॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ प्रथमः सर्ग: ॥

श्रीमहादेव उवाच
जयति रघुवंशतिलकः कौसल्याहृदयनन्दनो रामः ।
दशवदननिधनकारी दाशरथिः पुण्डरिकाक्षः ॥ १ ॥
पार्वत्युवाच
अथ रामः किमकरोत् कौसल्यानन्दवर्धनः ।
हत्वा मृधे रावणादीन् रक्षसान् भीमविक्रमः ॥ २ ॥
अभिषिक्तस्त्वयोध्यायां सीतया सह राघवः ।
मायामानुषतां प्राप्य कति वर्षाणि भूतले ॥ ३ ॥
स्थितवान् लीलया देवः परमात्मा सनातनः ।
अत्यजन्मानुषं लोकं कथमन्ते रघूद्‍वहः ॥ ४ ॥
एतदाख्याहि भगवन् श्रद्दधत्या मम प्रभो ।
कथापीयुषमास्वाद्य तृष्णा मेऽतीव वर्धते ।
रामचन्द्रस्य भगवान् ब्रूहि विस्तरशः कथाम् ॥ ५ ॥
श्रीमहादेव उवाच
राक्षसानां वधं कृत्वा राज्ये राम उपस्थिते ।
आययुर्मुनयः सर्वे श्रीरां अमभिवन्दितुम् ॥ ६ ॥
विश्वामित्रोऽसितः कण्वो दुर्वासा भृगुरङ्‌गिराः ।
कश्यपो वामदेवऽत्रिः तथा सप्तर्षयोऽमलाः ॥ ७ ॥
अगस्त्यः सह शिष्यैश्च मुनिभिः सहितोऽभ्यगात् ।
द्वारमासाद्य रामस्य द्वारपालमथाब्रवीत् ॥ ८ ॥
ब्रूहि रामाय मुनयः समागत्य बहिःस्थिताः ।
अगस्त्यप्रमुखाः सर्वे आशीर्भिः अभिनन्दितुम् ॥ १० ॥
प्रतिहारस्ततो रामं अगस्त्यवचनाद् द्रुतम् ।
नमस्कृत्याब्रवीद्वाक्यं विनयावनतः प्रभुम् ॥ १० ॥
कृताञ्जलिरुवाचेदं अगस्त्यो मुनिभिः सह ।
देव त्वद्दर्शनार्थाय प्राप्तो बहिरुपस्थितः ॥ ११ ॥
तमुवाच द्वारपालं प्रवेशय यथासुखम् ।
पूजिता विविशुर्वेश्म नानारत्‍नविभूषितम् ॥ १२ ॥
दृष्ट्वा रामो मुनीन् शीघ्रं प्रत्युत्थाय कृताञ्जलिः ।
पाद्यार्घ्यादिभिरापूज्य गां निवेद्य यथाविधि ॥ १३ ॥
नत्वा तेभ्यो ददौ दिव्यानि आसनानि यथार्हतः ।
उपविष्टा प्रहृष्टाश्च मुनयो रामपूजिताः ॥ १४ ॥
सम्पृष्टाकुशलाः सर्वे रामं कुशलमब्रुवन् ।
कुशलं ते महाबाहो सर्वत्र रघुनन्दन ॥ १५ ॥
दिष्ट्येदानीं प्रपश्यामो हतशत्रुमरिन्दम ।
न हि भारः स ते राम रावणो राक्षसेश्वरः ॥ १६ ॥
सधनुस्त्वं हि लोकान् त्रीन् विजेतं शक्त एव हि ।
दिष्ट्या त्वया हताः सर्वे राक्षसा रावणादयः ॥ १७ ॥
सह्यमेतन्महाबाहो रावणस्य निबर्हणम् ।
असह्यमेतत्सम्प्राप्तं रावणेर्यन्निषूदनम् ॥ १८ ॥
अन्तकप्रतिमाः सर्वे कुम्भकर्णादयो मृधे ।
अन्तकप्रतिमैर्बाणैः हतास्ते रघुसत्तम ॥ १९ ॥
दत्त्वा चेयं त्वयास्माकं पुरा ह्यभयदक्षिणा ।
हत्वा रक्षोगणान् सङ्‍ख्ये कृतकृत्योऽद्य जीवसि ॥ २० ॥
श्रुत्वा तु भषितं तेषां मुनिनां भावितात्मनाम् ।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ २१ ॥
रावणादीनतिक्रम्य कुम्भकर्णादिराक्षसान् ।
