॥ श्रीवाल्मीकिमहामुनिकृत शतकोटिरामचरितान्तर्गतं ॥

॥ आनन्दरामायणम् ॥

सारकाण्डम्

॥ अष्टमः सर्गः ॥
[रामसुग्रीव मैत्री व वालिवध]

॥ श्रीसद्‌गुरु रामचंद्राय नमः ॥

अथ रामो लक्ष्मणेन ऋष्यमूकाचलं प्रति ।
ययौ धृतधनुर्बाणौ नेत्रे सर्वत्र चालयन् ॥ १ ॥
ऋष्यमूकगिरेः पार्श्वे गच्छंतौ रामलक्ष्मणौ ।
सुग्रीवेणाथ तौ दृष्टौ ऋष्यमूकस्थितेन हि ॥ २ ॥
सुग्रीवस्तौ तदा दृष्ट्वा चतुर्भिः मंत्रिभिर्युतः ।
संमंत्र्य मारुतिं प्राह वालिना प्रेषितौ उभौ ॥ ३ ॥
मां हंतुं धृतकोदंडौ सतूणीरौ नराकृती ।
इतोऽस्माभिः प्रगंतव्यं मंत्रं श्रृणु मयोच्यते ॥ ४ ॥
गच्छ जानीहि भद्रं ते वटुर्भूत्वा द्विजाकृतिः ।
ताभ्यां संभाषणं कृत्वा जानीहि हृदयं तयोः ॥ ५ ॥
यदि तौ दुष्टहृदयौ संज्ञां कुरु कराग्रतः ।
साधुत्वे स्मितवक्त्रोऽभू एवं जानीहि निश्चयम् ॥ ६ ॥
तथेति वटुरूपेण गत्वा नत्वा रघूत्तमम् ।
कौ युवां पुरुषव्याघ्रौ इति पप्रच्छ मारुतिः ॥ ७ ॥
ततस्तं लक्ष्मणः प्राह पूर्ववृत्तं सविस्तरम् ।
शबरीवचनात् रामः सख्यं कर्तुं समागतः ॥८ ॥
सुग्रीवेणाथ तत् श्रुत्वा स्वरूपं मारुतिस्तदा ।
चकार नैजं प्रकटं स्वीयं वृत्तं न्यवेदयत् ॥ ९ ॥
मत्स्कंधं अधिरुह्याद्य पर्वतं गम्तुमर्हथः ।
तथेति मारुतेः स्कंधे संस्थितौ तौ बभूवतुः ॥ १० ॥
उत्पपात निरेर्मूर्ध्नि क्षणादेव महाकपिः ।
वृक्षच्छायां समाश्रित्य तौ स्थितौ रामलक्ष्मणौ ॥ ११ ॥
सुग्रीवं मारुतिर्गत्वा रामवृत्तं न्यवेदयत् ।
ततः प्रज्वाल्य वह्निं स सुग्रीवो राघवेण हि ॥ १२ ॥
चकार सख्यं वेगेन समालिंग्य परस्परम् ।
वृक्षशाखां स्वयं छित्त्वा विष्टरार्थं ददौ कपिः ॥ १३ ॥
हर्षेण महताविष्टाः सर्व एवावतस्थिरे ।
लक्ष्मणस्त्वब्रवीत् सर्वं सुग्रीवं वृत्तमात्मनः ॥ १४ ॥
तत् श्रुत्वा सकलं वृत्तं सुग्रीवं स्वं न्यवेदयत् ।
सखे श्रृणुष्व मे वृत्तं वालिना यत्कृतं पुरा ॥ १५ ॥
मयपुत्रो दुर्मदश्च किष्किंधामेकदा गतः ।
कृत्वा स दीर्घशब्दं तु वालिनं समुपाह्वयत् ॥ १६ ॥
तं श्रुत्वा निर्ययौ वाली जघान दृढमुष्टिना ।
दुद्राव तेन संविग्नो जगाम स्वगृहां प्रति ॥ १७ ॥
अनुदुद्राव तं बाली वालिपृष्ठे त्वहं गतः ।
वाली ममाह तिष्ठ त्वं बहिर्गच्छाम्यहं गुहाम् ॥ १८ ॥
इत्युक्त्वाऽऽविश्य स गुहां मासमेके न निर्ययौ ।
गुहाद्वारान्मया रक्तं निर्गतं सन्निरीक्ष्य च ॥ १९ ॥
निश्चितं मनसा वाली दुर्मदेन हतस्त्विति ।
