॥ श्रीमद् अध्यात्मरामायण ॥

॥ अयोध्याकाण्ड ॥

॥ षष्ठः सर्ग: ॥

सुप्तं रामं समालोक्य गुहः सोऽश्रुपरिप्लुतः ।
लक्ष्मणं प्राह विनयाद्‌भ्रातः पश्यसि राघवम् ॥ १ ॥
शयानं कुशपत्रौघ संस्तरे सीतया सह ।
यः शेते स्वर्णपर्यङ्‌के स्वास्तीर्णे भवनोत्तमे ॥ २ ॥
कैकेयी रामदुःखस्य कारणं विधिना कृता ।
मन्थराबुद्धिमास्थाय कैकेयी पापमाचरत् ॥ ३ ॥
तच्छ्रुत्वा लक्ष्मणः प्राह सखे शृणु वचो मम ।
कः कस्य हेतुर्दुःखस्य कश्च हेतुः सुखस्य च ॥ ४ ॥
स्वपूर्वार्जितकर्मैव कारणं सुखदुःखयोः ॥ ५ ॥
सुखस्य दुःखस्य न कोऽपि दाता
परो ददातीति कुबुद्धिरेषा ।
अहं करोमीति वृथाभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः ॥ ६ ॥
सुहृन्मित्रार्युदासीन द्वेष्यमध्यस्थबान्धवाः ।
स्वयमेवाचरन्कर्म तथा तत्र विभाव्यते ॥ ७ ॥
सुखं वा यदि वा दुःखं स्वकर्मवशगो नरः ।
यद्यद् यथागतं तत्तत् भुक्त्वा स्वस्थमना भवेत् ॥ ८ ॥
न मे भोगागमे वाञ्छा न मे भोगविवर्जने ।
आगच्छत्वथ मागच्छतु अभोगवशगो भवेत् ॥ ९ ॥
स्वस्मिन्देशे च काले च यस्माद्वा येन केन वा ।
कृतं शुभाशुभं कर्म भोज्यं तत्तत्र नान्यथा ॥ १० ॥
अलं हर्षविषादाभ्यां शुभाशुभफलोदये ।
विधात्रा विहितं यद्यत् तदलङ्‌घ्यं सुरासुरैः ॥ ११ ॥
सर्वदा सुखदुःखाभ्यां नरः प्रत्यवरुध्यते ।
शरीरं पुण्यपापाभ्यां उत्पन्नं सुखदुःखवत् ॥ १२ ॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
द्वयमेतद्धि जन्तूनां अलङ्‌घ्य दिनरात्रिवत् ॥ १३ ॥
सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् ।
द्वयमन्योन्यसंयुक्तं प्रोच्यते जलपङ्‌कवत् ॥ १४ ॥
तस्माद्धैर्येण विद्वांस इष्टानिष्टोपपत्तिषु ।
न हृष्यन्ति न मुह्यन्ति समं मायेति भावनात् ॥ १५ ॥
गुहलक्ष्मणयोरेवं भाषतोर्विमलं नभः ।
बभूव रामः सलिलं स्पृष्ट्वा प्रातः समाहितः ॥ १६ ॥
उवाच शीघ्रं सुदृढं नावमानय मे सखे ।
श्रुत्वा रामस्य वचनं निषादाधिपतिर्गुहः ॥ १७ ॥
स्वयमेव दृढं नावमानिनाय सुलक्षणाम् ।
स्वामिन् आरुह्यतां नौकां सीतया लक्ष्मणेन च ॥ १८ ॥
वाहये ज्ञातिभिः सार्धं अहमेव समाहितः ।
तथेति राघवः सीतां आरोप्य शुभलक्षणाम् ॥ १९ ॥
गुहस्य हस्तावालम्ब्य स्वयं चारोहदच्युतः ।
आयुधादीन् समारोप्य लक्ष्मणोऽप्यारुरोह च ॥ २० ॥
गुहस्तान्वाहयामास ज्ञातिभिः सहितः स्वयम् ।
गङ्‌गामध्ये गतां गङ्‌गां प्रार्थयामास जानकी ॥ २१ ॥
देवि गङ्‌गे नमस्तुभ्यं निवृत्ता वनवासतः ।
रामेण सहिताहं त्वां लक्ष्मणेन च पूजये ॥ २२ ॥
[ सुरामांसोपहारैश्च नानाबलिभिरादृता । ]
This line is ommitted in Geetapress edition
इत्युक्त्वा परकूलं तौ शनैरुत्तीर्य जग्मतुः ॥ २३ ॥
गुहोऽपि राघवं प्राह गमिष्यामि त्वया सह ।
