॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ तृतीयः सर्ग: ॥

ततो दशरथो राजा रामाभ्युदयकारणात् ।
आदिश्य मंत्रिप्रकृतीः सानन्दो गृहमाविशत् ॥ १ ॥
तत्रादृष्ट्वा प्रियां राजा किमेतदिति विह्वलः ।
या पुरा मन्दिरं तस्याः प्रविष्टे मयि शोभना ॥ २ ॥
हसन्ती मामुपायाति सा किं नैवाद्य दृश्यते ।
इत्यात्मन्येव संचिन्त्य मनसातिविदूयता ॥ ३ ॥
पप्रच्छ दासीनिकरं कुतो वः स्वामिनी शुभा ।
नायाति मां यथापूर्वं मत्प्रिया प्रियदर्शना ॥ ४ ॥
ता ऊचुः क्रोधभवनं प्रविष्टा नैव विद्महे ।
कारणं तत्र देव त्वं गच्छ निश्चेतुमर्हसि ॥ ५ ॥
इत्युक्तो भयसंत्रस्तो राजा तस्याः समीपगः ।
उपविश्य शनैर्देहं स्पृशन्वै पाणिनाब्रवीत् ॥ ६ ॥
किं शेषे वसुधापृष्ठे पर्यङ्‌कादीन् विहाय च ।
मां त्वं खेदयसे भीरु यतो मां नावभाषसे ॥ ७ ॥
अलङ्‌कारं परित्यज्य भूमौ मलिनवाससा ।
किमर्थं ब्रूहि सकलं विधास्ये तव वाञ्छितम् ॥ ८ ॥
को वा तव अहितं कर्ता, नारी वा पुरुषोऽपि वा ।
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः ॥ ९ ॥
ब्रूहि देवि यथा प्रीतिः तद्-अवश्यं ममाग्रतः ।
तदिदानीं साधयिष्ये सुदुर्लभं अपि क्षणात् ॥ १० ॥
जानासि त्वं मम स्वान्तं प्रियं मां स्ववशे स्थितम् ।
तथापि मां खेदयसे वृथा तव परिश्रमः ॥ ११ ॥
ब्रूहि किं धनिनं कुर्यां दरिद्रं ते प्रियङ्‌करम् ।
धनिनं क्षणमात्रेण निर्धनं च तवाहितम् ॥ १२ ॥
ब्रूहि किं वा वधिष्यामि वधार्हो वा विमोक्ष्यसे ।
किमत्र बहुनोक्तेन प्राणान् दास्यामि ते प्रिये ॥ १३ ॥
मम प्राणात् प्रियतरो रामो राजीवलोचनः ।
तस्योपरि शपे ब्रूहि त्वद् हितं तत्करोम्यहम् ॥ १४ ॥
इति ब्रुवाणं राजानं शपन्तं राघवोपरि ।
शनैर्विमृज्य नेत्रे सा राजानं प्रत्यभाषत ॥ १५ ॥
यदि सत्यप्रतिज्ञोऽसि शपथं कुरुषे यदि ।
याञ्चां मे सफलां कर्तुं शीघ्रमेव त्वमर्हसि ॥ १६ ॥
पूर्वं देवासुरे युद्धे मया त्वं परिरक्षितः ।
तदा वरद्वयं दत्तं त्वया मे तुष्टचेतसा ॥ १७ ॥
तद्द्वयं न्यासभूतं मे स्थापितं त्वयि सुव्रत ।
तत्रैकेन वरेणाशु भरतं मे प्रियं सुतम् ॥ १८ ॥
एभिः संभृतसंभारैः यौवराज्येऽभिषेचय ।
अपरेण वरेणाशु रामो गच्छतु दण्डकान् ॥ १९ ॥
मुनिवेषधरः श्रीमान् जटावल्कलभूषणः ।
चतुर्दश समास्तत्र कन्दमूलफलाशनः ॥ २० ॥
पुनरायातु तस्यान्ते वने वा तिष्ठतु स्वयम् ।
