॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ पंचमः सर्ग: ॥

श्री महादेव उवाच
तस्मिन्काले महारण्ये राक्षसी कामरूपिणी ।
विचचार महासत्त्वा जनस्थाननिवासिनी ॥ १ ॥
एकदा गौतमीतीरे पञ्चवट्यां समीपतः ।
पद्मवज्राङ्‌कुशाङ्‌कानि पदानि जगतीपतेः ॥ २ ॥
दृष्ट्वा कामपरीतात्मा पादसौन्दर्यमोहिता ।
पश्यन्ती सा शनैरायात् राघवस्य निवेशनम् ॥ ३ ॥
तत्र सा तं रमानाथं सीतया सह संस्थितम् ।
कन्दर्पसदृशं रामं दृष्ट्वा कामविमोहिता ॥ ४ ॥
राक्षसी राघवं प्राह कस्य त्वं कः किमाश्रमे ।
युक्तो जटावल्कलाद्यैः साध्यं किं तेऽत्र मेवद ॥ ५ ॥
अहं शूर्पणखा नाम राक्षसी कामरूपिणी ।
भगिनी राक्षसेन्द्रस्य रावणस्य महात्मनः ॥ ६ ॥
खरेण सहिता भ्रात्रा वसाम्यत्रैव कानने ।
राज्ञा दत्तं च मे सर्वं मुनिभक्षा वसाम्यहम् ॥ ७ ॥
त्वां तु वेदितुमिच्छामि वद मे वदतां वर ।
तामाह रामनामाहं अयोध्याधिपतेः सुतः ॥ ८ ॥
एषा मे सुन्दरी भार्या सीता जनकनन्दिनी ।
स तु भ्रात्रा कनीयान् मे लक्ष्मणोऽस्तीव सुन्दरः ॥ ९ ॥
किं कृत्यं ते मया ब्रूहि कार्यं भुवनसुन्दरि ।
इति रामवचः श्रुत्वा कामार्ता साब्रवीद् इदम् ॥ १० ॥
एहि राम मया सार्धं रमस्व गिरिकानने ।
कामार्ताहं न शक्नोमि त्यक्तुं त्वां कमलेक्षणम् ॥ ११ ॥
रामः सीतां कटाक्षेण पश्यन् सस्मितमब्रवीत् ।
भार्या ममैषा कल्याणी विद्यते ह्यनपायिनी ॥ १२ ॥
त्वं तु सापत्‍न्यदुःखेन कथं स्थास्यसि सुन्दरि ।
बहिरास्ते मम भ्राता लक्ष्मणोऽतीव सुन्दरः ॥ १३ ॥
तवानुरूपो भविता पतिस्तेनैव सञ्चर ।
इत्युक्त्वा लक्ष्मणं प्राह पतिर्मे भव सुन्दर ॥ १४ ॥
भ्रातुराज्ञां पुरस्कृत्य सङ्‌गच्छावोऽद्य मा चिरम् ।
इत्याह राक्षसी घोरा लक्ष्मणं काममोहिता ॥ १५ ॥
तामाह लक्ष्मणः साध्वि दासोऽहं तस्य धीमतः ।
दासी भविष्यसि त्वं तु ततो दुःखतरं नु किम् ॥ १६ ॥
तमेव गच्छ भद्रं ते स तु राजाखिलेश्वरः ।
तत्श्रुत्वा पुनरप्यागाद् राघवं दुष्टमानसा ॥ १७ ॥
क्रोधाद्‍राम किमर्थं मां भ्रामयसि अनवस्थितः ।
इदानीमेव तां सीतां भक्षयामि तवाग्रतः ॥ १८ ॥
इत्युक्त्वा विकटाकारा जानकीं अनुधावति ।
ततो रामाज्ञया खड्गं आदाय परिगृह्य ताम् ॥ १९ ॥
चिच्छेद नासां कर्णौ च लक्ष्मणो लघुविक्रमः ।
ततो घोरध्वनिं कृत्वा रुधिराक्त वपुर्द्रुतम् ॥ २० ॥
क्रन्दमाना पपाताग्रे खरस्य परुषाक्षरा ।
किमेतदिति तामाह खरः खरतराक्षरः ॥ २१ ॥
