॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ नवमः सर्ग: ॥

अथ गत्वाऽऽश्रमपद समीपं भरतो मुदा ।
सीतारामपदैर्युक्तं पवित्रं अतिशोभनम् ॥ १ ॥
स तत्र वज्राङ्‌कुशवारिजाञ्चित
ध्वजादिचिह्नानि पदानि सर्वतः ।
ददर्श रामस्य भुवोऽतिमङ्‌गलानि
अचेष्टयत्पादरजःसु सानुजः ॥ २ ॥
अहो सुध्न्योऽहममूनि राम
पादारविन्दाङ्‌कितभूतलानि ।
पश्यामि यत्पादरजो विमृग्यं
ब्रह्मादिदेवैः श्रुतिभिश्च नित्यम् ॥ ३ ॥
इत्यद्‌भुतप्रेमरसाप्लुताशयो
विगाढचेता रघुनाथभावने ।
आनन्दजाश्रुस्नपितस्तनान्तरः
शनैरवापाश्रमसन्निधिं हरेः ॥ ४ ॥
स तत्र दृष्ट्वा रघुनाथमास्थितं
दूर्वादलश्यामलमायतेक्षणम् ।
जटाकिरीटं नववल्कलाम्बरं
प्रसन्नवक्त्रं तरुणारुणद्युतिम् ॥ ५ ॥
विलोकयन्तं जनकात्मजां शुभां
सौमित्रिणा सेवितपादपङ्‌कजम् ।
तदाभिदुद्राव रघूत्तमं शुचा
हर्षाच्च तत्पादयुगं त्वराग्रहीत् ॥ ६ ॥
रामस्तमाकृष्य सुदीर्घबाहुः
दोर्भ्यां परिष्वज्य सिषिञ्च नेत्रजैः ।
जलैरथाङ्‌कोपरि संन्यवेशयत्
पुनः पुनः संपरिषस्वजे विभुः ॥ ७ ॥
अथ ता मातरः सर्वाः समाजग्मुस्त्वरान्विताः ।
राघवं द्रष्टुकामास्ताः तृषार्ता गौर्यथा जलम् ॥ ८ ॥
रामः स्वमातरं वीक्ष्य द्रुतमुत्थाय पादयोः ।
ववन्दे साश्रु सा पुत्रं आलिङ्‌ग्यातीव दुःखिता ॥ ९ ॥
इतराश्च तथा नत्वा जननी रघुनन्दनः ।
ततः समागतं दृष्ट्वा वसिष्ठं मुनिपुङ्‌गवम् ॥ १० ॥
साष्टाङ्‌गं प्रणिपत्याह धन्योऽस्मीति पुनः पुनः ।
यथार्हमुपवेश्याह सर्वानेव रघूद्वहः ॥ ११ ॥
पिता मे कुशली किं वा मां किमाहातिदुःखितः ।
वसिष्ठस्तमुवाचेदं पिता ते रघुनन्दन ॥ १२ ॥
त्वद्वियोगाभितप्तात्मा त्वामेव परिचिन्तयन् ।
रामरामेति सीतेति लक्ष्मणेति ममार ह ॥ १३ ॥
श्रुत्वा तत्कर्णशूलाभं गुरोर्वचनमञ्जसा ।
हा हतोऽस्मीति पतितो रुदन् रामः सलक्ष्मणः ॥ १४ ॥
ततोऽनुरुरुदुः सर्वा मातरश्च तथापरे ।
हा तात मां परित्यज्य क्व गताऽसि घृणाकर ॥ १५ ॥
अनाथोऽस्मि महाबाहो मां को वा लालयेदितः ।
सीता च लक्ष्मणश्चैव विलेपतुरता भृशम् ॥ १६ ॥
वसिष्ठः शान्तवचनैः शमयामास तां शुचम् ।
ततो मन्दाकिनीं गत्वा स्नात्वा ते वीतकल्मषाः ॥ १७ ॥
राज्ञे ददुर्जलं तत्र सर्वे ते जलकाङ्‌क्षिणे ।
पिण्डान्निर्वापयामास रामो लक्ष्मणसंयुतः ॥ १८ ॥
इङ्‌गुदीफलपिण्याक रचितान् मधुसम्प्लुतान् ।
वयं यदन्नाः पितरः तदन्नाः स्मृतिनोदिताः ॥ १९ ॥
इति दुखाश्रु पूर्णाक्षः पुनः स्नात्वा गृहं ययौ ।
सर्वे रुदित्वा सुचिरं स्नात्वा जग्मुस्तदाश्रमम् ॥ २० ॥
तस्मिंस्तु दिवसे सर्वे उपवासं प्रचक्रिरे ।
ततः परेद्युर्विमले स्नात्वा मन्दाकिनीजले ॥ २१ ॥
उपविष्टं समागम्य भरतो राममब्रवीत् ।
राम राम महाभाग स्वात्मानमभिषेचय ॥ २२ ॥
राज्यं पालय पित्र्यं ते ज्येष्ठस्त्वं मे पिता तथा ।
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ २३ ॥
इष्ट्वा यज्ञैर्बहुविधैः पुत्रानुत्पाद्य तन्तवे ।
राज्ये पुत्रं समारोप्य गमिष्यसि ततो वनम् ॥ २४ ॥
इदानीं वनवासस्य कालो नैव प्रसीद मे ।
मातुर्मे दुष्कृतं किञ्चित् स्मर्तुं नार्हसि पाहि नः ॥ २५ ॥
इत्युक्त्वा चरणौ भ्रातुः शिरस्याधाय भक्तितः ।
रामस्य पुरतः साक्षात् दण्डवत्पतितो भुवि ॥ २६ ॥
उत्थाप्य राघवः शीघ्रं आरोप्याङ्‌केऽतिभक्तितः ।
उवाच भरतं रामः स्नेहार्द्रनयनः शनैः ॥ २७ ॥
शृणु वत्स प्रवक्ष्यामि त्वयोक्तं यत्तथैव तत् ।
किन्तु मां अब्रवीत् तातो नव वर्षाणि पञ्च च ॥ २८ ॥
उषित्वा दण्डकारण्ये पुरं पश्चात्समाविश ।
इदानीं भरतायेदं राज्यं दत्तं मयाखिलम् ॥ २९ ॥
ततः पित्रैव सुव्यक्तं राज्यं दत्तं तवैव हि ।
दण्डकारण्यराज्यं मे दत्तं पित्रा तथैव च ॥ ३० ॥
अतः पितुर्वचः कार्यं आवाभ्यामतियत्‍नतः ।
पितुर्वचनमुल्लङ्‌घ्य स्वतन्त्रो यस्तु वर्तते ॥ ३१ ॥
स जीवन्नेव मृतको देहान्ते निरयं व्रजेत् ।
तस्मात् राज्यं प्रशाधि त्वं वयं दण्डकपालकाः ॥ ३२ ॥
भरतस्त्वब्रवीद्‍रामं कामुको मूढधीः पिता ।
स्त्रीजितो भ्रान्तहृदय उन्मत्तो यदि वक्ष्यति ।
तत्सत्यमिति न ग्राह्यं भ्रान्तवाक्यं यथा सुधीः ॥ ३३ ॥
श्रीराम उवाच
न स्त्रीजितः पिता ब्रूयात् न कामी नैव मूढधिः ।
पूर्वं प्रतिश्रुतं तस्य सत्यवादी ददौ भयात् ॥ ३४ ॥
असत्याद्‌भीतिरधिका महतां नरकादपि ।
करोमीत्यहमप्येतत् सत्यं तस्यै प्रतिश्रुतम् ॥ ३५ ॥