प्रभाते गच्छतु वनं रामो राजीवलोचनः ॥ २१ ॥
यदि किञ्चिद् विलम्बेत प्राणान् त्यक्ष्ये तवाग्रतः ।
भव सत्यप्रतिज्ञस्त्वं एतदेव मम प्रियम् ॥ २२ ॥
श्रुत्वैतद्दारुणं वाक्यं कैकेय्या रोमहर्षणम् ।
निपपात महीपालो वज्राहत इवाचलः ॥ २३ ॥
शनैरुन्मील्य नयने विमृज्य परया भिया ।
दुःस्वप्नो वा मया दृष्टोहि अथवा चित्तविभ्रमः ॥ २४ ॥
इत्यालोक्य पुरः पत्‍नीं व्याघ्रीमिव पुरः स्थितम् ।
किमिदं भाषसे भद्रे मम प्राणहरं वचः ॥ २५ ॥
रामः कं अपराधं ते कृतवान् कमलेक्षणः ।
ममाग्रे राघवगुणान् वर्णयस्यनिशं शुभान् ॥ २६ ॥
कौसल्यां मां समं पश्यन् शुश्रूषां कुरुते सदा ।
इति ब्रुवन्ती त्वं पूर्वं इदानीं भाषसेऽन्यथा ॥ २७ ॥
राज्यं गृहाण पुत्राय रामस्तिष्ठतु मन्दिरे ।
अनुगृह्णीष्व मां वामे रामान्नास्ति भयं तव ॥ २८ ॥
इत्युक्त्वाश्रुपरीताक्षः पादयोर्निपपात ह ।
कैकेयी प्रत्युवाचेदं सापि रक्तान्तलोचना ॥ २९ ॥
राजेन्द्र किं त्वं भ्रान्तोऽसि उक्तं तद्‌भाषसेऽन्यथा ।
मिथ्या करोषि चेत्स्वीयं भाषितं नरको भवेत् ॥ ३० ॥
वनं न गच्छेद्यदि रामचन्द्रः
प्रभातकालेऽजिनचीरयुक्तः ।
उद्‌बन्धनं वा विषभक्षणं वा
कृत्वा मरिष्ये पुरतस्तवाहम् ॥ ३१ ॥
सत्यप्रतिज्ञोऽहमितीह लोके
विडम्बसे सर्वसभान्तरेषु ।
रामोपरि त्वं शपथं च कृत्वा
मिथ्याप्रतिज्ञो नरकं प्रयाहि ॥ ३२ ॥
इत्युक्तः प्रियया दीनो मग्नो दुःखार्णवे नृपः ।
मूर्च्छितः पतितो भूमौ विसंज्ञो मृतको यथा ॥ ३३ ॥
एवं रात्रिगता तस्य दुःखात् संवत्सरोपमा ।
अरुणोदयकाले तु वन्दिनो गायका जगुः ॥ ३४ ॥
निवारयित्वा तान् सर्वान् कैकेयी रोषमास्थिता ।
ततः प्रभातसमये मध्यकक्षं उपस्थिताः ॥ ३५ ॥
ब्राह्मणाः क्षत्रिया वैश्या ऋषयः कन्यकास्तथा ।
छत्रं च चामरं दिव्यं गजो वाजी तथैव च ॥ ३६ ॥
अन्याश्च वारमुख्या याः पौरजानपदास्तथा ।
वसिष्ठेन यथाज्ञप्तं तत्सर्वं तत्र संस्थितम् ॥ ३७ ॥
स्त्रियो बालाश्च वृद्धाश्च रात्रौ निद्रां न लेभिरे ।
कदा द्रक्ष्यामहे रामं पीतकौशेयवाससम् ॥ ३८ ॥
सर्वाभरणसम्पन्नं किरीटकटकोज्ज्वलम् ।
कौस्तुभाभरणं श्यामं कन्दर्पशतसुन्दरम् ॥ ३९ ॥
अभिषिक्तं समायातं गजारूढं स्मिताननम् ।
श्वेतच्छत्रधरं तत्र लक्ष्मणं लक्षणान्वितम् ॥ ४० ॥
रामं कदा वा द्रक्ष्यामः प्रभातं वा कदा भवेत् ।