केनैवं कारितासि त्वं मृत्योर्वक्त्रानुवर्तिना ।
वद मे तं वधिष्यामि कालकल्पमपि क्षणात् ॥ २२ ॥
तमाह राक्षसी रामः सीतालक्ष्मणसंयुतः ।
दण्डकं निर्भयं कुर्वन् आस्ते गोदावरीतटे ॥ २३ ॥
मामेवं कृतवांस्तस्य भ्राता तेनैव चोदितः ।
यदि त्वं कुलजातोऽसि वीरोऽसि जहि तौ रिपू ॥ २४ ॥
तयोस्तु रुधिरं पास्ये भक्षयैतौ सुदुर्मदौ ।
नो चेत् प्राणान्परित्यज्य यास्यामि यमसादनम् ॥ २५ ॥
तत्छ्रुत्वा त्वरितं प्रागात् खरः क्रोधेन मूर्च्छितः ।
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ २६ ॥
चोदयामास रामस्य समीपं वधकाङ्‌क्षया
खरस्य त्रिशिराश्चैव दूषणश्चैव राक्षसः ॥ २७ ॥
सर्वे रामं ययुः शीघ्रं नानाप्रहरणोद्युताः ।
श्रुत्वा कोलाहलं तेषां रामः सौमित्रिमब्रवीत् ॥ २८ ॥
श्रूयते विपुलः शब्दो नूनमायान्ति राक्षसाः ।
भविष्यति महद्युद्धं नूनमद्य मया सह ॥ २९ ॥
सीतां नीत्वा गुहां गत्वा तत्र तिष्ठ महाबल ।
हन्तुं इच्छाम्यहं सर्वान् राक्षसान् घोररूपिणः ॥ ३० ॥
अत्र किञ्चिन्न वक्तव्यं शापितोऽसि ममोपरि ।
तथेति सीतां आदाय लक्ष्मणो गह्वरं ययौ ॥ ३१ ॥
रामः परिकरं बद्ध्वा धनुरादाय निष्ठुरम् ।
तूणीरौ अवक्षयशरौ बद्ध्वायत्तोऽभवत्प्रभुः ॥ ३२ ॥
तत आगत्य रक्षांसि रामस्योपरि चिक्षिपुः ।
आयुधानि विचित्राणि पाषाणान् पादपानपि ॥ ३३ ॥
तानि चिच्छेद रामोऽपि लीलया तिलशः क्षणात् ।
ततो बाणसहस्रेण हत्वा तान् सर्वराक्षसान् ॥ ३४ ॥
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ।
जघान प्रहरार्धेन सर्वानेव रघूत्तमः ॥ ३५ ॥
लक्ष्मणोऽपि गुहामध्यात् सीतामादाय राघवे ।
समर्प्य राक्षसान्दृष्ट्वा हतान् विस्मयमाययौ ॥ ३६ ॥
सीता रामं समालिङ्‌ग्य प्रसन्न-मुखपङ्‌कजा ।
शस्त्रव्रणानि चाङ्‌गेषु ममार्ज जनकात्मजा ॥ ३७ ॥
सापि दुद्राव दृष्ट्वा तान् हतान् राक्षसपुङ्‌गवान् ।
लङ्‌कां गत्वा सभामध्ये क्रोशन्ती पादसन्निधौ ॥ ३८ ॥
रावणस्य पपातोर्व्यां भगिनी तस्य रक्षसः ।
दृष्ट्वा तां रावणः प्राह भगिनीं भयविह्वलाम् ॥ ३९ ॥
उत्तिष्ठोत्तिष्ठ वत्से त्वं विरूपकरणं तव ।
कृतं शक्रेण वा भद्रे यमेन वरुणेन वा ॥ ४० ॥
कुबेरेणाथवा ब्रूहि भस्मीकुर्यां क्षणेन तम् ।
राक्षसी तमुवाचेदं त्वं प्रमत्तो विमूढधीः ॥ ४१ ॥
पानासक्तः स्त्रीविजितः षण्ढः सर्वत्र लक्ष्यसे ।
चारचक्षूर्विहीनस्त्वं कथं राजा भविष्यसि ॥ ४२ ॥
खरश्च निहतः सङ्‌ख्ये दूषणस्त्रिशिरास्तथा ।
