॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ षष्ठः सर्ग: ॥

विचिन्त्यैवं निशायां स प्रभाते रथमास्थितः ।
रावणो मनसा कार्यं एकं निश्चित्य बुद्धिमान् ॥ १ ॥
ययौ मारीचसदनं परं पारमुदन्वतः ।
मारीचस्तत्र मुनिवत् जटावल्कल धारकः ॥ २ ॥
ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकम् ।
समाधिविरमेऽपश्यद् रावणं गृहमागतम् ॥ ३ ॥
द्रुतं उत्थाय चालिङ्‌ग्य पूजयित्वा यथाविधि ।
कृतातिथ्यं सुखासीनं मारीचो वाक्यमब्रवीत् ॥ ४ ॥
समागमनमेतत्ते रथेनैकेन रावण ।
चिन्तापर इवाभासि हृदि कार्यं विचिन्तयन् ॥ ५ ॥
ब्रूहि मे न हि गोप्यं चेत् करवाणि तव प्रियम् ।
न्याय्यं चेत् ‍ब्रूहि राजेन्द्र वृजिनं मां स्पृशेन्न हि ॥ ६ ॥
रावण उवाच
अस्ति राजा दशरथः साकेताधिपतिः किल ।
रामनामा सुतस्तस्य ज्येष्ठं सत्यपराक्रमः ॥ ७ ॥
विवासयामास सुतं वनं वनजनप्रियम् ।
भार्यया सहितं भ्रात्रा लक्ष्मणेन समन्वितम् ॥ ८ ॥
स आस्ते विपिने घोरे पञ्चवट्याश्रमे शुभे ।
तस्य भार्या विशालाक्षी सीता लोकविमोहिनी ॥ ९ ॥
रामो निरपराधान् मे राक्षसान् भीमविक्रमान् ।
खरं च हत्वा विपिने सुखमास्तेऽतिनिर्भयः ॥ १० ॥
भगिन्याः शूर्पणखाया निर्दोषायाश्च नासिकाम् ।
कर्णौ चिच्छेद दुष्टात्मा वने तिष्ठति निर्भयः ॥ ११ ॥
अतस्त्वया सहायेन गत्वा तत्प्राणवल्लभाम् ।
आनयिष्यामि विपिने रहिते राघवेण ताम् ॥ १२ ॥
त्वं तु मायामृगो भूत्वा ह्याश्रमात् अपनेष्यसि ।
रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम् ॥ १३ ॥
त्वं तु तावत्सहायं मे कृत्वा स्थास्यसि पूर्ववत् ।
इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः ॥ १४ ॥
केनेदं उपदिष्टं ते मूलघातकरं वचः ।
स एव शत्रुर्वध्यश्च यस्त्वन्नाशं प्रतीक्षते ॥ १५ ॥
रामस्य पौरुषं स्मृत्वा चित्तं अद्यापि रावण ।
बालोऽपि मां कौशिकस्य यज्ञसंरक्षणाय सः ॥ १६ ॥
आगतस्त्विषुणैकेन पातयामास सागरे ।
योजनानां शतं रामः तदादि भयविह्वलः ॥ १७ ॥
स्मृत्वा स्मृत्वा तदेवाहं रामं पश्यामि सर्वतः ॥ १८ ॥
दण्डकेऽपि पुनरप्यहं वने
पूर्ववैरमनुचिन्तयन् हृदि ।
तीक्ष्ण शृङ्‌गमृगरूपमेकदा
मादृशैर्बहुभिरावृतोऽभ्ययाम् ॥ १९ ॥
राघवं जनकजासमन्वितं
लक्ष्मणेन सहितं त्वरान्वितः ।
आगतोऽहमथ हन्तुमुद्यतो
मां विलोक्य शरमेकमक्षिपत् ॥ २० ॥
तेन विद्धहृदयोऽहं उद्‌भ्रमन्
राक्षसेन्द्र पतितोऽस्मि सागरे ।
तत्प्रभृत्यहमिदं समाश्रितः
स्थानमूर्जितमिदं भयार्दितः ॥ २१ ॥
राममेव सततं विभावये
भीतभीत इव भोगराशितः ।
राजरत्‍नरमणीरथादिकं
श्रोत्रयोर्यदि गतं भयं भवेत् ॥ २२ ॥
राम आगत इहेति शङ्‌कया
बाह्यकार्यमपि सर्वमत्यजम् ।
निद्रया परिवृतो यदा स्वपे
राममेव मनसानुचिन्तयन् ॥ २३ ॥
स्वप्नदृष्टिगतराघवं तदा
बोधितो विगतनिद्रा आस्थितः ।
तद्‌भवापि विमुच्य चाग्रहं
राघवं प्रति गृहं प्रयाहि भोः ॥ २४ ॥
रक्ष राक्षसकुलं चिरागतं
तत्स्मृतौ सकलमेव नश्यति ।
तव हितं वदतो मम भाषितं
परिगृहाण परात्मनि राघवे ॥ २५ ॥
त्यज विरोधमतिं भज भक्तितः
परमकारुणिको रघुनन्दनः ।
अहमशेषमिदं मुनिवाक्यतः
अशृणवमादियुगे परमेश्वरः ॥ २६ ॥
ब्रह्मणार्थित उवाच तं हरिः
किं तवेप्सितमहं करवाणि तत् ।
ब्रह्मणोक्तमरविन्दलोचन त्वं
प्रयाहि भुवि मानुषं वपुः ।
दशरथात्मजभावमञ्जसा
जहि रिपुं दशकन्धरं हरे ॥ २७ ॥
अतो न मानुषो रामः साक्षात् नारायणोऽव्ययः ।
मायामानुषवेषेण वनं यातोऽतिनिर्भयः ॥ २८ ॥
भूभारहरणार्थाय गच्छ तात गृहं सुखम् ।
श्रुत्वा मारीचवचनं रावणः प्रत्यभाषत ॥ २९ ॥
परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल ।
मां हन्तुं मानुषो भूत्वा यत्‍नादिह समागतः ॥ ३० ॥
करिष्यत्यचिरादेव सत्यसङ्‌कल्प ईश्वरः ।
अतोऽहं यत्‍नतः सीतां आनेष्याम्येव राघवात् ॥ ३१ ॥
वधे प्राप्ते रणे वीर प्राप्स्यामि परमं पदम् ।
यद्वा रामं रणे हत्वा सीतां प्राप्स्यामि निर्भयः ॥ ३२ ॥
तदुत्तिष्ठ महाभाग विचित्र मृगरूपधृक् ।
रामं सलक्ष्मणं शीघ्रं आश्रमात् अतिदूरतः ॥ ३३ ॥
आक्रम्य गच्छ त्वं शीघ्रं सुखं तिष्ठ यथा पुरा ।
अतः परं चेद्यत्किञ्चित् ‍भाषसे मद्विभीषणम् ॥ ३४ ॥
हनिष्याम्यसिनानेन त्वामत्रैव न संशयः ।
मारीचस्तद्वचः श्रुत्वा स्वात्मन्येव अनुचिन्तयत् ॥ ३५ ॥
यदि मां राघवो हन्यात् तदा मुक्तो भवार्णवात् ।
मां हन्याद्यदि चेद्दुष्टः तदा मे निरयो ध्रुवम् ॥ ३६ ॥
इति निश्चित्य मरणं रामादुत्थाय वेगतः ।
अब्रवीत् रावणं राजन् करोम्याज्ञां तव प्रभो ॥ ३७ ॥
इत्युक्त्वा रथमास्थाय गतो रामाश्रमं प्रति ।
शुद्धजाम्बूनदप्रख्यो मृगोऽभूत् रौप्यबिन्दुकः ॥ ३८ ॥
रत्‍नशृङ्‌गो मणिखुरो नीलरत्‍नविलोचनः ।
विद्युत्प्रभो विमुग्धास्यो विचचार वनान्तरे ॥ ३९ ॥
रामाश्रमपदस्यान्ते सीतादृष्टिपथे चरन् ॥ ४० ॥
क्षणं च धावत्यवतिष्ठते क्षणं
समीपमागत्य पुनर्भयावृतः ।
एवं स मायामृगवेषरूपधृक्
चचार सीतां परिमोहयन्खलः ॥ ४१ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे षष्ठः सर्गः ॥ ६ ॥

GO TOP