॥ श्रीमद् अध्यात्मरामायण ॥

॥ अरण्यकाण्ड ॥

॥ तृतीयः सर्ग: ॥

अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च ।
अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत ॥ १ ॥
तेन सम्पूजितः सम्यक् भुक्त्वा मूलफलादिकम् ।
परेद्युः प्रातरुत्थाय जग्मुस्तेऽगस्त्यमण्डलम् ॥ २ ॥
सर्वर्तुफलपुष्पाढ्यं नानामृगगणैर्युतम् ।
पक्षिसङ्‌घैश्च विविधैः नादितं नन्दनोपमम् ॥ ३ ॥
ब्रह्मर्षिभिर्देवर्षिभिः सेवितं मुनिमन्दिरैः ।
सर्वतोऽलंकृतं साक्षाद् ‌ब्रह्मलोकमिवापरम् ॥ ४ ॥
बहिरेवाश्रमस्याथ स्थित्वा रामोऽब्रवीन्मुनिम् ।
सुतीक्ष्ण गच्छ त्वं शीघ्रं आगतं मां निवेदय ॥ ५ ॥
अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च ।
महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः ॥ ६ ॥
आश्रमं त्वरया तत्र ऋषिसङ्‌घसमावृतम् ।
उपविष्टं रामभक्तैः विशेषेण समायुतम् ॥ ७ ॥
व्याख्यातराममंत्रार्थ शिष्येभ्यश्चातिभक्तितः ।
दृष्ट्वागस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः ॥ ८ ॥
दण्डवत्प्रणिपत्याह विनयावनतः सुधीः ।
रामो दाशरथिर्ब्रह्मन् सीतया लक्ष्मणेन च ।
आगतो दर्शनार्थं ते बहिस्तिष्ठति साञ्जलिः ॥ ९ ॥
अगस्त्य उवाच
शीघ्रमानय भद्रं ते रामं मम हृदिस्थितम् ।
तमेव ध्यायमानोऽहं काङ्‌क्षमाणोऽत्र संस्थितः ॥ १० ॥
इत्युक्त्वा स्वयमुत्थाय मुनिभिः सहितो द्रुतम् ।
अभ्यगात्परया भक्त्या गत्वा राममथाब्रवीत् ॥ ११ ॥
आगच्छ राम भद्रं ते दिष्ट्या तेऽद्य समागमः ।
प्रियातिथिर्मम प्राप्तोऽसि अद्य मे सफलं दिनम् ॥ १२ ॥
रामोऽपि मुनिमायान्तं दृष्ट्वा हर्षसमाकुलः ।
सीतया लक्ष्मणेनापि दण्डवत्पतितो भुवि ॥ १३ ॥
द्रुतमुत्थाप्य मुनिराड्‍ राममालिङ्‌ग्य भक्तितः ।
तद्‍गात्रस्पर्शजाह्लाद स्रवन्नेत्रजलाकुलः ॥ १४ ॥
गृहीत्वा करमेकेन करेण रघुनन्दनम् ।
जगाम स्वाश्रमं हृष्टो मनसा मुनिपुङ्‌गवः ॥ १५ ॥
सुखोपविष्टं सम्पूज्य पूजया बहुविस्तरम् ।
भोजयित्वा यथान्यायं भोज्यैर्वन्यैरनेकधा ॥ १६ ॥
सुखोपविष्टमेकान्ते रामं शशिनिभाननम् ।
कृताञ्जलिरुवाचेदं अगस्त्यो भगवान् ऋषिः ॥ १७ ॥
त्वदागमनमेवाहं प्रतीक्षन्समवस्थितः ।
यदा क्षीरसमुद्रान्ते ब्रह्मणा प्रार्थितः पुरा ॥ १८ ॥
भूमेर्भारापनुत्त्यर्थं रावणस्य वधाय च ।
तदादि दर्शनाकाङ्‌क्षी तव राम तपश्चरन् ।
वसामि मुनिभिः सार्धं त्वामेव परिचिन्तयन् ॥ १९ ॥
सृष्टेः प्रागेक एवासीः निर्विकल्पोऽनुपाधिकः ।
त्वदाश्रया त्वद्विषया माया ते शक्तिरुच्यते ॥ २० ॥
त्वामेव निर्गुणं शक्तिः आवृणोति यदा तदा ।
अव्याकृतमिति प्राहुः वेदान्तपरिनिष्ठिताः ॥ २१ ॥
मूलप्रकृतिरित्येके प्राहुर्मायेति केचन ।
अविद्या संसृतिर्बन्ध इत्यादि बहुधोच्यते ॥ २२ ॥
त्वया संक्षोभ्यमाणा सा महत्तत्त्वं प्रसूयते ।
महत्तत्त्वात् अहङ्‌कारः त्वया सञ्चोदितादभूत् ॥ २३ ॥
अहङ्‌कारो महत्तत्त्व संवृतस्त्रिविधोऽभवत् ।
सात्त्विको राजसश्चैव तामसश्चेति भण्यते ॥ २४ ॥
तामसात् सूक्ष्मतन्मात्राणि आसन्भूतान्यतः परम् ।
स्थूलानि क्रमशो राम क्रमोत्तरगुणानि ह ॥ २५ ॥
राजसानीन्द्रियाण्येव सात्त्विका देवता मनः ।
तेभ्योऽभवत्सूत्ररूपं लिङ्‌गं सर्वगतं महत् ॥ २६ ॥
ततो विराट्समुत्पन्नः स्थूलाद्‌भूतकदम्बकात् ।
विराजः पुरुषात्सर्वं जगत्स्थावरजङ्‌गमम् ॥ २७ ॥
देवतिर्यङ्‌मनुष्याश्च कालकर्मक्रमेण तु ।
त्वं रजोगुणतो ब्रह्मा जगतः सर्वकारणम् ॥ २८ ॥
सत्त्वाद्विष्णुस्त्वमेवास्य पालकः सद्‌भिरुच्यते ।
लये रुद्रस्त्वमेवास्य त्वन्मायागुणभेदतः ॥ २९ ॥
जाग्रत्स्वप्नसुषुप्त्याख्या वृत्तयो बुद्धिजैर्गुणैः ।
तासां विलक्षणो राम त्वं साक्षी चिन्मयोऽव्ययः ॥ ३० ॥
सृष्टिलीलां यदा कर्तुं ईहसे रघुनन्दन ।
अङ्‌गीकरोषि मायां त्वं तदा वै गुणवानिव ॥ ३१ ॥
राम माया द्विधा भाति विद्या-अविद्येति ते सदा ।
प्रवृत्तिमार्गनिरता अविद्यावशवर्तिनः ।
निवृत्तिमार्गनिरता वेदान्तार्थविचारकाः ॥ ३२ ॥
त्वद्‌भक्तिनिरता ये च, ते वै विद्यामयाः स्मृता ॥ ३३ ॥
अविद्यावशगा ये तु नित्यं संसारिणाश्च ते ।
विद्याभ्यासरता ये तु नित्यमुक्तास्त एव हि ॥ ३४ ॥
लोके त्वद्‌भक्तिनिरताः त्वन्मंत्रोपासकाश्च ये ।
विद्या प्रादुर्भवेत्तेषां नेतरेषां कदाचन ॥ ३५ ॥
अतस्त्वद्‌भक्तिसम्पन्ना मुक्ता एव न संशयः ।
त्वद्‌भक्त्यमृतहीनानां मोक्षः स्वप्नेऽपि नो भवेत् ॥ ३६ ॥
किं राम बहुनोक्तेन सारं किञ्चिद्‌ब्रवीमि ते ।
साधुसङ्‌गतिरेवात्र मोक्षहेतुरुदाहृता ॥ ३७ ॥
साधवः समचित्ता ये निःस्पृहा विगतैषिणः ।
दान्ताः प्रशान्तास्त्वद्‌भक्ता निवृत्ताखिलकामनाः ॥ ३८ ॥
इष्टप्राप्तिविपत्त्योश्च समाः सङ्‌गविवर्जिताः ।
संन्यस्ताखिलकर्माणः सर्वदा ब्रह्मतत्पराः ॥ ३९ ॥
यमादिगुणसम्पन्नाः सन्तुष्टा येन केनचित् ।
सत्सङ्‌गमो भवेद्यर्हि त्वत्कथाश्रवणे रतिः ॥ ४० ॥
समुदेति ततो भक्तिः त्वयि राम सनातने ।
त्वद्‌भक्तावुपपन्नायां विज्ञानं विपुलं स्फुटम् ॥ ४१ ॥
उदेति मुक्तिमार्गोऽयं आद्यश्चतुरसेवितः ।
तस्माद् राघव सद्‌भक्तिः त्वयि मे प्रेमलक्षणा ॥ ४२ ॥
सदा भूयाद्धरे सङ्‌गः त्वद्‌भक्तेषु विशेषतः ।
अद्य मे सफलं जन्म भवत्सन्दर्शनादभूत् ॥ ४३ ॥
अद्य मे ऋतवः सर्वे बभूवुः सफलाः प्रभो ।
दीर्घकालं मया तप्तं अनन्यमतिना तपः ।
तस्येह तपसो राम फलं तव यदर्चनम् । ४४ ॥
सदा मे सीतया सार्धं हृदये वस राघव ।
गच्छतस्तिष्ठतो वापि स्मृतिः स्यान्मे सदा त्वयि ॥ ४५ ॥
इति स्तुत्वा रमानाथं अगस्त्यो मुनिसत्तमः ।
ददौ चापं महेन्द्रेण रामार्थे स्थापितं पुरा ॥ ४६ ॥
अक्षय्यौ बाणतूणीरौ खड्गो रत्‍नविभूषितः ।
जहि राघव भूभार भूतं राक्षसमण्डलम् ।
यदर्थमवतीर्णोऽसि मायया मनुजाकृतिः ॥ ४७ ॥
इतो योजनयुग्मे तु पुण्यकाननमण्डितः ।
अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे ।
नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह ॥ ४८ ॥
तत्रैव बहुकार्याणि देवानां कुरु सत्पते ॥ ४९ ॥
श्रुत्वा तदागस्त्यसुभाषितं वचः
स्तोत्रं च तत्त्वार्थसमन्वितं विभुः ।
मुनिं समाभाष्य मुदान्वितो ययौ
प्रदर्शितं मार्गमशेषविद्धरिः ॥ ५० ॥
इति श्रीमद् अध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP