॥ श्रीमद् अध्यात्मरामायण ॥

॥ सुन्दरकाण्ड ॥

॥ चतुर्थः सर्गः ॥

श्रीमहादेवौवाच

यान्तंकपीन्द्रं धृतपाशबन्धनं
विलोकयन्तं नगरं विभीतवत् ।
अताडयन्मुष्टितलैः सुकोपनाः
पौराः समन्तादनुयान्त ईक्षितुम् ॥ १ ॥
ब्रह्मास्त्रमेनं क्षणमात्रसङ्‌गमं
कृत्वा गतं ब्रह्मवरेण सत्वरम् ।
ज्ञात्वा हनूमानपि फल्गुरज्जुभिः-
धृतो ययौ कार्यविशेषगौरवात् ॥ २ ॥
सभान्तरस्थस्य च रावणस्य तं
पुरो निधायाह बलारिजित्तदा ।
बद्धोः मया ब्रह्मवरेण वानरः
समागतोऽनेन हता महासुराः ॥ ३ ॥
यदुक्तमत्रार्य विचार्य मंत्रिभिः-
विधीयतामेष न लौकिको हरिः ।
ततो विलोक्याह स राक्षसेश्वरः
प्रहस्तमग्रे स्थितमञ्जनाद्रिभम् ॥ ४ ॥
प्रहस्त पृच्छैनमसौ किमागतः
किमत्र कार्यं कुत एव वानरः ।
वनं किमर्थं सकलं विनाशितं
हताः किमर्थं मम राक्षसा बलात् ॥ ५ ॥
ततः प्रहस्तो हनूमन्तमादरात्
पप्रच्छ केन प्रहितोऽसि वानर ।
भयं च ते मास्तु विमोक्ष्यसे मया
सत्यं वदस्वाखिलराजसन्निधौ ॥ ६ ॥
ततोऽतिहर्षात्पवनात्मजो रिपुं
निरीक्ष्य लोकत्रयकण्टकासुरम् ।
वक्तुं प्रचक्रे रघुनाथसत्कथां
क्रमेण रामं मनसा स्मरन्मुहुः ॥ ७ ॥
शृणु स्फुटं देवगणाद्यमित्र हे
रामस्य दूतोऽहमशेषहृत्स्थितेः ।
यस्याखिलेशस्य हृताधुना त्वया
भार्या स्वनाशाय शुनेव सद्धविः ॥ ८ ॥
स राघवोऽभेत्य मतङ्पर्वतं
सुग्रीवमैत्रीमनलस्य सन्निधौ ।
कृत्वैकबाणेन निहत्य वालिनं
सुग्रीवमेवाधिपतिं चकार तम् ॥ ९ ॥
स वानराणामधिपो महाबली
महाबलैर्वानरयूथकोटिभिः ।
रामेण सार्धं सह लक्ष्मणेन भोः
प्रवर्षणेऽमर्षयुतोऽवतिष्ठते ॥ १० ॥
सञ्चोदितास्तेन महाहरीश्वरा
धरायुतां मार्गयितुं दिशो दश ।
तत्राहमेकं पवनात्मजः कपिः
सीतां विचिन्वञ्छनकैः समागतः ॥ ११ ॥
दृष्ट्वा मया पद्मपलाशलोचना
सीता कपित्वाद्विपिनं विनाशितम् ।
दृष्ट्वा ततोऽहं रभसा समागतान्
मां हन्तुकामान् धृतचापसायकान् ॥ १२ ॥
मया हतास्ते परिरक्षितं वपुः
प्रियो हि देहोऽखिलदेहिनां प्रभो ।
ब्रह्मास्त्रपाशेन निबध्य मां ततः
समागमन्मेघनिनादनामकः ॥ १३ ॥
स्पृष्ट्वैव मा ब्रह्मवरप्रभावतः
त्यक्‍त्वा गतं सर्वमवैमि रावण ।
तथाप्यहं बद्ध इवागतो हितं
प्रवक्तुकामः करुणारसार्द्रधीः ॥ । १४ ॥
विचार्य लोकस्य विवेकतो गतिं
न राक्षसीं बुद्धिमुपैहि रावण ।
दैवीं गतिं संसृतिमोक्षहैतुकीं
समाश्रयात्यन्तहिताय देहिनः ॥ १५ ॥