एतस्मिन् अंतरे श्रुत्वा किष्किंधा रिपुवेष्टितम् ॥ २० ॥
गुहाद्वारि शीलामेकां निधाय दुर्मदस्य च ।
यत्‍नतो मार्गरोधार्थं किष्किंधां आगतः स्वयम् ॥ २१ ॥
मां दृष्ट्वा रिपवः सर्वे वगाच्चक्रुः पलायनम् ।
अनिच्छंतं मंत्रिणो मां तत्पदे संन्यवेशयन् ॥ २२ ॥
ततो हत्वा रिपुं वाली दृष्ट्वा मां स्पपदस्थितम् ।
संताड्य नगरान् मां स बहिर्न्यष्कायत् तदा ॥ २३ ॥
ततः स सर्वदेशेषु वादयामास दुंदुभिम् ।
भूम्यां सुग्रीवपाता यः स वध्यो भवेदिति ॥ २४ ॥
ततो लोकान् परिक्रम्य ऋष्यमूको मयाऽऽश्रितः ।
एकदा दुंदुभिर्नाम दैत्यो महिषरूपधृक् ॥ २५ ॥
युद्धाय वालिनं रात्रौ समाह्वयत भीषणः ।
ततो वाली समागत्य धृत्वा शृंग करेण सः ॥ २६ ॥
हस्ताभ्यां भत् शिरः छित्वा तोलयित्वाऽक्षिपत् भुवि ।
पपात तत् शिरो राम मतंगाश्रम सन्निधौ ॥ २७ ॥
रक्तवृष्टिः पपातोच्चैः मतंगोऽप्य शपत् क्रुधा ।
यद् आगतोऽसि मे वालिन् गिरिं शीघ्र समापये ॥ २८ ॥
एवं शप्तस्तदारभ्य ऋष्यमूकं न यात्यसौ ।
प्रतिज्ञां ते करोम्यद्य सीतां शीघ्र समानये ॥ २९ ॥
यदा नीता रावणेन तदा दृष्टा मयाऽत्र खे ।
बद्धोत्तरीये क्षिप्तानि पश्य त्वं भूषणानि हि ॥ ३० ॥
इत्युक्त्वा दर्शयामास सुग्रीवो भूषणानि हि
तानि दृष्ट्वाऽब्रवीत् बंधुं रामस्त्वं निश्चयं वद ॥ ३१ ॥
त्वया दृष्टानि सीतायाः तत् श्रुत्वा लक्ष्मणोऽब्रवीत् ।
न वेद्मि अहं समस्तानि वेद्मि अंगुलिभवानि हि ॥ ३२ ॥
वंदने यानि दृष्टानि मया नित्यं रघूद्वह ।
ततो रामोऽति संतुष्टो लब्ध्वा सीताममन्यत ॥ ३३ ॥
सुग्रीववचनात् रामः प्रत्ययार्थं तदा क्षणात् ।
पादांगुष्ठेन आक्षिपत् तद्‍दुंदुभेः शिरोत्तमम् । ॥ ३४ ॥
दशयोजन पर्यंतं तथा बाणेन वै पुनः ।
चक्राकारान् सप्त तालान् दृष्ट्वा देहे ह्यहेः प्रभुः ॥ ३५ ॥
स्वीयांगुष्ठेन सौमित्रेः पदं किंचित् विमर्द्य च ।
ऋजुं कृत्वा पन्नगं तं शेषांशेन स्थितं भुवि ॥ ३६ ॥
वालिना सप्त नीतानि तेन सर्पं ददर्श सः ।
तं अपश्यत् त्वयि वृक्षाश्च भविष्यंतीति वानरः ॥ ३८ ॥
सर्पोऽप्याहाथ तान् छेत्ता यस्ते हंता न संशयः ।
तद् दृष्ट्वा रामसामर्थ्यं तस्मिन् प्रत्ययमापः सः ॥ ३९ ॥
सुग्रीवस्तं पुनः प्राह राघवं तुष्टमानसः ।
वालिने सुरनाथेन पुरा दत्ताऽस्ति मालिका ॥ ४० ॥
यां दृष्ट्वा रिपवो युद्धे गरवीर्या भवंति हि ।
या पुरा कश्यपेनैव तपसा दुष्करेण च ॥ ४१ ॥
