॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ पंचमः सर्गः ॥
[धर्मदत्ताकडून कलहाचा उद्धार]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥


धर्मदत्त उवाच -
विलयं यांति पापानि तीर्थदानव्रतादिभिः ।
प्रेतदेहे स्थितायास्ते तेषु नैवाधिकारिता ॥ १ ॥
त्वत् ग्लानिदर्शनात् अस्मात् खिन्नं च मम मानसम् ।
नैव निर्वृत्तिमायाति त्वां अनुधृत्य दुःखिताम् ॥ २ ॥
पातकं च तवात्युग्रं योनित्रय विपाकजम् ।
नैवाल्पैअः क्षीयते पुणैः प्रेतत्वं चातिगर्हितम् ॥ ३ ॥
तस्मात् आजन्मजनितं यन्मया कार्तिकव्रतम् ।
तत्पुण्यस्यार्धभागेन सद्‍गति त्वं अवाप्नुबि ॥ ४ ॥
कार्तिकव्रतपुण्येन न साम्यं यांति सर्वथा ।
यज्ञदानानि तीर्थानि व्रतान्यपि ततो ध्रुवम् ॥ ५ ॥
मुद्‍गल उवाच -
इत्युक्त्वा धर्मदत्तोऽसौ यावत् तां अभ्यषेचयत् ।
तुलसीमिश्रतोयेन श्रावयन् द्वादक्षारम् ॥ ६ ॥
तावत् प्रेतत्व निर्मुक्त्ता ज्वलदग्निशिखोपमा ।
दिव्यरूपधरा जाता लावण्येन यथोर्वशी ॥ ७ ॥
ततः सा दंडवत् भूमौ प्रणनाम यदा द्विजम् ।
उवाच सा तदा वाक्यं हर्ष गद्‌गदभाषिणी ॥ ८ ॥
कलहोवाच -
त्वत् प्रसादात् द्विजश्रेष्ठ विमुक्ता निरयादहम् ।
पापाब्धौ मज्जमानायां त्वं नौभूतोऽसि मे ध्रुवम् ॥ ९ ॥
इत्थं सा वदती विप्रं ददर्शायांतमंबरात् ।
विमानं सुंदरम् युक्तं विष्णुरूपधरैर्गणैः ॥ १० ॥
अथ सा तत् विमानस्थैः विमाने चाधिरोपिता ।
पुण्यशीलसुशीलाद्यैः अप्सरोगणसेविता ॥ ११ ॥
तद्विमानं तदाऽपश्यत् धर्मदत्तः सविस्मयः ।
पपात दंडवत् भूमौ दृष्ट्वा तौ पुण्यरूपिणौ ॥ १२ ॥
पुण्यशीलसुशीलौ च समुत्थाप्यानतं द्विजम् ।
समभ्यनंदयन् वाणीं प्रोचतुर्धर्मसंयुताम् ॥ १३ ॥
गणावूचतूः -
साधु साधु द्विजश्रेष्ठ यस्त्वम् विष्णुरतः सदा ।
दीनानुकंपी धर्मज्ञो विष्णुव्रतपरायणाः ॥ १४ ॥
आबालत्वात् त्वया ह्येतत् यत्कृतं कार्तिकव्रतम् ।
तव तस्यार्धदानेन पुण्यं द्वैगुण्यमागतम् ॥ १५ ॥
त्वत् पुण्यसार्धभागेन यदस्याः पूर्वकर्मजम् ।
जन्मांतरशतोद्‍भूतम् पापं तद्विलयं गतम् ॥ १६ ॥
स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम् ।
हरिजागरणाद्यैश्च विमानं इदमागतम् ॥ १७ ॥
वैकुण्ठं नीयते साधो नानाभोगयुता त्वियम् ।
दीपदानभवैः पुण्यैः तैजसं रूपमाश्रिता ॥ १८ ॥
