॥ श्रीमद् अध्यात्मरामायण ॥

॥ बालकाण्ड ॥

॥ सप्तमः सर्गः ॥

अथ गच्छति श्रीरामे मैथिलाद् योजनत्रयम् ।
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः ॥ १ ॥
नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्‌गव ।
निमित्तानीह दृश्यन्ते विषमाणि समन्ततः ॥ २ ॥
वसिष्टस्तं अथ प्राह भयं आगामि सूच्यते ।
पुरप्यभयं तेऽद्य शीघ्रमेव भविष्यति ॥ ३ ॥
मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः ।
इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः ॥ ४ ॥
मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् ।
ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् ॥ ५ ॥
कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् ।
तेजोराशिं ददर्शाथ जमदग्न्यं प्रतापवान् ॥ ६ ॥
नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् ।
धनुः परशुपाणिं च साक्षात् कालं इवान्तकम् ॥ ७ ॥
कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् ।
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् ॥ ८ ॥
तं दृष्ट्वा भयसंत्रस्तो राजा दशरथस्तदा ।
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् ॥९ ॥
दण्डवत् प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे ।
इति ब्रुवन्तं राजानं अनादृत्य रघूत्तमम् ॥ १० ॥
उवाच निष्ठुरं वाक्यं क्रोधात् प्रचलितेन्द्रियः ।
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम ॥ ११ ॥
द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै ।
पुराणं जर्जरं चापं भङ्‌क्त्वा त्वं कथ्यसे मुधा ॥१२
अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्‍गुणम् ।
तदा युद्धं त्वया सार्धं करोमि रघुवंशज ॥ १३ ॥
नो चेत्सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्यहम् ।
इति ब्रुवति वै तस्मिन् चचाल वसुधा भृशम् ॥ १४ ॥
अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् ।
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा ॥ १५ ॥
धनुराच्छिद्य तद् हस्ताद् आरोप्य गुणमञ्जसा ।
तूणीराद् बाणमादाय संधायाकृष्य वीर्यवान् ॥ १६ ॥
उवाच भार्गवं रामं शृणु ब्रह्मन् वचो मम ।
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः ॥ १७ ॥
लोकान् पादयुगं वापि वद शीघ्रं ममाज्ञया ।
अयं लोकः परो वाथ त्यया गन्तुं न शक्यते ॥ १८ ॥
एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया ।
एवं वदति श्रीरामे भार्गवो विकृताननः ॥ १९ ॥
संस्मरन्पूर्ववृत्तान्तं इदं वचनमब्रवीत् ।
राम राम महाबाहो जाने त्वां परमेश्वरम् ॥ २० ॥
पुराणपुरुषं विष्णुं जगत्सर्गलयोद्‌भवम् ।
बाल्येऽयं तपसा विष्णुं आराधयितुमञ्जसा ॥ २१ ॥
चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् ।
अतोषयं महात्मानं नारायणमनन्यधीः ॥ २२ ॥
ततः प्रसन्नो देवेशः शङ्‌खचक्रगदाधरः ।
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्‌कजः ॥ २३ ॥
श्रीभगवानुवाच
उत्तिष्ठ तपसो ब्रह्मन् फलितं ते तपो महत् ।
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्‌गवम् ॥ २४ ॥
कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः ।
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम् ॥ २५ ॥
कृत्स्नां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह ।
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्यहः ॥ २६ ॥
उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः ।
मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा ॥ २७ ॥
तदा तपश्चरन् लोके तिष्ठ त्वं ब्रह्मणो दिनम् ।
इत्युक्त्वान्तर्दधे देवः तथा सर्वं कृतं मया ॥ २८ ॥
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः ।
मयि स्थितं तु त्वत्तेजः त्वयैव पुनराहृतम् ॥ २९ ॥
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो ।
ब्रह्मादिभिः अलभ्यस्त्वं प्रकृतेः पारगो मतः ॥ ३० ॥
त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः ।
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः ॥ ३१ ॥
यथा जले फेनजालं धूमो वह्नौ तथा त्ययि ।
त्वद् आधारा त्वद् विषया माया कार्यं सृजत्यहो ॥ ३२ ॥
यावन् मायावृता लोकाः तावत्त्वां न विजानते ।
अविचारितसिद्धैषा अविद्या विद्याविरोधिनी ॥ ३३ ॥
अविद्याकृतदेहादि सङ्‌घाते प्रतिबिम्बिता ।
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते -३४
यावत् देहमनः प्राण बुद्ध्यादिषु अभिमानवान् ।
तावत्कर्तृत्वभोक्तृत्व सुखदुःखादिभाग्भवेत् ॥ ३५ ॥
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति ।
अविवेकाद् द्वयं युङ्‌क्त्वा संसारीति प्रवर्तते ॥३६ ॥
जडस्य चित्समायोगात् चित्त्वं भूयाच्चितेस्तथा ।
जडसङ्‌गात् जडत्वं हि जलाग्न्योर्मेलनं यथा ॥ ३७ ॥
यावत्त्वत्पादभक्तानां सङ्‌गसौख्यं न विन्दति ।
तावत्संसारदुःखौघात् न निवर्तेन्नरः सदा ॥ ३८ ॥
तत्सङ्‌गलब्धया भक्त्या यदा त्वां समुपासते ।
तदा माया शनैर्याति तानवं प्रतिपद्यते ॥ ३९ ॥
ततस्त्वज्ज्ञानसम्पन्नः सद्‍गुरुस्तेन लभ्यते ।
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद् विमुच्यते ॥ ४० ॥
तस्मात्त्वद्‌भक्तिहीनानां कल्पकोटिशतैरपि ।
न मुक्तिशङ्‌का विज्ञान शङ्‌का नैव सुखं तथा ॥ ४१ ॥
अतस्त्वत् पादयुगले भक्तिर्मे जन्म जन्मनि ।
स्यात् त्वद्‌भक्तिमतां सङ्‌गः अविद्या याभ्यां विनश्यति ॥ ४२ ॥
लोके त्वद्‌भक्तिनिरताः त्वद्धर्मामृतवर्षिणः ।
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्‌भवान् ॥४३ ॥
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन ।
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते ॥ ४४ ॥
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया ।
तत्सर्वं तव बाणाय भूयाद् राम नमोऽस्तु ते ॥ ४५ ॥
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः ।
प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते ॥ ४६ ॥
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् ।
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् ॥ ४७ ॥
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन ।
त्वद्‌भक्तसङ्‌गस्त्वत्पादे दृढा भक्तिः सदास्तु मे ॥ ४८ ॥
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा ।
त्वद्‌भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव ॥४९ ॥
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् ।
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् ॥ ५० ॥
राजा दशरथो हृष्टो रामं मृतमिवागतम् ।
आलिङ्‌ग्यालिङ्‌ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् ॥ ५१ ॥
ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ ।
रामलक्ष्मणशत्रुघ्न भरता देवसंमिताः ॥ ५२ ॥
स्वां स्वां भार्यां उपादाय रेमिरे स्वस्वमन्दिरे ।
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः ॥ ५३ ॥
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः ।
युधाजिन्नाम कैकेयी भ्राता भरतमातुलः ॥ ५४ ॥
भरतं नेतुमागच्छत् स्वराज्यं प्रीतिसंयुतः ।
प्रेषयामास भरतं राजा स्नेहसमन्वितः ॥ ५५ ॥
शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः ।
कौसल्या शुशुभे देवी रामेण सह सीतया ।
देवमातेव पौलोम्या शच्या शक्रेण शोभना ॥ ५६ ॥
साकेते लोकनाथप्रथितगुणगणो
लोकसङ्‌गीतकीर्तिः
श्रीरामः सीतयास्तेऽखिलजननिकरा
नन्दसन्दोहमूर्तिः ।
नित्यश्रीर्निर्विकारो निरवधिविभवो
नित्यमायानिरासो
मायाकार्यानुसारी मनुज इव सदा
भाति देवोऽखिलेशः ॥ ५७ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे सप्तमः सर्गः ॥ ७ ॥

॥ समाप्तमिदं बालकाण्डम् ॥

GO TOP