॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ अष्टमः सर्गः ॥

श्रीमहादेव उवाच

अथ काले गते कस्मिन् भरतो भीमविक्रमः ।
युधाजिता मातुलेन ह्याहूतोऽगात्ससैनिकः ॥ १ ॥
रामाज्ञया गतस्तत्र हत्वा गन्धर्वनायकान् ।
तिस्रः कोटीः पुरे द्वे तु निवेश्य रघुनन्दनः ॥ २ ॥
पुष्करं पुष्करावत्यां तक्षं तक्षशिलाह्वये ।
अभिषिच्य सुतौ तत्र धनधान्यसुहृद्‍वृतौ ॥ ३ ॥
पुनरागत्य भरतो रामसेवापरोऽभवत् ।
ततः प्रीतो रघुश्रेष्ठो लक्ष्मणं प्राह सादरम् ॥ ४ ॥
उभौ कुमारौ सौमित्रे गृहीत्वा पश्चिमां दिशम् ।
तत्र भिल्लान्विनिर्जित्य दुष्टान् सर्वापकारिणः ॥ ५ ॥
अङ्‍गदश्चित्रकेतुश्च महासत्त्वपराक्रमौ ।
द्वयोर्द्वे नगरे कृत्वा गजाश्वधनरत्‍नकैः ॥ ६ ॥
अभिषिच्य सुतौ तत्र शीघ्रमागच्छ मां पुनः ।
रामस्याज्ञां पुरस्कृत्य गजाश्वबलवाहनः ॥ ७ ॥
गत्वा हत्वा रिपुन् सर्वान् स्थापयित्वा कुमारकौ ।
सौमित्रिः पुनरागत्य रामसेवापरोऽभवत् ॥ ८ ॥
ततस्तु काले महति प्रयाते
रामं सदा धर्मपथे स्थितं हरिम् ।
द्रष्टुं समागाद् ऋषिवेषधारी
कालस्ततो लक्ष्मणमित्युवाच ॥ ९ ॥
निवेदयस्वातिबलस्य दूतं
मां द्रष्टुकामं पुरुषोत्तमाय ।
रामाय विज्ञापनमस्ति तस्य
महर्षिमुख्यस्य चिराय धीमन् ॥ १० ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः ।
आचचक्षेऽथ रामाय स सम्प्राप्तं तपोधनम् ॥ ११ ॥
एवं ब्रुवन्तं प्रोवाच लक्ष्मणं राघवो वचः ।
शीघ्रं प्रवेश्यतां तात मुनिः सत्कारपूर्वकम् ॥ १२ ॥
लक्ष्मणस्तु तथेत्युक्‍त्वा प्रावेशयत तापसम् ।
स्वतेजसा ज्वलन्तं तं घृतसिक्तं यथानलम् ॥ १३ ॥
सोऽभिगम्य रघुश्रेष्ठं दीप्यमानः स्वतेजसा ।
मुनिर्मधुरवाक्येन वर्धस्वेत्याह राघवम् ॥ १४ ॥
तस्मै स मुनये रामः पूजां कृत्वा यथाविधि ।
पृष्ट्वानामयमव्यग्रो रामः पृष्टोऽथ तेन सः ॥ १५ ॥
दिव्यासाने समासीनो रामः प्रोवाच तापसम् ।
यदर्थमागतोऽसि त्वं इह तत् प्रापयस्व मे ॥ १६ ॥
वाक्येन चोदितस्तेन रामेणाह मुनिर्वचः ।
द्वन्द्वमेव प्रयोक्तव्यं अनालक्ष्यं तु तद्वचः ॥ १७ ॥
नान्येन चैतच्छ्रोतव्यं नाख्यातव्यं च कस्यचित् ।
शृणुयाद्वा निरीक्षेद्वा यः स वध्यस्त्वया प्रभो ॥ १८ ॥
तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ।
तिष्ठ त्वं द्वारि सौमित्रे नायात्वत्र जनो रहः ॥ १९ ॥
यथा गच्छति को वापि स वध्यो मे न संशयः ।
ततः प्राह मुनिं रामो येन वा त्वं विसर्जितः ॥ २० ॥
यत्ते मनीषितं वाक्यं तद्वदस्व ममाग्रतः ।
ततः प्राह मुनिर्वाक्यं शृणु राम यथातथम् ॥ २१ ॥
ब्रह्मणा प्रेषितोऽस्मीश कार्यार्थे तेऽन्तिकं प्रभो ।
अहं हि पूर्वजो देव तव पुत्रः परन्तप ॥ २२ ॥
मायासङ्‍गमजो वीर कालः सर्वहरः स्मृतः ।
ब्रह्मा त्वामाह भगवान् सर्वदेवर्षिपूजितः ॥ २३ ॥
रक्षितुं स्वर्गलोकस्य समयस्ते महामते ।
