॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ द्वादशः सर्गः ॥

श्रीमहादेव उवाच

रामो विभीषणं दृष्ट्वा हनूमन्तं तथाङ्‌गदम् ।
लक्ष्मणं कपिराजं च जाम्बवन्तं तथा परान् ॥ १ ॥
परितुष्टेन मनसा सर्वानेवाब्रवीद्वचः ।
भवतां बाहुवीर्येण निहतो रावणो मया ॥ २ ॥
कीर्तीः स्थास्यति वः पुण्या यावच्चन्द्रदिवाकरो
कीर्तयिष्यन्ति भवतां कथां त्रैलोक्यपावनीम् ॥ ३ ॥
मयोपेतां कलिहरां यास्यन्ति परमां गतिम् ।
एतस्मिन्नन्तरे दृष्ट्वा रावणं पतितं भुवि ॥ ४ ॥
मन्दोदरीमुखाः सर्वाः स्त्रियो रावणपालिताः ।
पतिता रावणस्याग्रे शोचन्त्यः पर्यदेवयन् ॥ ५ ॥
विभीषणः शुशोचार्तः शोकेन महतावृतः ।
पतितो रावणस्याग्रे बहुधा पर्यदेवयत् ॥ ६ ॥
रामस्तु लक्ष्मणं प्राह बोधयस्व विभीषणम् ।
करोतु भ्रातृसंस्कारं किं विलम्बेन मानद ॥ ७ ॥
स्त्रियो मन्दोदरीमुख्याः पतिता विलपन्ति च ।
निवारयतु ताः सर्वा राक्षसी रावणप्रियाः ॥ ८ ॥
एवमुक्तोऽथ रामेण लक्ष्मणोऽगाद् विभीषणम् ।
उवाच मृतकोपान्ते पतितं मृतकोपमम् ॥ ९ ॥
शोकेन महताविष्टं सौमित्रिरिदमब्रवीत् ।
यं शोचसि त्वं दुःखेन कोऽयं तव विभीषण ॥ १० ॥
त्वं वास्य कतमः सृष्टेः पुरेदानीमतः परम् ।
यद्वत् तोयौघपतिताः सिकता यान्ति तद्वशाः ॥ ११ ॥
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ।
यथा धानासु वै धाना भवन्ति न भवन्ति च ॥ १२ ॥
एवं भूतेषु भूतानि प्रेरितानीशमायया ।
त्वं चेमे वयमन्ये च तुल्याः कालवशोद्‌भवाः ॥ १३ ॥
जन्ममृत्यु यदा यस्मात् तदा तस्माद्‌भविष्यतः ।
ईश्वरः सर्वभूतानि भूतैः सृजति हन्त्यजः ॥ १४ ॥
आत्मसृष्टैः अस्वतन्‍त्रैः निरपेक्षोऽपि बालवत् ।
देहेन देहिनो जीवा देहाद्देहोऽभिजायते ॥ १५ ॥
बीजादेव यथा बीजं देहान्य एव शाश्वतः ।
देहिदेहविभागोऽयं अविवेककृतः पुरा ॥ १६ ॥
नानात्वं जन्म नाशश्च क्षयो वृद्धिः क्रिया फलम् ।
द्रष्टुराभान्त्यतद्धर्मा यथाग्नेर्दारुविक्रियाः ॥ १७ ॥
ते इमे देहसंयोगात् आत्मना भान्‍त्यसद्‍ग्रहात् ।
यथा यथा तथा चान्यत् ध्यायतोऽसत्सदाग्रहात् ॥ १८ ॥
प्रसुप्तस्यानहम्भावात् तदा भाति न संसृति ।
जीवतोऽपि तथा तद्वद् विमुक्तस्यानहङ्‍कृतेः ॥ १९ ॥
तस्मान्मायामनोधर्मं जह्यहं ममताभ्रमम् ।
रामभद्रे भगवति मनो धेह्यात्मनीश्वरे ॥ २० ॥
सर्वभूतात्मनि परे मायामानुषरूपिणि ।
बाह्येन्द्रियार्थसंबन्धात् त्याजयित्वा मनः शनैः ॥ २१ ॥
तत्र दोषान्दर्शयित्वा रामानन्दे नियोजय ।
देहबुद्ध्या भवेद्‌भ्राता पिता माता सुहृत्प्रियः ॥ २२ ॥
विलक्षणं यदा देहात् जानात्यात्मानमात्मना ।
तदा कः कस्य वा बन्धुः भ्राता माता पिता सुहृत् ॥ २३ ॥
मिथ्याज्ञानवशाज्जाता दारागारादयः सदा ।
शब्दादयश्च विषया विविधाश्चैव सम्पदः ॥ २४ ॥
बलं कोशो भृत्यवर्गो राज्यं भूमिः सुतादयः ।
अज्ञानजत्वात् सर्वे ते क्षणसङ्‌गमभङ्‌गुराः ॥ २५ ॥
अथोत्तिष्ठ हृदा रामं भावयन् भक्तिभावितम् ।
अनुवर्तस्व राज्यादि भुञ्जन् प्रारब्धमन्वहम् ॥ २६ ॥
भूतं भविष्यदभजन् वर्तमानमथाचरन् ।
विहरस्व यथान्यायन् भवदोषैर्न लिप्यसे ॥ २७ ॥
आज्ञापयति रामस्त्वां यद्‌भ्रातुः साम्परायिकम् ।
तत्कुरुष्व यथाशास्त्रं रुदतीश्चापि योषितः ॥ २८ ॥
निवारय महाबुद्धे लङ्‌कां गच्छन्तु मा चिरम् ।
श्रुत्वा यथावद्वचनं लक्ष्मणस्य विभीषणः ॥ २९ ॥
त्यक्‍त्वा शोकं च मोहं च रामपार्श्वमुपागमत् ।
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥ ३० ॥
रामस्यैवानुवृत्त्यर्थं उत्तरं पर्यभाषत ।
नृशंसं अनृतं क्रूरं त्यक्तधर्मव्रतं प्रभो ॥ ३१ ॥
नार्होऽस्मि देव संस्कर्तुं परदाराभिमर्शिनम् ।
श्रुत्वा तद्वचनं प्रीतो रामो वचनमब्रवीत् ॥ ३२ ॥
मरणान्तानि वैराणि निवृतं नः प्रयोजनम् ।
क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ ३३ ॥
रामाज्ञां शिरसा धृत्वा शीघ्रमेव विभीषणः ।
सान्त्ववाक्यैर्महाबुद्धिं राज्ञीं मन्दोदरीं तदा ॥ ३४ ॥
सान्त्वयामास धर्मात्मा धर्मबुद्धिर्विभीषणः ।
त्वरयामास धर्मज्ञः संस्कारार्थं स्वबान्धवान् ॥ ३५ ॥
चित्यां निवेश्य विधिवत् पितृमेधविधानतः ।
अहिताग्नेर्यथा कार्यं रावणस्य विभीषणः ॥ ३६ ॥
तथैव सर्वमकरोत् बन्धुभिः सह मंत्रिभिः ।
ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ ३७ ॥
स्नात्वा चैवार्द्रवस्त्रेण तिलान्दर्भाभिमिश्रितान् ।
उदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् ॥ ३८ ॥
प्रदाय चोदकं तस्मै मुर्ध्ना चैनं प्रणम्य च ।
ताः स्त्रियोऽनुनयामास सान्त्वं उक्‍त्वा पुनः पुनः ॥ ३९ ॥
गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ।
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः ॥ ४० ॥
रामपार्श्वमुपागत्य तदातिष्ठत् विनीतवत् ।
रामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः ॥ ४१ ॥
हर्षं लेभे रिपून्हत्वा यथा वृत्रं शतक्रतुः ।
मातलिश्च तदा रामं परिक्रम्य आभिवन्द्य च ॥ ४२ ॥