अनुज्ञां देहि राजेन्द्र नोचेत् प्राणांस्त्यजाम्यहम् ॥ २४ ॥
श्रुत्वा नैषादिवचनं श्रीरामस्तमथाब्रवीत् ।
चतुर्दश समाः स्थित्वा दण्डके पुनरप्यहम् ॥ २५ ॥
आयास्याभ्युदितं सत्यं नासत्यं रामभाषितम् ।
इत्युक्त्वालिङ्‌ग्य तं भक्तं समाश्वास्य पुनः पुनः ॥ २६ ॥
निवर्तयामास गुहं सोऽपि कृच्छ्राद्ययौ गृहम् ॥ २७ ॥

[ तत्र मेघ्यं मृगं हत्वा पक्त्वा हुत्वा च ते त्रयः ।
भुक्त्वा वृक्षतले सुप्त्वा सुखमासत तां निशाम् ॥ २८ ॥ ]
This shloka does not appear in Geetapress edition
ततो रामस्तु वैदेह्या लक्ष्मणेन समन्वितः ।
भरद्वाजाश्रमपदं गत्वा बहिरुपस्थितः ।
तत्रैकं बटुकं दृष्ट्वा रामः प्राह च हे बटो ॥ २९ ॥
रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः ।
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ ॥ ३० ॥
तत्‍श्रुत्वा सहसा गत्वा पादयोः पतितो मुनेः ।
स्वामिन् रामः समागत्य वनाद्‌बहिरवस्थितः ॥ ३१ ॥
सभार्यः सानुजः श्रीमान् आह मां देवसन्निभः ।
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम् ॥ ३२ ॥
तत्‍श्रुत्वा सहसोत्थाय भरद्वाजो मुनीश्वरः ।
गृहीत्वार्घ्यं च पाद्यं च रामसामीप्यमाययौ ॥ ३३ ॥
दृष्ट्वा रामं यथान्यायं पूजयित्वा सलक्ष्मणम् ।
आह मे पर्णशालां भो राम राजीवलोचन ॥ ३४ ॥
आगच्छ पादरजसा पुनीहि रघुनन्दन ।
इत्युक्त्वोटजमानीय सीतया सह रघावौ ॥ ३५ ॥
भक्त्या पुनः पूजयित्वा चकारातिथ्यमुत्तमम् ।
अद्याहं तपसः पारं गतोऽमि तव सङ्‌गमात् ॥ ३६ ॥
ज्ञातं राम तवोदन्तं भूतं चागामिकं च यत् ।
जानामि त्वां परात्मानं मायया कार्यमानुषम् ॥ ३७ ॥
यदर्थं अवतीर्णोऽसि प्रार्थितो ब्रह्मणा पुरा ।
यदर्थं वनवासस्ते यत्करिष्यसि वै पुनः ॥ ३८ ॥
जानामि ज्ञानदृष्ट्याहं जातया त्वदुपासनात् ।
इतः परं त्वां किं वक्ष्ये कृतार्थोऽहं रघूत्तम ॥ ३९ ॥
यस्त्वां पश्यामि काकुत्स्थं पुरुषं प्रकृतेः परम् ।
रामस्तं अभिवाद्याह सीतालक्ष्मणसंयुतः ॥ ४० ॥
अनुग्राह्यस्त्वया ब्रह्मन् वयं क्षत्रियबान्धवाः ।
इति सम्भाष्य तेऽन्योन्यं मुषित्वा मुनिसन्निधौ ॥ ४१ ॥
प्रातरुत्थाय यमुनां उत्तीर्य मुनिवारकैः ।
कृताप्लवने मुनिना दृष्टमार्गेण राघवः ॥ ४२ ॥
प्रययौ चित्रकूटाद्रिं वाल्मीकेर्यत्र चाश्रमः ।
गत्वा रामोऽथवाल्मीकेः आश्रमं ऋषिसङ्‌कुलम् ॥ ४३ ॥
नानामृगद्विजाकीर्णं नित्यपुष्पफलाकुलम् ।
तत्र दृष्ट्वा समासानं वाल्मीकिं मुनिसत्तमम् ॥ ४४ ॥
ननाम शिरसा रामो लक्ष्मणेन च सीतया ।
दृष्ट्वा रामं रमानाथं वाल्मीकिर्लोकसुन्दरम् ॥ ४५ ॥
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ।
कन्दर्पसदृशाकारं कमनीयाम्बुजेक्षणम् ॥ ४६ ॥
दृष्ट्वैव सहसोत्तस्थौ विस्मयानिमिषेक्षणः ।
आलिङ्‌ग्य परमानन्दं रामं हर्षाश्रु लोचनः ॥ ४७ ॥
पूजयित्वा जगत्पूज्यं भक्त्यार्घ्यादिभिरदृतः ।
फलमूलैः स मधुरैः भोजयित्वा च लालितः ॥ ४८ ॥
राघवः प्राञ्जलिः प्राह वाल्मीकिं विनयान्वितः ।
पितुराज्ञां पुरस्कृत्य दण्डकान् आगता वयम् ॥ ४९ ॥
भवन्तो यदि जानन्ती किं वक्ष्यामोऽत्र कारणम् ।
यत्र मे सुखवासाय भवेत्स्थानं वदस्व तत् ॥ ५० ॥
सीतया सहितः कालं किञ्चित्तत्र नयाम्यहम् ।
इत्युक्तो राघवेणासौ मुनिः सस्मितमब्रवीत् ॥ ५१ ॥
त्वमेव सर्वलोकानां निवासस्थानमुत्तमम् ।
तवापि सर्वभूतानि निवाससदनानि हि ॥ ५२ ॥
एवं साधारणं स्थानमुक्तं ते रघुनन्दन ।
सीतया सहितस्येन विशेषं पृच्छतस्तव ।
तद्वक्ष्यामि रघुश्रेष्ठ यत्ते नियतमन्दिरम् ॥ ५३ ॥
शान्तानां समदृष्टीनां अद्वेष्टृणां च जन्तुषु ।
त्वामेव भजतां नित्यं हृदयं तेऽधिमन्दिरम् ॥ ५४ ॥
धर्माधर्मान् परित्यज्य त्वामेव भजतोऽनिशम् ।
सीतया सह ते राम तस्य हृत्सुखमन्दिरम् ॥ ५५ ॥
त्वन्मंत्रजापको यस्तु त्वामेव शरणं गतः ।
निर्द्वन्द्वो निःस्पृहस्तस्य हृदयं ते सुमन्दिरम् ॥ ५६ ॥
निरहङ्‌कारिणः शान्ता ये रागद्वेषवर्जिताः ।
समलोष्टाश्मकनकाः तेषां ते हृदयं गृहम् ॥ ५७ ॥
त्वयि दत्तमनोबुद्धिः यः सन्तुष्ट सदाः भवेत् ।
त्वयि सन्त्यक्तकर्मा यः तन्मनस्ते शुभं गृहम् ॥ ५८ ॥
यो न द्वेष्टि आप्रियं प्राप्य प्रियं प्राप्य न हृष्यते ।
सर्वं मायेति निश्चित्य त्वां भजेत् तन्मनो गृहम् ॥ ५९ ॥
षड्भावादिविकारान्यो देहे पश्यति नात्मनि ।
क्षुत्तृट्सुखं भयं दुःखं प्राणबुद्ध्योर्निरीक्षते ॥ ६० ॥
संसारधर्मैर्निर्मुक्तः तस्य ते मानसं गृहम् ॥ ६१ ॥
पश्यन्ति ये सर्वगुहाशयस्थं
त्वां चिद्‍घनं सत्यमनन्तमेकम् ।
अलेपकं सर्वगतं वरेण्यं
तेषां हृदब्जे सह सीतया वस ॥ ६२ ॥
निरन्तराभ्यासदृढीकृतात्मनां
त्वत्पादसेवापरिनिष्ठितानाम् ।
त्वन्नामकीर्त्या हतकल्मषाणां
सीतासमेतस्य गृहं हृदब्जे ॥ ६३ ॥
राम त्वन्नाममहिमा वर्ण्यते केन वा कथम् ।
यत्प्रभावादहं राम ब्रह्मर्षित्वं अवाप्तवान् ॥ ६४ ॥
अहं पुरा किरातेषु किरातैः सह वर्धितः ।
जन्ममात्रद्विजत्वं मे शूद्राचाररतः सदा ॥ ६५ ॥
शूद्रायां बहवः पुत्रा उत्पन्ना मेऽजितात्मनः ।
ततश्चोरश्च सङ्‌गम्य चौरोऽहं अभवं पुरा ॥ ६६ ॥
धनुर्बाणधरो नित्यं जीवानां अन्तकोपमः ।
एकदा मुनयः सप्त दृष्टा महति कानने ॥ ६७ ॥
साक्षान्मया प्रकाशन्तो ज्वलनार्कसमप्रभः ।
तान् अन्वधावं लोभेन तेषां सर्वपरिच्छदान् ॥ ६८ ॥
ग्रहीतुकामस्तत्राहं तिष्ठ तिष्ठेति चाब्रवम् ।
दृष्ट्वा मां मुनयोऽपृच्छन् किमायासि द्विजाधमा ॥ ६९ ॥
अहं तानब्रवं किञ्चिद् आदातुं मुनिसत्तमाः ।
पुत्रदारादयः सन्ति बहवो मे बुभुक्षिताः ॥ ७० ॥
तेषां संरक्षणार्थाय चरामि गिरिकानने ।
ततो मां ऊचुरव्यग्राः पृच्छ गत्वा कुटुम्बकम् ॥ ७१ ॥
यो यो मया प्रतिदिनं क्रियते पापसञ्चयः ।
यूयं तद्‌भागिनः किं वा नेति वेति पृथक्‌पृथक् ॥ ७२ ॥
वयं स्थास्यामहे तावद् आगमिष्यसि निश्चयः ।
तथेत्युक्त्वा गृहं गत्वा मुनिभिर्यदुदीरितम् ॥ ७३ ॥
अपृच्छं पुत्रदारादीन् तैरुक्तोऽहं रघूत्तम ।
पापं तवैव तत्सर्वं वयं तु फलभागिनः ॥ ७४ ॥
तत्‍श्रुत्वा जातनिर्वेदो विचार्य पुनरागमम् ।
मुनयो यत्र तिष्ठन्ति करुणापूर्णमानसाः ॥ ७५ ॥
मुनीनां दर्शनादेव शुद्धान्तःकरणोऽभवम् ।
धनुरादीन् परित्यज्य दण्डवत् पतितोऽस्म्यहम् ॥ ७६ ॥
रक्षध्वं मां मुनिश्रेष्ठा गच्छन्तं निरयार्णवम् ।
इत्यग्रे पतितं दृष्ट्वा मां ऊचुर्मुनिसत्तमाः ॥ ७७ ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते सफलः सत्समागमः ।
उपदेक्ष्यामहे तुभ्यं किञ्चित् तेनैव मोक्ष्यसे ॥ ७८ ॥
परस्परं समालोच्य दुर्वृत्तोयं द्विजाधमः ।
उपेक्ष्य एव सद्वृत्तः तथापि शरणं गतः ।
रक्षणीयः प्रयत्‍नेन मोक्षमार्गोपदेशतः ॥ ७९ ॥
इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम् ।
एकाग्रमनसात्रैव मरेति जप सर्वदा ॥ ८० ॥
आगच्छामः पुनर्यावत् तावद् उक्तं सदा जप ।
इत्युक्त्वा प्रययुः सर्वे मुनयो दिव्यदर्शिनाः ॥ ८१ ॥
अहं यथोपदिष्टं तैः तथाकरवमञ्जसा ।
जपन् एकाग्रमनसा बाह्यं विस्मृतवानहम् ॥ ८२ ॥
एवं बहुतिथे काले गते निश्चलरूपिणः ।
सर्वसङ्‌गविहीनस्य वल्मीकोऽभूत् ममोपरि ॥ ८३ ॥
ततो युगसहस्रान्ते ऋषयः पुनरागमन् ।
मां ऊचुर्निष्क्रमस्वेति तत्‍श्रुत्वा तूर्णमुत्थितः ॥ ८४ ॥
वल्मीकात् निर्गतश्चाहं नीहारादिव भास्करः ।
मां अप्याहुर्मुनिगणा वाल्मीकिस्त्वं मुनीश्वर ॥ ८५ ॥
वल्मीकात्सम्भवो यस्माद् द्वितीयं जन्म तेऽभवत् ।
इत्युक्त्वा ते ययुर्दिव्य, गतिं रघुकुलोत्तम ॥ ८६ ॥
अहं ते राम नाम्नश्च प्रभावात् ईदृशोऽभवम् ।
अद्य साक्षात् प्रपश्यामि ससीतं लक्ष्मणेन च ॥ ८७ ॥
रामं राजीवपत्राक्षं त्वां मुक्तो नात्र संशयः ।
आगच्छ राम भद्रं ते स्थलं वै दर्शयाम्यहम् ॥ ८८ ॥
एवमुक्त्वा मुनिः श्रीमाँन् लक्ष्मणेन समन्वितः ।
शिष्यैः परिवृतो गत्वा मध्ये पर्वतगङ्‌गयोः ॥ ८९ ॥
तत्र शालां सुविस्तीर्णं कारयामास वासभूः ।
प्राक्पश्चिमं दक्षिणोदक् शोभनं मन्दिरद्वयम् ॥ ९० ॥
जानक्या सहितो रामो लक्ष्मणेन समन्वितः ।
तत्र ते देवसदृशा ह्यवसन् भवनात्तमे ॥ ९१ ॥
वाल्मीकिना तत्र सुपूजितोऽयं
रामः ससीतः सह लक्ष्मणेन ।
देवैर्मुनीन्द्रैः सहितो मुदास्ते
स्वर्गे यथा देवपतिः सशच्या ॥ ९२ ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अयोध्याकाण्डे षष्ठः सर्गः ॥ ६ ॥

GO TOP