शिवात् लब्ध्वा पिता पुत्रं इंद्रं तेनापि वालिने ।
प्रीत्यार्पिता मालिका सा वाली कंठे दधात्यसौ ॥ ४२ ॥
तस्यास्त्वम् दर्शनात् राम गतसत्त्वो भविष्यसि ।
तत्रोपायं चिन्तयस्व येन तेऽद्य जयो भवेत् ॥ ४६३ ॥
तत्तस्य वचनं श्रुत्वा रामः सर्पं तमब्रवीत् ।
यः शापात् मोचितः पूर्वं सप्ततालान् विभिद्य च ॥ ४४ ॥
गच्छ त्वं मम वाक्येन किष्किंधायां च वालिनम् ।
निशीथे निद्रितं दृठ्वा हर तन्मालिकां शुभाम् ॥ ४५ ॥
तथेति रामवाक्येन किंश्मिंधामेत्य पन्नगः ।
मंचकस्थां जहाराथ तां मालां वासवं ददौ ॥ ४६ ॥
ततो रामाज्ञया गत्वा समाहूयाथ वालिनम् ।
युद्धं चकार सुग्रीवः श्रीरामोऽपि ददर्श तम् ॥ ४७ ॥
समानरूपौ तौ दृष्ट्वा मित्रघातविशंकया ।
न मुमोच तदा बाणं रामः सोऽपि न्यवर्तत ॥ ४८ ॥
सुग्रीवो राघवं प्राह मां घातयसि वालिना ।
यदि मत् हनने वांछा त्वमेव जहि मां विभो ॥ ४९ ॥
तत्तस्य वचनं श्रुत्वा सुग्रीवस्य रघूत्तमः ।
बंधयामास सुग्रीव कंठे मालां तु बंधुना ॥ ५० ॥
पुनस्तं प्रेषयामास सोऽपि वालिनमाह्वयत् ।
ततः श्रुत्वा ययौ वाली तं ताराऽप्रार्थयत् तदा ॥ ५१ ॥
श्तुं अंगदवाक्येन मया रामः समागतः ।
चकार मैत्रीं किं तेन मा कुरुष्वाद्य संगरम् ॥ ५२ ॥
गच्छ नत्वा रमानाथं बंदुं आनय सादरम् ।
यौवराज्यपदं देहि तस्मै मे वचनं श्रृणु ॥ ५३ ॥
तत् तारावचनं श्रुत्वा वाली तां वाक्यमब्रवीत् ।
जानाम्यहं राघवं तं नररूपधरं हरिम् ॥ ५४ ॥
तस्य हस्तात् मृत्युर्मेऽस्ति गच्छामि परमं पदम् ।
सुखं त्वं तिष्ठ तारेऽत्र सुग्रीवं भज सर्वदा ॥ ५५ ॥
यदा त्वया स सुग्रीवः करिष्यति रतिं प्रिये ।
तदा तत्पत्‍निभोगस्य आनृणं गच्छामि भामिनि ॥ ५६ ॥
अत एव मालिका मे गुप्ताऽभूत् पश्य पत्प्रिये ।
अद्याहं रामबाणेन पतिष्यामि रणांगणे ॥ ५७ ॥
अद्य धन्योऽस्म्यहं तारे धन्यौ तौ पितरौ मम ।
योग्यं श्रीरामहस्तेन मरिष्यामि रणांगणे ॥ ५८ ॥
एवं आश्वास्य तां तारां ययौ वाली त्वरान्वितः ।
दृष्ट्वा वाली महोत्पातान् संतोषं परमं ययौ ॥ ५९ ॥
चकार बंधुना युद्धं तदा बाणेन राघवः ।
वृक्षषंडे तिरोभूत्वा पातयामास तं भुवि ॥ ६० ॥
ततस्तारा समागत्य शुशोच वालिनं प्रति ।
वाली दृष्ट्वा रमानाथं तदा प्राह स गद्‍गदः ॥ ६१ ॥
वृक्षषंडे तिरोभूत्वा त्वयाहं ताडितो हृदि ।
तवाद्य दुर्यशो जातं मम जातो महोदयः ॥ ६२ ॥
किं मयाऽपकृतः ते हि त्वया यस्मान्निपातितः ।