तुलसीपूजनाद्यैश्च कार्तिकव्रतकैः शुभैः ।
विष्णुसान्निध्यगा जाता त्वया दतैः कृपानिधे ॥ १९ ॥
त्वमप्यस्य भ्वस्यान्ते भार्यया सह यास्यति ।
वैकुंठभुवनं विष्णोः सान्निध्यं च सरूपताम् ॥ २० ॥
ते धन्याः कृतपुण्यास्ते तेषां च सफलो भवः ।
यः भक्त्या आराधितो विष्णु धर्मदत्त त्वया यथा ॥ २१ ॥
सम्यक् आराधितो विष्णुः किं न यच्छति देहिनाम् ।
औत्तानपादिर्येनैव ध्रुवत्वे स्थापितः पुरा ॥ २२ ॥
यन्नामस्मरणात् एव देहिनो यांति सद्‌गतिम् ।
ग्राहगृहीतो नागेंद्रो यन्नामस्मरणात् पुरा ॥ २३ ॥
विमुक्तः संनिधिं प्राप्तो जातोऽयं जयसंज्ञकः ।
ग्राहोऽयं विजयो नाम्ना श्रीविष्णोश्चिंतनादभूत् ॥ २४ ॥
यतः त्वयाऽर्चितो विष्णुः तत्सान्निध्यं प्रयास्यसि ।
बहूनि अष्टसहस्राणि भार्याद्वय युतस्य ते ॥ २५ ॥
ततः पुण्ये क्षयं प्राप्ते यदा यास्यसि भूतलम् ।
सूर्यवंशोद्‍भवो राजा विख्यातस्त्वं भविष्यति ॥ २६ ॥
नाम्ना दशरथ्स्तत्र भार्याद्वययुतः पुमान् ।
तृतीयेयं त्वया भार्या पुण्य्स्यैवार्धभागिनी ॥ २७ ॥
कलहा कैकेयी नाम्नी भविष्यति न संशयः ।
तत्रापि तव सान्निध्यं विष्णुर्दास्यति भूतले ॥ २८ ॥
आत्मानं तव पुत्रत्वं प्रकल्प्यामरकार्यकृत् ।
रामनाम्ना रावणादीन् हत्वा राज्यं करिष्यति ॥ २९ ॥
तव आजन्म व्रतात् अस्मात् विष्णुसंतुष्टिकारणात् ।
न यज्ञा न च दानानि न तीर्थानि अधिकानि वै ॥ ३० ॥
अतस्त्वग्रेऽपि धर्मस्य नित्यं विष्णुव्रते स्थितः ।
त्यक्त मात्सर्य दंभोऽपि भव त्वं समदर्शनः ॥ ३१ ॥
कारित्के माधवे माघे चैत्रे मासचतुष्टये ।
प्रत्यब्दम् त्वं धर्मदत्त प्रातःस्नायी सदा भव ॥ ३२ ॥
एकादशीव्रते तिष्ठ तुलसीवनपालकः ।
ब्राह्मणान् अपि गाश्चापि वैष्ण्वांश्च सदा भज ॥ ३३ ॥
मसूरिकाश्चारनालं वृन्ताकादीनि खाद मा ।
एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ॥ ३४ ॥
प्राप्नोति धर्मदत्त त्वं तद्‍भक्त्यैव यथा वयम् ।
पुण्यशीलसुशीलाख्यौ जयश्च विजयस्तथा ॥ ३५ ॥
धन्योऽसि विप्राग्र्य यतस्त्वयैतत्
व्रतं कृतं तुष्टिकरं जगद्‍गुरोः ।
यदर्धभागात् सफलान् मुरारेः
प्रणीयतेऽस्माभिः इयं सलोकताम् ॥ ३६ ॥
मुद्‍गल उवाच -
इत्थं तौ धर्मदत्तं तं उपदिश्य विमानगौ ।
तया कलहया सार्धं वैकुंठभुवनं गतौ ॥ ३७ ॥
धर्मदत्तोऽप्यसौ राजन् प्रत्यब्दं तद्‍व्रते स्थितः ।
देहांते परमं स्थानं भार्याभ्यां अन्वितोऽभ्यगात् ॥ ३८ ॥
बहून्यब्दसहस्राणि स्थित्वा वैकुण्ठसद्मनि ।
ततः पुण्यक्षये जाते जातोऽसि त्वं नृपो महान् ॥ ३९ ॥
त्रिभिः स्त्रीभिः दशरथ ते विष्णुः पुत्रतां गतः ।
रामोऽयं लक्ष्मणः शेषो भरतोऽब्जोऽरिशत्रुहा ॥ ४० ॥
एवं सर्वं मयाऽऽख्यातं यथा पृष्टं त्वया मम ।
धन्यस्त्वं यस्य तनयः साक्षात् नारायणोऽभवत् ॥ ४१ ॥
इत्युक्त्वा नृपतिं पूज्य विससर्ज मुनिस्तदा ।
आलिंग्य रामं सौमित्रिं मेने च कृतकृत्यताम् ॥ ४२ ॥
तदा राजा स्वसैन्येन महाहर्षसमन्वितः ।
अयोध्यां अगमत् रम्यां गोपुराट्टालमंडिताम् ॥ ४३ ॥
नृपमगतमाज्ञाय मंत्रिणः पुरवासिनः ।
पताकातोरणाद्यैश्च दिव्यचंदनसेचनैः ॥ ४४ ॥
नगरीं भूषयित्वा ते नृत्यवाद्यादिमंगलैः ।
निन्युः कुटुंबसहितं राजानं नगरीं प्रति ॥ ४५ ॥
राममागतमाज्ञाय गोपुराट्टालपंक्तिषु ।
कट्यां निधाय बालांश्च स्त्रियः स्थित्वा निजैः करैः ॥ ४६ ॥
सुवर्णकुसुमाद्यैश्च ववर्षु पुष्पवृष्टिभिः ।
काश्चित् मार्गोपति स्थित्वा कुंभदीपादिमंगलैः ॥ ४७ ॥
आर्तिक्याश्च राजानं सरामं शांतिकारकैः ।
पूजयंति स्म ताः सर्वा राजमार्गे पृथक् पृथक् ॥ ४८ ॥
एवं नानासमुत्साहैः नर्तनैः वारयोषिताम् ।
दुंदुभीनां निनादैश्च गायकानां च गायनैः ॥ ४९ ॥
सौधोद्‍भवाक्षैश्च स्त्रीमुक्तपुष्पवृष्टिभिः ।
ययौ स्वशिबिरं राजा वीज्यमानः सुचामरैः ॥ ५० ॥
ततस्तान् जनकामात्यान् वस्त्रालंकारवाहनैः ।
सत्कृत्य भोजनाद्यैश्च प्रेषयामास मैथिलम् ॥ ५१ ॥
एवं सर्वेषूत्सवेशु जनको वार्षिकेषु सः ।
विनाय मिथिलां रामं मातृभिः पार्थिवेन च ॥ ५२ ॥
उत्तरोत्तरतः पूज्य तोषयामास राघवम् ।
रामोऽपि रमयामास लीलाभिः नृपतिं तदा ॥ ५३ ॥
मासैः षड्भिः जनकजा लघ्वी श्रीराघवान् शुभा ।
लग्नात्त्वेकादशे वर्षे रजोयुक्ता बभूव ह ॥ ५४ ॥
तद्वार्तां जनकः श्रुत्वा पत्‍नीभिर्मंत्रिभिः सह ।
अयोध्यां अगमत् शीघ्रं राजा प्रत्युज्जगाम तम् ॥ ५५ ॥
परस्परं समालिंग्य साकेतमिथिलाधिपौ ।
नृत्यवाद्यसमुत्साहैः अयोध्यां विविशुः सुखम् ॥ ५६ ॥
ततो महासमुत्साहैः नानामंडपतोरणैः ।
कदलीस्तंभमालाभिः इक्षुदंडैः सुचामरैः ॥ ५७ ॥
चतुर्द्वारः मण्डपैश्च घंटाघोषैः सदर्पणैः ।
किंकिणीजालघोषैश्च वितानैर्दीपराजिभिः ॥ ५८ ॥
वसिष्ठो मुनिभिः सार्धं गर्भाधानविधिं शुभम् ।
कारयामास रामेण सीतायाश्चातिहर्षितः ॥ ५९ ॥
तदा वस्त्रैलंकारैः जनको नृपतिं मुदा ।
पूजयामास सस्त्रीकं स्नुषापुत्रसमन्वितम् ॥ ६० ॥
मासमेकं अतिक्रम्य ययौ न्स्वनगरीं सुखम् ।
रामोऽपि सीतया सार्धं नानाभोगान् सुपुष्कलान् ॥ ६१ ॥
बुभुजे हेमरत्‍नादि निर्मितेषु गृहेषु च ।
रुक्ममंडनयुक्ताभिः दासीभिः योजितः सुखम् ॥ ६२ ॥
एवं तासां नृपसुत पत्‍नीनां च पृथक् पृथक् ।
यथाकाले निधानेषु वाद्यघोषो गृहे गृहे ॥ ६४ ॥
मंगलानि च सर्वत्र न कुत्राप्यस्त्यमंगलम् ।
न दरिद्री ऋणी नासीत्नाधिव्याधिप्रपीडितः ॥ ६५ ॥
रामादिभिश्चतुर्भितैः बंधुभिः तदनंतरम् ।
पृथ्ग् गेहे भार्याभिः गार्हस्थ्यं अध्यनुष्ठितम् ॥ ६६ ॥
रामः प्रातः समुत्थाय कृतशौचादिसत्क्रियः ।
आरुह्य शिबिकां दिव्यां स्नानार्थं सरयूं नदीम् ॥ ६७ ॥
गत्वा कूले वाहनादि विसृज्य रघुनंदनः ।
गच्छन् तस्यां पावनार्थं सरय्वाः पुलिने मुदा ॥ ६८ ॥
मंत्रिभिः वेष्टितो गत्वा नत्वा तां सरयूनदीम् ।
स्नात्वा नित्यविधिं कृत्वा ब्राह्मणैः परिवारितः ॥ ६९ ॥
दत्त्वा दानानि अनेकानि गोभूधान्य रसादिभिः ।
संपूज्य सरयूं पुण्यां ब्राह्मणान् पूज्य सादरम् ॥ ७० ॥
ययौ रथं समारुह्य रुक्मबंधनबंधितम् ।
रुक्मतंतुरज्जुभिश्च सर्वतः परिवेष्टितम् ॥ ७१ ॥
पट्टकूलादिवसनैः वरैराच्छादितं शुभम् ।
वाजिवाहं सारथिना सुस्नातेन प्रचोदितम् ॥ ७२ ॥
किंकिणीवरमालाभिः घंटाभिः अतिगर्जितम् ।
रुक्मदंडधरिः दूतैग्रे दर्शित्सत्पथम् ॥ ७३ ॥
पथि निराजितः स्त्रीभिः वर्षितः पुष्पवृष्टिभिः ।
प्राप स्वीयं गृहं रामः सूर्यकोटिसमप्रभम् ॥ ७४ ॥
अवरुह्य रथाद् रामः पादयोर्धृत्य पादुके ।
विवेश सीतासंदत्त पादार्घ्याचमनो गृहम् ॥ ७५ ॥
गत्वाऽग्निहोत्रशालायां सीतयाऽसन संस्थितः ।
अग्निहोत्रादिविधिना वह्निं हुत्वा ततः परम् ॥ ७६ ॥
स्फटिकस्य च लिंगस्य कर्ममार्गं यथाविधि ।
लिकानां शिक्षणार्थाय कृत्वा पूजनमुत्तमम् ॥ ७७ ॥
जानक्यादत्त पक्वान्न नैवेद्यादि समर्प्य च ।
ब्राह्मणान् पूज्य दानादैः तोष्य लब्ध्वा तदाशिषः ॥ ७८ ॥
तुलसीं च गुरुं धेनुं अश्वत्थं मुनिपादपम् ।
पूजयित्वा रविं देवं ब्रह्मयज्ञं विधाय च ॥ ७९ ॥
गुरोर्मुखाच्च पौराणीं कथां श्रुत्वा तु सीतया ।
गुरुं पुनः प्रपूज्याअथ बंधिभिः परिवेष्टितः ॥ ८० ॥
प्रार्थितश्च मुहुः पत्‍न्या ब्राह्मणैः परिवारितः ।
नारिकेल कपित्थाम्र सुलभाजंबुदाडिमैः ॥ ८१ ॥
खर्जुरिकापनसाद्यैः पक्वान्नैः घृतपाचितैः ।
उपाहारं सुखं कृत्वा तांबूलं परिगृह्य च ॥ ८२ ॥
दिव्यवस्त्राणि संगृह्य दृष्त्वाऽऽदर्शे निजं मुखम् ।
निरीक्षितश्च वैदेह्या आरुह्य स्यंदनमुत्तमम् ॥ ८३ ॥
वेष्टितो मंत्रिदूताद्यैः तूर्यध्वनिपुरःसरम् ।
मातृगेहं ततो गत्वा तां प्रणम्यावनिं गतः ॥ ८४ ॥
सव्या प्रदक्षिणं कृत्वा गत्वा राजगृहं प्रति ।
सिंहासनस्थं राजानं नत्वा स्थित्वा तदाज्ञया ॥ ८५ ॥
पौरकार्याण्यनेकानि कृत्वा राज्ञा विसर्जितः ।
ययौ स्यंदनमास्थाय नृपं नत्वा पुनः पुनः ॥ ८६ ॥
तूर्यगीतनिनादैश्च नर्तनैर्वारयोषिताम् ।
ययौ स्वीयं गृहः रामः स्यंदनाद् अवरुह्य च ॥ ८७ ॥
भूमिजा दत्तपार्घ्या आचमनोयासनादिकम् ।
गृहित्वा तद्बहिर्गत्वा कृतं तत् तां न्यवेदयत् ॥ ८८ ॥
सर्वं वृत्तं कौतुकेन हास्यगीतादिमंगलैः ।
रमयित्वा भूमिकन्यां दिव्यवस्त्रादिभूषिताम् ॥ ८९ ॥
ततो मध्याह्नसमये सरय्वां वाऽथ सद्मनि ।
स्नात्वा माध्याह्निकं कर्म चकार रघुनंदनः ॥ ९० ॥
नित्यं यत्राकरोत्स्नानं सरयूनिर्मले जले ।
तदाख्ययाऽभवत्तीर्थं रामतीर्थं इति स्फुटम् ॥ ९१ ॥
तद्विख्यातं त्रिभुवने चैत्रमासि विशेषतः ।
माध्याह्निकं च संपाद्य ब्राह्मणः मंत्रिभिर्जनैः ॥ ९२ ॥
इष्टैः सुवर्णपात्रेषु त्रिपदासु घृतेन च ।
परिष्कृतेषु जानक्या सीतया गतिलाघवात् ॥ ९३ ॥
क्वणत्कंकणमंजीर किंकिणी नूपुरादिषु ।
नदस्तु भोजनं चक्रे राघवो हर्षपूरितः ॥ ९४ ॥
करशुद्धिं विधायाथ भुक्त्वा तांबूलमुत्तमम् ।
ततः शतपदं गत्वा निद्रां कृत्वा तु सीतया ॥ ९५ ॥
पुनर्वस्त्राणि संगृह्य लब्ध्वा शस्त्राणि सादरम् ।
धनुर्बाणौ करे धृत्वा रथे स्थित्वाऽथ बंधुभिः ॥ ९६ ॥
पुष्पारामोद्याकादीन् दृष्ट्वा तु कौतुकेन च ।
वाद्यघोषैर्नर्तनाद्यैः गत्वा स्वीयं गृहं पुन्हः ॥ ९७ ॥
सायंसंध्यादि संपाद्य पुनर्हुत्वा सविस्तरम् ।
शंभुं भक्त्या पुनः पूज्य कृत्वा चैवोपहारकम् ॥ ९८ ॥
रत्‍नकांचन माणिक्य निर्मिते मंचके वरे ।
दिव्यप्रासादमध्ये स सीतया रघुनायकः ॥ ९९ ॥
हास्यगीतविनोदाद्यैः निद्रां चक्रे ततः परम् ।
एव नानासमुत्साहैः निनायार्कसमाः सुखम् ॥ १०० ॥