पुरा त्वमेक एवासीः लोकान् संहृत्य मायया ॥ २४ ॥
भार्यया सहितस्त्वं मां आदौ पुत्रमजीजनः ।
तथा भोगवतं नागं अनन्तमुदकेशयम् ॥ २५ ॥
मायया जनयित्वा त्वं द्वौ ससत्त्वौ महाबलौ ।
मधुकैटभकौ दैत्यौ हत्वा मेदोऽस्थिसञ्चयम् ॥ २६ ॥
इमां पर्वतसंबद्धां मेदिनीं पुरुषर्षभ ।
पद्मे दिव्यार्कसङ्‍काशे नाभ्यामुत्पाद्य मामपि ॥ २७ ॥
मां विधाय प्रजाध्यक्षं मयि सर्वं न्यवेदयत् ।
सोऽहं संयुक्तसंभारः त्वां अवोचं जगत्पते ॥ २८ ॥
रक्षां विधत्स्व भूतेभ्यो ये मे वीर्यापहारिणः ।
ततस्वं कस्यपाज्जातो विष्णुर्वामनरूपधृक् ॥ २९ ॥
हृतवानसि भूभारं वधाद् रक्षोगणस्य च ।
सर्वासूत्सार्यमाणासु प्रजासु धरणीधर ॥ ३० ॥
रावणस्य वधाकाङ्‍क्षी मर्त्यलोकं उपागतः ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥ ३१ ॥
कृत्वा वासस्य समयं त्रिदशेष्वात्मनः पुरा ।
स ते मनोरथः पूर्णः पूर्णे चायुषि ते नृषु ॥ ३२ ॥
कालस्तापसरूपेण त्वत्समीपं उपागमत् ।
ततो भूयश्च ते बुद्धिः यदि राज्यमुपासितुम् ॥ ३३ ॥
तत्तथा भव भद्रं ते एवमाह पितामहः ।
यदि ते गमने बुद्धिः देवलोकं जितेन्द्रिय ॥ ३४ ॥
सनाथा विष्णुना देवा भजन्तु विगतज्वराः ।
चतुर्मुखस्य तद्वाक्यं श्रुत्वा कालेन भाषितम् ॥ ३५ ॥
हसन् रामस्तदा वाक्यं कृत्स्नस्यान्तकमब्रवीत् ।
श्रुतं तव वचो मेऽद्य ममापीष्टतरं तु तत् ॥ ३६ ॥
सन्तोषः परमो ज्ञेयः त्वद् आगमनकारणात् ।
त्रयाणामपि लोकानां कार्यार्थं मम संभवः ॥ ३७ ॥
भद्रं तेऽस्त्वागमिष्यामि यत एवाहमागतः ।
मनोरथस्तु संप्राप्तो न मेऽत्रास्ति विचारणा ॥ ३८ ॥
मत्सेवकानां देवानां सर्वकार्येषु वै मया ।
स्थातव्यं मायया पुत्र यथा चाह प्रजापतिः ॥ ३९ ॥
एवं तयोः कथयतोः दुर्वासा मुनिरभ्यगात् ।
राजद्वारं राघवस्य दर्शनापेक्षया द्रुतम् ॥ ४० ॥
मुनिर्लक्ष्मणमासाद्य दुर्वासा वाक्यमब्रवीत् ।
शीघ्रं दर्शय रामं मे कार्यं मेऽत्यन्तमाहितम् ॥ ४१ ॥
तच्छ्रुत्वा प्राह सौमित्रिः मुनिं ज्वलनतेजसम् ।
रामेण कार्यं किं तेऽद्य किं तेऽभीष्टं करोम्यहम् ॥ ४२ ॥
राजा कार्यान्तरे व्यग्रो मुहूर्तं संप्रतीक्ष्यताम् ।
तच्छ्रुत्वा क्रोधसन्तप्तो मुनिः सौमित्रिमब्रवीत् ॥ ४३ ॥
अस्मिन् क्षणे तु सौमित्रे न दर्शयसि चेद्विभुम् ।
रामं सविषयं वंशं भस्मीकुर्यां न संशयः ॥ ४४ ॥
श्रुत्वा तद्वचनं घोरं ऋषेर्दुर्वाससो भृशम् ।
स्वरूपं तस्य वाक्यस्य चिन्तयित्वा स लक्ष्मणः ॥ ४५ ॥
सर्वनाशाद्वरं मेऽद्य नाशो ह्येकस्य कारणात् ।
निश्चित्यैवं ततो गत्वा रामाय प्राह लक्ष्मणः ॥ ४६ ॥
सौमित्रेर्वचनं श्रुत्वा रामः कालं व्यसर्जयत् ।
शीघ्रं निर्गम्य रामोऽपि ददर्शात्रेः सुतं मुनिम् ॥ ४७ ॥
रामोऽभिवाद्य संप्रीतो मुनिं पप्रच्छ सादरम् ।
किं कार्यं ते करोमीति मुनिमाह रघुत्तमः ॥ ४८ ॥
तच्छ्रुत्वा रामवचनं दुर्वासा राममब्रवीत् ।
अद्य वर्ष सहस्राणां उपवास समापनम् ॥ ४९ ॥
अतो भोजनमिच्छामि सिद्धं यत्ते रघुत्तम ।
रामो मुनिवचः श्रुत्वा सन्तोषेण समन्वितः ॥ ५० ॥
स सिद्धमन्नं मुनये यथावत् समुपाहरत् ।
मुनिर्भुक्‍त्वान्नं अमृतं सन्तुष्टः पुरभ्यगात् ॥ ५१ ॥
स्वं आश्रमं गते तस्मिन् रामः सस्मार भाषितम् ।
कालेन शोकदुःखार्तो विमनाश्चाति विह्वलः ॥ ५२ ॥
अवाङ्‍मुखो दीनमना न शशाकाभिभाषितुम् ।
मनसा लक्ष्मणं ज्ञात्वा हतप्रायं रघूद्वहः ॥ ५३ ॥
अवाङ्‍मुखो बभूवाथ तूष्णीमेवाखिलेश्वरः ।
ततो रामं विलोक्याह सौमित्रिर्दुःखसंप्लुतम् ॥ ५४ ॥
तूष्णीम्भूतं चिन्तयन्तं गर्हन्तं स्नेहबन्धनम् ।
मत्कृते त्यज सन्तापं जहि मां रघुनन्दन ॥ ५५ ॥
गतिः कालस्य कलिता पूर्वमेवेदृशी प्रभो ।
त्वयि हीनप्रतिज्ञे तु नरको मे ध्रुवं भवेत् ॥ ५६ ॥
मयि प्रीतिर्यदि भवेद् यदि अनुग्राह्यता तव ।
त्यक्‍त्वा शङ्‍कां जहि प्राज्ञ मा मा धर्मं त्यज प्रभो ॥ ५७ ॥
सौमित्रिणोक्तं तच्छ्रुत्वा रामश्चलितमानसः ।
आहूय मंत्रिणः सर्वान् वसिष्ठं चेदमब्रवीत् ॥ ५८ ॥
मुनेरागमनं यत्तु कालस्यापि हि भाषितम् ।
प्रतिज्ञामात्मनश्चैव सर्वं आवेदयत्प्रभुः ॥ ५९ ॥
श्रुत्वा रामस्य वचनं मन्‍त्रिणः सपुरोहिताः ।
ऊचुः प्राञ्जलयः सर्वे रामं अक्लिष्टकारिणम् ॥ ६० ॥
पूर्वमेव हि निर्दिष्टं तव भूभारहारिणः ।
लक्ष्मणेन वियोगस्ते ज्ञातो विज्ञानचक्षुषा ॥ ६१ ॥
त्यजाशु लक्ष्मणं राम मा प्रतिज्ञां त्यज प्रभो ।
प्रतिज्ञाते परित्यक्ते धर्मो भवति निष्फलः ॥ ६२ ॥
धर्मे नष्टेऽखिले राम त्रैलोक्यं नश्यति ध्रुवम् ।
त्वं तु सर्वस्य लोकस्य पालकोऽसि रघुत्तम ॥ ६३ ॥
त्यक्‍त्वा लक्ष्मणमेवैकं त्रैलोक्यं त्रातुमर्हसि ।
रामो धर्मार्थसहितं वाक्यं तेषामनिन्दितम् ॥ ६४ ॥
सभामध्ये समाश्रुत्य प्राह सौमित्रिमञ्जसा ।
यथेष्टं गच्छ सौमित्रे मा भूत् धर्मस्य संशयः ॥ ६५ ॥
परित्यागो वधो वापि सतामेवोभयं समम् ।
एवमुक्ते रघुश्रेष्ठे दुःखव्याकुलितेक्षणः ॥ ६६ ॥
रामं प्रणम्य सौमित्रिः शीघ्रं गृहमगात्स्वकम् ।
ततोऽगात्सरयूतीरं आचम्य स कृताञ्जलिः ॥ ६७ ॥
नव द्वाराणि संयम्य मूर्ध्नि प्राणमधारयत् ।
यदक्षरं परं ब्रह्म वासुदेवाख्यमव्ययम् ॥ ६८ ॥
पदं तत्परमं धाम चेतसा सोऽभ्यचिन्तयत् ।
वायुरोधेन संयुक्तं सर्वे देवाः सहर्षयः ॥ ६९ ॥
साग्नयो लक्ष्मणं पुष्पैः तुष्टुवुश्च समाकिरन् ।
अदृश्यं विबुधैः कैश्चित् सशरीरं च वासवः ॥ ७० ॥
गृहीत्वा लक्ष्मणं शक्रः स्वर्गलोकमथागमत् ।
ततो विष्णोश्चतुर्भागं तं देवं सुरसत्तमाः ।
सर्वे देवर्षयो दृष्ट्वा लक्ष्मणं समपूजयन् ॥ ७१ ॥
लक्ष्मणे हि दिवमागते हरौ
सिद्धलोकगतयोगिनस्तदा ।
ब्रह्मणा सह समागमन्मुदा
द्रष्टुमाहितमहाहिरूपकम् ॥ ७२ ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे अष्टमः सर्गः ॥ ८ ॥

GO TOP