॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ चतुर्दशः सर्गः ॥

श्रीमहादेव उवाच

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः ।
अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् ॥ १ ॥
त्रिकूटशिखराग्रस्थां पश्य लङ्‌कां महाप्रभाम् ।
एतां रणभुवं पश्य मांसकर्दम पङ्‌किलाम् ॥ २ ॥
असुराणां प्लवङ्‌गानां अत्र वैशसनं महत् ।
अत्र मे निहतः शेते रावणो राक्षसेश्वरः ॥ ३ ॥
कुम्भकर्णेन्द्रजिन्मुख्याः सर्वे चात्र निपातिताः ।
एष सेतुर्मया बद्धः सागरे सलिलाशये ॥ ४ ॥
एतच्च दृश्यते तीर्थं सागरस्य महात्मनः ।
सेतुबन्धमिति ख्यातं त्रैलोक्येन च पूजितम् ॥ ५ ॥
एतत्पवित्रं परमं दर्शनात्पातकापहम् ।
अत्र रामेश्वरो देवो मया शम्भुः प्रतिष्ठितः ॥ ६ ॥
अत्र मां शरणं प्राप्तो मन्‍त्रिभिश्च विभीषणः ।
एषा सुग्रीवनगरी किष्किन्धा चित्रकानना ॥ ७ ॥
तत्र रामाज्ञया तारा-प्रमुखा हरियोषितः ।
आनयामास सुग्रीवः सीतायाः प्रियकाम्यया ॥ ८ ॥
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।
प्राह चाद्रिमृष्यमूकं पश्य वाल्यत्र मे हतः ॥ ९ ॥
एषा पञ्चवटी नाम राक्षसा यत्र मे हताः ।
अगस्तस्य सुतीक्ष्णस्य पश्याश्रमपदे शुभे ॥ १० ॥
एते ते तापसाः सर्वे दृश्यन्ते वरवर्णिनि ।
असौ शैलवरो देवि चित्रकूटः प्रकाशते ॥ ११ ॥
अत्र मां कैकयीपुत्रः प्रसादयितुमागतः ।
भरद्वाजाश्रमं पश्य दृश्यते यमुनातटे ॥ १२ ॥
एषा भागीरथी गङ्‌गा दृश्यते लोकपावनी ।
एषा सा दृश्यते सीते सरयूर्यूपमालिनी ॥ १३ ॥
एषा सा दृश्यतेऽयोध्या प्रणामं कुरु भामिनी ।
एवं क्रमेण संप्राप्तो भरद्वाजाश्रमं हरिः ॥ १४ ॥
पूर्णे चतुर्दशे वर्षे पञ्चम्यां रघुनन्दनः ।
भरद्वाजं मुनिं दृष्ट्वा ववन्दे सानुजः प्रभुः ॥ १५ ॥
पप्रच्छ मुनिमासीनं विनयेन रघूत्तमः ।
श्रुणोषि कच्चिद्‌भरतः कुशल्यास्ते सहानुजः ॥ १६ ॥
सुभिक्षा वर्ततेऽयोध्या जीवन्ति च हि मातरः ।
श्रुत्वा रामस्य वचनं भरद्वाजः प्रहृष्टधीः ॥ १७ ॥
प्राह सर्वे कुशलिनो भरतस्तु महामनाः ।
फलमूलकृताहारो जटावल्कलधारकः ॥ १८ ॥
पादुके सकलं न्यस्य राज्यं त्वां सुप्रतीक्षते ।
यद्यत्कृतं त्वया कर्म दण्डके रघुनन्दन ॥ १९ ॥
राक्षसानां विनाशं च सीताहरणपूर्वकम् ।
सर्वं ज्ञातं मया राम तपसा ते प्रसादतः ॥ २० ॥
त्वं ब्रह्म परमं साक्षात् आदिमध्यान्तवर्जितः ।
त्वमग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत् ॥ २१ ॥
नारायणोऽसि विश्वात्मन् नराणां अन्तरात्मकः ।
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः ॥ २२ ॥
अतस्त्वं जगतामीशः सर्वलोकनमस्कृतः ।
त्वं विष्णुर्जानकीलक्ष्मीः शेषोऽयं लक्ष्मणाभिधः ॥ २३ ॥
आत्मना सृजसीदं त्वं आत्मन्येवात्ममायया ।
न सज्जसे नभोवत्त्वं चिच्छक्त्या सर्वसाक्षिकः ॥ २४ ॥
बहिरन्तश्च भूतानां त्वमेव रघुनन्दन ।
पूर्णोऽपि मूढदृष्टीनां विच्छिन्न इव लक्ष्यसे ॥ २५ ॥
जगत्त्वं जगदाधारः त्वमेव परिपालकः ।
त्वमेव सर्वभूतानां भोक्ता भोज्यं जगत्पते ॥ २६ ॥
दृश्यते श्रूयते यद्यत् स्मर्यते वा रघूत्तम ।
त्वमेव सर्वमखिलं त्वद्विनान्यन्न किञ्चन ॥ २७ ॥
माया सृजति लोकांश्च स्वगुणैरहमादिभिः ।
त्वच्छक्तिप्रेरिता राम तस्मात्त्वय्युपचर्यते ॥ २८ ॥
यथा चुम्बकसान्निध्यात् चलन्त्येवायसादयः ।
जडास्तथा त्वया दृष्टा माया सृजति वै जगत् ॥ २९ ॥
देहद्वयं अदेहस्य तव विश्वं रिरक्षिषोः ।
विराट् स्थूलं शरीरं ते सूत्रं सूक्ष्मं उदाहृतम् ॥ ३० ॥
विराजः सम्भवन्त्येते अवताराः सहस्रशः ।
कार्यान्ते प्रविशन्त्येव विराजं रघुनन्दन ॥ ३१ ॥
अवतारकथां लोके ये गायन्ति गृणन्ति च ।
अनन्यमनसो मुक्तिः तेषामेव रघूत्तम ॥ ३२ ॥
त्वं ब्रह्मणापुरा भूमेः भारहाराय राघव ।
प्रार्थितस्तपसा तुष्टः त्वं जातोऽसि रघोः कुले ॥ ३३ ॥
देवकार्यमशेषेण कृतं ते राम दुष्करम् ।
बहुवर्षसहस्राणि मानुषं देहमाश्रितः ॥ ३४ ॥
कुर्वन् दुष्करकर्माणि लोकद्वयहिताय च ।
पापहारीणि भुवनं यशसा पूरयिष्यसि ॥ ३५ ॥
प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम् ।
स्थित्वाद्य भुक्‍त्वा सबलः श्वो गमिष्यसि पत्तनम् ॥ ३६ ॥
तथेति राघवोऽतिष्ठत् तस्मिन् आश्रम उत्तमे ।
ससैन्यः पूजितस्तेन सीतया लक्ष्मणेन च ॥ ३७ ॥
ततो रामश्चिन्तयित्वा मुहूर्तं प्राह मारुतिम् ।
इतो गच्छ हनूमन् त्वं अयोध्यां प्रति सत्वरः ॥ ३८ ॥
जानीहि कुशली कश्चित् जनो नृपतिमंदिरे ।
शृङ्‌गवेरपुरं गत्वा ब्रूहि मित्रं गुहं मम ॥ ३९ ॥
जानकीलक्ष्मणोपेतं आगतं मां निवेदय ।
नन्दिग्रामं ततो गत्वा भ्रातरं भरतं मम ॥ ४० ॥
दृष्ट्वा ब्रूहि सभार्यस्य सभ्रातुः कुशलं मम ।
सीतापहरणादीनि रावणस्य वधादिकम् ॥ ४१ ॥
ब्रूहि क्रमेण मे भ्रातुः सर्वं तत्र विचेष्टितम् ।
हत्वा शत्रुगणान् सर्वान् सभार्यः सहलक्ष्मणः ॥ ४२ ॥
उपयाति समृद्धार्थः सह ऋक्षहरीश्वरैः ।
इत्युक्‍त्वा तत्र वृत्तान्तं भरतस्य विचेष्टितम् ॥ ४३ ॥
सर्वं ज्ञात्वा पुनः शीघ्रं आगच्छ मम सन्निधिम् ।
तथेति हनुमांस्तत्र मानुषं वपुरास्थितः ॥ ४४ ॥
नन्दिग्रामं ययौ तूर्णं वायुवेगेन मारुतिः ।
गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् ॥ ४५ ॥
शृङ्‌गवेरपुरं प्राप्य गुहमासाद्य मारुतिः ।
उवाचा मधुरं वाक्यं प्रहृष्टेनान्तरात्मना ॥ ४६ ॥
रामो दाशरथिः श्रीमान् सखा ते सह सीतया ।
सलक्ष्मणस्त्वां धर्मात्मा क्षेमी कुशलमब्रवीत् ॥ ४७ ॥
अनुज्ञातोऽद्य मुनिना भरद्वाजेन राघवः ।
आगमिष्यति तं देवं द्रक्ष्यसि त्वं रघुत्तमम् ॥ ४८ ॥
एवमुक्‍त्वा महातेजाः संप्रहृष्टतनूरुहम् ।
उत्पपात महावेगो वायुवेगेन मारुतिः ॥ ४९ ॥
सोऽपश्यद्‍रामतीर्थं च सरयूं च महानदीम् ।
तां अतिक्रम्य हनूमान् नन्दिग्रामं ययौ मुदा ॥ ५० ॥