इति उत्सुकधियः सर्वे बभूवुः पुरवासिनः ॥ ४१ ॥
नेदानीमुत्थितो राजा किमर्थं चेति चिन्तयन् ।
सुमंत्रः शनकैः प्रायाद् यत्र राजाऽवतिष्ठते ॥ ४२ ॥
वर्धयन् जयशब्देन प्रणमन् शिरसा नृपम् ।
अतिखिन्नं नृपं दृष्ट्वा कैकेयीं समपृच्छत ॥ ४३ ॥
देवि कैकेयि वर्धस्व किं राजा दृश्यतेऽन्यथा ।
तमाह कैकेयी राजा रात्रौ निद्रां न लब्धवान् ॥ ४४ ॥
राम रामेति रामेति राममेवानुचिन्तयन् ।
प्रजागरेण वै राजा ह्यस्वस्थ इव लक्ष्यते ।
राममानय शीघ्रं त्वं राजा द्रष्टुमिहेच्छति ॥ ४५ ॥
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि ।
तत् श्रुत्वा मंत्रिणो वाक्यं राजा मंत्रिणमब्रवीत् ॥ ४६ ॥
सुमंत्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ।
इत्युक्त्वस्त्वरितं गत्वा सुमंत्रो राममन्दिरम् ॥ ४७ ॥
अवारितः प्रविष्टोऽयं त्वरितं राममब्रवीत् ।
शीघ्रमागच्छ भद्रं ते राम राजीवलोचन ॥ ४८ ॥
पितुर्गेहं मया सार्धं राजा त्वां द्रष्टुमिच्छति ।
इत्युक्तो रथमारुह्य सम्भ्रमात् त्वरितो ययौ ॥ ४९ ॥
रामः सारथिना सार्धं लक्ष्मणेन समन्वितः ।
मध्यकक्षे वसिष्टादीन् पश्यन्नेव त्वरान्वितः ॥ ५० ॥
पितुः समीपं सङ्‌गम्य ननाम चरणौ पितुः ।
राममालिङ्‌गितुं राजा समुत्थाय ससम्भ्रमः ॥ ५१ ॥
बाहू प्रसार्य रामेति दुःखान्मध्ये पपात ह ।
हाहेति रामस्तं शीघ्रं आलिङ्‌ग्याङ्‌के न्यवेशयत् ॥५२
राजानं मूर्च्छितं दृष्ट्वा चुक्रुशुः सर्वयोषितः ।
किमर्थं रोदनमिति वसिष्टोऽपि समाविशत् ॥ ५३ ॥
रामः पप्रच्छ किमिदं राज्ञो दुःख्यस्य कारणम् ।
एवं पृच्छति रामे सा कैकेयी राममब्रवीत् ॥ ५४ ॥
त्वमेव कारणं ह्यत्र राज्ञो दुःखोपशान्तये ।
किञ्चित्कार्यं त्वया राम कर्तव्यं नृपतेर्हितम् ॥ ५५
कुरु सत्यप्रतिज्ञस्त्वं राजानं सत्यवादिनम् ।
राज्ञा वरद्वयं दत्तं मम सन्तुष्टचेतसा ॥ ५६ ॥
त्वदधीनं तु तत्सर्वं वक्तुं त्वां लज्जते नृपः ।
सत्यपाशेन सम्बद्धं पितरं त्रातुमर्हसि ॥ ५७ ॥
पुत्रशब्देन चैतद्धि नरकात् त्रायते पिता ।
रामस्तयोदितं श्रुत्वा शूलेनाभिहतो यथा ॥ ५८ ॥
व्यथितः कैकेयीं प्राह किं मामेवं प्रभाषसे ।
पित्रार्थे जीवितं दास्ये पिबेयं विषमुल्बणम् ॥ ५९ ॥
सीतां त्यक्ष्येऽथ कौसल्यां राज्यं चापि त्यजाम्यहम् ।
अनाज्ञप्तोऽपि कुरुते पितुः कार्यं स उत्तमः ॥ ६० ॥