अनुज्ञातश्च रामेण ययौ स्वर्गं विहायसा ।
ततो हृष्टमना रामो लक्ष्मणं चेदमब्रवीत् ॥ ४३ ॥
विभीषणाय मे लङ्‍का-राज्यं दत्तं पुरैव हि ।
इदानीमपि गत्वा त्वं लङ्‍कामध्ये विभीषणम् ॥ ४४ ॥
अभिषेचय विप्रैश्च मन्‍त्रवद् विधिपूर्वकम् ।
इत्युक्तो लक्ष्मणस्तूर्णं जगाम सह वानरैः ॥ ४५ ॥
लङ्‌कां सुवर्णकलशैः समुद्रजलसंयुतैः ।
अभिषेकं शुभं चक्रे राक्षसेन्द्रस्य धीमतः ॥ ४६ ॥
ततः पौरजनैः सार्धं नानोपायनपाणिभिः ।
विभीषणः ससौमित्रिः उपायनपुरस्कृतः ॥ ४७ ॥
दण्डप्रणामं अकरोद् रामस्याक्लिष्टकर्मणः ।
रामो विभीषणं दृष्ट्वा प्राप्तराज्यं मुदान्वितः ॥ ४८ ॥
कृतकृत्यमिवात्मानं अमन्यत सहानुजः ।
सुग्रीवं च समालिङ्‌ग्य रामो वाक्यमथाब्रवीत् ॥ ४९ ॥
सहायेन त्वया वीर जितो मे रावणो महान् ।
विभीषणोऽपि लङ्‌कायां अभिषिक्तो मयानघ ॥ ५० ॥
ततः प्राह हनूमन्तं पार्श्वस्थं विनयान्वितम् ।
विभीषणस्यानुमतेः गच्छ त्वं रावणालयम् ॥ ५१ ॥
जानक्यै सर्वमाख्याहि रावणस्य वधादिकम् ।
जानक्याः प्रतिवाक्यं मे शीघ्रमेव निवेदय ॥ ५२ ॥
एवमाज्ञापितो धीमान् रामेण पवनात्मजः ।
प्रविवेश पुरीं लङ्‌कां पूज्यमानो निशाचरैः ॥ ५३ ॥
प्रविश्य रावणगृहं शिंशपा-मूलमाश्रिताम् ।
ददर्श जानकीं तत्र कृशां दीनां अनिन्दिताम् ॥ ५४ ॥
राक्षसीभिः परिवृतां ध्यायन्तीं राममेव हि ।
विनयावनतो भूत्वा प्रणम्य पवनात्मजः ॥ ५५ ॥
कृताञ्जलिपुटो भूत्वा प्रह्वो भक्त्याग्रतःस्थितः ।
तं दृष्ट्वा जानकी तूष्णीं स्थित्वा पूर्वस्मृतिं ययौ ॥ ५६ ॥
ज्ञात्वा तं रामदूतं सा हर्षात्सौम्यमुखी बभौ ।
स तां सौम्यमुखीं दृष्ट्वा तस्यै पवननन्दनः ।
रामस्य भाषितं सर्वं आख्यातुमुपचक्रमे ॥ ५७ ॥
देवि रामः ससुग्रीवो विभीषणसहायवान् ।
कुशली वानराणां च सैन्यैश्च सहलक्ष्मणः ॥ ५८ ॥
रावणं ससुतं हत्वा सबलं सह मंत्रिभिः ।
त्वामाह कुशलं रामो राज्ये कृत्वा विभीषणम् ॥ ५९ ॥
श्रुत्वा भर्तुः प्रियं वाक्यं हर्षगद्‍गदया गिरी ।
किं ते प्रियं करोम्यद्य न पश्यामि जगत्‍त्रये ॥ ६० ॥
समं ते प्रियवाक्यस्य रत्‍नानि आभरणानि च ।
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्‌गमः ॥ ६१ ॥
रत्‍नौघाद्विविधाद्वापि देवराज्याद्विशिष्यते ।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थिरम् ॥ ६२ ॥
तस्य तद्वचनं श्रुत्वा मैथिली प्राह मारुतिम् ।
सर्वे सौम्या गुणाः सौम्य त्वय्येव परिनिष्ठिताः ॥ ६३ ॥