क्रोशमात्रे त्वयोध्यायाः चीरकृष्णाजिनाम्बरम् ।
ददर्श भरतं दीनं कृशं आश्रमवासिनम् ॥ ५१ ॥
मलपङ्‌कविदिग्धाङ्‌गं जटिलं वल्कलाम्बरम् ।
फलमूलकृताहारं रामचिन्तापरायणम् ॥ ५२ ॥
पादुके ते पुरस्कृत्य शासयन्तं वसुंधराम् ।
मन्‍त्रिभिः पौरमुख्यैश्च काषायाम्बरधारिभिः ॥ ५३ ॥
वृतदेहं मूर्तिमन्तं साक्षाद्धर्मं इव स्थितम् ।
उवाच प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः ॥ ५४ ॥
यं त्वं चिन्तयसे रामं तापसं दण्डके स्थितम् ।
अनुशोचसि काकुत्स्थः स त्वां कुशलमब्रवीत् ॥ ५५ ॥
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् ।
अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्‌गतः ॥ ५६ ॥
समरे रावणं हत्वा रामः सीतामवाप्य च ।
उपयाति समृद्धार्थः ससीतः सहलक्ष्मणः ॥ ५७ ॥
एवमुक्तो महातेजा भरतो हर्षमूर्च्छितः ।
पपात भुवि चास्वस्थः कैकयीप्रियनन्दनः ॥ ५८ ॥
आलिङ्‌ग्य भरतः शीघ्रं मारुतिं प्रियवादिनम् ।
आनन्दजैरश्रुजलैः सिषेच भरतः कपिम् ॥ ५९ ॥
देवो वा मानुषो वा त्वं अनुक्रोशादिहागतः ।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥ ६० ॥
गवां शतसहस्रं च ग्रामाणां च शतं वरम् ।
सर्वाभरणसम्पन्ना मुग्धाः कन्यास्तु षोडश ॥ ६१ ॥
एवमुक्‍त्वा पुनः प्राह भरतो मारुतात्मजम् ।
बहूनीमानि वर्षाणि गतस्य सुमहद्वनम् ॥ ६२ ॥
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ।
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे ॥ ६३ ॥
एति जीवन्तमानन्दो नरं वर्षशतादपि ।
राघवस्य हरीणां च कथमासीत्समागमः ॥ ६४ ॥
तत्त्वमाख्याहि भद्रं ते विश्वसेयं वचस्तव ।
एवमुक्तोऽथ हनुमान् भरतेन महात्मना ॥ ६५ ॥
आचचक्षेऽथ रामस्य चरितं कृत्स्नशःक्रमात् ।
श्रुत्वा तु परमानन्दं भरतो मारुतात्मजात् ॥ ६६ ॥
आज्ञापयच्छत्रुहणं मुदा युक्तं मुदान्वितः ।
दैवतानि च यावन्ति नगरे रघुनन्दन ॥ ६७ ॥
नानोपहारबलिभिः पूजयन्तु महाधियः ।
सूता वैतालिकाश्चैव बन्दिनः स्तुतिपाठकाः ॥ ६८ ॥
वारमुख्याश्च शतशो निर्यान्त्वद्यैव सङ्‌घशः ।
राजदारास्तथामात्याः सेना हस्त्यश्वपत्तयः ॥ ६९ ॥
ब्राह्मणाश्च तथा पौरा राजानो ये समागताः ।
निर्यान्तु राघवस्याद्य द्रष्टुं शशिनिभाननम् ॥ ७० ॥
भरतस्य वचः श्रुत्वा शत्रुघ्नपरिचोदिताः ।
अलञ्चक्रुश्च नगरीं मुक्तारत्‍नमयोज्ज्वलैः ॥ ७१ ॥
तोरणैश्च पताकाभिः विचित्राभिः अनेकधा ।
अलङ्‌कुर्वन्ति वेश्मानि नानाबलिविचक्षणाः ॥ ७२ ॥
निर्यान्ति वृन्दशः सर्वे रामदर्शनलालसाः ।
हयानां शतसाहस्रं गजानामयुतं तथा ॥ ७३ ॥
रथानां दशसाहस्रं स्वर्णसूत्रविभूषितम् ।
पारमेष्ठिन्युपादाय द्रव्याण्युच्चावचानि च । ॥ ७४ ॥
ततस्तु शिबिकारूढा निर्ययू राजयोषितः ।
भरतः पादुके न्यस्य शिरस्येव कृताञ्जलिः ॥ ७५ ॥
शत्रुघ्नसहितो रामं पादचारेण निर्ययौ ।
तदैव दृश्यते दूराद् विमानं चन्द्रसन्निभम् ॥ ७६ ॥
पुष्पकं सूर्यसङ्‌काशं मनसा ब्रह्मनिर्मितम् ।
एतस्मिन् भ्रातरौ वीरौ वैदेह्या रामलक्ष्मणौ ॥ ७७ ॥
सुग्रीवश्च कपिश्रेष्ठो मन्‍त्रिभिश्च विभीषणः ।
दृश्यते पश्यत जना एत्याह पवनात्मजः ॥ ७८ ॥
ततो हर्षसमुद्‌भूतो निःस्वनो दिवमस्पृशत् ।
स्त्री-बाल-युव-वृद्धानां रामोऽयमिति कीर्तनात् ॥ ७९ ॥
रथकुञ्जरवादिस्था अवतीर्य महीं गताः ।
ददृशुस्ते विमानस्थं जनाः सोमं इवाम्बरे ॥ ८० ॥
प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।
ततो विमानाग्रगतं भरतो राघवं मुदा ॥ ८१ ॥
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् ।
ततो रामाभ्यनुज्ञातं विमानं अपतद्‌भुवि ॥ ८२ ॥
आरोपिता विमानं तद् भरतः सानुजस्तदा ।
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ८३ ॥
समुत्थाय चिराद्‍दृष्टं भरतं रघुनन्दनः ।
भ्रातरं स्वाङ्‌कमारोप्य मुदा तं परिषस्वजे ॥ ८४ ॥
ततो लक्ष्मणमासाद्य वैदेहीं नाम कीर्तयन् ।
अभ्यवादयत प्रीतो भरतः प्रेमविह्वलः ॥ ८५ ॥
सुग्रीवं जाम्बवन्तं च युवराजं तथाङ्‌गदम् ।
मैन्द द्विविद नीलांश्च ऋषभं चैव सस्वजे ॥ ८६ ॥
सुषेणं च नलं चैव गवाक्षं गन्धमादनम् ।
शरभं पनसं चैव भरतः परिषस्वजे ॥ ८७ ॥
सर्वे ते मानुषं रूपं कृत्वा भरतमादृताः ।
पप्रच्छुः कुशलं सौम्याः प्रहृष्टाश्च प्लवङ्‌गमाः ॥ ८८ ॥
ततः सुग्रीवमालिङ्‌ग्य भरतः प्राह भक्तितः ।
त्वत्सहायेन रामस्य जयोऽभूद् रावणो हतः ॥ ८९ ॥
त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः ।
शत्रुघ्नश्च तदा रामं अभिवाद्य सलक्ष्मणम् ॥ ९० ॥
सीतायाश्चरणौ पश्चात् ववन्दे विनयान्वितः ।
रामो मातरमासाद्य विवर्णां शोकविह्वलाम् ॥ ९१ ॥
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ।
कैकेयीं च सुमित्रां च ननामेतरमातरौ ॥ ९२ ॥
भरतः पादुके ते तु राघवस्य सुपूजिते ।
योजयामास रामस्य पादयोः भक्तिसंयुतः ॥ ९३ ॥
राज्यं एतन् न्यासभूतं मया निर्यातितं तव ।
अद्य मे सफलं जन्म फलितो मे मनोरथः ॥ ९४ ॥
यत्पश्यामि समायातं अयोध्यां त्वामहं प्रभो ।
कोष्ठागारं बलं कोशं कृतं दशगुणं मया ॥ ९५ ॥
त्वत्तेजसा जगन्नाथ पालयस्व पुरं स्वकम् ।
इति ब्रुवाणं भरतं दृष्ट्वा सर्वे कपीश्वराः ॥ ९६ ॥
मुमुचुर्नेत्रजं तोयं प्रशशंसुः मुदान्विताः ।
ततो रामः प्रहृष्टात्मा भरतं स्वाङ्‌कगं मुदा ॥ ९७ ॥
ययौ तेन विमानेन भरतस्याश्रमं तदा ।
अवरुह्य तदा रामो विमानाग्र्यान् महीतलम् ॥ ९८ ॥
अब्रवीत्पुष्पकं देवो गच्छ वैश्रवणं वह ।
अनुगच्छानुजानामि कुबेरं धनपालकम् ॥ ९९ ॥
रामो वसिष्ठस्य गुरोः पदाम्बुजं
नत्वा यथा देवगुरोः शतक्रतुः ।
दत्त्वा महार्हासनमुत्तमं गुरो -
रूपा विवेशाथ गुरोः समीपतः ॥ १०० ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे चतुर्दशः सर्गः ॥ १४ ॥

GO TOP