रामः प्राह वालिनं त्वं रुमायां लंपटः सदा ॥ ६३ ॥
बंधुभार्यां गृहे स्थाप्य बंधुं हंतुं त्वमिच्छसि ।
दुर्वृत्तं त्वां समालोक्य मया तस्मात् निपातितः ॥ ६४ ॥
यथा त्वया रुमा भुक्ता तथा तारां त्व प्रियाम् ।
भोक्ष्यत्ययं हि सुग्रीवो वचनान्मे कपीश्वर ॥ ६५ ॥
यद्यपि त्वं दुराचारो निहतोऽसि रणे मया ।
तथापि भिल्लरूपेण द्वापरांते अघ्रिणं मम ॥ ६६ ॥
भित्त्वा प्रभासे बाणेन पूर्ववैरेण वानर ।
ततो मद्‍हस्तमरणस्य अस्य कारणगौरवात् ॥ ६७ ॥
मुक्तिं गच्छसि त्वं वालिन् शुभां जन्मांतरेण हि ।
ततः प्राह पुनर्वाली मेऽभविष्यद् उदेरितम् ॥ ६८ ॥
सीता वृत्तं त्वया पूर्वं क्षणेन रावनेन हि ।
दत्ताऽभविष्यत् आनीय सीता तव मया तदा ॥ ६९ ॥
अधुना प्रार्थयामि त्वां अंगदं परिपालय ।
इत्युक्त्वा स तदा वाली जहौ प्राणान् रणांगणे ॥ ७० ॥
अंगदेन तदा रामः कारयामास तत्क्रियाम् ।
अथ रामं स सुग्रीवो राज्यार्थं प्रार्थयत् तदा ॥ ७१ ॥
रामस्तमेव राजानं चकार लक्ष्मणेन सः ।
अथ वार्षिकमासान् स वस्तुं रामोऽविचारयत् ॥ ७२ ॥
प्रवर्षणगिरेः प्रोच्च शिखरे स्फटिकोद्‍भवाम् ।
रम्यां दृष्ट्वा गुहां रामः पत्रपुष्प समन्विताम् ॥ ७३ ॥
निनाय वार्षिकान् मासान् चतुरः श्रीरघूद्वहः ।
एकदा लक्ष्मणः स्नात्वा यावत् रामं समागतः ॥ ७४ ॥
सात्त्विक्या सीतया युक्तः तावत् रामो निरीक्षितः ।
सौमित्रिणा वन्दिता सा पत्युर्वामे लयं ययौ ॥ ७५ ॥
एवं नासीत् तदा सीता-वियोगो राघवस्य हि ।
सुग्रीवोऽथ पुरीमध्ये चकार राज्यमुत्तमम् ॥ ७६ ॥
एक दा हनुमद् वाक्यात् वानरान् स समाह्वयत् ।
प्रवर्षणगिरौ आस्तां तीर्थे द्वे रामलक्ष्मणे ॥ ७७ ॥
एतस्मिन् अंतरे रामो दृष्ट्वा प्राप्तं शरद् ऋतुम् ।
क्रोधेन प्रेषयामास सुग्रीवाय लक्ष्मण च सः ॥ ७८ ॥
सोऽपि गत्वाऽथ किष्किंधां भीषयामास वानरान् ।
आगतं लक्ष्मणं श्रुत्वा सुग्रीवो भयविह्वलः ॥ ७९ ॥
मारुतिं प्रेषयामास सांत्वनार्थं हि लक्ष्मणम् ।
स गत्वा तं सांत्वयित्वा किष्किंधां आनयत् तदा ॥ ८० ॥
एतस्मि अंतरे तारां प्रेषयामास वानरः ।
साऽपि गत्वा मध्यकक्षां संस्थितं तं ददर्श ह ॥ ८१ ॥
लक्ष्मणं सांत्वयामास । वचोभिः मधुरैः निजैः ।
समाहूतानि सैन्यानि रामार्थं प्लवगेन हि ॥ ८२ ॥
सुग्रीवे च त्वया कोपो मा कार्योऽद्य हि देवर ।
ततो लक्ष्मणहस्ते सा धृत्वा राजगृहं ययौ ॥ ८३ ॥
दृष्ट्वा सुग्रीवराजस्तं आसनात् स चचाल सः ।
सुग्रीवं लक्ष्मणः प्राह विस्मृतोऽसि रघुत्तमम् ॥ ८४ ॥
वाली येन हतो वीरः स बाणस्त्वां प्रतीक्षते ।
त्वमद्य वालिनो मार्गं गमिष्यसि मया हतः ॥ ८५ ॥
एवं अत्यंत परुषं वदन्तं लक्ष्मणं तदा ।
उवाच हनुमान् वीरः कथमेवं प्रभाषसे ॥ ८६ ॥
रामकार्याथमनिशं जागर्ति न तु विस्मृतः ।
इत्युक्त्वा तं पूजयित्वा सुग्रीवेण स मारुतिः ॥ ८७ ॥
चकार लक्ष्मणं शांतं सुग्रीवोऽप्यथ वानरैः ।
गत्वा तं राघवं नत्वा दर्शयामास राघवान् ॥ ८८ ॥
राघवं स तदा प्राह सुग्रीवः प्रवगाधिपः ।
देव पश्य समायांतीं वानराणां महाचमूम् ॥ ८९ ॥
अत्र यूथाधिपतयः पद्म्यान्यष्टादश स्मृताः ।
ततो रामाज्ञया सीता शुद्ध्यर्थं तान् दिदेशः सः ॥ ९० ॥
दिक्षु सर्वासु विविधान् वानरान् प्रेष्य सत्वरम् ।
याम्यांदिशं जाम्बवन्तं अंगदं वायुनंदनम् ॥ ९१ ॥
नलं सुषेण शरभं मैदं संप्रेषयत् तदा ।
मासाद् अर्वांग् निवर्तध्वं नोचेत् वध्या भविष्यथ ॥ ९२ ॥
ततो रामो मुद्रिकां स्वां ददौ तस्मै हनुमते ।
तन् मंत्रस्य लक्षमिते कृत्वा तु जपलेखने ॥ ९४ ॥
लब्ध्वा सामर्थ्यं अतुलं लंकां गन्तुं स मारुतिः ।
नत्वा रामं परिक्रम्य जगाम कपिभिः सह ॥ ९५ ॥
सद्‍वृत्तं राघवं प्राहः चित्रकूटे पुरा कृतम् ।
मनःशिलायास्तिलकं सीताभाले विनिर्मितम् ॥ ९६ ॥
गण्डयोः पत्रवल्ल्यादि सीतायै कथ्यतां रहः ।
ततस्ते प्रस्थिताः सर्वे पश्चिमादिषु दिक्षु च ॥ ९७ ॥
प्रेषितास्ते समायाता न दृष्टा सेति तं ब्रुवन् ।
तदांगदाद्याः प्लवगाः सीतार्थे बभ्रवुर्वने ॥ ९८ ॥
मत्वाऽयं रावणश्चेति राक्षसान् शतशोऽर्दयन् ।
सार्द्रास्यान् खेचरान् दृष्ट्वा गुहाद्वारात् विनिर्गतान् ॥ ९९ ॥
जलार्थं संप्रविष्टास्ते गुहायां वानरोत्तमाः ।
तस्यां तान् गच्छतस्तूष्णीं दिनान्यष्टादशैव हि ॥ १०० ॥
अतिक्रांतानि तिमिरे बभ्रमस्तु इतस्ततः ।
तत्र रत्‍नमये दिव्ये गेहे दृष्ट्वा स्त्रियं शुभाम् ॥ १ ॥
संश्रावतां निजं वृत्तं त्वत्‍वृत्तं श्रोतुमुद्यताः ।
तान्पूज्य कथयामास चैनं वृत्तं तु योगिनी ॥ २ ॥
हेमानाम्नो सुता विश्व-कर्मणा सा महेश्वरम् ।
नृत्येन तोषयामास ददौ तस्यै पुरं महत् ॥ ३ ॥
अत्र स्थित्वा चिरं कालं यदा गंतुं समुद्यता ।
सा मां प्राहात्र रामस्य प्रतीक्षां कुरु सद्मनि ॥ ४ ॥
समागच्छस्व रामस्य कृत्वा पूजनमुत्तमम् ।
इत्युक्त्वा सा दिवं याता राघवं गम्यते मया ॥ ५ ॥
स्वयंप्रभेति नाम्नाऽहं हेमायाः परिचारिका ।
अधुना ब्रूत युष्माकं साहाय्यं किं करोन्यहम् ॥ ६ ॥
तत्तस्या वचनं श्रुत्वा मत्वा स्वीयदिनव्ययम् ।
तां ऊचुर्वानराः सर्वे नस्त्वं कुरु गृहात् बहिः ॥ ७ ॥
इत्युक्ता सा क्षणेनैव तैः सहैव ययौ बहिः ।
तत् गिराच्छादितस्वीय नयनैः वानरैः तदा ॥ ८ ॥
न ज्ञातं च तया केन मार्गेण च बहिः कृतम् ।
साऽपि गत्वा पूज्य रामं देहं त्यक्त्वा दिवं ययौ ॥ ९ ॥
ततस्ते वानरा ज्ञात्वा गुहायां स्वदिनव्ययम् ।
विषण्णाः सागरं दृष्ट्वा तस्थुः प्रायोपवेशने ॥ ११० ॥
जटायोः कीर्तनं चक्रुः रामकार्ये मृतं पुरा ।
तत् श्रुत्वाऽथ स संपातिः तान्हंतुं यः समुद्यतः ॥ ११ ॥
तेभ्यः श्रुत्वा मृतिं बंधोः दत्त्वा तस्मै जलांजलिम् ।
तेषां श्रुत्वा पूर्ववृत्तं सीतावृत्तं न्यवेद्यत ॥ १२ ॥
शतयोजन मध्येऽब्धे लंकायां वर्ततेऽधुना ।
अशोकवनिकायां तु तीर्त्वाऽब्धिं तां प्रपश्यथ ॥ १३ ॥
अहं पक्षविहीनोऽस्मि मया गन्तुं न शक्यते ।
गृध्रत्वाद् दूरदृक्चाऽहं सीता मां दृश्यते गिरौ ॥ १४ ॥
भ्रात्रा जटायुषा पूर्वं उड्डीयाहं बलात् रविम् ।
स्प्रष्टुकामस्तदा तप्त स्त्रातो बंधुर्मया सखे ॥ १५ ॥
पक्षाभ्यां भस्मसात् जातौ मे पक्षौ पतितावुभौ
जटायुः स सपक्षश्च गतो देशांतरं पुनः ॥ १६ ॥
अहं तदा पक्षहीनः चंद्रशर्माणमुतमम् ।
मुनिं नत्वा तदा तस्मै निजवृत्तं निवेदितम् ॥ १७ ॥
तदा मां स मुनिः प्राह यदा त्वं वानरोत्तमम् ।
सीताशुद्धिं कथयसि तदा पक्षौ भविष्यतः ॥ १८ ॥
पश्यतां निर्गतौ पक्षौ कोमलौ मां क्षणादिह ।
यदा नीता रावणेन पुरा सीता विहायसा ॥ १९ ॥
मत्पुत्रेण तदा दृष्टा कथितं चापि मां तदा ।
धिक् कृतः स मया क्रोधात् सा त्वया न विमोचिता ॥ १२० ॥
तदारम्य गतः क्रोधात् अद्यापि न समागतः ।
इत्युक्त्वा तान् कपीन् पृष्ट्वा स संपातिर्गतस्तदा ॥ २१ ॥
अथ ते वानराः सर्वे प्रोचुः स्वं स्वं बलं तदा ।
न कोऽपि गमने शक्तः शतयोजनसागरे ॥ २२ ॥
तदा स जांबवान् वृद्धः स्तुत्वा तं मारुतिं मुहुः ।
जन्मकर्मादि संश्राव्य लंकां गंतुं दिदेश तम् ॥ २३ ॥
सोऽपि श्रुत्वा समुद्योगं चकारारुह्य पर्वतम् ।
निजभाराद् भूमिगतं कृत्वा सस्मार राघवम् ॥ २४ ॥
एवं गिरींद्रजे प्रोक्तं किष्किंधाविषये कृतम् ।
चरितं राघवेणेदं पुरा पापप्रणाशनम् ॥ १२५ ॥
इति श्री शतकोटिरामचरितान्तर्गते
श्रीमद् आनंदरामायणे वाल्मीकिये सारकांडे किष्किंधाचरित्रेऽष्टमः सर्गः ॥ ८ ॥


GO TOP