॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ प्रथमः सर्ग: ॥

॥ रामहृदयम् ॥

यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १ ॥
विश्वोद्‌भवस्थितिलयादिषु हेतुमेकं
    मायाश्रियं विगतमायमचिन्त्यमूर्तिम् ।
आनन्दसान्द्रममलं निजबोधरूपं
    सीतापतिं विदिततत्त्वमहं नमामि ॥ २ ॥
पठन्ति ये नित्यमनन्यचेतसः
    शृण्वन्ति चाध्यात्मिकसंज्ञितं शुभम् ।
रामायणं सर्वपुराणसंमतं
    निर्धूतपापा हरिमेव यान्ति ते ॥ ३ ॥
अध्यात्मरामायणमेव नित्यं
    पठेद्‌यदीच्छेद्‌भवबन्धमुक्तिम् ।
गवां सहस्रायुतकोटिदानात् फलं लभेद्यः शृणुयात्स नित्यम् ॥ ४ ॥
पुरारिगिरिसंभूता श्रीरामार्णवसङ्‌गता ।
अध्यात्मरामगङ्‌गेयं पुनाति भुवनत्रयम् ॥ ५ ॥
कैलासाग्रे कदाचिद्‍रविशतविमले मन्दिरे रत्‍नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः ।
देवी वामाङ्‌कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ॥ ६ ॥
पार्वत्युवाच
नमोऽस्तु ते देव जगन्निवास सर्वात्मदृक् त्वं परमेश्वरोऽसि ।
पृच्छामि तत्त्वं पुरुषोत्तमस्य सनातनं त्वं च सनातनोऽसि ॥ ७ ॥
गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः ।
तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८ ॥
ज्ञानं सविज्ञनमथानुभक्ति वैराग्ययुक्तं च मितं विभास्वत् ।
जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन ॥ ९ ॥
पृच्छामि चान्यच्च परं रहस्यं तदेव चाग्रे वद वारिजाक्ष ।
श्रीरामचन्द्रेऽखिललोकसारे भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १० ॥
भक्तिः प्रसिद्धा भवमोक्षणाय नान्यत्ततः साधनमस्ति किञ्चित् ।
तथापि हृत्संशयबन्धनं मे विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११ ॥
वदन्ति रामं परमेकमाद्यं निरस्तमायागुणसंप्रवाहम् ।
भजन्ति चाहर्निशमप्रमत्ताः परं पदं यान्ति तथैव सिद्धाः ॥ १२ ॥
वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसंज्ञम् ।
जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम् ॥ १३ ॥
यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण ।
जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातैः ॥ १४ ॥
अत्रोत्तरं किं विदितं भवद्‌भि- स्तद्‌ब्रूत मे संशयभेदि वाक्यम् ॥ १५ ॥
श्रीमहादेव उवाच
धन्यासि भक्तासि परात्मनस्त्वं
    यज्ज्ञातुमिच्छा तव रामतत्त्वम् ।
पुरा न केनाप्यभिचोदितोऽहं
    वक्तुं रहस्यं परमं निगूढम् ॥ १६ ॥
त्वयाद्य भक्त्या परिनोदितोऽहं
    वक्ष्ये नमस्कृत्य रघूत्तमं ते ।
रामः परात्मा प्रकृतेरनादिः
    आनन्द एकः पुरुषोत्तमो हि ॥ १७ ॥
स्वमायया कृत्स्नमिदं हि सृष्‍ट्वा
    नभोवदन्तर्बहिरास्थितो यः ।
सर्वान्तरस्थोऽपि निगूढ आत्मा
    स्वमायया सृष्टमिदं विचष्टे ॥ १८ ॥
जगन्ति नित्यं परितो भ्रमन्ति
    यत्सन्निधौ चुम्बकलोहवद्धि ।
एतन्न जानन्ति विमूढचित्ताः
    स्वाविद्यया संवृतमानसा ये ॥ १९ ॥
स्वाज्ञानमप्यात्मनि शुद्धबुद्धे
    स्वारोपयन्तीह निरस्तमाये ।
संसारमेवानुसरन्ति ते वै
    पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २० ॥
जनन्ति नैवं हृदये स्थितं वै
    चामीकरं कण्ठगतं यथाऽज्ञाः ।
यथाऽप्रकाशो न तु विद्यते रवौ
    ज्योतिःस्वभावे परमेश्वरे तथा ।
विशुद्धविज्ञानघने रघूत्तमे
    अविद्या कथं स्यात्परतः परात्मनि ॥ २१ ॥
यथा हि चाक्ष्णा भ्रमता गृहादिकं
    विनष्टदृष्टेर्भ्रमतीव दृश्यते ।
तथैव देहेन्द्रियकर्तुरात्मनः
    कृते परेऽध्यस्य जनो विमुह्यति ॥ २२ ॥
नाहो न रात्रिः सवितुर्यथा भवेत्
    प्रकाशरूपाव्यभिचारतः क्वचित् ।
ज्ञानं तथाऽज्ञानमिदं द्वयं हरौ
    रामे कथं स्थास्यति शुद्धचिद्‍घने ॥ २३ ॥
तस्मात्परानन्दमये रघूत्तमे
    विज्ञानरूपे हि न विद्यते तमः ।
अज्ञानसाक्षिण्यरविन्दलोचने
    मायाश्रयत्वान्न हि मोहकारणम् ॥ २४ ॥
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् ।
सीताराममरुत्सूनु संवादं मोक्षसाधनम् ॥ २५ ॥
पुरा रामायणे रामे रावणं देवकण्टकम् ।
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ॥ २६ ॥
सीतया सह सुग्रीव लक्ष्मणाभ्यां समन्वितः ।
अयोध्यां अगमद्‍रामो हनूमत् प्रमुखैर्वृतः ॥ २७ ॥
अभिषिक्तः परिवृतो वसिष्ठाद्यैः महात्मभिः ।
सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८ ॥
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् ।
कृतकार्यं निराकाङ्‌क्षं ज्ञानापेक्षं महामतिम् ॥ २९ ॥
रामः सीतां उवाचेदं ब्रूहि तत्त्वं हनूमते ।
निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् ॥ ३० ॥
तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् ।
हनूमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१ ॥
श्री सीता उवाच
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् ।
सर्वोपाधिविनिर्मुक्तं सत्तामात्रं अगोचरम् ॥ ३२ ॥
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् ।
सर्वव्यापिनमात्मानं स्वप्रकाशं अकल्मषम् ॥ ३३ ॥
मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् ।
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४ ॥
तत्सान्निध्यान्मया सृष्टं तस्मिन् आरोप्यतेऽबुधैः ।
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५ ॥
विश्वामित्रसहायत्वं मखसंरक्षणं ततः ।
अहल्याशापशमनं चापभङ्‌गो महेशितुः ॥ ३६ ॥
मत्पाणिग्रहणं पश्चाद् भार्गवस्य मदक्षयः ।
अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७ ॥
दण्डकारण्यगमनं विराधवध एव च ।
मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८ ॥
जटायुषो मोक्षलाभः कबन्धस्य तथैव च ।
शबर्याः पूजनं पश्चात् सुग्रीवेण समागमः ॥ ३९ ॥
वालिनश्च वधः पश्चात् सीतान्वेषणमेव च ।
सेतुबन्धश्च जलधौ लङ्‌कायाश्च निरोधनम् ॥ ४० ॥
रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः ।
विभीषणे राज्यदानं पुष्पकेण मया सह ॥ ४१ ॥
अयोध्यागमनं पश्चाद् राज्ये रामाभिषेचनम् ।
एवं आदीनि कर्माणि मयि एवाचरितान्यपि
आरोपयन्ति रामेऽस्मिन् निर्विकारेऽखिलात्मनि ॥ ४२ ॥
रामो न गच्छति न तिष्ठति नानुशोचति
आकाङ्‌क्षते त्यजति नो न करोति किञ्चित् ।
आनन्दमूर्तिरचलः परिणामहीनो
मायागुणाननुगतो हि तथा विभाति ॥ ४३ ॥
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् ।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्म परात्मनाम् ॥ ४४ ॥
आकाशस्य यथा भेदः त्रिविधो दृश्यते महान् ।
जलाशये महाकाशः तदवच्छिन्न एव हि ।
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५ ॥
बुद्धि अवच्छिन्नचैतन्यं एकं पूर्णमथापरम् ।
आभासस्तु अपरं बिम्ब भूतमेवं त्रिधा चितिः ॥ ४६ ॥
साभासबुद्धेः कर्तृत्वं अविच्छिन्ने अविकारिणि ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः ॥४७ ॥
आभासस्तु मृषा बुद्धिः अविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद्‌ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८ ॥
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।
तत्त्वमस्यादि वाक्यैश्च साभासस्य अहमस्तथा ॥ ४९ ॥
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ ५० ॥
एतद्विज्ञाय मद्‌भक्तो मद्‌भावायोपपद्यते ।
मद्‌भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात् तेषां जन्मशतैरपि ॥ ५१ ॥
इदं रहस्यं हृदयं ममात्मनो
    मयैव साक्षात् कथितं तवानघ ।
मद्‌भक्तिहीनाय शठाय न त्वया
    दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२ ॥
श्रीमहादेव उवाच
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया ।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३ ॥
साक्षाद्‍रामेण कथितं सर्ववेदान्तसंग्रहम् ।
यः पठेत् सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४ ॥
ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि ।
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५ ॥
योऽतिभ्रष्टोऽतिपापी परधनपरदा-
    रेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमाता पितृवधनिरतो
    योगिवृन्दापकारी
यः संपूज्याभिरामं पठति च हृदयं
    रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते
    सर्वदेवैः स पूज्यम् ॥ ५६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
बालकाण्डे श्रीरामहृदयं नाम प्रथमः सर्गः ॥ १ ॥

GO TOP