त्रिलोकजयिनो हित्वा किं प्रशंसथ रावणिम् ॥ २२ ॥
ततस्तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
कुम्भयोनिर्महातेजा रामं प्रीत्या वचोऽब्रवीत् ॥ २३ ॥
शृणु राम यथा वृत्तं रावणे रावणस्य च ।
जन्म कर्म वरादानं सङ्‍क्षेपात् वदतो मम ॥ २४ ॥
पुरा कृतयुगे राम पुलस्त्यो ब्रह्मणः सुतः ।
तपस्तप्तुं गतो विद्वान् मेरोः पार्श्वं महामतिः ॥ २५ ॥
तृणबिन्दोराश्रमेऽसौ न्यवसन् मुनिपुङ्‍गवः ।
तपस्तेपे महातेजाः स्वाध्यायनिरतः सदा ॥ २६ ॥
तत्राश्रमे महारम्ये देवगन्धर्वकन्यकाः ।
गायन्त्यो ननृतुस्तत्र हसन्त्यो वादयन्ति च ॥ २७ ॥
पुलस्त्यस्य तपोविघ्नं चक्रुः सर्वा अनिन्दिताः ।
ततः क्रुद्धो महातेजा व्याजहार वचो महत् ॥ २८ ॥
या मे दृष्टिपथं गच्छेत् सा गर्भं धारयिष्यति ।
ताः सर्वाः शापसंविग्ना न तं देशं प्रचक्रमुः ॥ २९ ॥
तृणबिन्दोस्तु राजर्षेः कन्या तन्नाशृणोद्वचः ।
विचचार मुनेरग्रे निर्भया तं प्रपश्यती ॥ ३० ॥
बभूव पाण्डुरतनुः व्यञ्जितान्तः शरीरजा ।
दृष्ट्वा सा देहवैवर्ण्यं भीता पितरमन्वगात् ॥ ३१ ॥
तृणबिन्दुश्च तां दृष्ट्वा राजर्षिरमितद्युतिः ।
ध्यात्वा मुनिकृतं सर्वं अवैद्विज्ञानचक्षुषा ॥ ३२ ॥
तां कन्यां मुनिवर्याय पुलस्त्याय ददौ पिता ।
तां प्रगृह्याब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ ३३ ॥
शुश्रूषणपरां दृष्ट्वा मुनिः प्रीतोऽब्रवीद्वचः ।
दास्यामि पुत्रमेकं ते उभयोर्वंशवर्धनम् ॥ ३४ ॥
ततः प्रासूत सा पुत्रं पुलस्त्यात् लोकविश्रुतम् ।
विश्रवा इति विख्यातः पौलस्त्यो ब्रह्मविन्मुनिः ॥ ३५ ॥
तस्य शीलादिकं दृष्ट्वा भरद्वाजो महामुनिः ।
भार्यार्थं स्वां दुहितरं ददौ विश्रवसे मुदा ॥ ३६ ॥
तस्यां तु पुत्रः सञ्जज्ञे पौलस्त्याल्लोकसम्मतः ।
पितृतुल्यो वैश्रवणो ब्रह्मणा चानुमोदितः ॥ ३७ ॥
ददौ तत्तपसा तुष्टो ब्रह्मा तस्मै वरं शुभम् ।
मनोऽभिलषितं तस्य धनेशत्वमखण्डितम् ॥ ३८ ॥
ततो लब्धवरः सोऽपि पितरं द्रष्टुमागतः ।
पुष्पकेण धनाध्यक्षो ब्रह्मदत्तेन भास्वता ॥ ३९ ॥
नमस्कृत्याथ पितरं निवेद्य तपसः फलम् ।
प्राह मे भगवान् ब्रह्मा दत्त्वा वरमनिन्दितम् ॥ ४० ॥
निवासाय न मे स्थानं दत्तवान् परमेश्वरः ।
ब्रूहि मे नियतं स्थानं हिंसा यत्र न कस्यचित् ॥ ४१ ॥
विश्रवा अपि तं प्राह लङ्‍कानाम पुरी शुभा ।
राक्षसानां निवासाय निर्मिता विश्वकर्मणा ॥ ४२ ॥
त्यक्‍त्वा विष्णुभयाद्दैत्या विविशुस्ते रसातलम् ।
सा पुरी दुष्प्रधर्षान्यैः मध्येसागरमास्थिता ॥ ४३ ॥
तत्र वासाय गच्छ त्वं नान्यैः साधिष्ठिता पुरा ।
पित्रादिष्टस्त्वसौ गत्वा तां पुरीं धनदोऽविशत् ॥ ४४ ॥
