॥ श्रीमद् अध्यात्मरामायण ॥

॥ सुन्दरकाण्ड ॥

॥ द्वितीयः सर्गः ॥

श्रीमहादेव उवाच

ततो जगाम हनुमान् लङ्‌कां परमशोभनाम् ।
रात्रौ सूक्ष्मतनुर्भूत्वा बभ्राम परितः पुरीम् ॥ १ ॥
सीतान्वेषणकार्यार्थी प्रविवेश नृपालयम् ।
तत्र सर्वप्रदेशेषु विविच्य हनुमान्कपि ॥ २ ॥
नापश्यज्जानकीं स्मृत्वा ततो लङ्‌काभिभाषितम् ।
जगाम हनुमान् शीघ्रं अशोकवनिकां शुभाम् ॥ ३ ॥
सुरपादपसम्बाधां रत्‍नसोपानवापिकाम् ।
नानापक्षिमृगाकीर्णां स्वर्णप्रासादशोभिताम् ॥ ४ ॥
फलैरानम्रशाखाग्र पादपै परिवारिताम् ।
विचिन्वन् जानकीं तत्र प्रतिवृक्षं मरुत्सुतः ॥ ५ ॥
ददर्शाभ्रंलिहं तत्र चैत्यप्रासादमुत्तमम् ।
दृष्ट्वा विस्मयमापन्नो मणिस्तम्भशतान्वितम् ॥ ६ ॥
समतीत्य पुनर्गत्वा किञ्चित् दूरं स मारुतिः ।
ददर्श शिंशपावृक्षं अत्यन्तनिबिडच्छदम् ॥ ७ ॥
अदृष्टातपमाकीर्णं स्वर्णवर्णविहङ्‌गमम् ।
तन्मूले राक्षसीमध्ये स्थितां जनकनन्दिनीम् ॥ ८ ॥
ददर्श हनुमान् वीरो देवतामिव भूतले ।
एकवेणीं कृशां दीनां मलिनाम्बरधारिणीम् ॥ ९ ॥
भुमौ शयानां शोचन्तीं रामरामेति भाषिणीम् ।
त्रातारं नाधिगच्छन्तीं उपवासकृशां शुभाम् ॥ १० ॥
शाखान्तच्छदमध्यस्थो ददर्श कपिकुञ्जरः ।
कृतार्थोऽहं कृतार्थोऽहं दृष्ट्वा जनकनन्दिनीम् ॥ ११ ॥
मयैव साधितं कार्यं रामस्य परमात्मनः ।
ततः किलकिलाशब्दो बभूवान्तःपुराद्‌बहिः ॥ १२ ॥
किमेतदिति सँल्लीनो वृक्षपत्रेषु मारुतिः ।
आयान्तं रावणं तत्र स्त्रीजनैः परिवारितम् ॥ १३ ॥
दशास्यं विंशतिभुजं नीलाञ्जनचयोपमम् ।
दृष्ट्वा विस्मयमापन्नः पत्रखण्डेष्वलीयत ॥ १४ ॥
रावणो राघवेणाशु मरणं मे कथं भवेत् ।
सीतार्थमपि नायाति रामः किं कारणं भवेत् ॥ १५ ॥
इत्येवं चिन्तयन्नित्यं राममेव सदा हृदि ।
तस्मिन् दिनेऽपररात्रौ रावणो राक्षसाधिपः ॥ १६ ॥
स्वप्ने रामेण सन्दिष्टः कश्चिदागत्य वानरः ।
कामरूपधरः सूक्ष्मो वृक्षग्रस्थोऽनुपश्यति ॥ १७ ॥
इति दृष्ट्वा अद्‌भूतं स्वप्नं स्वात्मन्येवानुचिन्त्य सः ।
स्वप्नः कदाचित्सत्यः स्यात् एवं तत्र करोम्यहम् ॥ १८ ॥
जानकीं वाक् शरैर्विद्‍ध्वा दुःखितां नितरामहम् ।
करोमि दृष्ट्वा रामाय निवेदयतु वानरः ॥ १९ ॥
इत्येवं चिन्तयन्सीता समीपं अगमत् ‍द्रुतम् ।