कथं वाक्यमहं कुर्यां असत्यं राघवो हि सन् ।
इत्युदीरितमाकर्ण्य रामस्य भरतोऽब्रवीत् ॥ ३६ ॥
श्रीभरत उवाच
तथैव चीरवसनो वने वत्स्यामि सुव्रते ।
चतुर्दश समास्त्वं तु राज्यं कुरु यथासुखम् ॥ ३७ ॥
श्रीराम उवाच
पित्रा दत्तं तवैवैतत् राज्यं मह्यं वनं ददौ ।
व्यत्ययं यद्यहं कुर्यां असत्यं पूर्ववत्स्थितम् ॥ ३८ ॥
भरत उवाच
अहमप्यागमिष्यामि सेवे त्वां लक्ष्मणो यथा ।
नोचेत् प्रायोपवेशेन त्यजाम्येतत्कलेवरम् ॥ ३९ ॥
इत्येवं निश्चयं कृत्वा दर्भानास्तीर्य चातपे ।
मनसापि विनिश्चित्य प्राङ्‌मुखोपविवेश सः ॥ ४० ॥
भरतस्यापि निर्बन्धं दृष्ट्वा रामोऽतिविस्मितः ।
नेत्रान्तसंज्ञां गुरवे चकार रघुनन्दनः ॥ ४१ ॥
एकान्ते भरतं प्राह वसिष्ठो ज्ञानिनां वरः ।
वत्स गुह्यं शृणुष्वेदं मम वाक्यात्सुनिश्चितम् ॥ ४२ ॥
रामो नारायणः साक्षात् ब्रह्मणा याचितः पुरा ।
रावणस्य वधार्थाय जातो दशरथात्मजः ॥ ४३ ॥
योगमायापि सीतेति जाता जनकनन्दिनी ।
शेषोऽपि लक्ष्मणो जातो राममन्वेति सर्वदा ॥ ४४ ॥
रावणं हन्तुकामास्ते गमिष्यन्ति न संशयः ।
कैकेय्या वरदानादि यद्यन्निष्ठुरभाषणम् ॥ ४५ ॥
सर्वं देवकृतं नोचेत् एवं सा भाषयेत्कथम् ।
तस्मात्त्यजाग्रहं तात रामस्य विनिवर्तने ॥ ४६ ॥
निवर्तस्व महासैन्यैः भ्रातृभिः सहितः पुरम् ।
रावणं सकुलं हत्वा शीघ्रमेवागमिष्यति ॥ ४७ ॥
इति श्रुत्वा गुरोर्वाक्यं भरतो विस्मयान्वितः ।
गत्वा समीपं रामस्य विस्मयोत्फुल्ललोचनः ॥ ४८ ॥
पादुके देहि राजेन्द्र राज्याय तव पूजिते ।
तयोः सेवां करोम्येव यावद् आगमनं तव ॥ ४९ ॥
इत्युक्त्वा पादुके दिव्ये योजयामास पादयोः ।
रामस्य ते ददौ रामो भरतायातिभक्तितः ॥ ५०
गृहीत्वा पादुके दिव्ये भरतो रत्‍नभूषिते ।
रामं पुनः परिक्रम्य प्रणनाम पुनः पुनः ॥ ५१ ॥
भरतः पुनराहेदं भक्त्या गद्‍गदया गिरा ।
नवपञ्चसमान्ते तु प्रथमे दिवसे यदि ॥ ५२ ॥
नागमिष्यसि चेद्‍राम प्रविश्यामि महानलम् ।
बाढमित्येव तं रामो भरतं संन्यवर्तयत् ॥ ५३ ॥
ससैन्यः सवसिष्ठश्च शत्रुघ्नसहितः सुधीः ।
मातृभिर्मंत्रिभिः सार्धं गमनायोपचक्रमे ॥ ५४ ॥
कैकेयी राममेकान्ते स्रवन्नेत्रजलाकुला ।
