॥ श्रीमद् अध्यात्मरामायण ॥

॥ युद्धकाण्ड ॥

॥ अष्टमः सर्गः ॥

श्रीमहादेव उवाच

कुम्भकर्णश्च वचः श्रुत्वा भ्रुकुटीविकटाननः ।
दशग्रीवो जगादेदम् आसनाद् उत्पतन्निव ॥ १ ॥
त्वमानितो न मे ज्ञान-बोधनाय सुबुद्धिमान् ।
मया कृतं समीकृत्य युध्यस्व यदि रोचते ॥ २ ॥
नोचेद्‍गच्छ सुषुप्त्यर्थं निद्रा त्वां बाधतेऽधुना ।
रावणस्य वचं श्रुत्वा कुम्भकर्णो महाबलः ॥ ३ ॥
रुष्टोऽयमिति विज्ञाय तूर्णं युद्धाय निर्ययौ ।
स लङ्‌घयित्वा प्राकारं महापर्वतसन्निभः ॥ ४ ॥
निर्ययौ नगरात्तूर्णं भीषयन् हरिसैनिकान् ।
स ननाद महानादं समुद्रमभिनादयन् ॥ ५ ॥
वानरान्कालयामास बाहुभ्यां भक्षयन् रुषा ।
कुम्भकर्ण तदा दृष्ट्वा सपक्षमिव पर्वतम् ॥ ६ ॥
दुद्रुवुर्वानराः सर्वे कालान्तकमिवाखिलाः ।
भ्रमन्तं हरिवाहिन्यां मुद्‍गरेण महाबलम् ॥ ७ ॥
कालयन्तं हरीन् वेगात् ‍भक्षयन्तं समन्ततः ।
चूर्णयन्तं मुद्‍गरेण पाणिपादैरनेकधा ॥ ८ ॥
कुम्भकर्णं तदा दृष्ट्वा गदापाणिर्विभीषणः ।
ननाम चरणं तस्य भ्रातुर्ज्येष्ठस्य बुद्धिमान् ॥ ९ ॥
विभीषणोऽहं भ्रातुर्मे दयां कुरु महामते ।
रावणस्तु मया भ्रातर्बहुधा परिबोधितः ॥ १० ॥
सीतां देहीति रामाय रामः साक्षाज्जनार्दनः ।
न शृणोति च मां हन्तुं खड्गमुद्यम्य चोक्तवान् ॥ ११ ॥
धिक् त्वां गच्छेति मां हत्वा पदा पापिभिरावृतः ।
चतुर्भिर्मंत्रिभिः सार्धं रामं शरणमागतः ॥ १२ ॥
तच्छ्रुत्वा कुम्भकर्णोऽपि ज्ञात्वा भ्रातरमागतम् ।
समालिङ्‌ग्य च वत्स त्वं जीव रामपदाश्रयात् ॥ १३ ॥
कुलसंरक्षणार्थाय राक्षसानां हिताय च ।
महाभागवतोऽसि त्वं पुरा मे नारदाच्छ्रुतम् ॥ १४ ॥
गच्छ तात ममेदानीं दृश्यते न च किञ्चन ।
मदीयो वा परो वापि मदमत्तविलोचनः ॥ १५ ॥
इत्युक्तोऽश्रुमुखो भ्रातुः चरणावभिवन्द्य सः ।
रामपार्श्वमुपागत्य चिन्तापर उपस्थितः ॥ १६ ॥
कुम्भकर्णोऽपि हस्ताभ्यां पादाभ्यां पेषयन्हरीन् ।
चचार वानरीं सेनां कालयन् गन्धहस्तिवत् ॥ १७ ॥
दृष्ट्वा तं राघवः क्रुद्धो वायव्यं शस्त्रमादरात् ।
चिक्षेप कुम्भकर्णाय तेन चिच्छेद रक्षसः ॥ १८ ॥
समुद्‍गरं दक्षहस्तं तेन घोरं ननाद सः ।
स हस्तः पतितो भूमौ अनेकानर्दयन्कपीन् ॥ १९ ॥
पर्यन्तमाश्रिताः सर्वे वानरा भयवेपिताः ।
रामराक्षसयोर्युधं पश्यन्तः पर्यवस्थिताः ॥ २० ॥
कुम्भकर्णश्छिन्नहस्तः शालमुद्यम्य वेगतः ।
समरे राघवं हन्तुं दुद्राव तमथोऽच्छिनत् ॥ २१ ॥
शालेन सहितं वाम हस्तमैन्द्रेण राघवः ।
छिन्नबाहुमथायान्तं नर्दन्तं वीक्ष्य राघवः ॥ २२ ॥
द्वावर्धचन्द्रौ निशितौ आदायास्य पदद्वयम् ।
चिच्छेद पतितौ पादौ लङ्‌काद्वारि महास्वनौ ॥ २३ ॥
निकृत्तपाणिपादोऽपि कुम्भकर्णौऽतिभीषणः ।
वडवामुखवद्वक्‍त्रं व्यादाय रघुनन्दनम् ॥ २४ ॥
अभिदुद्राव निनदन् राहुश्चन्द्रमसं यथा ।
अपूरयच्छिताग्रैश्च सायकैस्तद्‌रघूत्तमः ॥ २५ ॥
शरपूरितवक्‍त्रोऽसौ चुक्रोसातिभयङ्‌करः ।
अथ सूर्यप्रतीकाशं ऐन्द्रं शरमनुत्तमम् ॥ २६ ॥
वज्राशनिसमं रामः चिक्षेपासुरमृत्यवे ।
स तत्पर्वतसङ्‌काशं स्फुरत्कुण्डलदंष्ट्रकम् ॥ २७ ॥
चकर्त रक्षोऽधिपतेः शिरो वृत्रमिवाशनिः ।
तच्छिरः पतितं लङ्‌का-द्वारि कायो महोदधौ ॥ २८ ॥
शिरोऽस्य रोधयद्‍द्वारं कायो नक्राद्यचूर्णयत् ।
ततो देवाः सऋषयो गन्धर्वाः पन्नगाः खगाः ॥ २९ ॥
सिद्धा यक्षा गुह्यकाश्च अप्सरोभिश्च राघवम् ।
ईडिरे कुसुमासारैः वर्षन्तश्चाभिनन्तिताः ॥ ३० ॥
आजगाम तदा रामं द्रष्टुं देवमुनीश्वरः ।
नारदो गगनात्तुर्णं स्वभासा भासयन्दिशः ॥ ३१ ॥
रामं इन्दीवरश्यामं उदाराङ्‌गं धनुर्धरम् ।
ईषत्ताम्रविशालाक्षं ऐन्द्रास्त्राञ्चितबाहुकम् ॥ ३२ ॥
दयार्द्रदृष्ट्या पश्यन्तं वानरान् शरपीडितान् ।
दृष्ट्वा गद्‍गदया वाचा भक्त्या स्तोतुं प्रचक्रमे ॥ ३३ ॥
नारद उवाच
देवदेव जगन्नाथ परमात्मन् सनातन ।
नारायणाखिलाधार विश्वसाक्षिन्नमोऽस्तु ते ॥ ३४ ॥
विशुद्धज्ञानरूपोऽपि त्वं लोकान् अतिवञ्चयन् ।
मायया मनुजाकारः सुखदुःखादिमानिव ॥ ३५ ॥
त्वं मायया गुह्यमानं सर्वेषां हृदि संस्थितः ।
स्वयंज्योतिः स्वभावस्त्वं व्यक्त एवामलात्मनाम् ॥ ३६ ॥
उन्मीलयन् सृजस्येतन् नेत्रे राम जगत्त्रयम् ।
उपसंह्रियते सर्वं त्वया चक्षुर्निमीलनात् । ३७ ॥
यस्मिन्सर्वमिदं भाति यतश्चैतच्चराचरम् ।
यस्मान्न किञ्चिल्लोकेऽस्मिन् तस्मै ते ब्रह्मणे नमः ॥ ३८ ॥
प्रकृतिं पुरुषं कालं व्यक्ताव्यक्तस्वरूपिणम् ।
यं जानन्ति मुनिश्रेष्ठाः तस्मै रामाय ते नमः ॥ ३९ ॥
विकाररहितं शुद्धं ज्ञानरूपं श्रुतिर्जगौ ।
त्वां सर्वजगदाकार मूर्तिं चाप्याह सा श्रुतिः ॥ ४० ॥
विरोधो दृश्यते देव वैदिको वेदवादिनाम् ।
निश्चयं नाधिगच्छन्ति त्वत्प्रसादं विना बुधाः ॥ ४१ ॥
मायया क्रीडतो देव न विरोधो मनागपि ।
रश्मिजालं रवेर्यद्वद् दृश्यते जलवद् भ्रमात् ॥ ४२ ॥
भ्रान्तिज्ञानात्तथा राम त्वयि सर्वं प्रकल्प्यते ।
मनसोऽविषयो देव रूपं ते निर्गुणं परम् ॥ ४३ ॥
कथं दृश्यं भवेद्देव दृश्याभावे भजेत्कथम् ।
अतस्तव अवतारेषु रूपाणि निपुणा भुवि ॥ ४४ ॥
भजन्ति बुद्धिसम्पन्नाः तरन्त्येव भवार्णवम् ।
कामक्रोधादयस्तत्र बहवः परिपन्थिनः ॥ ४५ ॥
भीषयन्ति सदा चेतो मार्जारा मूषकं यथा ।
त्वन्नाम स्मरतां नित्यं त्वद् रूपं अपि मानसे ॥ ४६ ॥
त्वत्पूजानिरतानां ते कथामृत परात्मनाम् ।
द्वद्‌भक्तसङ्‌गिनां राम संसारो गोष्पदायते ॥ ४७ ॥
अतस्ते सगुणं रुपं ध्यात्वाहं सर्वदा हृदि ।
मुक्तश्चरामि लोकेषु पूज्योऽहं सर्वदैवतैः ॥ ४८ ॥
राम त्वया महत्कार्यं कृतं देवहितेच्छया ।
कुम्भकर्णवधेनाद्य भूभारोऽयं गतः प्रभो ॥ ४९ ॥
श्वो हनिष्यति सौमित्रिः इन्द्रजेतारमाहवे ।
हनिष्यसेऽथ राम त्वं परश्वो दशकन्धरम् ॥ ५० ॥
पश्यामि सर्वं देवेश सिद्धैः सह नभोगतः ।
अनुगृह्णीष्व मां देव गमिष्यामि सुरालयम् ॥ ५१ ॥
इत्युक्‍त्वा राममामंत्र्य नारदो भगवान् ऋषिः ।
ययौ देवैः पूज्यमानो ब्रह्मलोकं अकल्मषम् ॥ ५२ ॥
भ्रातरं निहतं श्रुत्वा कुम्भकर्णं महाबलम् ।
रावणः शोकसंतप्तो रामेणाक्लिष्टकर्मणा ॥ ५३ ॥
मूर्छितः पतितो भुमौ उत्थाय विललाप ह ।
पितृव्यं निहतं श्रुत्वा पितरं चातिविह्वलम् ॥ ५४ ॥
इन्द्रजित्प्राह शोकार्तं त्यज शोकं महामते ।
मयि जीवति राजेंद्र मेघनादे महाबले ॥ ५५ ॥
दुःख्यावसरः कुत्र देवान्तक महामते ।
व्येतु ते दुःखमखिलं स्वस्थो भव महीपते ॥ ५६ ॥
सर्वं समीकरिष्यामि हनिष्यामि च वै रिपून् ।
गत्वा निकुम्भिलां सद्यः तर्पयित्वा हुताशनम् ॥ ५७ ॥
लब्ध्वा रथादिकं तस्माद् अजेयोऽहं भवाम्यरेः ।
इत्युक्‍त्वा त्वरितं गत्वा निर्दिष्टं हवनस्थलम् ॥ ५८ ॥
रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ।
निकुम्भिलास्थले मौनी हवनायोपचक्रमे ॥ ५९ ॥
बिभीषणोऽथ तच्छ्रुत्वा मेघनादस्य चेष्टितम् ।
प्राह रामाय सकलं होमारम्भं दुरात्मनः ॥ ६० ॥
समाप्यते चेद्धोमोऽयं मेघनादस्य दुर्मतेः ।
तदा अजेयो भवेद्‍राम मेघनादः सुरासुरैः ॥ ६१ ॥
अतः शीघ्रं लक्ष्मणेन घातयिष्यामि रावणिम् ।
आज्ञापय मया सार्धं लक्ष्मणं बलिनां वरम् ।
हनिष्यति न सन्देहो मेघनादं तवानुजः ॥ ६२ ॥
श्रीरामचन्द्र उवाच
अहमेवागमिष्यामि हन्तुमिन्द्रजितं रिपुम् ।
आग्नेयेन महास्त्रेण सर्वराक्षसघातिना ॥ ६३ ॥
विभीषणोऽपि तं प्राह नासावन्यैर्निहन्यते ।
यस्तु द्वादश वर्षाणि निद्राहारविवर्जितः ॥ ६४ ॥
तेनैव मृत्युर्निर्दिष्टो ब्रह्मणास्य दुरात्मनः ।
लक्ष्मणस्तु अयोध्याया निर्गम्यायात्त्वया सह ॥ ६५ ॥
तदादि निद्राहारादीन् न जानाति रघूत्तम ।
सेवार्थं तव राजेन्द्र ज्ञातं सर्वमिदं मया ॥ ६६ ॥
तद् आज्ञापय देवेश लक्ष्मणं त्वरया मया ।
हनिष्यति न सन्देहः शेषः साक्षात् धराधरः ॥ ६७ ॥
त्वमेव साक्षाज्जगतामधीशो
नारायणो लक्ष्मण एव शेषः ।
युवां धराभारनिवारणार्थं
जातौ जगन्नाटकसूत्रधारौ ॥ ६८ ॥

इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
युद्धकाण्डे अष्टमः सर्गः ॥ ८ ॥

GO TOP