चतुर्दश सहस्त्राणि राक्षसानां महात्मनाम् ॥ ४३ ॥
निहतानि क्षणेनैव रामेणासुरशत्रुणा ।
जनस्थानमशेषेण मुनीनां निर्भयं कृतम् ।
न जानासि विमूढस्त्वं अत एव मयोच्यते ॥ ४४ ॥
रावण उवाच
को वा रामः किमर्थं वा कथं तेनासुरा हताः ।
सम्यक् कथय मे तेषां मूलघातं करोम्यहम् ॥ ४५ ॥
शूर्पणखोवाच
जनस्थानादहं याता कदाचित् गौतमीतटे ।
तत्र पञ्चवटी नाम पुरा मुनिजनाश्रया ॥ ४६ ॥
तत्राश्रमे मया दृष्टो रामो राजीवलोचनः ।
धनुर्बाणधरः श्रीमान् जटावल्कलमण्डितः ॥ ४७ ॥
कनीयान् अनुजस्तस्य लक्ष्मणोऽपि तथाविधः ।
तस्य भार्या विशालाक्षी रूपिणी श्रीरिवापरा ॥ ४८ ॥
देवगन्धर्वनागानां मनुष्याणां तथाविधा ।
न दृष्टा न श्रुता राजन् द्योतयन्ती वनं शुभा ॥ ४९ ॥
आनेतुं अहमुद्युक्ता तां भार्यार्थं तवानघ ।
लक्ष्मणो नाम तद्‌भ्राता चिच्छेद मम नासिकाम् ॥ ५० ॥
कर्णौ च नोदितस्तेन रामेण स महाबलः ।
ततोऽहमतिदुःखेन रुदती खरमन्वगाम् ॥ ५१ ॥
सोऽपि रामं समासाद्य युद्धं राक्षसयूथपैः ।
अतः क्षणेन रामेण तेनैव बलशालिना ॥ ५२ ॥
सर्वे तेन विनष्टा वै राक्षसा भीमविक्रमाः ।
यदि रामो मनः कुर्यात् त्रैलोक्यं निमिषार्धतः ॥ ५३ ॥
भस्मीकुर्यान्न सन्देह इति भाति मम प्रभो ।
यदि सा तव भार्या स्यात् सफलं तव जीवितम् ॥ ५४ ॥
अतो यतस्तव राजेन्द्र यथा ते वल्लभा भवेत् ।
सीता राजीवपत्राक्षी सर्वलोकैकसुन्दरी ॥ ५५ ॥
साक्षाद्‍रामस्य पुरतः स्थातुं त्वं न क्षमः प्रभो ।
मायया मोहयित्वा तु प्राप्स्यसे तां रघूत्तमम् ॥ ५६ ॥
श्रुत्वा तत्सूक्तवाक्यैश्च दानमानादिभिस्तथा ।
आश्वास्य भगिनीं राजा प्रविवेश स्वकं गृहम् ।
तत्र चिन्तापरो भूत्वा निद्रां रात्रौ न लब्धवान् ॥ ५७ ॥
एकेन रामेण कथं मनुष्य
मात्रेण नष्टः सबलः खरो मे ।
भ्राता कथं मे बलवीर्यदर्प
युतो विनष्टो बत राघवेण ॥ ५८ ॥
यद्वा न रामो मनुजः परेशो
मां हन्तुकामः सबलं बलौघैः ।
सम्प्रार्थितोऽयं द्रुहिणेनपूर्वं
मनुष्यरूपोऽद्य रघोः कुलेऽभूत् ॥ ५९ ॥
वध्यो यदि स्यां परमात्मनाहं
वैकुण्ठराज्यं परिपालयेऽहम् ।
नो चेदिदं राक्षसराज्यमेव
भोक्ष्ये चिरं राममतो व्रजामि ॥ ६० ॥
इत्थं विचिन्त्याखिलराक्षसेन्द्रो
रामं विदित्वा परमेश्वरं हरिं ।
विरोधबुद्ध्यैव हरिं प्रयामि
द्रुतं न भक्त्या भगवान् प्रसीदेत् ॥ ६१ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे पञ्चमः सर्गः ॥ ५ ॥

GO TOP