स तत्र सुचिरं कालं उवास पितृसम्मतः ।
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ॥ ४५ ॥
रसातलान् मर्त्यलोकं चचार पिशिताशनः ।
गृहित्वा तनयां कन्यां साक्षात् देवीमिव श्रियम् ॥ ४६ ॥
अपश्यत् धनदं देवं चरन्तं पुष्पकेण सः ।
हिताय चिन्तयामास राक्षसानां महामनाः ॥ ४७ ॥
उवाच तनयां तत्र कैकसीं नाम नामतः ।
वत्से विवाहकालस्ते यौवनं चातिवर्तते ॥ ४८ ॥
प्रत्याख्यानाच्च भीतैस्त्वं न वारैर्गृह्यसे शुभे ।
सा त्वं वरय भद्रं ते मुनिं ब्रह्मकुलोद्‌भवम् ॥ ४९ ॥
स्वयमेव ततः पुत्रा भविष्यन्ति महाबलाः ।
ईदृशाः सर्वशोभाढ्या धनदेन समाः शुभे ॥ ५० ॥
तथेति साश्रमं गत्वा मुनेरग्रे व्यवस्थिता ।
लिखन्ती भुवमग्रेण पादेनाधोमुखी स्थिता ॥ ५१ ॥
तां अपृच्छन्मुनिः का त्वं कन्यासि वरवर्णिनि ।
साब्रवीत् प्राञ्जलिर्ब्रह्मन् ध्यानेन ज्ञातुमर्हसि ॥ ५२ ॥
ततो ध्यात्वा मुनिः सर्वं ज्ञात्वा तं प्रत्यभाषत ।
ज्ञातं तवाभिलषितं मत्तः पुत्रानभीप्ससि ॥ ५३ ॥
दारुणायां तु वेलायां आगतासि सुमध्यमे ।
अतस्ते दारुणौ पुत्रौ राक्षसौ संभविष्यतः ॥ ५४ ॥
साब्रवीत् मुनिशार्दूल त्वत्तोऽप्येवंविधौ सुतौ ।
तामाह पश्चिमो यस्ते भविष्यति महामतिः ॥ ५५ ॥
महाभागवतः श्रीमान् रामभक्त्येकतत्परः ।
इत्युक्ता सा तथा काले सुषुवे दशकन्धरम् ॥ ५६ ॥
रावणं विंशतिभुजं दशशीर्षं सुदारुणम् ।
तद् रक्षोजातमात्रेण चचाल च वसुंधरा ॥ ५७ ॥
बभूवुर्नाशहेतूनि निमित्तान्यखिलान्यपि ।
कुम्भकर्णस्ततो जातो महापर्वतसन्निभः ॥ ५८ ॥
ततः शूर्पणखा नाम जाता रावणसोदरी ।
ततो विभीषणो जातः शान्तात्मा सौम्यदर्शनः ॥ ५९ ॥
स्वाध्यायी नियताहारो नित्यकर्मपरायणः ।
कुम्भकर्णस्तु दुष्टात्मा द्विजान् सन्तुष्टचेतसः ॥ ६० ॥
भक्षयन् ऋषिसङ्‍घाश्च विचचारातिदारुणः ।
रावणोऽपि महासत्त्वो लोकानां भयदायकः ।
ववृधे लोकनाशाय ह्यामयो देहिनामिव ॥ ६१ ॥
राम त्वं सकलान्तरस्थमभितो जानासि विज्ञानदृक्
साक्षी सर्वहृदि स्थितो हि परमो नित्योदितो निर्मलः ।
त्वं लीलामनुजाकृतिः स्वमहिमन् मायागुणैर्नाज्यसे
लीलार्थं प्रतिचोदितोऽद्य भवता वक्ष्यामि रक्षोद्‌भवम् ॥ ६२ ॥
जानामि केवलमनन्त्यमचिन्त्यशक्तिं
चिन्मात्रमक्षरमजं विदितात्मतत्त्वम् ।
त्वां राम गूढनिजरूपमनुप्रवृत्तो
मूढोऽप्यहं भवदनुग्रहतश्चरामि ॥ ६३ ॥
एवं वदन्तमिनवंशपवित्रकीर्तिः
कुम्भोद्‌भवं रघुपतिः प्रहसन् बभाषे ।
मायाश्रियं सकलमेतदनन्यकत्वान्
मत्कीर्तनं जगति पापहारं निबोध ॥ ६४ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे प्रथमः सर्गः ॥ १ ॥

GO TOP