॥ श्रीमद् अध्यात्मरामायण ॥

॥ उत्तरकाण्ड ॥

॥ तृतीयः सर्ग: ॥

श्रीराम उवाच

वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि तत्त्वतः ।
रवीन्द्रौ वानराकारौ जज्ञात इति नः श्रुतम् ॥ १ ॥
अगस्त्य उवाच
मेरोः स्वर्णमयस्याद्रेः मध्यशृङ्‍गे मणिप्रभे ।
तस्मिन्सभास्ते विस्तीर्णा ब्रह्मणः शतयोजना ॥ २ ॥
तस्यां चतुर्मुखः साक्षात् कदाचित् योगमास्थितः ।
नेत्राभ्यां पतितं दिव्यं आनन्दसलिलं बहु ॥ ३ ॥
तद्‍गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत् ।
भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥ ४ ॥
तमाह द्रुहिणो वत्स किञ्चित्कालं वसात्र मे ।
समीपे सर्वशोभाढ्ये ततः श्रेयो भविष्यति ॥ ५ ॥
इत्युक्तो न्यवसत् तत्र ब्रह्मणा वानरोत्तमः ।
एवं बहुतिथे काले गते ऋक्षाधिपः सुधीः ॥ ६ ॥
कदाचित् पर्यटन् अद्रौ फलमूलार्थमुद्यतः ।
अपश्यद्दिव्यसलिलां वापीं मणिशिलान्विताम् ॥ ७ ॥
पानीयं पातुमागच्छत् तत्रच्छायामयं कपिम् ।
दृष्ट्वा प्रतिकपिं मत्वा निपपात जलान्तरे ॥ ८ ॥
तत्रादृष्ट्वा हरिं शीघ्रं पुनरुत्प्लुत्य वानरः ।
अपश्यत्सुन्दरीं रामां आत्मानं विस्मयं गतः ॥ ९ ॥
ततः सुरेशो देवेशं पूजयित्वा चतुर्मुखम् ।
गच्छन्मध्याह्नसमये दृष्ट्वा नारीं मनोरमाम् ॥ १० ॥
कन्दर्पशरविद्धाङ्‍गः त्यक्तवान्वीर्यमुत्तमम् ।
तामप्राप्यैव तद्‌बीजं वालदेशेऽपतद्‌भुवि ॥ ११ ॥
वाली समभवत् तत्र शक्रतुल्यपराक्रमः ।
तस्य दत्त्वा सुरेशानः स्वर्णमालां दिवं गतः ॥ १२ ॥
भनुरप्यागतस्तत्र तदानीमेव भामिनीम् ।
दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत् ॥ १३ ॥
बीजं तस्यास्ततः सद्यो महाकायोऽभवत् हरिः ।
तस्य दत्त्वा हनूमन्तं सहायार्थं गतो रविः ॥ १४ ॥
पुत्रद्वय समादाय गत्वा सा निद्रिता क्वचित् ।
प्रभातेऽपश्यदात्मानं पूर्ववत् वानरकृतिम् ॥ १५ ॥
फलमूलादिभिः सार्धं पुत्राभ्यां सहितः कपिः ।
नत्वा चतुर्मुखस्याग्रे ऋक्षराजः स्थितः सुधीः ॥ १६ ॥
ततोऽब्रवीत्समाश्वास्य बहुशः कपिकुञ्जरम् ।
तत्रैकं देवतादूतं आहूयामरसन्निभम् ॥ १७ ॥
गच्छ दूर मयादिष्टो गृहीत्वा वानरोत्तमम् ।
किष्किन्धां दिव्यनगरीं निर्मितां विश्वकर्मणा ॥ १८ ॥
सर्वसौभाग्यवलितां देवैरपि दुरासदम् ।
तस्यां सिंहासने वीरं राजानं अभिषेचय ॥ १९ ॥
सप्तद्वीपगता ये ये वानराः सन्ति दुर्जयाः ।
सर्वे ते ऋक्षराजस्य भविष्यन्ति वशेऽनुगाः ॥ २० ॥
यदा नारायणः साक्षात् रामो भूत्वा सनातनः ।
भूभारासुरनाशाय संभविष्यति भूतले ॥ २१ ॥
तदा सर्वे सहायार्थे तस्य गच्छन्तु वानराः ।
इत्युक्तो ब्रह्मणा दूतो देवानां स महापतिः ॥ २२ ॥
यथाज्ञप्तस्तथा चक्रे ब्रह्मणा तं हरीश्वरम् ।
देवदूतस्ततो गत्वा ब्रह्मणे तन्न्यवेदयत् ॥ २३ ॥
तदादि वानराणां सा किष्किन्धाभूत् नृपाश्रयः ॥ २४ ॥
सर्वेश्वरः त्वमेवासीः इदानीं ब्रह्मणार्थितः ।
भूमेर्भारो हृतः कृत्स्नः त्वया लीलानृदेहिना ।
सर्वभूतान्तरस्थस्य नित्यमुक्तचिदात्मनः ॥ २५ ॥
अखण्डानन्तरूपस्य कियानेष पराक्रमः ।
तथापि वर्ण्यते सद्‌भिः लीलामानुषरूपिणः ॥ २६ ॥
यशस्ते सर्वलोकानां पापहत्यै सुखाय च ।
य इदं कीर्तयेन्मर्त्यो वालिसुग्रीवयोर्महत् ॥ २७ ॥
जन्म त्वदाश्रयत्वात्स मुच्यते सर्वपातकैः ॥ २८ ॥
अथान्यां संप्रवक्ष्यामि कथां राम त्वदाश्रयाम् ।
सीता हृता यदर्थं सा रावणेन दुरात्मना ॥ २९ ॥
पुरा कृतयुगे राम प्रजापतिसुतं विभुम् ।
सनत्कुमारं एकान्ते समासीनं दशाननः ।
विनयावनतो भूत्वा ह्यभिवाद्येदमब्रवीत् ॥ ३० ॥
को न्वस्मिन्प्रवरो लोके देवानां बलवत्तरः ।
देवाश्च यं समाश्रित्य युद्धे शत्रुं जयन्ति हि ॥ ३१ ॥
कं यजन्ति द्विजा नित्यं कं ध्यायन्ति च योगिनः ।
एतन्मे शंस भगवन् प्रश्नं प्रश्नविदांवर ॥ ३२ ॥
ज्ञात्वा तस्य हृदिस्थं यत् तत् अशेषेण योगदृक् ।
दशाननमुवाचेदं शृणु वक्ष्यामि पुत्रक ॥ ३३ ॥
भर्ता यो जगतां नित्यं यस्य जन्मादिकं न हि ।
सुरासुरैर्नुतो नित्यं हरिर्नारायणोऽव्ययः ॥ ३४ ॥
यन्नाभिपङ्‍कजात् जातो ब्रह्म विश्वसृजां पतिः ।
सृष्टं येनैव सकलं जगत्स्थावरजङ्‍गमम् ॥ ३५ ॥
तं समाश्रित्य विबुधा जयन्ति समरे रिपून् ।
योगिनो ध्यानयोगेन तमेवानुजपन्ति हि ॥ ३६ ॥
महर्षेर्वचनं श्रुत्वा प्रत्युवाच दशाननः ।
दैत्यदानवरक्षांसि विष्णुना निहतानि च ॥ ३७ ॥
कां वा गतिं प्रपद्यंते प्रेत्य ते मुनिपुङ्‌गव ।
तमुवाच मुनिश्रेष्ठो रावणं राक्षसाधिपम् ॥ ३८ ॥
दैवतैर्निहता नित्यं गत्वा स्वर्गमनुत्तमम् ।
भोगक्षये पुनस्तस्मात् ‌भ्रष्टा भूमौ भवन्ति ते ॥ ३९ ॥
पूर्वार्जितैः पुण्यपापैः म्रियन्ते चोद्‌भवन्ति च ।
विष्णुना ये हतास्ते तु प्राप्नुवन्ति हरेर्गतिम् ॥ ४० ॥
श्रुत्वा मुनिमुखात् सर्वं रावणो हृष्टमानसः ।
योत्स्येऽहं हरिणा सार्धं इति चिन्तापरोऽभवत् ॥ ४१ ॥