त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः ।
पौलस्त्यपुत्रोऽसि कुबेरबान्धवः ।
देहात्मबुद्ध्यापि च पश्य राक्षसो
नास्यात्मबुद्ध्या किमु राक्षसो नहि ॥ १६ ॥
शरीरबुद्धीन्द्रियदुःखसन्ततिः
न ते न च त्वं तव निर्विकारतः ।
अज्ञानहेतोश्च तथैश्च सन्तते
रसत्त्वमस्या स्वपतो हि दृश्यवत् ॥ १७ ॥
इदं तु सत्यं तव नास्ति विक्रिया
विकारहेतुर्न च तेऽद्वयत्वतः ।
यथा नभः सर्वगतं न लिप्यते
तथा भवान् देहगतोऽपि सूक्ष्मकः ।
देहेन्द्रियप्राणशरीरसङ्‌गतः-
त्वात्मेति बुद्ध्याखिलबन्धभाग्भवेत् ॥ १८ ॥
चिन्मात्रमेवाहमजोऽहमक्षरो
ह्यानन्दभावोऽहमिति प्रमुच्यते ।
देहोऽप्यनात्मा पृथिवीविकारजो
न प्राण आत्मानिल एष एव सः ॥ १९ ॥
मनोऽप्यहङ्‌कारविकार एव नो
न चापि बुद्धिः प्रकृतेर्विकारजा ।
आत्मा चिदानन्दमयोऽविकारवान्-
देहादिसङ्‌घाद्व्यतिरिक्त ईश्वरः ॥ २० ॥
निरञ्जनो मुक्त उपाधितः सदा
ज्ञात्वैवमात्मानमितो विमुच्यते ।
अतोऽहमात्यन्तिकमोक्षसाधनं
वक्ष्ये शृणुस्वावहितो महामते ॥ २१ ॥
विष्णोर्हि भक्तिः सुविशोधन धियः-
ततो भवेज्ज्ञानमतीव निर्मलम् ।
विशुद्धतत्त्वानुभवो भवेत्ततः
समग्विदित्वा परमं पदं व्रजेत् ॥ २२ ॥
अतो भजस्वाद्य हरिं रमापतिं
रामं पुराणं प्रकृते परं विभुम् ।
विसृज्य मौर्ख्यं हृदि शत्रुभावनां
भजस्व रामं शरणागतप्रियम् ।
सीतां पुरस्कृत्य सपुत्रबान्धवो
रामं नमस्कृत्य विमुच्यसे भयात् ॥ २३ ॥
रामं परात्मानमभावयञ्जनो
भक्त्या हृदिस्थं सुखरूपमद्वयम् ।
कथं परं तीरमवाप्नुयाज्जनो
भवाम्बुधेर्दुःखतरङ्‌गमालिनः ॥ २४ ॥
नो चेत्त्वमज्ञानमयेन वह्निना
ज्वलन्तमात्मानमरक्षितारिवत् ।
नयस्यधोऽधः स्वकृतैश्च पातकैः-
विमोक्षशङ्‌का न च ते भविष्यति ॥ २५ ॥
श्रुत्वामृतास्वादसमानभाषितं
तद्वायुसूनोर्दशकन्धरोऽसुरः ।
अमृष्यमाणोऽतिरुषा कपीश्वरं
जगाद रक्तांतविलोचनो ज्वलन् ॥२६ ॥
कथं ममाग्रे विलपस्यभीतवत्
प्लवङ्‌गमानामधमोऽसि दुष्टधीः ।
क एष रामं कतमो वनेचरो
निहन्मि सुग्रीवयुतं नराधमम् ॥ २७ ॥
त्वां चाद्य हत्वा जनकात्मजां ततो
निहन्मि रामं सहलक्ष्मणं ततः ।
सुग्रीवमग्रे बलिनं कपीश्वरं
सवानरं हन्म्यचिरेण वानर ।
श्रुत्वा दशग्रीववचः स मारुतिः-
विवृद्धकोपेन दहन्निवासुरम् ॥ २८ ॥
न मे समा रावणकोटयोऽधम
रामस्य दासोऽहमपारविक्रमः ।
श्रुत्वातिकोपेन हनूमतो वचो
दशाननो राक्षसमेवमब्रवीत् ॥ २९ ॥
पार्श्वे स्थितं मारय खण्डशः कपिं
पश्यन्तु सर्वेऽसुरमित्रबान्धवाः ।
निवारयामास ततो विभीषणो
महासुरं सायुधमुद्यतं वधे ।
राजन्वधार्हो न भवेत्कथञ्चन
प्रतापयुक्तैः परराजवानरः ॥ ३० ॥
हतेऽस्मिन्वानरे दूते वार्ता को वा निवेदयेत्
रामाय त्वं यमुद्दिश्य वधाय समुपस्थितः ॥ ३१ ॥
अतो वधसमं किञ्चित् अन्यच्चिन्तय वानरे ।
सचिह्नो गच्छतु हरिः यं दृष्ट्वायास्यति द्रुतम् ॥ ३२ ॥
रामः सुग्रीवोसहितः ततो युद्धं भवेत्तव ।
विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत् ॥ ३३ ॥
वानराणां हि लाङ्‌गूले महामानो भवेत्किल ।
अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्‍नतः ॥३४ ॥
वह्निना योजयित्वैनं भ्रामयित्वा पुरेऽभितः ।
विसर्जयत पश्यंतु सर्वे वानरयूथपाः ॥ ३५ ॥
तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः ।
तैलाक्तैर्वेष्टयामासुः लाङ्‌गूलं मारुतेर्दृढम् ॥ ३६ ॥
पुच्छाग्रे किञ्चिदनलं दीपयित्वाथ राक्षसाः ।
रज्जुभिः सुदृढं बद्‍ध्वा धृत्वा तं बलिनोऽसुराः ॥ ३७ ॥
समन्ताद् भ्रामयामासुः चोरोऽयमिति वादिनः ।
तूर्यघोषैर्घोषयन्तः ताडयन्तो मुहुर्मुहुः ॥ ३८ ॥
हनूमतापि तत्सर्वं सोढं किञ्चिच्चिकिर्षुणा ।
गत्वा तु पश्चिमद्वार-समीपं तत्र मारुतिः ॥ ३९ ॥
सूक्ष्म बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ ।
बभूव पर्वताकारः तत उत्प्लुत्य गोपुरम् ॥ ४० ॥
तत्रैकं स्तम्भमादाय हत्वा तान् रक्षिणः क्षणात् ।
विचार्य कार्यशेषं स प्रासादाग्राद् गृहाद् गृहम् ॥ ४१ ॥
उत्प्लुत्योप्लुत्य सन्दीप्त पुच्छेन महता कपिः ।
ददाह लङ्‌कां अखिलां साट्टप्रासादतोरणाम् ॥ ४२ ॥
हा तात पुत्र नाथेति क्रंदमानाः समन्ततः ।
व्याप्ताः प्रासादशिखरेऽपि आरूढा दैत्ययोषितः ॥ ४३ ॥
देवता इव दृश्यन्ते पतन्त्यं पावकेऽखिलाः ।
विभीषणगृहं त्यक्‍त्वा सर्वं भस्मीकृतं पुरम् ॥ ४४ ॥
तत उत्प्लुत्य जलधौ हनूमान् मारुतात्मजः ।
लाङ्‌गूलं मज्जयित्वान्तः स्वस्थचित्तो बभूव सः ॥ ४५ ॥
वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः ।
न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः ॥ ४६ ॥
यन्नाम-संस्मरण-धूतसमस्तपापाः-
तापत्रयानलमपीह तरन्ति सद्यः ।
तस्यैव किं रघुवरस्य विशिष्टदूतः
सन्तप्यते कथमसौ प्रकृतानलेन ॥ ४७ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४ ॥

GO TOP