रामं द्रक्ष्यामि शीघ्रं मामाज्ञापयतु राघवः ।
तथेति तां नमस्कृत्य ययौ द्रष्टुं रघूत्तमम् ॥ ६४ ॥
जानक्या भाषितं सर्वं रामस्याग्रे न्यवेदयत् ।
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ॥ ६५ ॥
तां देवीं शोकसन्तप्तां द्रष्टुमर्हसि मैथिलीम् ।
एवमुक्तो हनुमता रामो ज्ञानवतां वरः ॥ ६६ ॥
मायासीतां परित्यक्तुं जानकीं अनले स्थिताम् ।
आदातुं मनसा ध्यात्वा रामः प्राह विभीषणम् ॥ ६७ ॥
गच्छ राजन् जनकजां आनयाशु ममान्तिकम् ।
स्नातां विरजवस्त्राढ्यां सर्वाभरणभूषिताम् ॥ ६८ ॥
विभीषणोऽपि तच्छ्रुत्वा जगाम सहमारुतिः ।
राक्षसीभिः सुवृद्धाभिः स्नापयित्वा तु मैथिलीम् ॥ ६९ ॥
सर्वाभरणसम्पन्नां आरोप्य शिबिकोत्तमे ।
याष्टीकैः बहुभिर्गुप्तां कञ्चुकोष्णीषिभिः शुभाम् ॥ ७० ॥
तां द्रष्टुमागताः सर्वे वानरा जनकात्मजाम् ।
तान्वारयन्तो बहवः सर्वतो वेत्रपाणयः ॥ ७१ ॥
कोलाहलं प्रकुर्वन्तो रामपार्श्वमुपाययुः ।
दृष्ट्वा तां शिबिकारूढां दूरादथ रघूत्तमः ॥ ७२ ॥
विभीषण किमर्थं ते वानरान् वारयन्ति हि ।
पश्यन्तु वानराः सर्वे मैथिलीं मातरं यथा ॥ ७३ ॥
पादचारेण सायातु जानकी मम सन्निधिम् ।
श्रुत्वा तद्‍रामवचनं शिबिकाद् अवरुह्य सा ॥ ७४ ॥
पादचारेण शनकैः आगता रामसन्निधिम् ।
रामोऽपि दृष्ट्वा तां माया-सीतां कार्यार्थिनिर्मिताम् ॥ ७५ ॥
अवाच्यवादन्बहुशः प्राह तां रघुनन्दनः ।
अमृष्यमाणा सा सीता वचनं राघवोदितम् ॥ ७६ ॥
लक्ष्मणं प्राह मे शीघ्रं प्रज्वालय हुताशनम् ।
विश्वासार्थं हि रामस्य लोकानां प्रत्यवाय च ॥ ७७ ॥
राघवस्य मतं ज्ञात्वा लक्ष्मणोऽपि तदैव हि ।
महाकाष्ठचयं कृत्वा ज्वालयित्वा हुताशनम् ॥ ७८ ॥
रामपार्श्वं उपागम्य तस्थौ तूष्णीमरिन्दमः ।
ततः सीता परिक्रम्य राघवं भक्तिसंयुता ॥ ७९ ॥
पश्यतां सर्वलोकानां देवराक्षसयोषिताम् ।
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ॥ ८० ॥
बद्धाञ्जलिपुटा चेदं उवाचाग्निसमीपगा ।
यथा मे हृदयं नित्यं नापसर्पति राघवात् ॥ ८१ ॥
तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ।
एवमुक्‍त्वा तदा सीता परिक्रम्य हुताशनम् ॥ ८२ ॥
विवेश ज्वलनं दीप्तं निर्भयेन हृदा सती ॥ ८३ ॥
दृष्ट्वा ततो भूतगणाः ससिद्धाः
सीतां महावह्निगतां भृशार्ताः ।
परस्परं प्राहुरहो स सीतां
रामं श्रियं स्वां कथमत्यजज्ज्ञः ॥ ८४ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे द्वादशः सर्गः ॥ १२ ॥

GO TOP