प्राञ्जलिः प्राह हे राम तव राज्यविघातनम् ॥ ५५ ॥
कृतं मया दुष्टधिया मायामोहितचेतसा ।
क्षमस्व मम दौरात्म्यं क्षमासारा हि साधवः ॥ ५६ ॥
त्वं साक्षाद्विष्णुरव्यक्तः परमात्मा सनातनः ।
मायामानुषरूपेण मोहयस्यखिलं जगत् ।
त्वयैव प्रेरितो लोकः कुरुते साध्वसाधु वा ॥ ५७ ॥
त्वदधीनमिदं विश्वं अस्वतंत्रं करोति किम् ।
यथा कृत्रिमनर्तक्यो नृत्यन्ति कुहकेच्छया ॥ ५८ ॥
त्वदधीना तथा माया नर्तकी बहुरूपिणी ।
त्वयैव प्रेरिताहं च देवकार्यं करिष्यता ॥ ५९ ॥
पापिष्ठं पापमनसा कर्माचरमरिन्दम ।
अद्य प्रतीतोऽसि मम देवानामप्यगोचरः ॥ ६० ॥
पाहि विश्वेश्वरानन्त जगन्नाथ नमोऽस्तु ते ।
छिन्धि स्नेहमयं पाशं पुत्रवित्तादिगोचरम् ॥ ६१ ॥
त्वज्ज्ञानानलखड्‍गेन त्वामहं शरणं गता ।
कैकेय्या वचनं श्रुत्वा रामः सस्मितमब्रवीत् ॥ ६२ ॥
यदाह मां महाभागे नानृतं सत्यमेव तत् ।
मयैव प्रेरिता वाणी तव वक्त्राद्विनिर्गता ॥ ६३ ॥
देवकार्यार्थसिद्ध्यर्थं अत्र दोषः कुतस्तव ।
गच्छ त्वं हृदा मां नित्यं भावयन्ती दिवानिशम् ॥ ६४ ॥
सर्वत्र विगतस्नेहा मद्‌भक्त्या मोक्ष्यसेऽचिरात् ।
अहं सर्वत्र समदृक् द्वेष्यो वा प्रिय एव वा ॥ ६५ ॥
नास्ति मे कल्पकस्येव भजतोऽनुभजाम्यहम् ।
मन्मायामोहितधियो मामम्ब मनुजाकृतिम् ॥ ६६ ॥
सुखदुःखाद्यनुगतं जानन्ति न तु तत्त्वतः ।
दिष्ट्या मद्‍गोचरं ज्ञानं उत्पन्नं ते भवापहम् ॥ ६७ ॥
स्मरन्ती तिष्ठ भवने लिप्यसे न च कर्मभिः ।
इत्युक्ता सा परिक्रम्य रामं सानन्दविस्मया ॥ ६८ ॥
प्रणम्य शतशो भूमौ ययौ गेहं मुदान्विता ।
भरतस्तु सहामात्यैः मातृभिर्गुरुणा सह ॥ ६९ ॥
अयोध्यां अगमच्छ्रीघ्रं राममेवानुचिन्तयन् ।
पौरजानपदान् सर्वान् अयोध्यायां उदारधीः ॥ ७० ॥
स्थापयित्वा यथान्यायं नन्दिग्रामं ययौ स्वयम् ।
तत्र सिंहासने नित्यं पादुके स्थाप्य भक्तितः ॥ ७१ ॥
पूजयित्वा यथा रामं गन्धपुष्पाक्षतादिभिः ।
राजोपचारैरखिलैः प्रत्यहं नियतव्रतः ॥ ७२ ॥
फलमूलाशनो दान्तो जटावल्कलधारकः ।
अधःशायी ब्रह्मचारी शत्रुघ्न सहितस्तदा ॥ ७३ ॥
राजकार्याणि सर्वाणि यावन्ति पृथिवीतले ।
तानि पादुकयोः सम्यङ् निवेदयति राघवः ॥ ७४ ॥
गणयन् दिवसानेव रामागमनकाङ्‌क्षया ।
स्थितो रामार्पितमनाः साक्षाद् ब्रह्ममुनिर्यथा ॥ ७५ ॥
रामस्तु चित्रकूटाद्रौ वसन् मुनिभिरावृतः ।
सीतया लक्ष्मणेनापि किञ्चित् कालमुपावसत् ॥ ७६ ॥
नागराश्च सदा यान्ति रामदर्शनलालसाः ।
चित्रकूटस्थितं ज्ञात्वा सीतया लक्ष्मणेन च ॥ ७७ ॥
दृष्ट्वा तज्जनसम्बाधं रामस्तत्याज तं गिरिम् ।
दण्डकारण्यगमने कार्यं अप्यनुचिन्तयन् ॥ ७८ ॥
अन्वगात् सीतया भ्रात्रा ह्यत्रेराश्रममुत्तमम् ।
सर्वत्र सुखसंवासं जनसम्बाधवर्जितम् ॥ ७९ ॥
गत्वा मुनिमुपासीनं भासयन्तं तपोवनम् ।
दण्डवत् प्रणिपत्याह रामोऽहमभिवादये ॥ ८० ॥
पितुराज्ञां पुरस्कृत्य दण्डकाननमागतः ।
वनवासमिषेणापि धन्योऽहं दर्शनात्तव ॥ ८१ ॥
श्रुत्वा रामस्य वचनं रामं ज्ञात्वा हरिं परम् ।
पूजयामास विधिवत् भक्त्या परमया मुनिः ॥ ८२ ॥
वन्यैः फलैः कृतातिथ्यं उपविष्टं रघूत्तमम् ।
सीतां च लक्ष्मणं चैव संतुष्टो वाक्यमब्रवीत् ॥ ८३ ॥
भार्या मेऽतीव संवृद्धा ह्यनसूयेति विश्रुता ।
तपश्चरन्ती सुचिरं धर्मज्ञा धर्मवत्सला ॥ ८४ ॥
अन्तस्तिष्ठति तां सीता पश्यत्वरिनिषूदन ।
तथेति जानकीं प्राह रामो राजीवलोचनः ॥ ८५ ॥
गच्छ देवीं नमस्कृत्य शीघ्रमेहि पुनः शुभे ।
तथेति रामवचनं सीता चापि तथाकरोत् ॥ ८६ ॥
दण्डवत् पतितामग्रे सीतां दृष्ट्वातिहृष्टधीः ।
अनसूया समालिङ्‌ग्य वत्से सीतेति सादरम् ॥ ८७ ॥
दिव्ये ददौ कुण्डले द्वे निर्मिते विश्वकर्मणा ।
दुकूले द्वे ददौ तस्यै निर्मले भक्तिसंयुता ॥ ८८ ॥
अङ्‌गरागं च सीतायै ददौ दिव्यं शुभानना ।
न त्यक्ष्यतेऽङ्‌गरागेण शोभा त्वां कमलानने ॥ ८९ ॥
पातिव्रत्यं पुरस्कृत्य राममन्वेहि जानकि ।
कुशली राघवो यातु त्वया सह पुनर्गृहम् ॥ ९० ॥
भोजयित्वा यथान्यायं रामं सीतासमन्वितम् ।
लक्ष्मणं च तदा रामं पुनः प्राह कृताञ्जलिः ॥ ९१ ॥
राम त्वमेव भुवनानि विधाय तेषां
संरक्षणाय सुरमानुषतिर्यगादीन् ।
देहान्बिभर्षि न च देहगुणैर्विलिप्तः
त्वत्तो बिभेत्यखिलमोहकरी च माया ॥ ९३ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे नवमः सर्गः ॥ ९ ॥

॥ समाप्तमिदम् अयोध्याकाण्डम् ॥

GO TOP