मनःस्थितं परिज्ञाय रावणस्य महामुनिः ।
उवाच वत्स तेऽभीष्टं भविष्यति न संशयः ॥ ४२ ॥
कञ्चित्कालं प्रतीक्षस्व सुखी भव दशानन ।
एवमुक्‍त्वा महाबाहो मुनिः पुनरुवाच तम् ॥ ४३ ॥
तस्य स्वरूपं वक्ष्यामि ह्यरूपस्यापि मायिनः ।
स्थावरेषु च सर्वेषु नदेषु च नदीषु च ॥ ४४ ॥
ओङ्‌कारश्चैव सत्यं च सावित्री पृथिवी च सः ।
समस्तजगदाधारः शेषरूपधरो हि सः ॥ ४५ ॥
सर्वे देवाः समुद्राश्च कालः सूर्यश्च चन्द्रमाः ।
सूर्योदयो दिवारात्री यमश्चैव तथानिलः ॥ ४६ ॥
अग्निरिन्द्रस्तथा मृत्युः पर्जन्यो वसवस्तथा ।
ब्रह्मा रुद्रादयश्चैव ये चान्ये देवदानवाः ॥ ४७ ॥
विद्योतते ज्वलत्येष पाति चात्तीति विश्वकृत् ।
क्रीडां करोत्यव्ययात्मा सोऽयं विष्णुः सनातनः ॥ ४८ ॥
तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।
नीलोत्पलदलश्यामो विद्युद्वर्णाम्बरावृतः ॥ ४९ ॥
शुद्धजाम्बूनदप्रख्यां श्रियं वामाङ्‌कसंस्थिताम् ।
सदानपायिनीं देवीं पश्यन्नालिङ्‍ग्य तिष्ठति ॥ ५० ॥
द्रष्टुं न शक्यते कैश्चित् देवदानवपन्नगैः ।
यस्य प्रसादं कुरुते स चैनं द्रष्टुमर्हति ॥ ५१ ॥
न च यज्ञतपोभिर्वा न दानाध्ययनादिभिः ।
शक्यते भगवान् द्रष्टुं उपायैरितरैरपिः ॥ ५२ ॥
तद्‌भक्तैस्तद्‍गतप्राणैः तच्चित्तैर्धूतकल्मषैः ।
शक्यते भगवान्विष्णुः वेदान्तामलदृष्टिभिः ॥ ५३ ॥
अथवा द्रष्टुमिच्छा ते शृणु त्वं परमेश्वरम् ।
त्रेतायुगे स देवेशो भविता नृपविग्रहः ॥ ५४ ॥
हितार्थं देवमर्त्यानां इक्ष्वाकूणां कुले हरिः ।
रामो दाशरथिर्भूत्वा महासत्त्वपराक्रमः ॥ ५५ ॥
पितुर्नियोगात्स भ्राता भार्यया दण्डके वने ।
विचरिष्यति धर्मात्मा जगन्मात्रा स्वमायया ॥ ५६ ॥
एवं ते सर्वमाख्यातं मया रावण विस्तरात् ।
भजस्व भक्तिभावेन सदा रामं श्रिया युतम् ॥ ५७ ॥
अगस्त्य उवाच
एवं श्रुत्वासुराध्यक्षो ध्यात्वा किञ्चिद्विचार्य च ।
त्वया सह विरोधेप्सुः मुमुदे रावणो महान् ॥ ५८ ॥
युद्धार्थी सर्वतो लोकान् पर्यटन् समवस्थितः ।
एतदर्थं महाराज रावणोऽतीव बुद्धिमान् ।
हृतवान् जानकीं देवीं त्वयात्मवधकाङ्‍क्षया ॥ ५९ ॥
इमां कथां यः शृणुयात्पठेद्वा
संश्रावयेद्वा श्रवणार्थिनां सदा ।
आयुष्यमारोग्यमनन्तसौख्यं
प्राप्नोति लाभं धनमक्षयं च ॥ ६० ॥
इति श्रीमद् अध्यात्मरामायणे उमामहेश्वरसंवादे
उत्तरकाण्डे तृतीयः सर्गः ॥ ३ ॥

GO TOP