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः ।
उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ॥ ६१ ॥
अतः करोमि तत्सर्वं यन्मामाह पिता मम ।
सत्यं सत्यं करोम्येव रामो द्विर्नाभिभाषते ॥ ६२ ॥
इति रामप्रतिज्ञां सा श्रुत्वा वक्तुं प्रचक्रमे ।
राम त्वदभिषेकार्थं संभाराः संभृताश्च ये ॥ ६३ ॥
तैरेव भरतोऽवश्यं अभिषेच्यः प्रियो मम ।
अपरेण वरेणाशु चीरवासा जटाधरः ॥ ६४ ॥
वनं प्रयाहि शीघ्रं त्वं अद्यैव पितुराज्ञया ।
चतुर्दश समास्तत्र वस मुन्यन्नभोजनः ॥ ६५ ॥
एतदेव पितुस्तेऽद्य कार्यं त्वं कर्तुमर्हसि ।
राजा तु लज्जते वक्तुं त्वामेवं रघुनन्दन ॥ ६६ ॥
श्रीराम उवाच
भरतस्यैव राज्यं स्यात् अहं गच्छामि दण्डकान् ।
किन्तु राजा न वक्तीह मां न जानेऽत्र कारणम् ॥ ६७ ॥
श्रुत्वैतद्‍रामवचनं दृष्ट्वा रामं पुरः स्थितम् ।
प्राह राजा दशरथो दुःखितो दुःखितं वचः ॥ ६८ ॥
स्त्रीजितं भ्रान्तहृदयं उन्मार्गपरिवर्तिनम् ।
निगृह्य मां गृहाणेदं राज्यं पापं न तद्‌भवेत् ॥ ६९ ॥
एवं चेत् अनृतं नैव मां स्पृशेत् ‍रघुनन्दन ।
इत्युक्त्वा दुःखसन्तप्तो विललाप नृपस्तदा ॥ ७० ॥
हा रामा हा जगन्नाथ हा मम प्राणवल्लभ ।
मां विसृज्य कथं घोरं विपिनं गन्तुमर्हसि ॥ ७१ ॥
इति रामं समालिङ्‌ग्य मुक्तकण्ठो रुरोद ह ।
विसृज्य नयने रामः पितुः सजलपाणिना ॥ ७२ ॥
आश्वासयामास नृपं शनैः स नयकोविदः ।
किमत्र दुःखेन विभो राज्यं शासतु मेऽनुजः ॥ ७३ ॥
अहं प्रतिज्ञां निस्तीर्य पुनर्यास्यामि ते पुरम् ।
राज्यात्कोटिगुणं सौख्यं मम राजन्वने सतः ॥ ७४ ॥
त्वत्सत्यपालनं देव कार्यं चापि भविष्यति ।
कैकेय्याश्च प्रियो राजन् वनवासो महागुणः ॥ ७५ ॥
इदानीं गन्तुमिच्छामि व्येतु मातुश्च हृज्ज्वरः ।
सम्भारश्चोपह्रीयन्तां अभिषेकार्थमाहृताः ॥ ७६ ॥
मातरं च समाश्वास्य अनुनीय च जानकीम् ।
आगत्य पादौ वन्दित्वा तव यास्ये सुखं वनम् ॥ ७७
इत्युक्त्वा तु परिक्रम्य मातरं द्रष्टुमाययौ ।
कौसल्यापि हरेः पूजां कुरुते रामकारणात् ॥ ७८ ॥
होमं च कारयामास ब्राह्मणेभो ददौ धनम् ।
ध्यायते विष्णुमेकाग्र मनसा मौनमास्थिता ॥ ७९ ॥
अन्तःस्थमेकं घनचित्प्रकाशं
निरस्तसर्वातिशयस्वरूपम् ।
विष्णुं सदानन्दमयं हृदब्जे
सा भावयन्ती न ददर्श रामम् ॥ ८० ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP