॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ सप्तमः सर्गः ॥

श्रीमहादेव उवाच ।

कालनेमि वचः श्रुत्वा रावाणोऽमृतसन्निभम् ।
जज्वाल क्रोधताम्राक्षः सर्पिरद्‌भिरिवाग्निमत् ॥ १ ॥
निहन्मि त्वां दुरात्मानं मच्छासनपराङ्‌मुखम् ।
परै किञ्चिद्‍गृहीत्वा त्वं भाषसे रामकिंकरः ॥ २ ॥
कालनेमिरुवाचेदं रावणं देव किं क्रुधा ।
न रोचते मे वचनं यदि गत्वा करोमि तत् ॥ ३ ॥
इत्युक्‍त्वा प्रययौ शीघ्रं कालनेमिर्महासुरः ।
नोदितो रावणेनैव हनूमद्‌विघ्नकारणात् ॥ ४ ॥
स गत्वा हिमवत्पार्श्वं तपोवनं अकल्पयत् ।
तत्र शिष्यैः परिवृतो मुनिवेषधरः खलः ॥ ५ ॥
गच्छतो मार्गमासाद्य वायुसूनोर्महात्मनः ।
ततो गत्वा ददर्शाथ हनूमानाश्रमं शुभम् ॥ ६ ॥
चिन्तयामास मनसा श्रीमान् पवननन्दनः ।
पुरा न दृष्टमेतन्मे मुनिमण्डलमुत्तमम् ॥ ७ ॥
मार्गो विभ्रंशितो वा मे भ्रमो वा चित्तसम्भवः ।
यद्वाविश्याश्रमपदं दृष्ट्वा मुनिमशेषतः ॥ ८ ॥
पीत्वा जलं ततो यामि द्रोणाचलमनुत्तमम् ।
इत्युक्‍त्वा प्रविवेशाथ सर्वतो योजनायतम् ॥ ९ ॥
आश्रमं कदलीशाल खर्जूर पनसादिभिः ।
समावृतं पक्वफलैः नम्रशाखैश्च पादपैः ॥ १० ॥
वैरभावविनिर्मुक्तं शुद्धं निर्मललक्षणम् ।
तस्मिन्महाश्रमे रम्ये कालनेमिः स राक्षसः ॥ ११ ॥
इन्द्रयोगं समास्थाय चकार शिवपूजनम् ।
हनूमानभिवाद्याह गौरवेण महासुरम् ॥ १२ ॥
भगवन् रामदूतोऽहं हनूमान्नाम नामतः ।
रामकार्येण महता क्षीराब्धिं गन्तुमुद्यतः ॥ १३ ॥
तृषा मां बाधते ब्रह्मन् उदकं कुत्र विद्यते ।
यथेच्छं पातुमिच्छामि कथ्यतां मे मुनीश्वर ॥ १४ ॥
तच्छ्रुत्वा मारुतेर्वाक्यं कालनेमिस्तमब्रवीत् ।
कमण्डलुगतं तोयं मम त्वं पातुमर्हसि ॥ १५ ॥
भुङ्‌क्ष्व चेमानि पक्वानि फलानि तदनन्तरम् ।
निवसस्व सुखेनात्र निद्रामेहि त्वरास्तु मा ॥ १६ ॥
भूतं भव्यं भविष्यं च जानामि तपसा स्वयम् ।
उत्थितो लक्ष्मणः सर्वे वानरा रामवीक्षिताः ॥ १७ ॥
तच्छ्रुत्वा हनुमानाह कमण्डलुजलेन मे ।
न शाम्यत्यधिका तृष्णा ततो दर्शय मे जलम् ॥ १८ ॥
तथेत्याज्ञापयामास बटुं मायाविकल्पितम् ।
बटो दर्शय विस्तीर्णं वायुसूनोर्जलाशयम् ॥ १९ ॥
निमील्य चाक्षिणी तोयं पीत्वागच्छ ममान्तिकम् ।
उपदेक्ष्यामि मे मंत्रं येन द्रक्ष्यसि चौषधीः ॥ २० ॥
तथेति दर्शितं शीघ्रं बटुना सलिलाशयम् ।
प्रविश्य हनुमांस्तोयं अपिबन्मिलितेक्षणः ॥ २१ ॥
ततश्चागत्य मकरी महामाया महाकपिम् ।
अग्रसत्तं महवेगान् मारुतिं घोररूपिणी ॥ २२ ॥
ततो ददर्श हनुमान् ग्रसन्तीं मकरीं रुषा ।
दारयामास हस्ताभ्यां वदनं सा ममार ह ॥ २३ ॥
ततोऽन्तरिक्षे ददृशे दिव्यरूपधराङ्‌गना ।
धान्यमालीति विख्याता हनूमन्तमथाब्रवीत् ॥ २४ ॥
त्वत्प्रसादाद् अहं शापाद् विमुक्तास्मि कपेश्वर ।
शप्ताहं मुनिना पूर्वं अप्सराः कारणान्तरे ॥ २५ ॥
आश्रमे यस्तु ते दृष्टः कालनेमिर्महासुरः ।
रावणप्रहितो मार्गे विघ्नं कर्तुं तवानघ ॥ २६ ॥
मुनिवेषधरो नासौ मुनिर्विप्रविहिंसकः ।
जहि दुष्टं गच्छ शीघ्रं द्रोणाचलमनुत्तमम् ॥ २७ ॥
गच्छाम्यहं ब्रह्मलोकं त्वत्स्पर्शात् हतकल्मषा ।
इत्युक्‍त्वा सा ययौ स्वर्गं हनूमानप्यथाश्रमम् ॥ २८ ॥
आगतं तं समालोक्य कालनेमिरभाषत ।
किं विलम्बेन महता तव वानरसत्तम ॥ २९ ॥
गृहाण मत्तो मंत्रांस्त्वं देहि मे गुरुदक्षिणाम् ।
इत्युक्तो हनुमान्मुष्टिं दृढं बद्‍ध्वाह राक्षसम् ॥ ३० ॥
गृहाण दक्षिणामेतां इत्युक्‍त्वा निजघान तम् ।
विसृज्य मुनुवेषं स कालनेमिर्महासुरः ॥ ३१ ॥
युयुधे वायुपुत्रेण नाना मायाविधानतः ।
महामायिकदूतोऽसौ हनूमान्मायिनां रिपुः ॥ ३२ ॥
जघान मुष्टिना शीर्ष्णि भग्नमूर्धा ममार सः ।
ततः क्षीरनिधिं गत्वा दृष्ट्वा द्रोणं महागिरिम् ॥ ३३ ॥
अदृष्ट्वा चौषधीस्तत्र गिरिमुत्पाट्य सत्वरः ।
गृहीत्वा वायुवेगेन गत्वा रामस्य सन्निधिम् ॥ ३४ ॥
उवाच हनुमान् रामं आनीतोऽयं महागिरिः ।
यद्युक्तं कुरु देवेश विलम्बो नात्र युज्यते ॥ ३५ ॥
श्रुत्वा हनूमतो वाक्यं रामः सन्तुष्टमानसः ।
गृहीत्वा चौषधीः शीघ्रं सुषेणेन महामतिः ॥ ३६ ॥
चिकित्सां कारयामास लक्ष्मणाय महात्मने ।
ततः सुप्तोत्थित इव बुद्‍ध्वा प्रोवाच लक्ष्मण ॥ ३७ ॥
तिष्ठ तिष्ठ क्व गन्तासि हन्मीदानीं दशानन ।
इति ब्रुवन्तमालोक्य मूर्ध्न्यवघ्राय राघवः ॥ ३८ ॥
मारुतिं प्राह वत्साद्य त्वत्प्रसादान्महाकपे ।
निरामयं प्रपश्यामि लक्ष्मणं भ्रातरं मम ॥ ३९ ॥
इत्युक्‍त्वा वानरैः सार्धं सुग्रीवेण समन्वितः ।
विभीषणमतेनैव युद्धाय समवस्थितः ॥ ४० ॥
पाषाणैः पादपैश्चैव पर्वताग्रैश्च वानराः ।
युद्धायाभिमुखा भूत्वा ययुः सर्वे युयुत्सवः ॥ ४१ ॥
रावणो विव्यथे राम बाणैर्विद्धो महासुरः ।
मातङ्‌ग इव सिंहेन गरुडेनेव पन्नगः ॥ ४२ ॥
अभिभूतोऽगमद् राजा राघवेण महात्मना ।
सिंहासने समाविश्य राक्षसान् इदमब्रवीत् ॥ ४३ ॥
मानुषेणैव मे मृत्युं माह पूर्वं पितामहः ।
मानुषो हि न मां हन्तुं शक्तोऽस्ति भुवि कश्चन ॥ ४४ ॥
ततो नारायणः साक्षात् मानुषोऽभून्न संशयः ।
रामो दाशरथिर्भूत्वा मां हन्तुं समुपस्थितः ॥ ४५ ॥
अनरण्येन यत्पूर्वं शप्तोऽहं राक्षसेश्वर ।
उत्पत्स्यते च मद्वंशे परमात्मा सनातनः ॥ ४६ ॥
तेन त्वां पुत्रपौत्रैश्च बान्धवैश्च समन्वितः ।
हनिष्यसे न सन्देह इत्युक्‍त्वा मां दिवं गतः ॥ ४७ ॥
स एव रामः संजातो मदर्थे मां हनिष्यति ।
कुम्भकर्णस्तु मूढात्मा सदा निद्रावशं गतः ॥ ४८ ॥
तं विबोध्य महासत्त्वं आनयन्तु ममान्तिकम् ।
इत्युक्तास्ते महाकायाः तूर्णं गत्वा तु यत्‍नतः ॥ ४९ ॥
विबोध्य कुम्भश्रवणं निन्यू रावणसन्निधिम् ।
नमस्कृत्य स राजानं आसनोपरि संस्थितः ॥ ५० ॥
तमाह रावणो राजा भ्रातरं दीनया गिरा ।
कुम्भकर्ण निबोध त्वं महत्कष्टमुपस्थितम् ॥ ५१ ॥
रामेण निहताः शूराः पुत्राः प्रौत्राश्च बान्धवाः ।
किं कर्तव्यमिदानीं मे मृत्युकाल उपस्थिते ॥ ५२ ॥
एष दाशरथी रामः सुग्रीवसहितो बली ।
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ ५३ ॥
ये राक्षसा मुख्यतमाः ते हता वानरैर्युधि ।
वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ ५४ ॥
नाशयस्व महाबाहो यदर्थं परिबोधितः ।
भ्रातुरर्थे महासत्त्व कुरु कर्म सुदुष्करम् ॥ ५५ ॥
श्रुत्वा तद् रावणेन्द्रस्य वचनं परिदेवितम् ।
कुम्भकर्णो जहासोच्चैः वचनं चेदमब्रवीत् ॥ ५६ ॥
पुरा मंत्रविचारे ते गदितं यन्मया नृप ।
तदद्य त्वामुपगतं फलं पापस्य कर्मणः ॥ ५७ ॥
पूर्वमेव मया प्रोक्तो रामो नारायणः परः ।
सीता च योगमायेति बोधितोऽपि न बुध्यसे ॥ ५८ ॥
एकदाहं वने सानौ विशालायां स्थितो निशि ।
दृष्टो मया मुनिः साक्षात् नारदो दिव्यदर्शनः ॥ ५९ ॥
तमब्रवं महाभाग कुतो गन्तासि मे वद ।
इत्युक्तो नारदः प्राह देवानां मंत्रणे स्थितः ॥ ६० ॥
तत्रोत्पन्नमुदन्तं ते वक्ष्यामि शृणु तत्त्वतः ।
युवाभ्यां पीडिता देवाः सर्वे विष्णुमुपागताः ॥ ६१ ॥
ऊचुस्ते देवदेवेशं स्तुत्वा भक्त्या समाहिताः ।
जहि रावणमक्षोभ्यं देव त्रैलोक्यकण्टकम् ॥ ६२ ॥
मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुरा ।
अतस्त्वं मानुषो भूत्वा जहि रावणकण्टकम् ॥ ६३ ॥
तथेत्याह महाविष्णुः सत्यसङ्‌कल्प ईश्वरः ।
जातो रघुकुले देवो राम इत्यभिविश्रुतः ॥ ६४ ॥
स हनिष्यति वः सर्वान् इत्युक्त्वा प्रययौ मुनिः ।
अतो जानीहि रामं त्वं परं ब्रह्म सनातनम् ॥ ६५ ॥
त्यज वैरं भजस्वाद्य मायामानुषविग्रहम् ।
भजतो भक्तिभावेन प्रसीदति रघूत्तमः ॥ ६६ ॥
भक्तिर्जनित्री ज्ञानस्य भक्तिर्मोक्षप्रदायिनी ।
भक्तिहीनेन यत्किञ्चित् कृतं सर्वं असत्समम् ॥ ६७ ॥
अवताराः सुबहवो विष्णोर्लीलानुकारिणः ।
तेषां सहस्रसदृशो रामो ज्ञानमयः शिवः ॥ ६८ ॥
रामं भजन्ति निपुणा मनसा वचसानिशम् ।
अनायासेन संसारं तीर्त्वा यान्ति हरेः पदम् ॥ ६९ ॥
ये राममेव सततं भुवि शुद्धसत्त्वा
ध्यायन्ति तस्य चरितानि पठन्ति सन्तः ।
मुक्तास्त एव भवभोगमहाहिपाशैः
सीतापते पदमनन्तसुखं प्रयान्ति ॥ ७० ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे सप्तमः सर्गः ॥ ७ ॥

GO TOP