नूपुराणां किङ्‌किणीनां शृत्वा शिञ्जितमङ्‌गना ॥ २० ॥
सीता भीता लीयमाना स्वात्मन्येव सुमध्यमा ।
अधोमुख्यश्रुनयना स्थिता रामार्पितान्तरा ॥ २१ ॥
रावणोऽपि तदा सीतां आलोक्याह सुमध्यमे ।
मां दृष्ट्वा किं वृथा सुभ्रु स्वात्मन्येव विलीयसे ॥ २२ ॥
रामो वनचराणां हि मध्ये तिष्ठति सानुजः ।
कदाचित् ‍दृश्यते कैश्चित् कदाचित् नैव दृश्यते ॥ २३ ॥
मया तु बहुधा लोकाः प्रेषितास्तस्य दर्शने ।
न पश्यन्ति प्रयत्‍नेन वीक्षमाणाः समन्ततः ॥ २४ ॥
किं करिष्यसि रामेण निःस्पृहणे सदा त्वयि ।
त्वया सदालिङ्‌गितोऽपि समीपस्थोऽपि सर्वदा ॥ २५ ॥
हृदयेऽस्य न च स्नेहः त्वयि रामस्य जायते ।
त्वत्कृतान् सर्वभोगांश्च त्वद्‍गुणानपि राघवः ॥ २६ ॥
भुञ्जानोऽपि न जानाति कृतघ्नो निर्गुणोऽधमः ।
त्वं आनीता मया साध्वी दुःखशोकसमाकुला ॥ २७ ॥
इदानीमपि नायाति भक्तिहीनः कथं व्रजेत् ।
निःसत्त्व निर्ममो मानी मुढः पण्डितमानवान् ॥ २८ ॥
नराधमं त्वद्विमुखं किं करिष्यसि भामिनि ।
त्वय्यतीव समासक्तं मां भजस्व आसुरोत्तमम् ॥ २९ ॥
देवगन्धर्वनागानां यक्षकिन्नरयोषिताम् ।
भविष्यसि नियोक्‍त्री त्वं यदि मां प्रतिपद्यसे ॥ ३० ॥
रावणस्य वचः श्रुत्वा सीतामर्षसमन्विता ।
उवाचाधोमुखी भूत्वा निधाय तृणमन्तरे ॥ ३१ ॥
राघवाद्‌बिभ्यता नूनं भिक्षुरूपं त्वया धृतम् ।
रहिते राघवाभ्यां त्वं शुनीव हविरध्वरे ॥ ३२ ॥
हतवानसि मां नीच तत्फलं प्राप्स्यसेऽचिरात् ।
यदा रामशराघात विदारितवपुर्भवान् ॥ ३३ ॥
ज्ञास्यसेऽमानुषं रामं गमिष्यसि यमान्तिकम् ।
समुद्रं शोषयित्वा वा शरैर्बद्‍ध्वाथ वारिधिम् ॥ ३४ ॥
हन्तुं त्वां समरे रामो लक्ष्मणेन समन्वितः ।
आगमिष्यति असन्देहो द्रक्ष्यसे राक्षसाधम ॥ ३५ ॥
त्वां सपुत्रं सहबलं हत्वा नेष्यति मां पुरम् ॥
श्रुत्वा रक्ष पतिः क्रुद्धो जानक्याः परुषाक्षरम् ॥ ३६ ॥
वाक्यं क्रोधसमाविष्टः खड्गमुद्यम्य सत्वरः ।
हन्तुं जनकराजस्य तनयां ताम्रलोचनः ॥ ३७ ॥
मन्दोदरी निवार्याह पतिं पतिहिते रता ।
त्यजैनां मानुषीं दीनां दुःखितां कृपणां कृशाम् ॥ ३८ ॥
देवगन्धर्वनागानां बह्व्यः सन्ती वराङ्‌गनाः ।
त्वामेव वरयन्त्युच्चैः मदमत्तविलोचनाः ॥ ३९ ॥
ततोऽब्रवीत् दशग्रीवो राक्षसीर्विकृताननाः ।
यथा मे वशगो सीता भविष्यति सकामना ।
तथा यतध्वं त्वरितं तर्जनादरणादिभिः ॥ ४० ॥
द्विमासाभ्यन्तरे सीता यदि मे वशगा भवेत् ।
तदा सर्वसुखोपेता राज्यं भोक्ष्यति सा मया ॥ ४१ ॥
यदि मास द्वयाद् ऊर्ध्वं मच्छय्यां नाभिनन्दति ।
तदा मे प्रातराशाय हत्वा कुरुत मानुषीम् ॥ ४२ ॥
इत्युक्‍त्वा प्रययौ स्त्रीभी रावणोऽन्तःपुरालयम् ।
राक्षस्यो जानकीमेत्य भीषयन्त्यः स्वतर्जनैः ॥ ४३ ॥
तत्रैका जानकीमाह यौवनं ते वृथा गतम् ।
रावणेन समासाद्य सफलं तु भविष्यति ॥ ४४ ॥
अपरा चाह कोपेन किं विलम्बेन जानकि ।
इदानीं छेद्यतामङ्‌गं विभज्य च पृथक् पृथक् ॥ ४५ ॥
अन्या तु खड्गमुद्यम्य जानकीं हन्तुमुद्यता ।
अन्या करालवदना विदार्यास्यं अभीषयत् ॥ ४६ ॥
एवं तां भीषयन्तीस्ता राक्षसीर्विकृताननाः ।
निवार्य त्रिजटा वृद्धा राक्षसी वाक्यमब्रवीत् ॥ ४७ ॥
शृणुध्वं दुष्टराक्षस्यो मद्वाक्यं वो हितं भवेत् ॥ ४८ ॥
न भीषयध्वं रुदतीं नमस्कुरुत जानकीम् ।
इदानीमेव मे स्वप्ने रामः कमललोचनः ॥ ४९ ॥
आरुह्य ऐरावतं शुभ्रं लक्ष्मणेन समागतः ।
दग्ध्वा लङ्‌कापुरीं सर्वां हत्वा रावणमाहवे ॥ ५० ॥
आरोप्य जानकीं स्वाङ्‌के स्थितो दृष्टोऽगमूर्धनि ।
रावणो गोमयह्रदे तैलाभ्यक्तो दिगम्बरः ॥ ५१ ॥
अगाहत्पुत्रपौत्रैश्च कृत्वा वदनमालिकाम् ।
विभीषणस्तु रामस्य सन्निधौ हृष्टमानसः ॥ ५२ ॥
सेवां करोति रामस्य पादयोर्भक्तिसंयुतः ।
सर्वथा रावणं रामो हत्वा सकुलमञ्जसा ॥ ५३ ॥
विभीषणाय अधिपत्यं दत्त्वा सीतां शुभाननाम् ।
अङ्‌के निधाय स्वपुरीं गमिष्यति न संशयः ॥ ५४ ॥
त्रिजटाया वचः श्रुत्वा भीतास्ता राक्षसस्त्रियः ।
तूष्णीं आसन् तत्र तत्र निद्रावशमुपागताः ॥ ५५ ॥
तर्जिता राक्षसीभिः सा सीता भीतातिविह्वला ।
त्रातारं नाधिगच्छन्ती दुःखेन परिमूर्च्छिता ॥ ५६ ॥
अश्रुभिः पूर्णनयना चिन्तयन्तीदमब्रवीत् ।
प्रभाते भक्षयिष्यन्ति राक्षस्यो मां न संशयः ।
इदानीमेव मरणं केनोपायेन मे भवेत् ॥ ५७ ॥
एवं सुदुःखेन परिप्लुता सा
विमुक्तकण्ठ रुदती चिराय ।
आलम्ब्य शाखां कृतनिश्चया मृतौ
न जानाती कश्चिदुपायनङ्‌गना ॥ ५८ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
सुन्दरकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP