॥ अद्‌भुत रामायणम् ॥

द्वादशः सर्गः

उपनिषत्कथनम् -

पुनः रामः प्रवचनमुवाच द्विजपुङ्गव ।
अव्यक्तादभवत्कालः प्रधानं पुरुषः परः ॥ १ ॥
तेभ्यः सर्वमिदं जातं तस्मात्सर्वमिदं जगत् ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ २ ॥
सर्वत श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ ३ ॥
सर्वाधारं स्थिरानन्दमव्यक्तं द्वैतवर्जितम् ।
सर्वोपमानरहितं प्रमाणातीतगोचरम् ॥ ४ ॥
निर्विकल्पं निराभासं सर्वाभासं परामृतम् ।
अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रुवमव्ययम् ॥ ५ ॥
निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ।
स आत्मा सर्वभूतानां स बाह्याभ्यन्तरात्परः ॥ ६ ॥
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
मया ततमिदं विश्वं जगदव्यक्तरूपिणा ॥ ७ ॥
मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ।
प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् ॥ ८ ॥
तयोरनादिनिर्दिष्टः कालः संयोजकः परः ।
त्रयमेतदनाद्यन्तमव्यक्तं समवस्थितम् ॥ ९ ॥
तदात्मकं तदन्यत्स्यात्तद्‌रूपं मामकं विदुः ।
महदाद्यं विशेषान्तं सम्प्रसूतेऽखिलं जगत् ॥ १० ॥
या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ।
पुरुषः प्रकृतिस्थोतोऽपिभुङ्क्ते यः प्राकृतान्गुणान् ॥ ११ ॥
अहङ्कारो विविक्तत्वात्प्रोच्यते पञ्चविंशकः ।
आद्यो विकारः प्रकृतिर्महनात्मेति कथ्यते ॥ १२ ॥
विज्ञानशक्तिर्विज्ञानादहङ्कारस्तदुत्थितः ।
एक एव महानात्मा सोहङ्कारोऽभिधीयते ॥ १३ ॥
रा जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ।
तेन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १४ ॥
स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ।
तेनाविवेकतस्तस्मात्संसारं पुरुषस्य तु ॥ १५ ॥
स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् ।
कालः सृजति भूतानि कालः संहरते प्रजाः ॥ १६ ॥
सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ।
सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः ॥ १७ ॥
प्रोच्यते भगवान्प्राणः सर्वज्ञः पुरुषः परः ।
सर्वेन्द्रियेभ्यः परमं मनः प्राहुर्मनीषिणः ॥ १८ ॥
मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ॥ १९ ॥
पुरुषाद्‌भगवान्प्राणस्तस्य सर्वमिदं जगत् ।
प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः ॥ २० ॥
सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ।
नास्ति मत्परमं भूतं मां विज्ञाय विमुच्यते ॥ २१ ॥
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् ।
ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २२ ॥
सोऽहं सृजामि सकलं संहरामि सदा जगत् ।
मायी मायामयो देवः कालेन सह सङ्गतः ॥ २३ ॥
मत्सन्निधावेष कालः करोति सकलं जगत् ।
नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २४ ॥
इत्यार्षे श्रीमद्‌रामायणे वाल्मीकीये आदिकाव्ये
अद्‌भुतोत्तरकाण्डे उपनिषत्कथनं नाम द्वादशः सर्गः ॥ १२ ॥

GO TOP