॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ द्वितीयः सर्ग: ॥

श्रीमहादेव उवाच
श्रीरामवचनं श्रुत्वा परमानन्दनिर्भरः ।
मुनिः प्रोवाच सदसि सर्वेषां तत्र शृण्वताम् ॥ १ ॥
अथ वित्तेश्वरो देवः तत्र कालेन केनचित् ।
आययौ पुष्पकारूढः पितरं द्रष्टमञ्जसा ॥ २ ॥
दृष्ट्वा तं कैकसी तत्र भ्राजमानं महौजसम् ।
राक्षसी पुत्रसामीप्यं गत्वा रावणमब्रवीत् ॥ ३ ॥
पुत्र पश्य धनाध्यक्षं ज्वलन्तं स्वेन तेजसा ।
त्वमप्येवं यथा भूयाः तथा यत्‍नं कुरु प्रभो ॥ ४ ॥
तत् श्रुत्वा रावणो रोषात् प्रतिज्ञामकरोद्‍द्रुतम् ।
धनदेन समो वापि ह्याधिको वाचिरेण तु ॥ ५ ॥
भविष्याम्यम्ब मां पश्य सन्तापं त्यज सुव्रते ।
इत्युक्‍त्वा दुष्करं कर्तुं तपः स दशकन्धरः ॥ ६ ॥
अगमत्फलसिद्ध्यर्थं गोकर्णं तु सहानुजः ।
स्वं स्वं नियममास्थाय भ्रातरस्ते तपो महत् ॥ ७ ॥
आस्थिता दुष्करं घोरं सर्वलोकैकतापनम् ।
दशवर्षसहस्राणि कुम्भ्कर्णोऽकरोत्तपः ॥ ८ ॥
विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः ।
पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान् ॥ ९ ॥
दिव्यवर्षसहस्राणि तु निराहारो दशाननः ।
पूर्णे वर्षसहस्रे तु शीर्षमग्नौ जुहाव सः ।
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः ॥ १० ॥
अथ वर्षसहस्रं तु दशमे दशमं शिरः ।
छेत्तुकामस्य धर्मात्मा प्राप्तश्चाथ प्रजापतिः ।
वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत ॥ ११ ॥
वरं वरय दास्यामि यत्ते मनसि काङ्‌क्षितम् ।
दशग्रीवोऽपि तच्छ्रुत्वा प्रहृष्टेनान्तरात्मना ॥ १२ ॥
अमरत्वं वृणोमीश वरदो यदि मे भवान् ।
सुपर्णनागयक्षाणां देवतानां तथासुरैः ।
अवध्यत्वं तु मे देहि तृणभूता हि मानुषाः ॥ १३ ॥
तथास्त्विति प्रजाध्यक्षः पुनराह दशाननम् ।
अग्नौ हुतानि शीर्षाणि यानि तेऽसुरपुङ्‍गव ॥ १४ ॥
भविष्यति यथापूर्वं अक्षयाणि च सत्तम ॥ १५ ॥
एवमुक्‍त्वा ततो राम दशग्रीवं प्रजापतिः ।
विभीषणमुवाचेदं प्रणतं भक्तवत्सलः ॥ १६ ॥
विभीषण त्वया वत्स कृतं धर्मार्थमुत्तमम् ।
तपस्ततो वरं वत्स वृणीष्वाभिमतं हितम् ॥ १७ ॥
विभीषणोऽपि तं नत्वा प्राञ्जलिर्वाक्यमब्रवीत् ।
देव मे सर्वदा बुद्धिः धर्मे तिष्ठतु शाश्वती ।
मा रोचयतु अधर्मं मे बुद्धिः सर्वत्र सर्वदा ॥ १८ ॥
ततः प्रजापतिः प्रीतो विभीषणमथाब्रवीत् ।
वत्स त्वं धर्मशिलोऽसि तथैव च भविष्यसि ॥ १९ ॥
अयाचितोऽपि ते दास्ये ह्यमरत्वं विभीषण ।
कुम्भकर्णमथोवाच वरं वरय सुव्रत ॥ २० ॥
वाण्या व्याप्तोऽथ तं प्राह कुम्भकर्णः पितामहम् ।
स्वप्स्यामि देव षण्मासान् दिनमेकं तु भोजनम् ॥ २१ ॥
एवमस्त्विति तं प्राह ब्रह्मा दृष्ट्वा दिवौकसः ।
सरसवती च तद्वक्‍त्रात् निर्गता प्रययौ दिवम् ॥ २२ ॥
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः ।
अनभिप्रेतमेवास्यात् किं निर्गतमहो विधिः ॥ २३ ॥
सुमाली वरलब्धान् स्तान् ज्ञात्वा पौत्रान् निशाचरान् ।
पातालान्निर्भयः प्रायात् प्रहस्तादिभिरन्वितः ॥ २४ ॥
दशग्रीवं परिष्वज्य वचनं चेदमब्रवीत् ।
दिष्ट्या ते पुत्र संवृतो वाञ्छितो मे मनोरथः ॥ २५ ॥
यद्‌भयाच्च वयं लङ्‍कां त्यक्‍त्वा याता रसातलम् ।
तद्‍गतं नो महाबाहो महद् विष्णुकृतं भयम् ॥ २६ ॥
अस्माभिः पूर्वमुषिता लङ्‍केयं धनदेन ते ।
भ्रात्राक्रान्तामिदानीं त्वं प्रत्यानेतुमिहार्हसि ॥ २७ ॥
साम्ना वाथ बलेनापि राज्ञां बन्धुः कुतः सुहृत् ।
इत्युक्तो रावणं प्राह नार्हस्येवं प्रभाषितुम् ॥ २८ ॥
वित्तेशो गुरुरस्माकं एवं श्रुत्वा तमब्रवीत् ।
प्रहस्तः प्रश्रितं वाक्यं रावणं दशकन्धरम् ॥ २९ ॥
शृणु रावण यत्‍नेन नैवं त्वं वक्तुमर्हसि ।
नाधीता राजधर्मास्ते नीतिशास्त्रं तथैव च ॥ ३० ॥
शूराणां नहि सौभ्रात्रं शृणु मे वदतः प्रभो ।
कश्यपस्य सुता देवा राक्षसाश्च महाबलाः ॥ ३१ ॥
परस्परमयुध्यन्त त्यक्‍त्वा सौहृदमायुधैः ।
नैवेदानीन्तनं राजन् वैरं देवैरनुष्ठितम् ॥ ३२ ॥
प्रहस्तस्य वचः श्रुत्वा दशग्रीवो दुरात्मनः ।
तथेति क्रोधताम्राक्षः त्रिकूटाचलमन्वगात् ॥ ३३ ॥
दूतं प्रहस्तं सम्प्रेष्य निष्काय धनदेश्वरम् ।
लङ्‍कामाक्रम्य सचिवै राक्षसैः सुखमास्थितः ॥ ३४ ॥
धनदः पितृवाक्येन त्यक्‍त्वा लङ्‍कां महायशाः ।
गत्वा कैलासशिखरं तपसा तोषयत् शिवम् ॥ ३५ ॥
तेन सख्यमनुप्राप्य तेनैव परिपालितः ।
अलकां नगरीं तत्र निर्ममे विश्वकर्मणा ॥ ३६ ॥
दिक्पालत्वं चकारात्र शिवेन परिपालितः ।
रावणो राक्षसैः सार्धं अभिषिक्तः सहानुजैः ॥ ३७ ॥
राज्यं चकारासुराणां त्रिलोकीं बाधयन् खलः ।
भगिनीं कालखञ्जाय ददौ विकटरूपिणीम् ॥ ३८ ॥
विद्युज्जिह्वाय नाम्नासौ महामयी निशाचरः ।
ततो मया विश्वकर्मा राक्षसानां दितेः सुतः ॥ ३९ ॥
सुतां मन्दोदरीं नाम्ना ददौ लोकैकसुन्दरीम् ।
रावणाय पुनः शक्तिं अमोघां प्रीतमानसः ॥ ४० ॥
वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुताम् ।
स्वयंदत्तामुदवहत् कुम्भकर्णाय रावणः ॥ ४१ ॥
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ।
विभीषणस्य भार्यार्थे धर्मज्ञां समुदावहत् ॥ ४२ ॥
सरमां नाम सुभगां सर्वलक्षणसंयुताम् ।
ततो मन्दोदरी पुत्रं मेघनादं अजीजनत् ॥ ४३ ॥
जातमात्रस्तु यो नादं मेघवत् प्रमुमोच ह ।
ततः सर्वेऽब्रुवन्मेघनादोऽयमिति चासकृत् ॥ ४४ ॥
कुम्भकर्णस्ततः प्राह निद्रा मां बाधते प्रभो ।
ततश्च कारयामास गुहां दीर्घां सुविस्तराम् ॥ ४५ ॥
तत्र सुष्वाप मूढात्मा कुम्भकर्णो विघूर्णितः ।
निद्रिते कुम्भकर्णे तु रावणो लोकरावणः ॥ ४६ ॥
ब्राह्मणान् ऋषिमुख्यांश्च देवदानवकिन्नरान् ।
देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान् ॥ ४७ ॥
धनदोऽपि ततः श्रुत्वा रावणस्याक्रमं प्रभुः ।
अधर्मं मा कुरुष्वेति दूतवाक्यैर्न्यवारयत् ॥ ४८ ॥
ततः क्रुद्धो दशग्रीवो जगाम धनदालयम् ।
विनिर्जित्य धनाध्यक्षं जहारोत्तमपुष्पकम् ॥ ४९ ॥
ततो यमं च वरुणं निर्जित्य समरेऽसुरः ।
स्वर्गलोकमगात्तुर्णं देवराजजिघांसया ॥ ५० ॥
ततोऽभवन्महद्युद्धं इन्द्रेण सह दैवतैः ।
ततो रावणमभ्येत्य बबन्ध त्रिदशेश्वरः ॥ ५१ ॥
तच्छ्रुत्वा सहसागत्य मेघनादः प्रतापवन् ।
कृत्वा घोरं महद्युद्धं जित्वा त्रिदशपुङ्‍गवान् ॥ ५२ ॥
इन्द्रं गृहीत्वा बध्वासौ मेघनादो महाबलः ।
मोचयित्वा तु पितरं गृहीत्वेन्द्रं ययौ पुरम् ॥ ५३ ॥
ब्रह्मा तु मोचयामास देवेन्द्रं मेघनादतः ।
दत्त्वा वरान् बहून् तस्मै ब्रह्मा स्वभवनं ययौ ॥ ५४ ॥
रावणो विजयी लोकान् सर्वान् जित्वाक्रमेण तु ।
कैलासं तोलयामास बाहुभिः परिघोपमैः ॥ ५५ ॥
तत्र नन्दीश्वरेणैवं शप्तोऽयं राक्षसेश्वरः ।
वानरैर्मानुषैश्चैव नाशं गच्छेति कोपिना ॥ ५६ ॥
शप्तोऽप्यगणयन् वाक्यं ययौ हैहयपत्तनम् ।
तेन बद्धो दशग्रीवः पुलस्त्येन विमोचितः ॥ ५७ ॥
ततोऽतिबलमासाद्य जिघांसुर्हरिपुङ्‍गवम् ।
धृतस्तेनैव कक्षेण वालिना दशकन्धरः ॥ ५८ ॥
भ्रामयित्वा तु चतुरः समुद्रान् रावणं हरिः ।
विसर्जयामास ततः तेन सख्यं चकार सः ॥ ५९ ॥
रावणः परमप्रीत एवं लोकान्महाबलः ।
चकार स्ववशे राम बुभुजे स्वयमेव तान् ॥ ६० ॥
एवं प्रभावो राजेन्द्र दशग्रीवः सहेन्द्रजित् ।
त्वया विनिहितं सङ्‍ख्ये रावणो लोकरावणः ॥ ६१ ॥
मेघनादश्च निहतो लक्ष्मणेन महात्मना ।
कुम्भकर्णश्च निहतः त्वया पर्वतसन्निभः ॥ ६२ ॥
भवान् नारायणः साक्षात् जगतां आदिकृद्विभुः ।
त्वत्स्वरूपमिदं सर्वं जगत्स्थावरजँ‍गमम् ॥ ६३ ॥
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः ।
अग्निस्ते मुखतो जातो वाचा सह रघुत्तम ॥ ६४ ॥
बाहुभ्यां लोकपालौघाः चक्षुर्भ्यां चन्द्रभास्करौ ।
दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः ॥ ६५ ॥
घ्राणात्प्राणः समुत्पन्नश्च अश्विनौ देवसत्तमौ ।
जङ्‍घाजानूरुजघनाद् ‌भुवर्लोकादयोऽभवन् ॥ ६६ ॥
कुक्षिदेशात् समुत्पन्नाः चत्वारः सागरा हरे ।
स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः ॥ ६७ ॥
मेढ्राद्यमो गुदान्मृत्युः मन्यो रुद्रस्त्रिलोचनः ।
अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः ॥ ६८ ॥
ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः ।
त्वं विश्वरूपः पुरुषो मायशक्तिसमन्वितः ॥ ६९ ॥
नानारूप इवाभासि गुणव्यतिकरे सति ।
त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे ॥ ७० ॥
त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्‍गमम् ।
त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्‍गमाः ॥ ७१ ॥
त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव ।
क्षीरमध्यगतं सर्पिः यथा व्याप्याखिलं पयः ॥ ७२ ॥
त्वद्‌भासा भासतेऽर्कादि न त्वं तेनावभाससे ।
सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत् ॥ ७३ ॥
नाज्ञानचक्षुस्त्वां पश्येत् अन्धदृग् भास्करं यथा ।
योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम् ॥ ७४ ॥
अतन्निरसनमुखैः वेदशीर्षैरहर्निशम् ।
त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः ॥ ७५ ॥
विचिन्वतो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा ।
मया प्रलपितं किञ्चित् सर्वज्ञस्य तवाग्रतः ।
क्षन्तुमर्हसि देवेश तवानुग्रहभागहम् ॥ ७६ ॥
दिग्देशकालपरिहीनमनन्यमेकं
चिन्मात्रमक्षरमजं चलनादिहीनम् ।
सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त-
मायं भजे रघुपतिं भजतामभिन्नम् ॥ ७७ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे द्वितीयः सर्गः ॥ २ ॥

GO TOP