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् ॥ १२ ॥
श्रुत्वा तन्मधुरं गीतं अपराह्णे रघूत्तमः ।
उवाच भरतं चाभ्यां दीयतामयुतं वसु ॥ १३ ॥
दीयमानं सुवर्णं तु न तज्जगृहतुस्तदा ।
किमनेन सुवर्णेन राजन्नो वन्यभोजनौ ॥ १४ ॥
इति सन्त्यज्य सन्दत्तं जग्मतुर्मुनिसन्निधिम् ।
एवं श्रुत्वा तु चरितं रामः स्वस्यैव विस्मितः ॥ १५ ॥
ज्ञात्वा सीताकुमारौ तौ शत्रुघ्नं चेदमब्रवीत् ।
हनूमन्तं सुषेणं च विभीषणमथाङ्‍गदम् ॥ १६ ॥
भगवन्तं महात्मानं वाल्मीकिं मुनिसत्तमम् ।
आनयध्वं मुनिवरं ससीतं देवसम्मितम् ॥ १७ ॥
अस्यास्तु पर्षदो मध्ये प्रत्ययं जनकात्मजा ।
करोतु शपथं सर्वे जानन्तु गतकल्मषाम् ॥ १८ ॥
सीतां तद्वचनं श्रुत्वा गताः सर्वेऽतिविस्मिताः ।
ऊचुर्यथोक्तं रामेण वाल्मीकिं रामपार्षदाः ॥ १९ ॥
रामस्य हृद्‍गतं सर्वं ज्ञात्वा वाल्मीकिरब्रवीत् ।
श्वः करिष्यति वै सीता शपथं जनसंसदि ॥ २० ॥
योषितां परमं दैवं पतिरेव न संशयः ।
तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनेर्वचः ॥ २१ ॥
राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा ।
राजानो मुनयः सर्वे श्रुणुध्वमिति चाब्रवीत् ॥ २२ ॥
सीतायां शपथं लोका विजानन्तु सुभाशुभम् ।
इत्युक्ता राघवेणाथ लोकाः सर्वे दिदृक्षवः ॥ २३ ॥
ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव महर्षयः ।
वानराश्च समाजग्मुः कौतूहलसमन्विताः ॥ २४ ॥
ततो मुनिवरस्तूर्णं ससीतः समुपागमत् ।
अग्रतस्तमृषिं कृत्वा यान्ती किञ्चिदवाङ्‍मुखी ॥ २५ ॥
कृताञ्जलिर्बाष्पकण्ठा सीता यज्ञं विवेश तम् ।
दृष्ट्वा लक्ष्मीमिवायान्तीं ब्रह्माणमनुयायिनीम् ॥ २६ ॥
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ।
तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्‍गवः ॥ २७ ॥
सीतासहायो वाल्मीकिः इति प्राह च राघवम् ।
इयं दाशरथे सीता सुव्रता धर्मचारिणी ॥ २८ ॥
अपापा ते पुरा त्यक्ता ममाश्रमसमीपतः ।
लोकापवादभीतेन त्वया राम महावने ॥ २९ ॥
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ।
इमौ तु सीतातनयौ इमौ यमलजातकौ ॥ ३० ॥
सुतौ तु तव दुर्धर्षौ तथ्यमेतद्‌ब्रवीमि ते ।
प्रचेतसोऽहं दशमः पुत्रो रघुकुलोद्वह ॥ ३१ ॥
अनृतं न स्मराम्युक्तं तथेमौ तव पुत्रकौ ।
बहून्वर्षगणान् सम्यक् तपश्चर्या मया कृता ॥ ३२ ॥
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ।
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ॥ ३३ ॥
एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत ।
प्रत्ययौ जनितो मह्यं तव वाक्यैरकिल्बिषैः ॥ ३४ ॥
लङ्‍कायामपि दत्तो मे वैदेह्या प्रत्ययो महान् ।
देवानां पुरतस्तेन मन्दिरे सम्प्रवेशिता ॥ ३५ ॥
सेयं लोकभयाद्‌ब्रह्मन् अपापापि सती पुरा ।
सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति ॥ ३६ ॥
ममैव जातौ जानामि पुत्रावेतौ कुशीलवौ ।
शुद्धायां जगतीमध्ये सीतायां प्रीतिरस्तु मे ॥ ३७ ॥
देवाः सर्वे परिज्ञाय रामाभिप्रायमुत्सुकाः ।
ब्रह्माणमग्रतः कृत्वा समाजग्मुः सहस्रशः ॥ ३८ ॥
प्रजाः समागमन् हृष्टाः सीता कौशेयवासिनी ।
उदङ्‍मुखी ह्यधोदृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् ॥ ३९ ॥
रामदन्यं यथाहं वै मनसापि न चिन्तये ।
तथा मे धरणी देवी विवरं दातुमर्हति ॥ ४० ॥
तथा शपन्त्याः सीतायाः प्रादुरासीन् महाद्‌भुतम् ।
भूतलाद्दिव्यमत्यर्थं सिंहासनमनुत्तमम् ॥ ४१ ॥
नागेन्द्रैर्ध्रियमाणं च दिव्यदेहै रविप्रभम् ।
भूदेवी जानकीं दोर्भ्यां गृहीत्वा स्नेहसंयुता ॥ ४२ ॥
स्वागतं तामुवाचैनां आसने संन्यवेशयत् ।
सिंहासनस्थां वैदेहीं प्रविशन्तीं रसातलम् ॥ ४३ ॥
निरन्तरा पुष्पवृष्टिः दिव्या सीतामवाकिरत् ।
साधुवादश्च सुमहान् देवानां परमद्‌भुतः ॥ ४४ ॥
ऊचुश्च बहुधा वाचो ह्यन्तरिक्षगताः सुराः ।
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्‌गमाः ॥ ४५ ॥
वानराश्च महकायाः सीताशपथकारणात् ।
केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः ॥ ४६ ॥
केचिद्‍रामं निरीक्षन्तः केचित्सीतामचेतसः ।
मुहूर्तमात्रं तत्सर्वं तूष्णीभूतमचेतनम् ॥ ४७ ॥
सीताप्रवेशनं दृष्ट्वा सर्वं सम्मोहितं जगत् ।
रामस्तु सर्वं ज्ञात्वैव भविष्यत्कार्यगौरवम् ॥ ४८ ॥
अजानन्निव दुःखेन शुशोच जनकात्मजाम् ।
ब्रह्मणा ऋषिभिः सार्धं बोधितो रघुनन्दनः ॥ ४९ ॥
प्रतिबुद्ध इव स्वप्नात् चकारानन्तराः क्रियाः ।
विससर्ज ऋषीन् सर्वान् ऋत्विजो ये समागताः ॥ ५० ॥
तान् सर्वान् धनरत्‍नाद्यैः तोषयामास भूरिशः ।
उपादाय कुमारौ तौ अयोध्यामगमत्प्रभुः ॥ ५१ ॥
ददादि निःस्पृहो रामः सर्वभोगेषु सर्वदा ।
आत्मचिन्तापरो नित्यं एकान्ते समुपस्थितः ॥ ५२ ॥
एकान्ते ध्याननिरते एकदा राघवे सति ।
ज्ञात्वा नारायणं साक्षात् कौसल्या प्रियवादिनी ॥ ५३ ॥
भक्त्यागत्य प्रसन्नं तं प्रणता प्राह हृष्टधीः ।
राम त्वं जगतामादिः आदिमध्यान्तवर्जितः ॥ ५४ ॥
परमात्मा परानन्दः पूर्णः पुरुष ईश्वरः ।
जातोऽसि मे गर्भगृहे मम पुण्यातिरेकतः ॥ ५५ ॥
अवसाने ममाप्यद्य समयोऽभूद् रघुत्तम ।
नाद्याप्यबोधजः कृस्नो भवबन्धो निवर्तते ॥ ५६ ॥
इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम् ।
यथा सङ्‍क्षेपतो भूयात् तथा बोधय मां विभो ॥ ५७ ॥
निर्वेदवादिनीमेवं मातरं मातृवत्सलः ।
दयालु प्राह धर्मात्मा जराजर्जरितां शुभाम् ॥ ५८ ॥
मार्गास्त्रयो ममा प्रोक्ताः पुरा मोक्षाप्तिसाधकाः ।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः ॥ ५९ ॥
भक्तिर्विभिद्यते मातः त्रिविधा गुणभेदतः ।
स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते ॥ ६० ॥
यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा ।
भेददृष्टिश्च संरम्भी भक्तो मे तामसः स्मृतः ॥ ६१ ॥
फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा ।
अर्चादौ भेदबुद्ध्या मां पूजयेत्स तु रजसः ॥ ६२ ॥
परस्मिन्नर्पितं यस्तु कर्म निर्हरणाय वा ।
कर्तव्यमिति वा कुर्याद् भेदबुद्ध्या स सात्त्विकः ॥ ६३ ॥
मद्‍गुणाश्रयणादेव मय्यनन्तगुणालये ।
अविच्छिन्न मनोवृत्तिः यथा गङ्‍गाम्बुनोऽम्बुधौ ॥ ६४ ॥
तदेव भक्तियोगस्य लक्षणां निर्गुणस्य हि ।
अहैतुक्यव्यवहिता या भक्तिर्मयि जायते ॥ ६५ ॥
सा मे सालोक्यसामीप्य सार्ष्टिसायुज्यमेव वा ।
ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना ॥ ६६ ॥
स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि ।
मद्‌भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम् ॥ ६७ ॥
महता कामहीनेन स्वधर्माचरणेन च ।
कर्मयोगेन शस्तेन वर्जितेन विहिंसनात् ॥ ६८ ॥
मद्दर्शनस्तुति महा-पूजाभिः स्मृतिवन्दनैः ।
भूतेषु मद्‌भावनया सङ्‍गेनासत्यवर्जनैः ॥ ६९ ॥
बहुमानेन महतां दुःखिनामनुकम्पया ।
स्व-समानेषु मैत्र्या च यमादीनां निषेवया ॥ ७० ॥
वेदान्तवाक्यश्रवणान् मम नामानुकिर्तनात् ।
सत्सङ्‍गेनार्जवेनैव ह्यहमः परिवर्जनात् ॥ ७१ ॥
काङ्‍क्षया मम धर्मस्य परिशुद्धान्तरो जनः ।
मद्‍गुणश्रवणादेव याति मामञ्जसा जनः ॥ ७२ ॥
यथा वायुवशाद्‍गन्धः स्वाश्रयाद् ‍घ्राणमाविशेत् ।
योगाभ्यास रतं चित्तं एवामात्मानमाविशेत् ॥ ७३ ॥
सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः ।
तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः ॥ ७४ ॥
क्रियोत्पन्नैर्नैकभेदैः द्रव्यैर्मे नाम्ब तोषणम् ।
भूतावमानिनार्चायां अर्चितोऽहं न पूजितः ॥ ७५ ॥
तावन्मामर्चयेद्देवं प्रतिमादौ स्वकर्मभिः ।
यावत्सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत् ॥ ७६ ॥
यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च ।
भिन्नदृष्टेर्भयं मृत्युः तस्य कुर्यान्न संशयः ॥ ७७ ॥
मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम् ।
एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधिः ॥ ७८ ॥
चेतसैवानिशं सर्व-भूतानि प्रणमेत्सुधीः ।
ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम् ॥ ७९ ॥
तस्मात् कदाचित् नेक्षेत भेदमीश्वरजीवयोः ।
भक्तियोगो ज्ञानयोगो मया मातरुदीरितः ॥ ८० ॥
आलम्ब्यैकतरं वापि पुरुषः शुभमृच्छति ।
ततो मां भक्तियोगेन मातः सर्वहृदि स्थितम् ॥ ८१ ॥
पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि ।
श्रुत्वा रामस्य वचनं कौसल्यानन्दसंयुता ॥ ८२ ॥
रामं सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम् ।
अतिक्रम्य गतीस्तिस्रोऽपि अवाप परमां गतिम् ॥ ८३ ॥
कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्य
श्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः ।
गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थे
माता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम् ॥ ८४ ॥

इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे सप्तमः सर्गः ॥ ७ ॥

GO TOP