एकदा राघवं राजा ज्ञात्वा मुद्‍गलवाक्यतः ।
वसिष्ठवाक्यतश्चापि चरित्रैश्चाप्यमानुषैः ॥ १ ॥
साक्षात् नारायणं विष्णुं मत्वाहूय रहः स्थितः ।
पप्रच्छ विनयेनैव हृदि भावं विधाय च ॥ २ ॥
राम नारायणस्तवं हि भूभारहरणाय च ।
मत्तो जातोऽसीति लोका वदंत्यज्ञानबुद्धयः ॥ ३ ॥
अतः पृच्छामि ते राम मायया मोहितस्तव ।
किंचित् ज्ञानोपदेशेन नाशयाज्ञानजां मतिम् ॥ ४ ॥
दारापत्यादिगेहेषु स्थिता नैवोपशाम्यति ।
तत्पितुर्वचनं श्रुत्वा राजानं राघवोऽब्रवीत् ॥ ५ ॥
श्रीराम उवाच -
श्रुणु राजन् प्रवक्ष्यामि तव ज्ञानार्थमुत्तमम् ।
श्रृणोतु मम मातेयं कौसल्याऽपि तव प्रिया ॥ ६ ॥
नश्वरं भासते चैतत्‌‍विश्वं मायोद्‌भवं नृप ।
यथा शुक्तौ रौप्यभाव्सः काचभूम्यां जलस्य च ॥ ७ ॥
यथा रज्जौ सर्पभासो मृगत्ओये जलस्पृहा ।
तद्वदात्मनि भासोऽयं कल्प्यते नश्वरोऽबुधैः ॥ ८ ॥
अज्ञानदृष्टिभिर्नित्यं मन्यते न तु पंडितैः ।
आत्मा शुद्धो निर्व्यलीकः सच्चिदानंदलक्ष्मणः ॥ ९ ॥
यस्यांशांशेन विश्वेशा ब्रह्माद्याः सकला वयम् ।
स्थित्युत्पत्तिविनाशार्थं नानारूपाणि मायया ॥ ११० ॥
धार्यंते नटवत् राजन् न तेष्वासक्त एव सः ।
यथा पद्मं न स्पृशति जलं मायां तथा मलः ॥ ११ ॥
आत्मा नित्यो न स्पृशति परमानंदविग्रहः ।
दीहागारसुतस्त्रीषु मामकेति च या मतिः ॥ १२ ॥
उपसंहृत्य बुद्ध्वा संन्यस्य ब्रह्मणि चिद्घने ।
यद्यत् किंचित् भासतेऽत्र तत्तन्नारायणात्मकम् ॥ १३ ॥
पश्य त्वं सर्वभावेन मुच्यसे भवसंकटात् ।
सत्यं शौचं दया शांति क्षमाः चेंद्रियनिग्रहः ॥ १४ ॥
अहिंसा भगवद्‌भक्ति वेदमार्गानुवर्तनम् ।
इत्याद्या ये गुणा राजन् तान् भजस्व निरंतरम् ॥ १५ ॥
चौर्यं द्यूतं विवादं च मात्सर्यं दंभमेव च ।
क्रौर्यं लोभं भयं द्रोधं शोकं निंद्यप्रवर्तनम् ॥ १६ ॥
वेदप्रियतीनां च साधूनां मानभंजनम् ।
निंदां पैशुन्यमनिशं त्यज दूरं स्वतो नृप ॥ १७ ॥
पूर्वं त्वया तपस्तप्तं पुत्रत्वं याचितं मम ।
तस्मात् जातोस्मि त्वत्त्ऽहं कौसल्यायांनृपोत्तम ॥ १८ ॥
यन्मया कथितं चैतत् अज्ञानमलनाशनम् ।
गोपनीयं प्रयत्‍नेन कथनीयं न कुत्रचित् ॥ १९ ॥
तद्‍रामवचनं श्रुत्वा गरमायामलो नृपः ।
सद्‌भावपरिपूर्णस्तु रोमांचितवपुर्धरः ॥ १२० ॥
प्रणनाम राघवस्य चरणौ दृढभावतः ।
