॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ प्रथमः सर्ग: ॥

श्रीमहादेव उवाच
अथ तत्र दिनं स्थित्वा प्रभाते रघुनन्दनः ।
स्नात्वा मुनिं समामंत्र्य प्रयाणायोपचक्रमे ॥ १ ॥
मुने गच्छामहे सर्वे मुनिमण्डलमण्डितम् ।
विपिनं दण्डकं यत्र त्वमाज्ञातुमिहार्हसि ॥ २ ॥
मार्गप्रदर्शनार्थाय शिष्यानाज्ञप्तुमर्हसि ।
श्रुत्वा रामस्य वचनं प्रहस्यात्रिर्महायशाः ।
प्राह तत्र रघुश्रेष्ठं राम राम सुराश्रय ॥ ३ ॥
सर्वस्य मार्गद्रष्टा त्वं तव को मार्गदर्शकः ।
तथापि दर्शयिष्यन्ति तव लोकानुसारिणः ॥ ४ ॥
इति शिष्यान् समादिश्य स्वयं किंचित्तमन्वगात् ।
रामेण वारितः प्रीत्या अत्रिः स्वभवनं ययौ ॥ ५ ॥
क्रोशमात्रं ततो गत्वा ददर्श महतीं नदीं ।
अत्रेः शिष्यानुवाचेदं रामो राजीवलोचनः ॥ ६ ॥
नद्याः सन्तरणे कश्चित् उपायो विद्यते न वा ।
ऊचुस्ते विद्यते नौका सुदृढा रघुनन्दन ॥ ७ ॥
तारयिष्यामहे युष्मान् वयमेव क्षणादिह ।
ततो नावि समारोप्य सीतां राघवलक्ष्मणौ ॥ ८ ॥
क्षणात् सन्तारयामासुः नदीं मुनिकुमारकाः ।
रामाभिनन्दिताः सर्वे जग्मुरत्रेरथाश्रमम् ॥ ९ ॥
तावेत्य विपिनं घोरं झिल्लीझङ्‌कारनादितम् ।
नानामृगगणाकीर्णं सिंहव्याघ्रादिभीषणम् ॥ १० ॥
राक्षसैर्घोररूपैश्च सेवितं रोमहर्षणम् ।
प्रविश्य विपिनं घोरं रामो लक्ष्मणमब्रवीत् ॥ ११ ॥
इतः परं प्रयत्‍नेन गन्तव्यं सहितेन मे ।
धनुर्गुणेन संयोज्य शरानपि करे दधत् ॥ १२ ॥
अग्रे यास्याम्यहं पश्चात् त्वमन्वेहि धनुर्धर ।
आवयोर्मध्यगा सीता मायेवात्मपरात्मनोः ॥ १३ ॥
चक्षुश्चारय सर्वत्र दृष्टं रक्षोभयं महत् ।
विद्यते दण्डकारण्ये श्रुतपूर्वमरिन्दम ॥ १४ ॥
इत्येवं भाषमाणौ तौ जग्मतुः सार्धयोजनम् ।
तत्रैका पुष्करिण्यास्ते कह्लारकुमुदोत्पलैः ॥ १५ ॥
अम्बुजैः शीतलोदेन शोभमाना व्यदृश्यत ।
तत्समीपमथो गत्वा पीत्वा तत्सलिलं शुभम् ॥ १६ ॥
ऊषुस्ते सलिलाभ्यासे क्षणं छायामुपाश्रिताः ।
ततो ददृशुरायान्तं महासत्त्वं भयानकम् ॥ १७ ॥
करालदंष्ट्रवदनं भीषयन्तं स्वगर्जितैः ।
वामांसे न्यस्तशूलाग्र ग्रथितानेकमानुषम् ॥ १८ ॥
भक्षयन्तं गजव्याघ्र महिषं वनगोचरम् ।
ज्यारोपितं धनुर्धृत्वा रामो लक्ष्मणमब्रवीत् ॥ १९ ॥
पश्य भ्रातर्महाकायो राक्षसोऽयमुपागतः ।
आयात्यभिमुखं नोऽग्रे भीरूणां भयमावहन् ॥ २० ॥
सज्जीकृतधनुस्तिष्ठ मा भैर्जनकनन्दिनि ।
इत्युक्त्वा बाणमादाय स्थितो राम इवाचलः ॥ २१ ॥
स तु दृष्ट्वा रमानाथं लक्ष्मणं जानकीं तदा ।
अट्टहासं ततः कृत्वा भीषयन् इदमब्रवीत् ॥ २२ ॥
कौ युवां बाणतूणीर जटावल्कलधारिणौ ।
मुनिवेषधरौ बालौ स्त्रीसहायौ सुदुर्मदौ ॥ २३ ॥
सुन्दरौ बत मे वक्त्र प्रविष्टकवलोपमौ ।
किमर्थं आगतौ घोरं वनं व्यालनिषेवितम् ॥ २४ ॥
श्रुत्वा रक्षोवचो रामः स्मयमान उवाच तम् ।
अहं रामस्त्वयं भ्राता लक्ष्मणो मम सम्मतः ॥ २५ ॥
एषा सीता मम प्राणवल्लभा वयमागताः ।
पितृवाक्यं पुरस्कृत्य शिक्षणार्थं भवादृशाम् ॥ २६ ॥
शृत्वा तद्‍रामवचनं अट्टहासमथाकरोत् ।
व्यादाय वक्त्रं बाहुभ्यां शूलमादाय सत्वरः ॥ २७ ॥
मां न जानासि राम त्वं विराधं लोकविश्रुतम् ।
मद्‌भयान्मुनयः सर्वे त्यक्त्वा वनमितो गताः ॥ २८ ॥
यदि जीवितुमिच्छास्ति त्यक्त्वा सीतां निरायुधौ ।
पलायत न चेच्छीघ्रं भक्षयामि युवामहम् ॥ २९ ॥
इत्युक्त्वा राक्षसः सीतां आदातुमभिदुद्रुवे ।
रामश्चिच्छेद तद्‌बाहू शरेण प्रहसन्निव ॥ ३० ॥
ततः क्रोधपरीतात्मा व्यादाय विकटं मुखम् ।
राममभ्यद्रवद्‍रामः चिच्छेद परिधावतः ॥ ३१ ॥
पदद्वयं विराधस्य तद् अद्‌भुतमिवाभवत् ॥ ३२ ॥
ततः सर्प इवास्येन ग्रसितुं राममापतत् ।
ततोऽर्धचन्द्राकारेण बाणेनास्य महच्छिरः ॥ ३३ ॥
चिच्छेद रुधिरौघेण पपात धरणीतले ।
ततः सीता समालिङ्‌ग्य प्रशशंस रघूत्तमम् ॥ ३४ ॥
ततो दुन्दुभयो नेदुः दिवि देवगणेरिताः ।
ननृतुश्चाप्सरा हृष्टा जगुर्गन्धर्वकिन्नराः ॥ ३५ ॥
विराधकायादतिसुन्दराकृतिः
विभ्राजमानो विमलाम्बरावृतः ।
प्रतप्तचामीकरचारुभूषणो
व्यदृश्यताग्रे गगने रविर्यथा ॥ ३६ ॥
प्रणम्य रामं प्रणतार्तिहारिणं
भवप्रवाहोपरमं घृणाकरम् ।
प्रणम्य भूयः प्रणनाम दण्डवत्
प्रपन्नसर्वार्तिहरं प्रसन्नधीः ॥ ३७ ॥
विराध उवाच
श्रीराम राजीवदलायताक्ष
विद्याधरोऽहं विमलप्रकाशः ।
दुर्वाससाकारणकोपमूर्तिना
शप्तः पुरा सोऽद्य विमोचितस्त्वया ॥ ३८ ॥
इतः परं त्वच्चरणारविन्दयोः
स्मृतिः सदा मेऽस्तु भवोपशान्तये ।
त्वन्नामसङ्‌कीर्तनमेव वाणी
करोतु मे कर्णपुटं त्वदीयम् ॥ ३९ ॥
कथामृतं पातु करद्वयं ते
पादारविन्दार्चनमेव कुर्यात् ।
शिरश्च ते पादयुगप्रणामं
करोतु नित्यं भवदीयमेवम् ॥ ४० ॥
नमस्तुभ्यं भगवते विशुद्धज्ञानमूर्तये ।
आत्मारामाय रामाय सीतारामाय वेधसे ॥ ४१ ॥
प्रपन्नं पाहि मां राम यास्यामि त्वदनुज्ञया ।
देवलोकं रघुश्रेष्ठ माया मां मा वृणोतु ते ॥ ४२ ॥
इति विज्ञापितस्तेन प्रसन्नो रघुनन्दनः ।
ददौ वरं तदा प्रीतो विराधाय महामतिः ॥ ४३ ॥
गच्छ विद्याधराशेष मायादोषगुणा जिताः ।
त्वया मद्दर्शनात्सद्यो मुक्तो ज्ञानवतां वरः ॥ ४४ ॥
मद्‌भक्तिदुर्लभा लोके जाता चेन्मुक्तिदा यतः ।
अतस्त्वं भक्तिसम्पन्नः परं याहि ममाज्ञया ॥ ४५ ॥
रामेण रक्षोनिधनं सुघोरं
शापात् विमुक्तिर्वरदानमेवम् ।
विद्याधरत्वं पुनरेव लब्धं
रामं गृणन्नेति नरोऽखिलार्थान् ॥ ४६ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
अरण्यकाण्डे प्रथमः सर्गः ॥ १ ॥

GO TOP