ततो रामः पुनः प्राह पितरं निर्मलाशयम् ॥ २१ ॥
नेदं योग्यं त्वया राजन् वंदनादि शिशुं प्रति ।
मायया नरवेषस्य मम उपहासकारणम् ॥ २२ ॥
मनसैव च मा नित्यं भज भावेन सादरम् ।
मच्चित्तो मद्‍गतप्राणो मयि भक्तिं दृढां कुरु ॥ २३ ॥
इत्युक्त्वा पितरौ नत्वा गृहीत्वाज्ञां तयोः प्रभुः ।
ययौ रथसमारूढः श्रीरामः स्वनिकेतनम् ॥ २४ ॥
कदा मातुर्गृहं गत्वा सीतया भोजनं व्यवधात् ।
कदा भ्रातृगृहेष्वेव कदा पंक्तौ पितुः स्वयम् ॥ २५ ॥
कदा दशरथं तातं भोजनार्थं निजे गृहे ।
भार्यापुत्रादिभिर्युक्तं पौरैः विप्रैः समन्वितम् ॥ २६ ॥
मुदा रामः समाहूय भोजयामास सादरम् ।
श्रीरामदर्शनार्थं ते तपोवननिवासिनः ॥ २७ ॥
अयोध्यानगरीमेत्य द्वारपैरनिशेधिताः ।
शतशः प्रत्यहं रामं दृष्ट्वा स्तुत्वा पुनः पुनः ॥ २८ ॥
आतिथ्यं रघुनाथस्य गृहीत्वा तुष्टमानसाः ।
सप्तपंचदिनान्येव स्थित्वा पुण्यकथादिभिः ॥ २९ ॥
रमयित्वा रमानाथं जग्मुः स्वं स्वं वराश्रमम् ।
यत्र यत्र हि रामस्य प्रीतिं ज्ञात्वा विदेहजा ॥ १३० ॥
तत्तत् चकार साध्वी हास्यक्रीडासनादिकम् ।
विवाहानन्तरं रामः समा द्वादश सीतया ॥ ३१ ॥
रमयामास साकेते महाक्रीडापुरःसरम् ।
सहस्रवर्षैः विज्ञेयं श्रेष्ठं वर्षं कृते युगे ॥ ३२ ॥
शतवर्षश्च त्रेतायां द्वापरे दशवर्षजम् ।
कलेर्मानेन बोद्धव्यं शून्यह्रासात् त्रिविक्रमात् ॥ ३३ ॥
एवं श्रीरामचंद्रेण भोगा भुक्ताः सुरोपमाः ।
यस्मिन् ऋतौ च यद्‍द्रव्यं फलपुष्पादिकं शुभम् ॥ ३४ ॥
तत्सर्वं सर्वदैवासीत् रामे साकेतसंस्थिते ।
अनावृष्टिर्न वै कुत्र तस्कराणां भयं न हि ॥ ३५ ॥
हिंसादीनां भयं नासीत् अयोध्याविषये प्रिये ।
युधाजित् नाम कैकेयी भ्राता भरतमातुलः ॥ ३६ ॥
निनाय भरतं स्वीय - राज्ये शत्रुघ्नसंयुतम् ।
कौतुकेन नृपं पृष्ट्वा कैकेयीं प्रणिपत्य च ॥ ३७ ॥
एवं रामस्य मांगल्यं बालत्वेऽपि सुखावहम् ।
ये श्रृण्वंति नरा भक्त्या न तेषास्त्यमंगलम् ॥ ३८ ॥
एवं यथा त्वया पृष्टं तथा सर्वं मयोदितम् ।
रामेणाचरितं यच्च नृणां मांगल्यदायकम् ॥ ३९ ॥
एवं गिरींद्रजे प्रोक्तं बाललीलादि कौतुकम् ।
रामचम्द्रस्य संक्षेपात् त्व प्रीत्यै सुखावहम् ॥ १४० ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे रामदिनचर्यावर्णनं नाम पंचमः सर्गः ॥ ५ ॥


GO TOP